लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३९४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३९४
[[लेखकः :|]]
अध्यायः ३९५ →

श्रीनारायण उवाच-
अथ लक्ष्मि! द्वितीयं सुषुवे पुत्रं मदालसा ।
अभिधानं पिता तस्याऽकरोत् सुबाहुरित्यतः ।। १ ।।
मदालसा जहासापि नामरूपविवर्जिते ।
नामरूपं प्रसह्यैव स्वार्थलोकेन रोप्यते ।। २ ।।
इयं तु ब्रह्मविज्ञा तं बालमुल्लापनादिभिः ।
उपादिदेश नित्यं वै यथापूर्वं निरञ्जने ।। ३ ।।
शृणु पुत्र! शरीरं ते बालरूपं व्यजायत ।
पूर्वं नासीत् त्वदीयं वै कथं स्वीयं प्रमन्यसे ।। ४ ।।
शीर्यते तच्छरीरं हि मुहुः शीतोष्णसंभृतम् ।
पराधीनकरं नित्यं सदा विश्वासघातकम् ।। ५ ।।
पिता पूर्वस्थितैः क्लृप्तस्तस्य धातुः शरीरगः ।
विनिर्गतः स जन्माऽभूद् जलात्मकसुतस्य वै ।। ६ ।।
गर्भवासे स्यितस्तस्यायुष्यं तु दशमासिकम् ।
यदि तत्र न तिष्ठेद्वै तदाऽऽयुष्यं क्षणं मतम् ।। ७ ।।
मासिकं षाण्मासिकं वा स्रावे न्यूनाऽष्टमासिकम् ।
जन्मनि लब्धवत्येव चायुष्यं दशमासिकम् ।। ८ ।।
ततोऽस्याऽज्ञानसंयुक्तं चायुष्यं मूर्छनामयम् ।
ततो दशदिनान्तं च सूतकात्मकमुच्यते ।। ९ ।।
मासान्ते वर्षतः पूर्वमायुष्यं पारवश्यगम् ।
वर्षान्ते त्रिवर्षपूर्वमायुष्यं मातृशिक्षणम् ।। 1.394.१ ०।।
ततः शिशुः कुमारश्चाऽऽद्वादशाब्दं स कीर्त्यते ।
ततः सौम्यस्ततः प्रौढो युवा चिन्ताप्रधानकः ।। ११ ।।
विधुरो वा सधुरो बा चैकलो द्वौ ततोऽधिकः ।
शृगालवत् मण्डलितोऽहंममत्वसमावृतः ।। १२।।
शत्रुमित्रकुटुम्बादियशोलाभादिसंभृतः ।
अतस्मिँस्तद्विमन्ताऽभूद्धर्षशोकपरायणः ।। १३ ।।
पुत्रपौत्रादिसम्बद्धः पशुक्षेत्रादिचिन्तनः ।
वंशविस्तारपाशेन वासनामूलरोपितः ।। १४।।
जर्जरितेन देहेन वार्धक्यं समनुष्ठितः ।
रोगाऽशक्त्यादिसम्पन्नः शारीराज्ञाविवर्जितः ।। १ ५।।
वातरोगादिबन्धुश्चाऽपथ्याऽवमानसेवकः ।
तिरस्कारादिसम्मानो गन्तुकामोऽपि रोधितः ।। १६ ।।
मृतः प्रज्वालितः प्रेतः क्वाऽऽसीत्कुत्र गतः स वै ।
तस्मात् स्वप्नं यथा तद्वद् देहायुष्यं विवर्तते ।। १७।।
मत्वैवं त्वं सदा पुत्र नामरूपविवर्जितः ।
सच्चिदानन्दसंज्ञोऽसि नित्यतृप्तो निराशयः ।। १८।।
वर्तस्वानन्दमात्रायां मा वर्तस्व विवर्तने ।
असारे नित्यशुद्धस्त्वं माऽशुद्धिं मस्तके वह ।। १ ९।।
शुक्लोऽसि सर्वदा पुत्र! मा कृष्णत्वं वहात्मनि ।
शुद्धदर्पणतुल्योऽसि कल्मषं मा निवेशय ।। 1.394.२ ० ।।
अम्बेति कृष्णो जनकेति कृष्णो-
ऽग्रजेति कृष्णोऽहममेति कृष्णः ।
बालेति कृष्णः स्वपरेति कृष्णः
सर्वस्वकृष्णं भज मुक्तिमेहि ।।२६ १ ।।
तेजः परंब्रह्म तमः परब्रह्म
ज्ञान परब्रह्म चिदम्बरेऽर्पितम् ।
