लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३९५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३९५
[[लेखकः :|]]
अध्यायः ३९६ →

श्रीनारायाण उवाच-
अथ राज्ञा योजिता सा मदालसा चतुर्थकम् ।
पुत्रं लक्ष्मि! प्रवृत्तेस्तु मार्गे ह्युपादिदेश यत् ।। १ ।।
पुत्र! वर्धस्व मद्भर्तुर्मनो नन्दय कर्मभिः ।
देवपित्रतिथीन् सर्वान् कर्मणा तोषमावह ।। २ ।।
ब्रह्मचर्यं व्रतं पुत्र! गृहाण सोपनायकम् ।
ततो विद्यां राजयोग्यां नीतिं गृहाण सद्गुरोः ।। ३ ।।
राज्यं पितृप्रदत्तं च धर्मार्थं वह पुत्रक! ।
प्रजा रक्ष क्रतून् श्रेष्ठान् कुरु वह्नौ घृतादिकम् ।। ४ ।।
जुहुधि ब्राह्मणसाधुदीनेभ्यो देहि चार्थितम् ।
क्षितेः संपालनात् सौख्यं धर्मकार्यं भविष्यति ।। ५ ।।
तेन स्वर्गं च देवत्वं सुखं प्राप्स्यसि शाश्वतम् ।
पर्वसु तीर्थके गत्वा तर्पयेथाः धरामरान् ।। ६ ।।
पूरयेथाः मनोऽभीष्टं बान्धवानां समीहितम् ।
चिन्तयेथाः हृदि सर्वजीवानां हितमुत्तमम् ।। ७ ।।
निवर्तयेथाः सततं चाकार्येभ्यश्चापि पापतः ।
यज्ञैर्दानैजपैर्होमैर्देवान् द्विजाँश्च प्रीणय ।। ८ ।।
धर्मार्थकामसंज्ञैश्च विजयेथाः पुमर्थकैः ।
गुरुन् संसेवयेथाश्च नन्दयेथाः सुहृजनान् ।। ९ ।।
साधून् संरक्षयेथाश्च यजेथाः सुरमानवान् ।
व्रजेथास्तीर्थयात्रायां कारयेथाः स्वमोक्षणम् ।। 1.395.१० ।।
गृहधर्मान् पालयेथास्तोषयेथाः सुयोषितः
पुत्रानुत्पादयेथाश्च श्रयेथाः न्याससाधुताम् ।।११ ।।
समर्जयेथाः मुक्तिं च त्यजेथाः प्रवृत्तिं तथा ।
विलीयेथाः परे कृष्णनारायणेऽक्षराधिपे ।। १२ ।।
इति पुत्र तवार्थे वै मया मार्गो निदेशितः ।
तत्र श्रेयः श्रयेथास्त्वं रागत्यागोभयात्मकम् ।। १३ ।।
एवमुल्लाप्यमानः सोऽलर्को मात्रा पुनः पुनः ।
ववृधे वयसा बालः ऋतध्वजसुतः शुभः ।। १४।।
कृतोपनयनः प्राह मातरं वद मे सति ।
मम यदत्र कर्तव्यमैहिकाऽऽमुष्मिकं च यत् ।। १५ ।।
मदालसा पुनः प्राह ज्ञानयोग्ये वयस्यथ ।
वत्स! राज्येऽभिषिक्तेन कर्तव्यं लोकरञ्जनम् ।। १६।।
व्यसनानि न कार्याणि राज्यनाश्यकराणि वै ।
आत्मा रक्ष्यो रिपुभ्यश्च मन्त्रो रक्ष्यो विशेषतः ।। १७।।
अमात्यादीन् विजानीयादासनाऽऽदानभाषणैः ।
चारैः सर्वत्र संदृष्टिं कारयेत् सत्यवेदिभिः ।। १८।।
कुत्रापि भूभृता विश्वसनीयं नैव सर्वथा ।
कार्यसाधकता रक्ष्या विश्वासैरपि कर्हिचित् ।। १ ९।।
देशकालादिविज्ञेन राज्ञा भाव्य गुणादिभिः ।
