लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३९३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३९३
[[लेखकः :|]]
अध्यायः ३९४ →

श्रीनारायण उवाच-
अथ प्रातर्नृपपुत्रः ऋतध्वजः सुमंगलैः ।
वाद्यैश्च गीतिभिश्चापि पातालाख्यानकैस्तथा ।। १ ।।
नागकन्याभिरत्यर्थं मिष्टस्वरैः प्रबोधितः ।
स्नापितोऽम्बरितः शृंगारितोऽर्चितो विभूषितः ।। २ ।।
भोजितः पायितश्चापि सुस्पर्शैः रंजितो मुहुः ।
विज्ञापितश्च बहुधा रत्नादिग्रहणाय सः ।। ३ ।।
रजतं वा सुवर्णं वा वस्त्रं वाहनमासनम् ।
यद्वाऽभिमतमत्यर्थं ग्रहणार्थं निवेदितः ।। ४ ।।
ऋतध्वजस्तदा प्राहाऽश्वतरं नागयोगिनम् ।
तव प्रसादाद् भगवन् रत्नाद्यस्ति गृहे मम ।। ५ ।।
ताते वर्षसहस्राणि शासतीमां वसुन्धराम् ।
न न्यूनं विद्यते किञ्चित्स्वर्गमन्यद् गृहेऽस्ति मे ।। ६ ।।
तत्रापि सात्त्वतानां तु तृणवन्मायिकं खलु ।
तत्र लुब्धा जना नूनं धातृमायासुवंचिताः ।। ७ ।।
तवाऽनया सुमधुरया वाण्या सत्कृतिशीलया ।
कृतकृत्योऽस्मि भावेन सफलं जीवनं तु मे ।। ८ ।।
पित्रा वै जीवनं सार्थं मात्रा च जीवनं सुखम् ।
आरोग्येण च राज्येन वृद्धानां सेवया तथा ।। ९ ।।
त्वादृशानां कृपाभिश्च जीवनं सार्थकं मम ।
अश्वतरस्तदा प्राह गार्हस्थ्यं भार्यया सुखम् ।।1.393.१ ०।।
तत् तवास्ति न वा सौम्य! वद किं ब्रह्मवानसि ।
इति पृष्टः समुवाच भार्या मम पतिव्रता ।। ११ ।।
सुता गन्धर्वराजस्य नाम्ना ख्याता मदालसा ।
केनापि कृतवैरेण विप्रलब्धाऽत्यजत् तनुम् ।। १ २।।
तत आरभ्य लोके मे प्रतिज्ञां कृतवानहम् ।
नान्या भार्या भवित्री मे वर्जयित्वा मदालसाम् ।। १३ ।।
इत्यारभ्य सदा चास्मि ब्रह्मचर्यव्रतान्वितः ।
ब्रह्मचर्येण वै लोका वैराजाः सन्ति निर्मिताः ।। १४।।
मुक्तिलोको ब्रह्मचर्यपरस्याऽस्ति विनिर्मितः ।
मानुषस्य जनेर्लाभः संहितायां प्रपठ्यते ।। १५।।
स लाभोऽस्ति मदर्थं वाऽप्येकपत्नीव्रतस्य च ।
अश्वतरस्तदा प्राह शृणु राजकुमारक! ।। १६ ।।
भाग्येन वर्धसे नित्यं चैकपत्नीव्रतेन वै ।
पातिव्रत्येन ते पत्नी सौभाग्येन प्रवर्धते ।। १७।।
या सा मदालसा राज्ञी श्रुत्वा पत्युर्विनाशनम् ।
समाधिना लयं प्राप्ता गता स्वर्याम्यकं पुरम् ।। १८।।
पतिमन्वेषितुं नैजं धर्मराजश्च तां जगौ ।
पतिस्ते वर्तते साध्वि! जीवितो यमुनातटे ।। १ ९।।
योगायाऽश्वतरस्तस्य यतते तिष्ठ वै क्षणम् ।
इत्युक्ता सोषिता तत्र मया तप्त्वा हरात्खलु ।।1.393.२० ।।
वरदानं परं प्राप्य पुत्रीरूपा तव प्रिया ।
