लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३९२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३९२
[[लेखकः :|]]
अध्यायः ३९३ →

श्रीनारायण उवाच-
आकर्णय महापद्मे लक्ष्मि! पापविनाशिनीम् ।
कथां शान्तिकरीं रम्यां शृण्वतां मोक्षकारिणीम् ।। १ ।।
पूर्वे युगे महावीर्यः शत्रुजिन्नामभूपतिः ।
बभूव यज्ञकृत् यत्र तुष्टा देवाः सवासवाः ।। २ ।।
तस्य पुत्रो महावीर्यो बभूव देववीर्यवान् ।
ऋतध्वज इतिख्यातो व्योमचारी स योगिराट् ।। ३ ।।
सिद्धिभिः सेवितः शश्वद्विज्ञानगुणसागरः ।
यस्य नाऽविदितं किञ्चित् पाण्डित्यं सर्वतोऽधिकम् ।। ४ ।।
तस्य कीर्तिं परां श्रुत्वा चतुर्दशस्तराऽधिपाः ।
ऋषयो मुनयो नागा आयान्ति दर्शनाय वै ।। ५ ।।
कस्यचित्त्वथ कालस्य नागलोकान्महीतलम् ।
कुमारावागतौ नागौ पुत्रावश्वतरस्य तु ।। ६ ।।
ब्रह्मरूपप्रतिच्छन्नौ तरुणौ प्रियदर्शनौ ।
दर्शनं सत्कृतिं कृत्वा ययतुश्चागतौ पुनः ।। ७ ।।
एवं नित्यं बहुप्रीत्याऽऽययतुर्ययतुः सदा ।
स च ताभ्यां नृपसुतः परमानन्दमाप्तवान् ।। ८ ।।
विना ताभ्यां न बुभुजे न सस्नौ न पपौ मधु ।
न रराम न जग्राह किञ्चित्ताभ्यां विना सुतः ।। ९ ।।
अपि तौ बहुलं कालं कुमाराग्रे हि निन्यतुः ।
एकदा तत्र पाताले पिता तौ नागबालकौ ।। 1.392.१ ०।।
पप्रच्छ मर्त्यलोके नौ मित्रता केन वर्तते ।
यत्र युवां बहुकालं यापयथः सुपुत्रकौ ।। ११ ।।
तावूचतुः शत्रुजितः पुत्रो नाम्ना ऋतध्वजः ।
रूपवानार्जवोपेतो विद्वान्मैत्रो गुणाकरः ।। १ २।।
प्रभोर्भक्तश्चातिथेयस्तेन चोपहृतं मनः ।
तद्वियोगेन नौस्तात! न सुखं जायतेऽत्र वै ।। १ ३।।
पिता प्राह स धन्योऽस्ति यस्यैवं गुणकीर्तनम् ।
परोक्षस्यापि गुणिभिः क्रियते धन्यजीवनम् ।। १४।।
यस्य मित्रगुणान् मित्राण्यमित्राणि पराक्रमम् ।
कथयन्ति सभादौ वै पुत्रवाँस्तेन वै पिता ।।१५।।
तस्य निष्पादितं पुत्रौ किञ्चित्तोषाय चेतसः ।
मद्गृहे यत्सुवर्णादि रत्नं वाहनमासनम् ।। १६।।
यत्त्वन्यत् प्रीतये तस्य तद्देयमविशंकया ।
उपकारकृतो देवास्तस्येच्छन्ति सदोन्नतिम् ।। १७।।
आहतुश्च सुतौ तात! यानि रत्नानि तद्गृहे ।
वाहनासनयानानि भूषणान्यम्बराणि च ।। १८।।
तानि सन्ति न त्रैलोक्ये ज्ञानं नान्यत्र तत्समम् ।
एकं तस्यास्ति कर्तव्यं तत्त्वसाध्यं प्रभुं विना ।। १ ९।।
पिता प्राह किमसाध्यं दुर्लभं व्यवसायिनः ।