आत्मा प्राक्मन्त्रिणः पश्चाद् भृत्या जेयस्ततः परम् ।। 1.395.२० ।।
कामादयो विजेतव्याः प्रथमं सर्वथा नृपैः ।
कामः क्रोधो मदो लोभो मानश्चैते विनाशकाः ।। २ १ ।।
काकवच्चेष्टया भाव्यं कोकिलावत् स्वरेण च ।
भृंगवत् सारग्रहणे मृगवद्भ्रमणे सदा ।। २२।।
व्यालवद् रोषकरणे मयूरवत् समादरे ।
हंसवत्तु विवेकेन कुक्कुटवद्धि जाग्रतौ ।। २३ ।।
लोहवद् दार्ढ्यभावेन भाव्यं राज्ञा हितार्थिना ।
कीटवत् कठिने शत्रौ प्रविशेत्तु शनैः शनैः ।।२४।।
सम्भूय च पिपीलिकावदाहरेत् परं नृपः ।
अग्निविस्फुलिंगवद् वै चमत्कारं प्रदर्शयेत् ।।२५।।
चन्द्रवत् सूर्यवच्चापि नीत्यर्थे नियमं चरेत् ।
बन्धकी तु यथा स्याद्वै निर्लेपा पशुपक्षिषु ।।२६।।
पद्म जले तु निर्लेपं ह्युपर्युपरि तिष्ठति ।
शरभः सिंहवर्गश्च फलयुक्पुरुषार्थकः ।।२७।।
शूली वेधे न विफला तथा प्रज्ञां समर्जयेत् ।
दधिपात्रे प्रस्फुटिते गोपालिका न शोचति ।।२८।।
गुर्विणीस्तनतो दुग्धं स्रवते न कदाचन ।
एवं राज्ञा वर्तनीयं कर्तव्यं राज्यरक्षणम् ।।२९।।
इन्द्रवत्तोयमादाय दातव्यं समयागमे ।
सूर्यवत्तोयमादाय दातव्यं ऋतुसंगमे ।।1.395.३०।।
यमवत् सुहृदि शत्रौ दण्डकार्ये समो भवेत्। ।
चन्द्रवत् शान्तमनसा भाव्यं क्वचिन्न सर्वदा ।।३ १ ।।
वायुवत् सर्ववर्णेषु चारैर्गोप्यं समाहरेत् ।
न लोभे कामवर्गे वा कृष्यते स सुखी सदा ।।३२।।
धर्मं पालयति स्वर्ग्यं साध्वाश्रमाँश्च रक्षति ।
तस्य सुखं प्रेत्य परत्रेह च शाश्वतम् ।।३३।।
प्रजायां धर्मसर्वस्वस्थापनेन नृपस्य तु ।
भागप्राप्तिर्भवत्येव तेन स्वर्गं पुनः पुनः ।।३४।।
कर्मयज्ञान् ज्ञानयज्ञान् भक्तियज्ञान् प्रवर्तयेत् ।
कृष्णनारायणप्रीत्या लभेत शाश्वतं पदम् ।।३५।।
सत्यं शौचमहिंसा चाऽनसूया च तथा क्षमा ।
आनृशंस्यमकर्मण्यं चैते रक्ष्या जनैर्भुवि ।।३६ ।।
वत्स! गार्हस्थ्यमादाय जनः पुष्णाति वै जगत् ।
तत्पुण्येन च लोकान् स सञ्जयत्यभिवाञ्च्छितान् ।।३७।।
सुरा दैत्या दानवा वा मानुषाः पितरर्षयः ।
मुनयः कीटपतंगा वयांसि पशवो द्रुमाः ।।३८।।
गृहस्थमुपजीवन्ति तेन तृप्तिं प्रयान्ति च ।
मुखं त्वस्य निरीक्षन्ते ह्यपि नो दास्यतीति वै ।।३९।।
गार्हस्थ्यं पोषकं सर्वाधारं गौः सा त्रयीमयी ।
यत्र प्रतिष्ठितं विश्वं विश्वहेतुश्च सा मता ।।1.395.४०।।
इष्टापूर्तादिकार्याणि गृहस्थेनैव सर्वथा ।
स्वाहाकारस्वधाकारौ गृहस्थाधारकौ मतौ ।।४१।।
वषट्कारो हन्तकारश्चाऽहोकारोऽपि तन्मयः ।
गार्हस्थ्योच्छेदकर्ता यः स तु पापकरोऽस्ति वै ।।४२।।