आसादिता दिव्यरूपा जातमात्रा सुकामिनी ।।।२१ ।।
तादृशी तव योग्या च पूर्वं यादृश्यभूद्धि सा ।
त्वदर्थं मानसी कन्या मद्गेहे वर्तते सती ।।२२।।
तुभ्यं दानाय सौम्याऽत्र मयाऽस्ति निश्चितं यतः ।
तस्मात् पश्येह वत्स त्वं सतीं चेद् द्रष्टुमिच्छसि ।।२३।।
अनुग्राह्यो भवान् गेहं बालोऽप्यभ्यागतो गुरुः ।
इत्युक्त्वा त्वानयामास तस्य पुत्रीं मदालसाम् ।।२४।।
प्राह सेयं न वा वत्स! भार्या ते या मदालसा ।
स दृष्ट्वा तां सम्मुखं द्राक् हृष्टरोमा बभूव ह ।।२५।।
रुरोद पूर्वां संस्मृत्य प्रेमपूरितमानसः ।
अश्वतरस्तदा कामफलं बद्ध्वा करेऽस्य वै ।।२६ ।।
अग्निं प्रज्वाल्य विधिवत् कन्यारत्नं ददौ पुनः ।
प्राप्य भार्यां सतीं सोऽपि यौतकं च धनं बहु ।।२७।।
नागकन्यास्तथाऽन्याश्च दासीर्दासाँश्च सेवकान् ।
मणीन् हिरण्यभूषाँश्च मदालसां नवीकृताम् ।।२८।।
प्रतिलभ्य प्रणम्याथ नागेशं श्वशुरं मुहुः ।
शालकौ द्वौ समाश्लिष्य श्वश्रू नत्वा तथाऽपरान् ।।२९।।।
निर्गतः स्वाययौ नैजं पुरं यानेन वायुना ।
आगम्य स्वपुरं पित्रोर्नत्वा सर्वमशेषतः ।।1.393.३ ० ।।
कथयामास तन्वंगी पुनः प्राप्ता यथा तथा ।
ननाम सा च चरणौ श्वश्रूश्वशुरयोः सती ।।३ १ ।।
अन्यांश्च पूजयामास यथान्यायं यथावयः ।
ततो महोत्सवो जातः पौराणां सर्वथा प्रियः ।।३२।।।
ऋतध्वजश्च सुचिरं तया रेमे सुमध्यया ।
अथ कालेन महता शत्रुजिन्मरणं गतः ।।।३३ ।।
ऋतध्वजोऽभवद्राजा पत्नीव्रतः सुधार्मिकः ।
मदालसाऽभवद् राज्ञी राजमाता पतिव्रता ।।३ ४।।
शतसाहस्रदासीषु सतीष्वपि मदालसा ।
लक्ष्मीवत् स्वपतिं नित्यं सिषेवेऽङ्गक्रियादिषु ।।३५।।
पतिं मत्वा कृष्णनारायणरूपं हरिं प्रभुम् ।
सम्पन्मोक्षकरं नित्यसम्बद्धं सेवते स्म सा ।। ३६।।
भोजयित्वा सदा भुंक्ते वस्तु समर्प्य सेवते ।
युंक्ते सा च स्वके कार्ये पतिप्रासादिकं सदा ।।३७।।
प्रातर्ध्यानं हरेः पूजां दानं चात्मविमर्शनम् ।
अतिथेर्भोजनं दत्वा स्वात्मार्थं युक्त एव सा ।।।३८।।
ब्रह्मार्पणं ब्रह्मसेवां ब्रह्मध्यानं तु सात्त्वती ।
महाभागवती साध्वी निष्पाद्य वर्तते परे ।। ३९।।
दिवानिशं हरेर्लीलाकीर्तनं सा करोति वै ।
अन्यान् श्रावयति हरेश्चमत्कारान् मुहुर्मुहुः ।।1.393.४०।।
एवं वै वर्तमानायाः संजज्ञे प्रथमः सुतः ।
तस्य चक्रे पिता नाम विक्रान्त इति धीमतः ।।४१ ।।
तुतुषुस्तेन वै सर्वे जहास च मदालसा ।
यस्या ब्रह्मस्वरूपायां हर्षशोकौ समौ यतः ।।४२।।
पुत्रं तु विक्रमं साध्वी बालमुत्तानशायिनम् ।
रुदन्तमभिशान्त्यर्थमुल्लापनमिषेण सा ।।४३।।