उद्यतानां न त्वगम्यं नाऽप्राप्यं दिवि चेह वा ।।1.392.२० ।।
तस्मात् कथयत पुत्राववगच्छाम्यसाध्यकम् ।
प्राहतुः पितरं पुत्रौ कदाचिद् गालवो द्विजः ।।२१ ।।
समाययौ शत्रुजितं गृहीत्वा तुरगोत्तमम् ।
प्राहाश्रमे मम कश्चिद् दैत्यः खादति प्राणिनः ।।२२।।
तथा करोति विघ्नानि ध्याने मौने च मेऽपि सः ।
भस्मीकरोमि कोपेन यदि तर्हि तपःक्षयः ।।२३ ।।
राज्ञा तस्माद्धि दैत्यानां नाशः कार्यो हि धर्मतः ।
एकदा स मया राजन् दैत्यं निरीक्ष्य दुःखतः ।।२४।।
निःश्वासः प्रहितस्तावद्व्योम्नश्चायं तुरंगमः ।
सूर्येण प्रेषितश्चायात् त्रैलोक्याऽहतसञ्चरः ।।२५ ।।
पर्वतेषु समुद्रेषु पातालेष्वनलेषु च ।
नित्यं भूवलयं सर्वमश्रान्तोऽयं चरिष्यति ।।२६ ।।
अतः कुवलयो नाम्ना ख्यातिं लोके गमिष्यति ।
दैत्यं चैनं समारुह्य ऋतध्वजो हनिष्यति ।।२७।।
पुत्रमाज्ञापय राजन् यथा धर्मो न लुप्यते ।
स तस्य वचनाद् राजा तं वै पुत्रमृतध्वजम् ।।२८ ।।
तमश्वरत्नमारोप्य कृतकौतुकमंगलम् ।
अप्रेषयत् मुनिना सह मुन्याश्रमं ययौ ।।२९।।
ऋतध्वजश्च विघ्नानि नाशयामास चाश्रमे ।
दैत्यः स शौकरं रूपं धृत्वा धर्षयितुमृषिम् ।।1.392.३ ० ।।
आगतस्त समालक्ष्य शीघ्रमारुह्य तं हयम् ।
अन्वधावद् वराहं तं ऋतध्वजः शरासनी ।।३ १ ।।
बाणाहतो मृगो धावन् प्रविवेश महाटवीम् ।
त्रस्तः पपात विवरे तिमिरौघसमाकुले ।।३२।।
तमनु राजपुत्रोऽपि हन्तुं पपात वाजियुक् ।
वराहोऽदृश्यतां प्राप्तो राजपुत्रस्तु शोभितम् ।।३३ ।।
पाताले समपश्यद्वै सौवर्णसौधसंकुलम् ।
सप्राकारं पुरं रिक्तमपश्यत्तद् विवेश सः ।।३४।।
तत्र योषिद्वरा दृष्टा सा तं निन्ये गृहान्तरम् ।
तस्मै भवनभूमौ वै पर्यंके सर्वकांचने ।।३५।।
दर्शयामास युवतीं कन्यां पीनपयोधराम् ।
बिम्बाधरौष्ठीं तन्वंगीं नीलोत्पलविलोचनाम् ।।३६ ।।
रक्ततुंगनखीं मृद्वीं स्वर्णवर्णां शुभालकाम् ।
सा बालापि राजसुतं दृष्ट्वा शोभान्वितं तदा ।।३७।।
मुमोह क्षोभमाप्ता सा समैच्छन्नृपतिं पतिम् ।
ऋतध्वजेन संपृष्टा वृत्तान्तं नैजमाह सा ।।३८।।
विश्वावसुरिति ख्यातो दिवि गन्धर्वराजकः ।
तस्याऽहमात्मजा राजन् नाम्ना ख्याता मदालसा ।।३९।।
पतिव्रता पतिप्राणा पत्यर्थं सर्वदा स्थिता ।
प्रतीक्षे मत्पतिं प्राणसमं योग्यं हि मानवम् ।।1.392.४० ।।
अहमुद्यानगा चाऽसं पुष्पार्थं तावदेव माम् ।
पातालकेतुर्दनुजोऽपहृत्य नीतवानिह ।।४१ ।।