दुःख परब्रह्म सुख परब्रह्म
स्वय परेब्रह्मणि वर्तसेऽर्भक! ।।२२।।
न मेऽस्ति किञ्चिन्न च तेस्ति किञ्चि-
जनूत्तरं मानवकल्पितं हि तत् ।
असंगबालस्य न संगमाह
तीर्णोऽसि नित्यं कुरु चात्मनि श्रमम् ।।२३ ।।
शारीरयात्रा च यथा विनिर्वहेत्
तावत्परिग्राहक एव संभव ।
तत्राप्यसंगो भव मिष्टयोजनै-
र्हरेः प्रसादामृतमिष्टमावह ।।२४।।
शुद्धे निजे सच्चिदि सौख्यसंभृते
मा दुःखयोगान् विनियुंक्ष्व बन्धदान् ।
यथास्वरूपो विहरस्व वृक्षके
समानके त्रिच्छिदि यावदस्तिके ।।२५।।
न तेऽस्ति भार्या न च तेऽस्ति सौधो
न चास्ति ते हस्तिसुभृत्यवाट्यः ।
न चास्ति सैन्यं न च रक्षकोऽन्यो
विना हरिं कृष्णनरायणं वै ।। २६ ।।
त्वं देहसंगेऽव सतां प्रसंगं
तथाऽऽत्मसंगेऽव हरेः प्रसंगम् ।
इष्टेऽतिसंगेऽपि प्रभुं विधेहि
श्रीकृष्णनारायणमाभजस्व ।। २७। ।
इत्येवं सा महाराज्ञी बालमुल्लापनादिभिः ।
अशिक्षयच्चात्मविद्यां सोऽपि मुक्तो बभूव ह ।। २८ ।।
सोऽप्यमन्यत गोविन्दं रक्षकं बाहुमेव ह ।
कृष्णनारायणलब्ध्या सुबाहु स्व हि मन्यते ।। २९ ।।
नतु देहस्थबाहुभ्यां सुबाहुः स विनिश्चितः ।
माताऽपि तं महामुक्तं दृष्ट्वा तुतोष वै हृदि ।। 1.394.३० ।।
अमन्यत महासाध्वी मातृत्वं सार्थकं स्वकम् ।
आत्मप्रमाणं विज्ञानं ददौ यतः सुताय सा ।। ३१ ।।
पापात् पाति पिता बोध्यो माता प्रमां ददासि या ।
तत्सर्वं वर्तते राज्ञ्यां मदालसायां तृप्तिकृत् ।। ३२ ।।
अथ कालान्तरे तस्या जज्ञे पुत्रस्तृतीयकः ।
राजा प्राह च तं पुत्रं शत्रुमर्दनमेव ह ।। ३३ ।।
तदा चातिप्रजाहास नाम स्मृत्वा पुनः पुनः ।
तं चापि स सती माता शिक्षयामास चिद्धनम् ।। ३४।।
पालने च यदा तं सा ह्यान्दोलयति सादरम् ।
दुग्धं स्तन्यं तथा भक्ष्यं चोश्यं लेह्यं ददाति सा ।। ३५ ।।
तदा तदा प्रसंगेन शिक्षयति स्म प्रोक्षणम् ।
शृणु कर्णेन पुत्र! त्वं नहि कर्णोऽस्ति चेतनः ।। ३६ ।।
गृहाणेदं सुपेयं त्वं मुखेन जिह्वया तथा ।
न जिह्वा न मुखं चासि त्वं सदाऽसि प्रचेतनः ।। ३७ ।।
वद शब्दं पश्य रूपं कुरु हास्यं मनोरमम् ।
न त्वं शब्दो न वै चक्षुर्न चाऽन्तःकरणं ह्यसि ।। ३८ ।।
पश्येदं मक्षिकादंशकृतं दंशादिकं तु यत् ।
तद् देहेऽस्ति न त्वय्यस्ति देहस्त्यदाश्रितोऽस्ति वै ।। ३९ ।।
तत्रोष्णं वा परं शीतं खर्जनं विद्धि रक्तकृत् ।
त्वं न रक्तं न वा दद्रुर्न च चर्माऽस्थिखर्जनम् ।। 1.394.४० ।।
त्वया स्थितेन तत्सर्वं जायते च विलीयते ।
न ह्रासस्तेन जातेन न वा वृद्धिर्भवेत् त्वयि ।।४१ ।।
पानं पेयं क्षुधा तृट् च भोज्यं चोश्यं न वै त्वयि ।
त्वया स्थितेन तत्सर्वं देहोऽयं समपेक्षते ।।४२ ।।
विना त्वां न तनूर्नैव क्षुत्तृड्व्याप्त प्रवर्तनम् ।
