लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३९६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३९६
[[लेखकः :|]]
अध्यायः ३९७ →

श्रीनारायण उवाच-
समाकर्णय विज्ञानं दत्तात्रेयाद् यथाऽर्जितम् ।
अलर्केण महालक्ष्मि! योगिनामपि दुर्लभम् ।। १ ।।
गुरुः प्राह किमर्थं ते दुःखं ब्रूहि यथातथम् ।
दुःखापहारमद्यैव करोमि तव पार्थिव ।। २ ।।
शिष्यः प्राह सुबाहुर्मे भ्राता राज्यार्थमेव यत् ।
काशीनृपेण सम्मील्य वै मया सह युद्ध्यति ।। ३ ।।
तद्दुःखं परमं शीघ्रं प्राक् प्रातरेव नाशय ।
गुरुः प्राह तदेतत्तु त्वयि नास्ति कदाचन ।। ४ ।।
यस्यात्मनि न चास्ति त्वं तस्यापसरणं कुतः ।
विचारं कुरु राजेन्द्र प्रकाशोऽस्तु च ते हृदि ।। ५ ।।
मत्कृपातो निजं विद्धि ह्यदुःखं ह्यसुखं सदा ।
गृहाणेदं जलं राजन् पिब गण्डूषमात्रकम् ।। ६ ।।
देहि नेत्रोपरि तद्वन्मस्तके ब्रह्मदर्शकम् ।
इत्युक्तः स तथा कृत्वा ह्युद्घाटितहृदन्तरः ।। ७ ।।
भूत्वा विमृश्य चात्मानं प्रहस्येदमथाऽब्रवीत् ।
प्रकृतिस्त्रिगुणा सर्वा निस्त्रैगुण्योऽस्म्यहं सदा ।। ८ ।।
प्रकृतेर्ममता जाता तया जाताऽप्यहंकृतिः ।
तया मिष्टानि मात्राणि ग्राहकाणि मृदून्यपि ।। ९ ।।
मात्रेभ्यः स्थूलभोग्यानि तेभ्यो देहो गुणाश्रितः ।
सुखं दुःखं तथा मोहः सत्त्वं रजस्तमश्च ते ।। 1.396.१ ०।।
तत्कार्याणि तादृशानि तेषु चायान्ति तान्यपि ।
अ तादृशे ह्यतस्मिँश्च मयि नायान्ति तानि वै ।। ११ ।।
ततः सुखं तथा दुःखं मोहः सन्ति न ते मयि ।
नाऽमुर्वी न सलिलं न ज्योतिरनिलो न च ।। १ २।।
नाकाशं चेति गन्धाद्या धर्मा मयि न सन्ति वै ।
नाऽहं पृथ्वीर्न मे गन्धो नाऽहं जलं न मे रसः ।। १३ ।।
नाऽहं ज्योतिर्न मे रूपं नाऽहं वायुर्न मे स्पृशिः ।
नाऽहं व्योम न मे शब्दस्तद्धर्मांश्च कुतो मयि ।। १४।।
पञ्चभूतानि युक्तानि हानिं वृद्धिं प्रयान्ति च ।
सुखदुःखप्रमोहानां हानिर्वृद्धिश्च दृश्यते ।। १५।।
दृश्यवद् दृश्यधर्मांश्च घटो रूपादयस्तथा ।
दृश्यन्ते चक्षुषा यद्वत् सुखाद्या मनसास्तथा ।। १६।।
दृश्यस्यैव प्रकृतेस्ते नात्मनः सन्ति नश्वराः ।
अनश्वरस्य नित्यस्य कथमागन्तुधर्मिता ।। १७।।
एवं हस्तेन वै ग्राह्यं फलं चाम्रादिकं जडम् ।
रूपं तु चक्षुषा ग्राह्यं रसो रसनया तथा ।। १८।।
गन्धो नासिकया ग्राह्यं उन्मादो मनसा तथा ।
आसवादौ गुणोन्मादो मत्तता धूस्तुरे खलु ।। १ ९।।