आगामिन्यां त्रयोदश्यां मत्पाणिग्रहणाय सः ।
समुद्यतोऽस्ति तं राजन् वाराहरूपमाश्रितम् ।।४२।।
केनापि विद्धं बाणैश्च मुनीनां त्राणकारणात् ।
प्रच्छन्नं वर्तमानं तं हत्वा मां नय भूपते ।।४३ ।।
कस्त्वं कोऽसि वद शीघ्रं ज्ञातोऽपि तु विशेषतः ।
स्वीयवृत्तप्रकाशेन प्रेमपात्रं भविष्यसि ।।४४।।
देवो दैत्यो नु गन्धर्वः पन्नगः किन्नरोऽपि वा ।
तत् त्वमाख्याहि यावद्वै यथा मेऽवितथं मनः ।।४५।।
ततः प्रसन्नः कुवलयाश्वः ऋतध्वजो जगौ ।
राज्ञः शत्रुजितः पुत्रो गालवाश्रममागतः ।।४६ ।।
शौकररूपदैत्यस्य मन्नाराचहतस्य च ।
पृष्ठं प्रधाव्य गर्तेऽत्र पाताले पतितोऽस्म्यहम् ।। ४७।।
ऋतध्वजोऽस्मि नाम्नाहं कुवलयाश्व इत्यपि ।
इत्येतत् कथितं वृत्तं न देवोऽहं न दानवः ।।४८।।
न पन्नगो न गन्धर्वः किन्नरो न शुचिस्मिते! ।
मनुष्योऽस्मि तव रक्षां करिष्ये दैत्यतः प्रिये! ।।४९।।
इत्याश्रुत्य तु कन्या सा प्रहृष्टा पुलकाञ्चिता ।
यदर्थं निर्मिता चाऽहं सोऽयं प्राप्तो मुमोद सा ।।1.392.५० ।।
प्राह चैनं हृदयं मे त्वयि स्थैर्यं प्रपश्यति ।
जातिस्मराप्यऽहं राजँस्तवैवाऽस्मि स्मरामि च ।।५१ ।।
चन्द्रमेवोपैति कान्तिः समुपैति रविं प्रभा ।
भूतिर्धन्यं धृतिर्धीरं क्षान्तिरभ्येति सज्जनम् ।।५२।।
गृहाण मां प्रियां कान्त! शीघ्रं नाशय राक्षसम् ।
ऋतध्वजस्तदा प्राह परवानहमस्मि वै ।।५३ ।।
किं करोमि विनाऽऽज्ञां तु पित्रोर्नाऽस्मि तथाक्रियः ।
सती मदालसा प्राह साधयामि पितुर्वचः ।।५४।।
इत्युक्त्वा सा जलं नीत्वा करे सस्मार तुम्बुरुम् ।
तुम्बुरुर्द्राक् समायातो नत्वा प्राह सतीं कुतः ।।५५।।
स्मृतोऽहं वद् देवेशि! साधयामि क्षणेन तत् ।
मदालसा कुलगुरुं तुम्बुरुमवदद् गुरो! ।।५६ ।।
तूर्णं याहि शत्रुजितं निवेदय मदालसाम् ।
ऋतध्वजं पतिं कर्तुं समिच्छत्यनुमोदय ।।५७।।
तुम्बरुर्व्योममार्गेण त्वन्तर्धानाख्यविद्यया ।
शत्रुजितं प्रति गत्वा विनिवेद्य ह्युदन्तकम् ।।५८।।
आज्ञां तस्य समागृह्य प्रगृहीतसमित्कुशः ।
मदालसायाः सम्प्रीत्या प्राप्तस्तत्र पुनः क्षणात् ।।५ ९ ।।
प्रज्वाल्य पावकं हुत्वा मन्त्रवित् कृतमंगलाम् ।
कन्यां विवाहविधिना ददौ ऋतुध्वजाय सः ।।1.392.६ ०।।
जगाम तपसे तुम्बुरुर्मुनिः स्वाश्रमं पुनः ।
कन्याऽऽह तां स्त्रियं शान्तां कृतार्थाऽस्मि वरानने! ।।६ १ ।।
आज्ञापय च मां मातर्गन्तुं पत्युर्गृहं प्रति ।