सर्वं लयं समेयाद्वै तस्मात् त्वं सर्वतः परः ।।४३।।
परार्थं गृहवाट्यादि परार्थं जलधान्यकम् ।
परार्थं चाक्षुषं सर्वं यः परः स त्वदात्मकः ।।४४।।
जननं मरणं नित्यं व्यवस्थं देहवासितम् ।
अवस्थाभ्यः परस्त्वं वै परमात्मसमाश्रितः ।।४५।।
देहे त्वं च त्वयि कश्चिद् यः स बोध्यः परेश्वरः ।
परेश्वरसमस्त्वं वै नित्यबुद्धो निरञ्जनः ।।४६ ।।
नित्यशुद्धो नित्यसिद्धो नित्यविज्ञो भवातिगः ।
इदं तु पालनं स्वप्नं लालनं स्वप्नमित्यपि ।।४७।।
हसनं तर्पणं स्वप्नं जाग्रतो भव सर्वथा ।
योगनिद्रा हरेर्योगे सदा शान्तिप्रदा तव ।।४८।।
भोगनिन्दात्मिका निद्रा मायाजालं न सा त्वयि ।
अविशुद्धिः क्षयश्चापि स्मृद्धावतिशयश्च यः ।।४९।।
असूयामत्सरेर्ष्यादिकल्मषाढ्या न वै त्वयि ।
मुक्तो नित्यश्चात्मसत्तः पूर्णानन्दोऽसि पुत्रक! ।।1.394.५०।।
यथा वस्त्रं नवं प्राप्तं त्यक्तं जीर्णं प्रसह्य वै ।
दिनं च नूतनं प्राप्तं गतं पूर्वं प्रसह्य वै ।।५१ ।।
प्रातर्गतं गतं सायं. गता चान्द्रमसी निशा ।
अमावस्यानिशा माया तामसी चापि ते गता ।।५२।।
घटमालानुसारेण यदि सा तेऽन्तिकं भवेत् ।
आत्मविद्युन्मये दिव्यप्रकाशेऽवतराऽऽत्मवित् ।।५३ ।।
कामः क्रोधस्तथा लोभो मोहो मदोऽभिमानकम् ।
शत्रवस्ते निजबोधे तान्प्रमर्दय सर्वथा ।।५४।।
गतान् वै माऽन्वशोचस्त्वं वर्तमानान् निवर्तय ।
अनागतांश्च मा देह्यातिथ्यसत्करणं मनाक् ।।५५।।
आत्मज्ञानातिखड्गेन छिन्नास्ते चान्तरारयः ।
अनुद्भवाश्च वाऽपुष्टाः शुष्कायन्ते विना जलम् ।।।५६ ।।
देहस्य शत्रवो लोके न वै चात्मनि शत्रवः ।
आत्मनो मोक्षणे विघ्नाः शत्रवस्ते प्रकीर्तिताः ।।५७।।
एवं त्वं चात्मशत्रूणां भूत्वा सम्मर्दकः पुरे ।
नवद्वारे प्रप्राकारे वर्तस्व शुभवर्जितः ।।५८।।
ततस्ते सार्थकं नाम पित्रोक्तं शत्रुमर्दनम् ।
इत्येवं बोधितः सोऽपि मात्रा पुत्रस्तृतीयकः ।।५ ९ ।।
बाल्यादेव सुमुक्तोऽभूद् द्वन्द्वभीतिविवर्जितः ।
याने च भोजने रम्ये भोग्ये भोगेऽप्यनातरः ।।1.394.६० ।।
निष्तृष्णो नित्यतृप्तश्च वर्तते स्म निरन्तरम् ।
गतं विघ्नं गता द्वन्द्वाः संसारो नागतश्च के ।।६ १ ।।
हृद्ये न समाविष्टं मायाजालं च गत्वरम् ।
उदयास्तमयौ नास्य बाधेते मुक्तिवर्तिनि ।।६२।।
स्वप्रकाशे स्वकानन्दे स्वात्मतृप्तौ हि वर्तते ।
सनन्दनसमानोऽयं दृश्यते योगिराडिव ।।६ ३।।
दृष्ट्वा माता प्रसन्नाऽभून्मातृत्वं सार्थकं कृतम् ।
जलेन रञ्जनां नैति नोद्वेगं याति वह्निना ।।६४।।
उत्सवेन शमं नैति विषेण विषमो न वा ।
सुखदुःखसमः पुत्रश्चाहं धन्या हि पुत्रिणी ।।६५।।
इत्यानन्दमयी नित्या हरिं भजति सा सती ।