तक्रादौ मान्द्यमेवेत्यादयो ग्राह्या रसोत्तराः ।
मनसा ते तु गृह्यन्ते मनोऽपि तद्रसोत्तरम् ।।1.396.२०।।
अंशो मुक्तस्य चाणीयान्मन एव भवत्यथ ।
मनस्यवस्थिता धर्मो ज्ञानं विरागमीशिता ।। २१ ।।
सुखं दुःखं विमोहस्ते मनस्यवस्थिता यतः ।
नाऽहं मनो न मे दुःखसुखमोहाः कथंचन ।।२२।।
अहं नाऽहं, मम नाऽहं, बुद्धिर्नाऽहं, न वै मनः, ।
तत्र स्थितं सुखं दुःखं तस्यैव मयि तत्कथम् ।।२३।।
नाहं पृथिव्यादिमयं शरीरं
न वा मनश्चान्तरमिन्द्रियं च ।
नापि प्रकर्माशयवासनाऽहं
तन्मोहदुःखानि च किं ममाऽत्र ।।२४।।
राज्यं धरित्री जनताः समस्ता-
स्तच्छासनं बुद्धिकृतं न तन्मे ।
बुद्धिः समाना त्रिगुणस्य पुत्री
तच्छासनं राज्यमिदं न तन्मे ।।२५।।
करोतु तच्छासनमस्य बुद्धिः
सुबाहुबुद्धिश्च करोतु यद्वा ।
नालर्कबुद्धिर्न सुबाहुबुद्धि-
र्यतोऽभिधा देहगता न जीवे ।।२६ ।।
न यस्य हस्तादिकमस्ति वश्यं
मांसं न चास्थीनि शिराविभागः ।
कस्तस्य हस्त्यश्वरथादिकोषैः
स्वल्पोऽपि संसर्ग इहास्ति पुंसः ।।२७।।
तस्मान्न मेऽरिर्न च मेऽस्ति दुखं
न मे सुखं पत्तनमस्ति मोहः ।
न कोशनागाश्वधरार्थदारा
न तस्य नान्यस्य न मे भवन्ति ।।।२८।।
यदस्ति तस्यैव स मेऽस्ति शुक्लो
यदस्ति मे तस्य तदेव चास्ति ।
द्वयोर्यदस्त्येव स शुक्ल आत्मा
दुःखे सुखे केन कृतं वदात्र ।।२९।।।
सम्यक् प्रपश्यतः पुंसो दुःखं सुखं न किञ्चन ।
आत्मप्रदर्शिनः क्वापि राज्यं न हरिमन्तरा ।।1.396.३ ० ।।
बुद्धिस्तथा स्थितिस्थाप्या बहुकालकृता सदा ।
यत्रासक्ता तथा तद्वज्जायते गुणरञ्जिता ।।३ १ ।।
मार्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे ।
न तादृङ्मताशून्ये चक्रवाकेऽथ मूषिके ।।३२।।
रक्षणे देहपुत्रादौ यथाबुद्धिः प्रवर्तते ।
न तथा देहलिक्षादावस्ति प्रत्युत मारणे ।।।३३ ।।
एकस्यैव हि देहस्य धातुभिर्विविधाः प्रजाः ।
लिक्षा कीटा मत्कुणा औरसा व्यवायजाः सुताः ।।३४।।
न सर्वत्र समा बुद्धिर्नखकेशमलेष्वपि ।
तस्माद् बुद्धिकृतं नैजं पारक्यं नात्मना .कृतम् ।।।३५।।
तस्माद् गुरो सत्यबोधे नाऽहं दुःखी न वा सुखी ।
न च मुग्धो नरः कश्चिद् वेद्मि तेऽनुग्रहात् खलु ।।३६ ।।
श्रुत्वैतच्छिष्यवाक्यं तु दत्तात्रेय उवाच तम् ।
एवमेतन्नरव्याघ्र! जानासि तु यथातथम् ।।३७।।
मूलं ममेति दुःखस्य न ममेति च निर्वृतेः ।
मत्कृपातश्च ते ज्ञानमुत्पन्नमिदमुत्तमम् ।।३८।।
आदिष्टं तव मात्रा प्राङ् स्मारितं ते मयाऽद्य वै ।