कुण्डला सा तदोवाच कृतार्था स्याः पतिव्रते! ।।६२।।
तीर्थाऽम्बुधूतपापाऽपि भवित्री नेदृशी यथा ।
संयुक्ताऽनेन संपूता जाता संसारतारिणी ।।६३ ।।
कथयाम्यथ नौ किञ्चत् स्नेहभारप्रणोदिता ।
भर्तव्या रक्षितव्या च भार्या हि पतिना सदा ।।६४।।
धर्मार्थकामसंसिद्ध्यै भार्या भर्तृसहायिनी ।
यत्र भार्या च भर्ता च मिथोमिथोऽनुवर्तिनौ ।।६५।।
तत्र धर्मार्थकामानां मोक्षस्याऽप्यस्ति संगतिः ।
भार्या तथैव भर्तारमृते धर्मादिसाधने ।।६६ ।।
मोक्षार्थे वा दिवि सत्ये वैराजे वा भुवस्तले ।
न समर्था यतो धर्मचतुष्टयमुभाश्रितम् ।।६७।।
देवतापितृभृत्यानामतिथीनां च पूजनम् ।
नैकेन शक्यते कर्तुं दाम्पत्यं तत्र कारणम् ।।६८।।
प्राप्तोऽपि चार्थो मनुजैरानीतोऽपि निजं गृहम् ।
क्षयमेति विना भार्या कुभार्यासंश्रयेऽपि वा ।।६९।।
एतन्मयोक्तं युवयोर्दाम्पत्यं शाश्वतं तथा ।
वर्धतामनया सार्धं धनपुत्रसुखायुषा ।।1.392.७० ।।
त्वं तु कन्ये! मदालसे! त्यक्त्वा पत्युर्मदालसा ।
भवाऽनेन च कान्तेन सार्धं स्वर्गाद् गरीयसी ।।७१ ।।
इत्युक्त्वा विररामैव ऋतध्वजो मदालसा ।
कुण्डलां तां परिष्वज्य समारुह्य तुरंगमम् ।।७२।।
उत्पपाताऽम्बरमार्गे दैत्या दृष्ट्वा विचुक्रुशुः ।
कन्यारत्नं यदानीतं ह्रियते ह्रियते दिवम् ।।७३ ।।
तिष्ठ तिष्ठेति जल्पन्तो ववृषुः शरजालकम् ।
ऋतध्वजोऽपि चिच्छेद शरजालं तु लीलया ।।७४।।
ततोऽस्त्रं त्वाष्ट्रमादाय चिक्षेप प्रति दानवान् ।
तेन ते दानवाः सर्वे स्फुटदस्थिचयाः कृताः ।।७५।।
स्त्रीरत्नेन सह तूर्णं समागच्छत् स्वकं पुरम् ।
प्रणिपत्य च तत्सर्वं स स्वपित्रे न्यवेदयत् ।।७६।।
पिता श्रुत्वाऽऽह तं प्रेम्णा परिष्वज्य सुपुत्रकम् ।
सत्पुत्रेण त्वया पुत्र! तारितोऽहं महात्मना ।।७७।।
भयेभ्यो मुनयस्त्राताः कन्याऽपि रक्षिताऽऽहृता ।
यदुपात्तं यशः पित्रा धनं वीर्यमथाऽपरम् ।।७८।।
तद्वीर्यादधिकं कुर्याद् वर्धयेद् यस्तु शक्तिमान् ।
नवं निष्पादयत्येनं प्रवदन्ति नरोत्तमम् ।।७९।।
तद्धन्योऽस्मीदृशं पुत्रं प्राप्याह पुण्यशालिनाम् ।
सुश्लाघ्योऽस्म्यद्य संजातस्त्वया सद्धर्मशालिना ।।1.392.८०।।
यः स्वपराक्रमैर्हीनः प्रज्ञादानवृषादिभिः ।
धिग्जन्म तस्य यः पित्रा लोके विज्ञायते जनः ।।८१ ।।
आत्मना ख्यातिमान् श्रेष्ठो मध्यः पितृपितामहैः ।
मातृपक्षेण मात्रा च ख्यातिमेति नराधमः ।।८२।।