मुक्तं पुत्रं समालोक्य मुक्तिमार्गस्थिताऽभवत् ।।६६ ।।
एवं पुत्रत्रयं लेभे जीवन्मुक्तं मदालसा ।
ब्रह्ममदेन जगति सालसाऽभून्मदालसा ।।६७।।
एवं पुत्रत्रयं त्वात्मसत्तया ब्रह्मतन्मयम् ।
क्रियाश्चकार निष्कामं न राजार्थोपकारकम् ।।६८।।
राजापि भक्तराट् दृष्ट्वा पुत्रान् कृष्णाश्रितान् शुभान् ।
मुक्तान् ब्रह्मस्वरूपाँश्च तेषु तुतोष सर्वथा ।।६९।।
पतिव्रतायां भार्यायां तुतोषात्यन्तमेव च ।
जन्मना किं यदि बन्धाः पुत्रेऽपि निहितास्तदा ।।1.394.७०।।
यस्तु बन्धैरावृतश्च कथं पितॄन् स तारयेत् ।
पत्नी बन्धनकर्त्री या तया किं जन्मनः फलम् ।।७१ ।।
उद्धारयित्री या भार्या सा पत्नी सत्यतारिणी ।
कुटुम्बतारिणी सैव तया गार्हस्थ्यमुत्तमम् ।।७२।।
पुत्रोऽपि तारकः प्रोक्तः पत्नी तथैव तारिका ।
सती पत्नी सुतः साधुस्तौ मतौ भवतारकौ ।।७३ ।।
धन्योऽहं धन्यराज्यं मे धन्या चापि प्रजा मम ।
सत्संगाच्च सतीसंगात् तरिष्यामः प्रजादयः ।।७४।।
यत्र राज्ये भवेयुश्च साध्व्यः सत्यः पतिव्रताः ।
सुताश्च साधवो मुक्ता वैकुण्ठं तत्र विद्यते ।।।७५।।।
धिग्जनं धूर्तभार्यायाः पतिं तातं शठस्य च ।
धिग्राजानं वञ्चयित्र्याः प्रजायाः पालकं तथा ।।७६ ।।
जयस्तस्य सतीभार्यास्वामिनः सर्वदा भुवि ।
मदालसायाः पुण्येन विजयो मेऽस्ति सर्वथा ।।७७।।
स्वर्गं स्वर्गसमं राज्यं पुत्रा देवसमा मम ।
दिव्या लक्ष्मीसमा पत्नी वैकुण्ठं मेऽस्ति सर्वथा ।।७८।।
श्रीकृष्णः सर्वदा त्वास्ते मत्पुत्रेषु विरागिषु ।
श्रीराधा च सदा मदालसायां वर्तते ननु ।।७९।।।
लक्ष्मीः सदा गृहे चास्ते मम चान्धसिकेषु वै ।
नारायणः स्वयं मयि नास्ति न्यूनं च मे मनाक् ।।1.394.८०।।
यस्य पतिव्रता भार्या यस्य पुत्रश्च भक्तराट् ।
तस्य वैष्णवयज्ञानां सहस्रं नित्यमेव हि ।।८१ ।।
यत्र नास्ति सती भार्या यत्र पुत्रो न भक्तराट् ।
तस्य गृहं पिशाचानां फेरुराजगृहोपमम् ।।८२।।
इत्येवं ऋतमेवाऽस्य ध्वजवद् दृश्यते सदा ।
तेनार्थवान्नभवत् स ऋतध्वजोऽपि पार्थिवः ।।८३।।
अथाऽयं स्वसुतानाह राज्यपालनहेतवे ।
पुत्राः प्राहुश्च पितरं कुर्मो ब्राह्मं हि राज्यकम् ।।८४।।
मातुः पितुः कृपयैव वयं समुद्धृता भवात् ।
राज्यं तु पार्थिवं सर्वं मग्नभावं करोति वै ।।८५।।
आत्मराज्यसमं राज्यं न भूतं न भविष्यति ।
ब्रह्मानन्दसमं सौख्यं न भूतं न भविष्यति ।।८६ ।।
नित्यतृप्तिं गतस्याऽत्र राज्यानन्दो विषोपमः ।
वितृष्णस्याऽऽत्मनः सौख्यात्परं सौख्यं न विद्यते ।।८७।।
आत्मनि परमात्मानं ध्यायन्ते योगिनो जनाः ।
सन्तस्तथा प्रपश्यन्ति श्रीहरिं हृदयान्तरे ।।८८।।
तद्योगं तु वयं प्राप्ताः पितर्मातुर्दयालवात् ।
ततो राज्यं न चेच्छामो बहिष्ठं नश्वरं क्षयम् ।।८९।।