अहममेतिजाड्यं वै क्षिप्तं येन विवेकतः ।।३९।।
तस्यैव सर्वथा तृप्तिर्भवत्येव विदेहिनः ।
गृहक्षेत्रपुत्रदारधनधान्यसुतादयः ।।1.396.४०।।
सर्वे मृषा मृषाबुद्ध्या अनित्याः शाश्वतीकृताः ।
भ्रान्तिज्ञानादिगर्तेषु तेषामात्यन्तिकं कुतः ।।४१ ।।
साधुसत्संगहंसस्थैर्जनैर्यैर्ममतादयः ।
निकृन्तिता गुरोर्वाक्यैस्ते गताः परमं पदम् ।।४२।।
प्राप्य चात्मवनं शुक्लं निद्वन्द्वं रोषवर्जितम् ।
मोहहीनं निरुपाधि वर्तस्व च सदा सुखी ।।४३।।
न त्वं स्थूलो न वा सूक्ष्मो न चासि कारणात्मकः ।
न तन्मात्रात्मकश्चासि नाऽहंकृतिमयोऽप्यसि ।।४४।।
तस्मात्परोऽसि क्षेत्रज्ञः संघाताद्गुणसंज्ञितान् ।
शैवालकर्दममुञ्जमत्स्यमशकपाथसाम् ।।४५।।
यथैकत्वेऽपि पार्थक्यं तथा क्षेत्रात्मनोर्नृप! ।
नित्यशुद्धो नित्यबुद्धो नित्यमुक्तो निरञ्जनः ।।४६।।
आत्मा चासि परो देहाद् देहराज्याद्विडम्बनात् ।
क्षितेः राज्यान्ममताया राज्यात्पारं गतो ह्यसि ।।४७।।
मुमुक्षुः सन्त्यजेत् संगं तन्नाशे ममतालयः ।
तेन वैराग्यभावः स्याद् दुःखदोषानुदर्शनात् ।।४८।।
अरागे वर्तते योगी सर्वभोगविवर्जितः ।
तद्गृहं यत्र वसति तद्भोज्यं येन जीवति ।।४९।।
अपरिग्रह एवाऽसौ जीवन्मुक्तः प्रकाशते ।
मुक्तये तु भवेज्ज्ञानमज्ञानं बन्धकृद् भवेत् ।।1.396.५०।।
शृण्वलर्क परं मार्गं परं पदप्रदं तथा ।
ऋषयो बहवो याता तेन मार्गेण मोक्षणम् ।।५ १ ।।
चित्तवृत्तिनिरोधो हि योगो निर्वाणदः सदा ।
प्रमाणं पर्ययः कल्पो निद्रा स्मृतिर्हि वृत्तयः ।।५ २।।
सत्यं ज्ञानं प्रमाणोत्थं मिथ्याज्ञानं विपर्ययः ।
वस्तुशून्यो विकल्पश्चाऽप्रत्ययो निद्रिका मता ।।५३ ।।
अनुभूतादिसंस्कारजन्यं तु स्मरणं मतम् ।
वस्तुयोगे तु संस्कारैर्जन्यते ह्यभिज्ञानकम् ।।५४।।
तदप्यत्र संस्कारोत्थास्मृतिरेव प्रकथ्यते ।
इत्येवं वृत्तयो बोध्या ज्ञाता अज्ञातकाश्च ताः ।।५५।।
तासां तु सर्वथा रोधो योग इत्युच्यते नृप! ।
आत्मनो ब्रह्मणो योगो योगः श्रेष्ठतमो मतः ।।५६ ।।
बुद्धेर्मालिन्यनाशाय योगो नियुज्यते सदा ।
अविद्या चास्मिता रागो द्वेषो भयं च पञ्च ते ।।५७।।
क्लेशा मालिन्यभावाढ्या तन्नाशे निर्मलं मनः ।
तन्नाशार्थं यमाः साध्या नियमाश्च पुनः पुनः ।।५८।।
अहिंसा पालयेत् प्राज्ञः सत्यं हितकरं वदेत् ।
अस्तेयं सर्वथा रक्षेद् ब्रह्मचारी भवेत्तथा ।।५९।।
अपरिग्रहवान् यः स्यात्स वै बन्धात् प्रमुच्यते ।
शौचं तु मानसं कुर्याच्छारीरं योग्यमेव च ।।1.396.६ ० ।।