गार्हस्थ्यं पोषयेद् विज्ञः सः स्वर्गायोपकल्प्यते ।
राज्ञा वा धनिना वत्स! देवर्षिपितृमानवाः ।।४३।।
भूतानि चानुदिवसं पोष्याणि स्वतनुर्यथा ।
पितॄणां तर्पणं श्राद्धं काले कुर्यात्समाहितः ।।४४।
सुमनोगन्धपुष्पाद्यैर्देशनभ्यर्चयेत् तथा ।
दीनाऽनाथदरिद्रेभ्यो दद्याद् भोज्यादिकं गृही ।।४५।।
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चाऽवपेद् भुवि ।
बुभुक्षुमागतं श्रान्तं याचमानमकिंचनम् ।।४६।।
भोज्यं पेयं प्रदद्याच्चातिथिं मत्वा हरिं प्रभुम् ।
तस्मिँस्तृप्ते नृयज्ञोत्थादृणान्मुच्येत वै गृही ।।४७।।
अतिथिर्यस्य भग्नाशो गृहस्थस्य निवर्तते ।
दत्वा स दुष्कृतं तस्मै पुण्यमादाय गच्छति ।।४८।।
अप्यम्बुशाकदानेन सत्क्रियादतिथिं गृही ।
भिक्षां च याचतां दद्याद् यथाशक्तिप्रभिक्षणम् ।।४९।।
आश्रितान् भोजयित्वैव सदा भुंज्याद् गृहाधिपः ।
एवमुद्वहतः पुत्र! गार्हस्थ्यं चोपकारकम् ।।।1.395.५०।।
देवाः पितरो मुनयो दीनाश्चातिथिभिक्षुकाः ।
ऋषयो बान्धवाः पक्षिपशवः सूक्ष्मकीटकाः ।।५१ ।।
आशीर्वादपरा नित्याः सुखदाः संभवन्ति वै ।
परलोकेऽपि सुखदा अविघ्नाश्च भवन्ति ते ।।५२।।
एवंविधां शुभां गाथां स्वयमत्रिरगायत ।
वैश्वदेवं हि नामैतद् दत्वा युंज्यान्न चान्यथा ।।५३।।
पुत्रजन्मनि यत्कार्यं विवाहादौ च यद् यथा ।
तथा सतां तु सेवायां व्ययः कार्यो हरेर्दिने ।।५४।।
अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ।
तेन तृप्तिं पिशाचाद्याः पर्युषितेन यान्त्यपि ।।।५५।।
यदम्बु स्नानवस्त्राद्वै भूमौ पतति तेन वै ।
ये के च तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ।।५६।।
ये तु देहांगलग्ना वै पतन्ति जलबिन्दवः ।
भूगतैस्तैश्च देवादौ गतास्तृप्तिं प्रयान्ति वै ।।५७।।
पिण्डान्नकणिकाभिश्च तिर्यञ्चो यान्ति तोषणम् ।
ये तु दग्धास्तथा बालाः क्रियायोग्या असंस्कृताः ।।५८।।
विपन्नास्तेऽन्नविकिरसम्मार्जनजलाशिनः ।
आचुल्लुकजलं पीत्वा तृप्तिमायान्ति ते मृताः ।।५९।।
तस्मान्महोत्सवे दद्यात् श्राद्धे दद्याच्च दानके ।
दद्यादेव गृहस्थस्तु कुले कश्चिन्न सीदति ।।1.395.६ ०।।
सदाचारो गृहस्थेन पालनीयो यथायथम् ।
न ह्याचारविहीनस्य सुखमत्र परत्र च ।।६१ ।।
दुराचारो हि पुरुषो नेहाऽऽयुर्विन्दति ध्रुवम् ।
सर्वपापनिषेधार्थं धर्मः कार्यो गृहार्थिना ।।६२।।
ब्राह्मे मुहूर्ते बुद्ध्येत धर्मार्थौ चापि चिन्तयेत् ।