श्रुत्वा पितेति पुत्राणां मुमुदे वै मुहुर्मुहुः ।
तारितोऽस्मि सुपुत्रैश्च कर्तव्यं नावशिष्यते ।।1.394.९०।।
इतितृप्तस्य राज्ञस्तु कालान्तरे सुतः शुभः ।
चतुर्थोऽपि मदालसाराज्ञ्यां जज्ञे गुणालयः ।।९१ ।।
अथाऽस्मै सा महाराज्ञी प्रोवाच सुशुभं वचः ।
पुत्र! पुण्येन बहुना तव जन्मात्र संगतम् ।।९२।।
अजन्मासि सजन्मा त्वं जातोऽसि राज्यकारणात् ।
अराजाऽसि पुरुपुण्याद् राजा भवसि पुत्रक! ।।९३।।
अप्रजोऽसि प्रजायुक्तो भवसि राज्यकारणात् ।
नित्यमुक्तोऽसि तदपि बद्धोऽसि पितृतोषणात् ।।९४।।
मा स्म क्लेशं प्रजाकार्ये मन्येथाः मातृदेशनात् ।
मा स्म ग्लानिमसत्यार्थे कालक्षेपेऽपि सव्रज ।।९५।।
पित्रोः सेवा त्वया कार्या ज्ञानं संरक्ष्य वै हृदि ।
वर्तस्वाऽऽज्ञाकरो भूत्वा निर्लेपो लेपवानिव ।।९६।।
इत्युक्त्वा विररामाऽथ चिकीर्षुर्नाम भूपतिः ।
ददर्श तां सतीं भार्यामीषद्धासां मदालसाम् ।।९७।।
तामाह राजा हसतीं किञ्चित्कौतुहलान्वितः ।
क्रियमाणे मया नाम्नि प्रत्येके नामकर्मणि ।।९८।।
तव संजायते हास्यं वदात्र कारणं नु किम् ।
विक्रान्तश्च सुबाहुश्च तृतीयः शत्रुमर्दनः ।।९९।।
कृतान्येतानि नामानि मन्ये तानि शुभानि वै ।
यद्वा तेऽत्र नवं किञ्चिदूहमानं प्रकाशते ।। 1.394.१ ००।।
वद् साध्वि सन्त्यसन्ति नामानि कीदृशानि हि ।
अस्य चतुर्थपुत्रस्य नाम त्वं कुरु भामिनि! ।। १०१ ।।
मदालसा पतिं प्राह करोम्याख्यां सुतस्य ते ।
अलर्क इति धर्मज्ञः ख्यातः सुतो भविष्यति ।। १ ०२।।
लः लयो रश्च विवृद्धिः क उत्पत्तिर्न यत्र वै ।
अलर्कः स तु विज्ञेयस्तव पुत्रश्चतुर्थकः ।। १ ०३।।
आत्मा न जायते कश्चिन्न वर्धते न नश्यति ।
अजन्मवृद्धिविलयोऽलर्कोऽयं तव पुत्रकः ।। १ ०४।।
आत्मनो नास्ति शत्रुर्वै येन मर्दनमाचरेत् ।
एवं शत्रुमर्दनं तु नाम निरर्थकं भवेत् ।। १ ०५।।
कामक्रोधादिशत्रूणां मर्दने सार्थकं ततः ।
बाहुर्भुजा नात्मनोऽस्ति सुबाहुः स्यान्निरर्थकम् ।। १०६ ।।
बहुषु वर्तते योऽसौ बाहुः कृष्ण उदीर्यते ।
सु सम्मतो यस्याऽस्ति सुबाहुः सार्थकं ततः ।। १ ०७।।
क्रान्तिः क्रिया गतिर्यत्र विशेषेति निरर्थकम् ।
व्यापकस्यात्मनो नैव गतिस्त्वस्ति कदाचन ।। १ ०८।।
अथापि भगवल्लोके गतिर्विद्यत इत्यपि ।
विक्रान्तः सार्थकं नाम भवत्येव सुतस्य ते ।। १ ०९।।
एवं पुत्रास्तव राजन्! तारका मोक्षदायकाः ।
जाता भाग्यवशान्मुक्ता जीवन्तु शाश्वतीः समाः ।। 1.394.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये द्वितीयसुतसुबाहुतृतीयशत्रुमर्दनचतुर्थाऽलर्काख्यपुत्रेभ्यो मदालसाकृतोपदेशनिरूपणनामा चतुर्नवत्यधिकत्रिशततमोऽध्यायः ।।३९४।।