स्मृत्वा हरिं तथात्मानं नित्यशुद्धं निरञ्जनम् ।
पुत्रं मुक्तं देहधर्महीनं प्राह मदालसा ।।४४।।
शुद्धः स्वयं ब्रह्मसुरूपवानसि
प्रकल्पितं नाम च तेऽद्य कृत्रिमम् ।
अपूर्वदेहादिकमाप्तवानसि
ह्यशोकनो रोदिषि कस्य शोकवान् ।।४५।।
हानौ सदा रोदिति देहधर्मवान्
सा न त्वयि ब्रह्मनिरञ्जनेऽस्ति वै ।
सदाऽसि पूर्णो निजतृप्तिसंभृतः
सदा प्रतप्तस्य कथे नु रोदनम् ।।४६।।
आगन्तुका ये तु गुणाः सुखादयो
नियोजयन्त्येव तदिष्टवेदने ।
ततः प्रवृत्तौ च फले शुभाऽशुभे
असारचक्रे हि मुहुः क्षिपन्ति ते ।।४७।।
शान्ताश्च घोराश्च तथा प्रमूढा
देहा विशेषाः परिवर्त्तयन्ति ।
तद्वेगवेगी गुणवेगहीनो
ममत्वभाक् तापविभर्जितः स्यात् ।।४८।।
नानेन देहेन तु किंचिदस्ति
प्राप्तव्यमर्थं न च शाश्वतं वा ।
येनाऽस्ति लभ्यं स तु नित्यपूर्णः
कथं प्रपूर्णस्य नु रोदनं ते ।।४९।।
लब्धं गतं सर्वमनित्यमेतद्
दृष्टं मया जन्मनि चात्र तत्र ।
गतिस्वभावं पुरु नश्वरं च
शोकास्पदं त्वं नहि तादृशोऽसि ।।1.393.५०।।
आस्ते जलं जायते वर्धते च
सन्तिष्ठति क्षीयते नाशमेति ।
एते तु धर्मा हि भूतेषु सन्ति
न ते कथं कस्य हानेर्हि शोकः ।।५१ ।।
न तेऽस्ति वृद्धिर्न च तेऽस्ति हानि-
स्तादृक्स्वभावेऽत्र न कंचुके त्वम् ।
शोकं व्रजेथाः कुरु चात्मवित्तिं
नैसर्गिकानन्दमयीं प्रशस्तिम् ।।५२।।
तातेति किञ्चित् तनयेति कञ्चि-
दम्बेति कांचिद् दयितेति कांचित् ।
ममेति किंचिन्न ममेति किंचिद्
भूतात्मकं मा त्वयि मानयेथाः ।।५३ ।।
भोगः सदा मिश्रित एव वर्तते
मिष्टस्तथाऽमिष्ट इति प्रतीतितः ।
विज्ञस्य मिष्टेऽपि न मिष्टताऽस्ति वै
मूढस्य दुःखेऽपि न दुःखताऽस्ति च ।।५४।।
अहंममेत्यस्ति कृतं नवं नवं
गतं गतं वक्ति न तेऽस्त्यहंममः ।
वृथा मतं दुःखकरं हि बाल्यतः
शीर्णे विकारेऽपि न तद् वियास्यति ।।५५।।
चक्षुश्च कर्णश्च सुनासिका च
मुखं रदास्त्वक् श्रवणं मनश्च ।
जिह्वा करौ पत् मलमूत्रमार्गौ
नाभिश्च नामानि न ते हि सन्ति ।।५६।।
क्षेत्राणि यद्वत् खलु मृत्तिकायाः
सरांसि यद्वत् खलु सजलाद्याः ।
स्वर्गाणि यद्वत् खलु तेजआद्याः
प्राणाश्च वाता न हि ते त्वदीयाः ।।५७।।
यथाऽत्र याने बहुमार्गगामिनि
सचेतनस्त्वं सुरथी प्रगच्छसि ।
त्वदात्मके दिव्यचिदम्बराऽनसि
तथैव यन्ताऽस्ति तमच्युतं स्मर ।।५८।।
इदं वपुर्गत्वरमेव ते च मे
पितुश्च तद्वद् गतमेव तत्पितुः ।
यथैवं भूतं सदृशं तु भाविन-
स्ततोलभस्वाऽङ्ग! वपुस्तु शाश्वतम् ।।५९।।
श्रीकृष्णनारायण! राधिकापते!