स्नात्वा सन्ध्यां तथा ध्यानं प्रकुर्वीत सुरार्चनम् ।।६३।।
असत्प्रलापमनृतं वाक्पारुष्यं च वर्जयेत् ।
असद्वादं च नास्तिक्यं नैव कुर्यात्कदाचन ।।६४।।
वृद्धेभ्यो नमनं कुर्यात् पूज्यपूजा समाचरेत् ।
गुरूणामासनं दद्यादभ्युत्थानादि चाचरेत् ।।६५।।
गुरुं च पितरौ श्रेष्ठं पतिं समभिवादयेत् ।
दुष्कृतं न गुरोर्ब्रूयात् क्रुद्धं त्वेनं प्रसादयेत् ।।६६।।
परनिन्दां न शृणुयान्न च कुर्यात्कदाचन ।
पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च ।।६७।।
सतां विदुषां गुर्विण्या भारार्तस्य यवीयसः ।
मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च ।।६८।।
सत्याश्च वैरिणश्चापि बालस्य पतितस्य च ।
नर्माऽभिघातमाक्रोशं पैशुन्यं च विवर्जयेत ।।६९।।
दंभाऽभिमानशाठ्यानि न कुर्याद्वै कदाचन ।
परदारा न गन्तव्या दीर्घायुष्यं समीच्छता ।।1.395.७०।।
रजस्वला सदा वर्ज्या सर्वैः रात्रिचतुष्टयम् ।
स्त्रीजन्मपरिहारार्थं पञ्चमीमपि वर्जयेत् ।।७१ ।।
ततः षष्ठ्यां व्रजेद् रात्र्यां पुत्रेच्छुको हि सर्वथा ।
युग्मासु पुत्रा जायन्ते कन्यास्त्वेकासु रात्रिषु ।।७२।।
आषोडशरात्रं वै गर्भाधानबलं मतम् ।
तत ऊर्ध्वं तु कमलं पिहितं जायतेऽफलम् ।।७३ ।।
कुर्यान्मैत्री न चाऽशीलैर्न चौर्यादिदूषितैः ।
न चाऽतिव्ययशीलैश्च न लुब्धैर्नापि वैरिभिः ।।७४।।
न तथा बलिभिर्मैत्री न न्यूनैर्नापि निन्दितैः ।
न सर्वशंकिभिश्चापि न वा दैवपरैस्तथा ।।७५।।।
अथ मैत्रीं प्रकुर्वीत सदाचारैश्च साधुभिः ।
प्राज्ञैरपिशुनैः शक्तैः कर्मोद्योगादिशालिभिः ।।७६ ।।
पतिदेवगुरून् प्रति नैव पादौ प्रसारयेत् ।
तत्र पुत्र! न वस्तव्यं यत्र नास्ति चतुष्टयम् ।।७७।।
ऋणप्रदाता वैद्यश्च श्रोत्रीयः सजला नदि ।
जिताऽमित्रो नृपो यत्र धर्मरक्षणकारकः ।।७८।।
पौराः सुसंयता यत्र यत्र सस्यवती मही ।
यत्राऽमत्सरिणो लोकास्तत्र वासः सुखोदयः ।।७९।।
तत्र पुत्र! न वस्तव्यं यत्रैतत् त्रितयं सदा ।
जिगीषुः पूर्ववैरश्च जना उद्यमवर्जिताः ।।1.395.८०।।
शौचादिकं शृणु पुत्र! यथा यस्यास्ति सम्मतम् ।
शखाऽश्मस्वर्णरूप्याणां रज्जूनामथ वाससाम् ।।८१ ।।
शाकमूलफलानां च तथा विदलचर्मणाम् ।
मणिवज्रप्रवालानां रत्नमुक्ताफलस्य च ।।८२।।
गात्राणां च मनुष्याणामम्बुना शौचमिष्यते ।
सस्नेहानां तु भाण्डानां शुद्धिरुष्णेन वारिणा ।।८३ ।।
शूर्पधान्याऽजिनानां च मुशलोलूखलस्य च ।
संहतानां च वस्त्राणां प्रोक्षणात् सचयस्य च ।।८४।।