सन्तोषं वर्धयेन्नित्यं यदृच्छालाभमात्रतः ।
तपश्चेन्द्रियनिग्रहात्मकं कुर्याद् यथायथम् ।।६ १ ।।
स्वाध्यायं श्रीकृष्णनारायणनामजपात्मकम् ।
तन्मूर्तौ च प्रणिधानं कुर्यादतन्द्रितः सदा ।।६२।।
एवं वै कुर्वतो नित्यं मानसं दोषवर्जितम् ।
भवेन्मुख्यौ द्वेषरागौ दोषौ तत्त्यजनं कुरु ।।६३ ।।
आसनं सुस्थिरं कुर्यात्स्वस्तिकादिकमुत्तमम् ।
गोरक्षासनमेवात्र ब्रह्मचर्यप्ररक्षकम् ।।६४।।
प्राणायामान् यथापेक्षं कुर्याद् यथाबलं सदा ।
प्राणायामैर्दहेद् दोषान् धारणया च वासनाम् ।।६५।।
प्रत्याहारेण विषयान् ध्यानेनाऽनीश्वरान् गुणान् ।
समाधिना हरिं प्राप्याऽक्षरे धाम्नि प्रमोदते ।।६६।।
इन्द्रियाणां तु दोषा वै दह्यन्ते प्राणनिग्रहात् ।
लघुर्द्वाद्वशसंख्यश्च द्विगुणः स तु मध्यमः ।।६७।।
त्रिगुणश्चोत्तमः प्रोक्तो नित्यं कुर्यादतन्द्रितः ।
प्रथमेन जयेत् स्वेदं मध्यमेन तु वेपथुम् ।।६८।।
विषादं हि तृतीयेन जयेद् दोषाननुक्रमात् ।
दोषान् सः साधितो हन्ति खगान् साधितश्येनवत् ।।६९।।
चेतसोऽपकषायत्वं प्राणायामेन जायते ।
कामक्रोधादयो दोषा दह्यन्ते प्राणरोधवत् ।।1.396.७० ।।
अतीताऽनागतप्रज्ञा जायते दोषसंक्षयात् ।
संवित् संजायते चात्मबोधिनी प्राणसंयमात् ।।७१ ।।
मनःप्रसन्नतासौम्यभाविता जायते तथा ।
एवं स्थितौ भवत्यां च प्रत्याहारमुपक्रमेत् ।।७२।।
इन्द्रियाणि विषयेभ्यः प्राणान्मनस्तथाऽऽन्तरम् ।
निगृह्याऽन्तर्वर्तयेच्च प्रत्याहारस्तदात्मकः ।।७३।।
आत्मवृत्तिः सदा पश्येदिन्द्रियवृत्तिभिर्निजम् ।
आत्मानमात्मनि तेन प्रत्याहारोऽप्युपकृतिः ।।७४।।
प्रत्याहारोत्तरं राजन् धारणां समुपक्रमेत् ।
प्राणायामा दश द्वौ च स्थितिः साधारणात्मिकी ।।७५।।
द्वे धारणे भवेद् ध्यानं प्रत्ययैकैकतानकम् ।
एवंकृते हरेर्मूर्तौ नश्यन्ति दोषराशयः ।।७६ ।।
वीक्षते च परंब्रह्म मायागुणान् पृथक्पृथक् ।
स्वस्थो विभुर्यथा सर्वमात्मन्येव प्रपश्यति ।।७७।।
तथा ध्यानी सदा स्वस्थश्चात्मनि सर्वमीक्षते ।
नाभ्यां हृदये कण्ठे च तालौ भाले च नेत्रयोः ।।७८।।
मूर्ध्नि चात्मनि श्रीकृष्णे संयमं विदधीत वै ।
एवं वै धारणां कुर्वन् प्राप्नोत्यक्षरसाम्यताम् ।।७९।।
स्थानध्रैः कृतसंस्कारादैश्वर्यविस्मयात्तथा ।
सामर्थ्यं विलयं याति तस्मात्तत्र निवर्तयेत् ।।1.396.८० ।।
स्त्रियः कीर्तिर्विविज्ञानं राज्यं द्रव्यं समर्थता ।
देवत्वं बहुयज्ञित्वं रसायनशरीरता ।।८१ ।।