रमापते! माधव! पार्वतीपते! ।
लक्ष्मीपते! भक्तपते! प्रभापते!'
रटांग! यच्छाश्वतमाप्यसे तनुम् ।।1.393.६०।।
न तेऽस्ति निद्रा न च तेऽस्ति तन्द्रा
न तेऽस्ति माता न च मेऽस्तिपुत्रः ।
न तेऽस्ति बाल्यं न च मेऽस्ति वृद्धिः
क्रमाऽक्रमौ ब्रह्मणि ते न मे च ।।६ १ ।।
आत्मेति जानन्परमात्मसेवको
हृदाचिता वा मनसा च विज्ञया ।
आनन्दमग्नोऽनुभवेऽपरोक्षके
कार्ष्णं रसं चूषति तृप्तिमश्नुते ।।६ २।।
पृथ्व्यां यथा सन्ति सुदोलनांघ्रयो
दोलोपरिस्तंभगताः पटांघ्रयः ।
पटान्तराले चरणौ तव स्थितौ
स्वदन्तरे यच्चरणौ हि तं भज ।।६३।।
अमूर्तके मूर्त इव स्थितः प्रभुः
संरक्षको मोक्षद ईश्वरेश्वरः ।
स एव माता च पिता विशालदृग
विक्रान्तनामाऽपि स एव तं भज ।।६४।।
आत्माऽसि मुक्तोऽसि सदीश्वरोऽसि
ब्रह्माऽसि दिव्योऽसि सदासुखोऽसि ।
नरोऽसि नारायणरक्षितोऽसि
निजस्वरूपोऽसि भजाऽक्षरेशम् । ।६५ ।।
विद्विज्ञानमित्युक्तं क्रान्तं-क्रिया मता ततः ।
ज्ञानक्रियायुतश्चात्मा विक्रान्तं त्वं निजं वद ।।६६।।
वि-पक्षी तस्य वै पक्षौ संकल्पः शक्तिरित्यमू ।
संकल्पशक्तिपक्षाभ्यां क्रान्तस्त्वं स्वं निजं वद ।।६७।।
विश्च ज्ञानेन्द्रियं प्रोक्तं क्रं च कर्मेन्द्रियं तथा ।
तयोरन्तर्गतश्चात्मा विक्रान्तं त्वं निजं वद ।।६८।।
आत्मानं त्वं विजानीहि देहगेहविलक्षणम् ।
सच्चिदानन्दमेवेशं शोकस्त्वां न स्पृशेत् ततः ।।६९।।
इत्येवं प्रथमं पुत्रं बोधदानेन सा सती ।
मुक्तं कृतवती बाल्ये योगिराजं कृतार्थकम् ।।1.393.७० ।।
वर्धमानं सुतं नित्यं नवं नूत्नं प्रबोधनम् ।
आत्मज्ञानमयं माता ददात्युल्लापनादिषु ।।७१ ।।
निरहंकारतां प्राप्तो निर्ममत्वं च सर्वथा ।
आत्मबलं परं लेभे ज्ञानं लेभे च सन्मयम् ।।७२।।
माता सा जननी सैव यया बालोऽतिबोधितः ।
मुक्तिमार्गगतः स्याच्च बन्धाद्भवाच्च मुच्यते ।।७३।।
मातृभाषापरिबोधे त्वात्मबोधमवाप्तवान् ।
इत्थं मात्रा स तनयो जन्मप्रभतिबोधितः ।।७४।।
देहसौख्यातिगो जातो विरागो विषयाऽहतः ।
यौवनेऽपि न रागात्मा द्वेषश्चास्य न कुत्रचित्। ।।७५।।
स्त्रीपुंभावे कुणपेऽत्राऽनित्ये दुःखे विनाशिनि ।
भोगबुद्धिरनुत्पन्ना ब्राह्मरूपेण वर्तिनः ।।७६ ।।
रूपं रसं तथा गन्धं स्पर्शं च श्रवणं तथा ।
अनात्मीयं परं मत्वा न बबन्धापि तत्र वै ।।७७।।
काये पुष्टे बले जाते बलं पाषाणवन्मतम् ।
इन्द्रियाणां गोलकानि कोष्ठलानीव मन्यते ।।७८।।