वल्कलानामरोषाणामम्बुना शुद्धिरिष्यते ।
तृणकाष्ठौषधीनां च प्रोक्षणाच्छुद्धिरिष्यते ।।८५।।
ऊर्णा केशादयः शुद्धा वायुना किरणेन वा ।
शुचि भैक्षं कारुहस्तः पण्यं योषिन्मुखं तथा ।।८६ ।।
यज्ञशाला रसशालाः स्तनन्धयसुताः स्त्रियः ।
शुचिन्यश्च तथा ह्यापः स्रवन्त्योऽगन्धबुद्बुदाः ।।८७।।
भूमिर्विशुद्ध्यति कालात् सेकाल्लेपात्सुमार्जनात् ।
उल्लेखनात्तथा वृष्टेर्मृत्तिकाच्छुद्धिरिष्यते ।।८८ ।।
भस्माऽम्बुघर्षणैर्कांस्यशुद्धिश्च वह्निना तथा ।
मृत्तोयैश्चान्यपात्राणां क्षारेण त्रपुसीसयोः ।।८९।।।
रजोऽग्निरश्वो गौश्छाया रश्मयः पवनो मही ।
विप्रुषो मक्षिकाद्याश्च दुष्टसंगाददोषिणः ।।1.395.९० ।।
अजाश्वौ मुखतो मेध्यौ न गोर्वत्सस्य चाननम् ।
मातुः प्रस्रवणं मेध्यं शकुनि फलपातने ।।९१ ।।
आसनं शयनं यानं नावः पथि तृणानि च ।
सोमसूर्यांशुपवनैः शुद्ध्यन्ति नित्यमेव हि ।।९२ ।।
प्रभूतोपहतादन्नादग्रमुद्भूप्य संत्यजेत् ।
शेषस्य प्रोक्षणं कुर्याद् वायुना शुद्धिरेव वा ।।।९३ ।।
शवं स्पृष्ट्वा प्रकुर्याद्वै स्नानं शुद्धिस्ततो मता ।
मलत्यागे प्रकुर्वीत स्नानं करादिशोधनम् ।।९४।।
अपत्यजन्मनि शौचं मासमेकं हि पालयेत् ।
मृतशौचं द्वादशाहं पालयेन्न्यूनवर्षवत् ।।।९५।।
इत्येवं त्वमलर्कात्राचारं पालय सर्वथा ।
आत्मशुद्धिः सदा रक्ष्या मायाभ्रमविनाशनैः ।।।९६ ।।
स एवमनुशिष्टो ३ मात्रा त्वलर्क आदरात् ।
पित्रादिष्टश्च संचक्रे धर्मदारपरिग्रहम् ।।९७।।
राज्यं पित्रा प्रदत्तं च गृहाणाऽलर्क ऐहिकम् ।
मदालसा स्वतनयं प्राहेदं पश्चिमं वचः ।। ९८।।
यदा दुःखमसह्यं ते प्रियबन्धुवियोगजम् ।
शत्रुबाधोद्भवं वापि वित्तनाशादिसंभवम् ।।९९ ।।
तदाऽस्मात् पुत्र! निष्कृष्य मद्दत्तादंगुलीयकात् ।
वाच्यं वै शासनं त्वत्र पट्टेऽस्ति लिखितं मया ।। 1.395.१० ०।।
इत्युक्त्वा प्रददौ माता सौवर्णं सांऽगुलीयकम् ।
आशिषश्चापि या योग्या दत्ता मात्रा ततः परम् ।। १०१ ।।
पित्रा दत्ता आशिषश्च राज्यं चक्रे ह्यलर्ककः ।
मदालसाऋतध्वजौ तपसे काननं गतौ ।। १ ०२।।
ध्यात्वा तौ श्रीकृष्णनारायणं त्यक्त्वा तु भौतिकम् ।
दिव्यं देहं समासाद्य ययतुर्ब्रह्मधाम वै ।। १ ०३।।
एवं मदालसा लक्ष्मि! वैष्णवी वै पतिव्रता ।
पुत्रान् मुक्तान् सुनिष्पाद्याऽक्षरधाम गता सती ।। १ ०४।।
एतस्य पठनाद्वापि श्रवणान्मुक्तिराप्यते ।
बन्धनानि विनश्येयुः सदा सौख्यं भवेत् प्रिये! ।। १ ०५।।
अलर्कोऽपि यथान्यायं बन्धनं न भवेद् यथा ।