तत्पुत्र! धनवीर्यैस्त्वं विवर्धस्व सुखेन तु ।
गन्धर्वतनया चेयं मा त्वया वै वियुज्यताम् ।।८३।।
इति पित्रा च मात्रा च प्रियमुक्तं पुनः पुनः ।
गालवेनर्षिणा चापि ह्याशीर्वादाः समर्पिताः ।।८४।।
पुत्रश्च भार्यया सार्धं राज्यधर्मान् गृहाश्रमम् ।
पालयन् वर्धयन् स्नेहं रेमे साध्व्या समं सुखी ।।८५।।
श्वश्रूश्वशुरयोः पादौ प्रणिपत्य मदालसा ।
पतिव्रता सती रेमे जातिस्मरा स्वरक्षिणा ।।८६।।
एवं काले बहुतिथे गते राजा पुनः सुतम् ।
प्राह गच्छाशु विप्राणां त्राणाय चर मेदिनीम् ।।८७।।
अश्वमेनं समारुह्य भ्रमणं कुरु मण्डले ।
दुर्वृत्तेभ्यो दानवेभ्यो मुनीनां च सतामपि ।।८८।।
न स्याद् बाधा यथा पुत्र! रक्षणं त्वं तथा कुरु ।
स तु पित्रुक्तरीत्यैव चचार मेदिनीं मुहुः ।।८९।।
यमुनायास्तटे दैत्यं तालकेतुं ददर्श सः ।
वाराहरूपदैत्यस्याऽनुजं मुनिस्वरूपिणम् ।।1.392.९०।।
स दैत्यः प्राह तं तत्र पूर्ववैरमनुस्मरन् ।
राजपुत्र! मुनिश्चास्मि यक्ष्ये यज्ञेन तत्र च ।।९ १ ।।
हिरण्यं देहि मे कण्ठभूषणं तव यद्वरम् ।
रक्ष ममाऽऽश्रमं चेमं यावदन्तर्जलेऽप्यहम् ।।९२।।
वरुणं वैदिकैर्मन्त्रैरभिष्टूयैमि चाश्रमम् ।
इत्युक्तवते मुनये सः प्रादात् कण्ठभूषणम् ।।९३ ।।
प्राह स्थास्याम्यत्र तावद् यावदागमनं तव ।
इत्युक्तः सः कपटर्षिर्दैत्यो ममज्ज वारिणि ।।९४।।
मदालसायाः प्रत्यक्षमुद्गतश्चोक्तवान् रुदन् ।
वीरः कुवलयाश्वः स ममाश्रमसमीपतः ।।९५।।
केनापि दुष्टदैत्येन भिन्नः शूलेन वक्षसि ।
मृतो ददौ तु मे कण्ठभूषणं भस्मितः स च ।।९६ ।।
अश्वं जहार दैत्यः सः सर्वं मयाऽवलोकितम् ।
गृहाण देवि! ते भूषां क्रियतां चोत्तरक्रियाम् ।।९७।।
इत्युक्त्वोत्सृज्य तद्भूमौ स जगाम यथागतम् ।
मदालसा तथान्ये च श्रुत्वा चक्रुर्विलापनम् ।।९८।।
निर्गम्य च बहिःस्नाता ददुः पुत्राय वार्यपि ।
पतिव्रता तु सञ्चिन्त्य विना पतिममंगलाम् ।।९९।।
कृत्वा समाधिं हृद्ये वह्निमुत्पाद्य चान्तरम् ।
शरीरं विलयीकृत्य स्वर्गं याता हि सुन्दरी ।। 1.392.१०० ।।
विचिन्वाना पतिं नैजं नाऽवाप तत्र सा ततः ।
यमराजं प्रति गत्वा पप्रच्छ क्वाऽस्ति मे पतिः ।। १०१ ।।
धर्मराजस्तदा प्राह जीवितोऽस्ति यमीतटे ।
तव संजीवनार्थं च पाताले त्वत्पतिप्रियः ।। १ ०२।।
सुहृन्नागस्तपश्चर्यां करोति शंकरोपरि ।
तावददृश्यरूपा त्वं मम धर्मालये वस ।। १०३ ।।