एवं रागविहीनः स निर्द्वन्द्वः स्वस्वरूपवान् ।
चकार न मतिं प्राज्ञो गार्हस्थ्यं प्रति निर्ममः ।।७९।।
स्वशरीरेऽनहंकारो राज्येऽहंकारवर्जितः ।
क्षेत्रे हस्तिनि याने च वाहने राष्ट्रके तथा ।।1.393.८० ।।
स्नेहभावविहीनोऽसौ बन्धनं नाऽऽप्तवान् किल ।
दासेषु भृत्यवर्गेषु दासीषु नगरीष्वपि ।।८ १ ।।
भवनेषु वस्त्रभूषाऽतिभोग्यवस्तुकेष्वपि ।
न वै चक्रे मनः किञ्चिन्मुक्तवर्यो यथाऽभवत् ।।८२।।
भोजने रमणे पाने खाद्ये जैह्व्येऽपि सर्वथा ।
रसास्वादविहीनोऽसौ यतिराडिव लक्ष्यते ।।।८३ ।।
रत्नहारादिभूषासु गन्धसुगन्धिवस्तुषु ।
द्रवद्रव्येषु तैलादौ कज्जलादौ विरागवान् ।।८४।।
प्रदर्शनेषु मल्लानां क्रीडासु वारयोषिताम् ।
गीतिषु नर्तकीनां च नृत्येषु विमना इव ।।।।८५।।।
राज्ञां समाजे चोत्साहे प्रजोत्सवेषु केलिषु ।
अरण्यादिप्रवासेऽपि मृगयादौ विरागवान् ।।८६ ।।
दण्डदानेषु हिंस्रेषु कर्मसु व्याहृतौ तथा ।
व्यवहारेषु च क्रूरनिर्दयेषु विरागवान् ।।८७।।
ब्रह्मचर्ये तथा शौचे सन्तोषे तपसि ध्रुवे ।
स्वाध्याये देवपूजायां सदा प्रोत्साहवानभूत् ।।८८।।
सत्ये सर्वविधे मौने चाऽस्तेये मानसे बहिः ।
अपरिग्रहणे चापि धैर्ये कामादिवर्जने ।।८९।।
गुरोः प्रसेवने पित्रोः सेवने वृद्धमानने ।
अतिथिस्वागते भक्तदर्शने मुक्त एव सः ।।1.393.९०।।
श्रद्धालुः सर्वदा चास्ते सर्वथा चास्तिकः कृतिः ।
विवेकी च विमोकाढ्यो ब्रह्माभ्यासपरः सदा ।।९१ ।।
सतां सेवापरश्चापि सदा हरिक्रियापरः ।
कल्याणकृत्प्राणिनां च हर्षोद्वेजनवर्जितः ।।९२।।
एवं सनकतुल्यः स व्यजायत शिशुत्वतः ।
दृष्ट्वा सुतं महामुक्तं वैष्णवं परमं समम् ।।९३ ।।
माता चातीव जहृषे पिताऽप्यानन्दवानभूत् ।
प्रजा भृत्यास्तथा चान्ये मेनिरे देवमेव तम् ।।९४।।
अणिमा महिमा त्वस्य गरिमा लघिमा तथा ।
प्राप्तिः कामावसाना च वशितेशित्वरूपिणी ।।९५।।
शब्दऊहश्चाध्ययनं दुःखनाशास्त्रयस्तथा ।
सुहृत्प्राप्तिर्ज्ञानदानं तथा तारा सुतारिका ।।९६।।
सर्वा आसन् पादयोश्च सिद्धः सः परमो ह्यभूत्। ।
अप्रतिहतकामः स मुक्तो बभौ सुजातवत् ।।९७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये पाताले कृतध्वजस्य मदालसालग्नितस्य पितृराज्यं प्रत्यागमनं, विक्रमाख्यपुत्रजन्म, तस्मै मदालसाकृतविवेकोपदेश इत्यादिनिरूपणनामा त्रिनवत्यधिकत्रिशततमोऽध्यायः ।। ३९३ ।।