तथाऽकरोन्निजं राज्यं सर्वाः प्रमुदिताः प्रजाः ।। १ ०६।।
पालयामास धर्मात्मा पुत्रवद् धार्मिकीः प्रजाः ।
पुत्राँश्चोत्पादयामास तथेयाज महामखैः ।। १ ०७।।
अजायन्त सुतास्त्वस्य महाबलपराक्रमाः ।
धर्मात्मानो महात्मानो विमार्गपरिपन्थिनः ।। १ ०८।।
राज्यं कर्तुं समर्थेभ्यो न सुतेभ्यो ददौ धुरम् ।
वैराग्यं नाऽस्य संजज्ञे भुंजतो विषयान् बहून् ।। १ ०९।।
तं तथा भोगसंसक्तं भ्रान्तं चाऽप्यजितेन्द्रियम् ।
भ्रातरं रागनाशाय ह्युपदेष्टुमना वनी ।। 1.395.११ ०।।
सुबाहुनामको भ्राताऽग्रजः सन्यासवान् यतिः ।
आययौ तद्गृहं शीघ्रमुपादिदेश मोक्षणम् ।। १११ ।।
आत्मविद्यां बहुविद्यां भ्रात्रापि कथितां च ताम् ।
स्मारं स्मारं जगादाऽस्मै बन्धनाशार्थमेव सः ।। ११ २।।
तथाप्यलर्को नो मेने राज्यत्यागं हितंकरम् ।
तदा बुबोधयिषुस्तं त्याजयितुं च बन्धनम् ।। ११३ ।।
सुबाहुस्तु चिरं ध्यात्वा श्रेयोऽमन्यत सङ्गरम् ।
तद्वैरिसंश्रयं कृत्वा युद्धमुत्पाद्य चोल्बणम् ।। १ १४।।
कारयामि परं श्रेयो भ्रातुर्वैराग्यमुत्तमम् ।
औदासीन्यं समुत्पादयित्वा करोमि मोक्षणम् ।। १ १५।।
विचार्येत्थं सुबाहुः सः काशीभूपालमागमत् ।
तेन चक्रे बलोद्योगमलर्कं प्रति पार्थिवः ।। १ १६।।
दूतं च प्रेषयामास राज्यं भ्रात्रे प्रदीयताम् ।
इत्युक्तवन्तं तं दूतं प्रत्युवाच मदान्वितः ।। १ १७।।
मामेवाऽभ्येत्य हार्देन याचतां राज्यमग्रजः ।
नाऽक्रान्त्या संप्रदास्यामि काशीराजभयेन वै ।। १ १८।।
ततः काशीनृपेणास्य युद्धं घोरतरं ह्यभूत् ।
चिन्तां स परमां प्राप्य तत् सस्मारांगुलीयकम् ।। ११ ९।।
मात्रा दत्तं तत्र पत्रं ददृशे प्रस्फुटाक्षरम् ।
'संगः सर्वात्मना त्याज्यः स चेत् त्यक्तं न शक्यते' ।। 1.395.१२० ।।
सः सद्भिः सह कर्तव्यः सतां संगो हि भेषजम् ।
तृष्णा सर्वात्मना हेया त्यक्तुं चेच्छक्यते न सा ।। १२१ ।।
मुमुक्षया परित्याज्या सैव तस्यास्तु भेषजम् ।
वाचयित्वा मुमुक्षां च गृहीत्वाऽलर्कभूपतिः ।। १ २२।।
साधुसम्पर्कमन्विच्छन् रात्रौ मितपरिग्रहः ।
दत्तात्रेयं महाभागं ययौ गुरुमसंगिनम् ।। १२३ ।।
प्रणिपत्याऽभिसंपूज्य यथासर्वमभाषत ।
कुरु प्रसादं दुःखादिविनाशायेत्ययाचत ।। १ २४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्येऽलर्क मदालसा प्रवृत्तिधर्मानुपादिदेश, सा सपतिका दिव्यगतिमवाप, अलर्कस्याऽऽत्मज्ञानार्थं सुबाहोः प्रयास इत्यादिनिरूपणनामा पञ्चनवत्यधिकत्रिशततमोऽध्यायः ।।३ ९५ ।।