आकाशजलवह्न्यादावप्रतिहतयानता ।
एते विघ्नाः प्रहर्तव्या मनस्तेषु न योजयेत् ।।८२।।
ब्रह्मसंगि मनः कुर्वन्नुपसर्गान्न हन्यते ।
प्रातिभं सर्वविज्ञानं श्रावणं दिव्यकर्णता ।।८३ ।।
चाक्षुषं दिव्यदृष्टिश्च सर्वभाषाऽवबोधिता ।
दूरग्राहित्वमेवाद्याः सिद्धयो विघ्नमूर्तयः ।।८४।।
आभिश्च सिद्धिभिः पुत्र! देवता बन्धने स्थिताः ।
उपसर्गैर्महाविघ्नैरावर्तन्ते पुनः पुनः ।।८५ ।।
तस्माद् योगकृतावासः प्रावृत्य ब्रह्मकम्बलम् ।
चिन्तयेत्परमं ब्रह्म स यायात्परमां गतिम् ।।८६ ।।
धरित्रीं विलयेद् वार्धौ लयेद् वारीणि तेजसि ।
तेजो लयेत्तु पवनेऽनिलं लयेत्ततोऽम्बरे ।।८७।।
तान् शब्दे त त्वहंकारे तं महत्यां प्रधानके ।
महतीं बुद्धिं विषमे वैषम्यं गुणसाम्यके ।।८८।।
गुणत्रयं विभौ चैकदेशे लयेत् समक्षरे ।
अक्षरं ब्रह्मरूपं स्वमात्मानं परमात्मनि ।।८९ ।।
परं ब्रह्मणि संयुंज्यात् तद्वै तस्य परं पदम् ।
भूतेषु यस्य सत्कारस्तस्यास्ति ध्रुवबन्धनम् ।।1.396.९ ० ।।
यस्मिन् यस्मिँश्च कुरुते भूते रागं जनो यदा ।
तस्मिँस्तस्मिन् समासक्तिं मुहुः प्राप्य विनश्यति ।।९ १ ।।
पुनरावर्तते राजन् भूतयोगो विघातकृत् ।
भूतेषु यस्य सार्वज्ञ्यौदासीन्यं मोक्षणं तु तत् ।।९ २।।
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ।
प्राकाम्यं च तथेशित्वं वशित्वं च तथाऽपरम् ।। ९३ ।।
एवं कामावसायित्वं गुणानेताँस्तथैश्वरान् ।
मुक्तिप्रसूचकान्प्राप्य हन्यते त्रिगुणैर्न सः ।।९४।।
निर्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह ।
सोऽश्नुते हि सर्वान् कामान् सह तेन विपश्चिता ।।९ ५ ।।
तथाऽऽत्मा साम्यमभ्येति योगीशे परमात्मनि ।
सालोक्यं चापि सारूप्यं सायुज्यं नित्यमेव च ।।९६ ।।
समैश्वर्यादिमत्त्वं च प्राप्नोत्येव कृपावशात् ।
ओमित्येकं परंब्रह्म वदन् मां च सदा स्मरन् ।।९७।।
गृहं जीर्णं परित्यज्य प्रयाति मत्पदं नृप! ।
मदाश्रयं सदा प्राप्तोऽलर्क! विज्ञानमाप्तवान् ।।९८।।
मदनुग्रहतस्ते च दोषान्नष्टानवेहि च ।
न तु ते बन्धनं भूयाद् भूया निर्वाणभाक् सदा ।। ९९।।
आत्मना ब्रह्मणा नित्यानन्देन सुखशायिना ।
परब्रह्मणि सम्मील्य शाश्वतानन्दवान् भव ।। 1.396.१०० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्येऽलर्कराज्ञो दत्तात्रेयप्रदत्तज्ञानयोगवत्तया मुक्ततादिनिरूपणनामा षण्णवत्यधिकत्रिशततमोऽध्यायः ।। ३९६ ।।