इति सा चोषिता धर्मभवने चात्र भूतले ।
तालकेतुः स दैत्यस्तु निर्गत्य यमुनाजलात् ।। १ ०४।।
राजपुत्रं समुवाच कृतार्थोऽहं त्वया कृतः ।
गच्छ गृहमिदानीं त्वमिति श्रुत्वा स तं ऋषिम् ।। १ ०५।।
प्रणिपत्य समारुह्य त्वश्वं प्रायात् पुरं स्वकम् ।
जनान् ददर्शोद्विग्नान् प्राक् प्रहृष्टास्याँस्ततः पुनः ।। १ ०६।।
अहो विघ्नं गतं त्वस्य विद्यते जीववानयम् ।
मृत्युवार्ता मृषा जाता चिरं जीव कुमारक! ।। १ ०७।।
इति श्रुत्वा पौरवाचः प्रविवेश पितुर्गृहम् ।
मुमुदिरे पिता माता बान्धवाः सुहृदो जनाः ।। १ ०८।।
मदालसामनादृष्ट्वा पप्रच्छ पितरं सुतः ।
ज्ञात्वा वृत्तान्तमघटं शुशोच क्षणमेव सः ।।१ ०९।।
पुनः स चिन्तयामास परिसंस्तभ्य मानसम् ।
मृतेति सा मन्निमित्तं त्यजामि यदि जीवितम् ।। 1.392.११ ०।।
किं मयोपकृतं पत्न्या पतिना पारलौकिकम् ।
अतोऽत्र मन्ये कर्तव्यस्त्यागो भोगस्य योषितः ।। १११ ।।
तस्या मुक्तिर्यथा स्याद्वै तत्कर्तव्यं जपादिकम् ।
अन्या भार्या न कर्तव्या ब्रह्मचर्यधृता मया ।। १ १२।।
यदि मदालसा नात्र भार्या मेऽस्ति ततो ध्रुवम् ।
अन्यायाश्च पतिर्नास्ति पत्नीव्रतः ऋतध्वज ।। ११ ३।।
तामृते मृगशावाक्षीं गन्धर्वतनयामहम् ।
न भोक्ष्ये योषितं काचिदिति सत्यं वदाम्यहम् ।। १ १४।।
सद्धर्मचारिणीं पत्नीं तां मुक्त्वाऽऽहं पतिव्रताम् ।
कांचिन्नांगीकरिष्यामीत्येतत् सत्यं वदाम्यहम् ।। १ १५।।
इति श्रुत्वा पुत्रयोश्च वचनं नागराट् स्वयम् ।
तपश्चर्यां परां कृत्वा वरं प्राप्य च शंकरात् ।। १ १६।।
ऋतध्वजाय दातव्या पुना राज्ञी मदालसा ।
यत्र सृष्टौ तु सा त्वास्ते तस्मादादाय सर्वथा ।।१ १७।।
इति प्रतिज्ञां कृतवान् पुत्रावापृच्छ्य वै ततः ।
तीर्थं हिमवतो गत्वा तपस्तेपे सुदारुणम् ।। १ १८।।
अश्वतरः स नागेन्द्रस्तुष्टाव तपसा हरम् ।
प्रातर्निशायां मध्याह्ने सन्ध्ययोश्चापि तत्परः ।। ११ ९।।
तस्य कालेन महता प्राहेशो गृह्यतां वरः ।
प्रणम्याऽश्वतरः प्राह वरमेनं प्रयच्छ मे ।। 1.392.१ २०।।
मृता कुवलयाऽश्वस्य पत्नी साध्वी मदालसा ।
तेनैव वयसा सद्यो दुहितृत्वं प्रयातु मे ।। १२१ ।।
जातिस्मरा यथापूर्वं तद्वत्कान्तिसमन्विता ।
योगिनी योगमाता च मद्गेहे जायतां सती ।।१२२।।
हरः प्राह तथाऽस्त्वेतत् सर्वं ते वै भविष्यति ।
मत्प्रसादादसन्दिग्धं श्राद्धं कुरु तदिच्छया ।। १२३।।
भक्षयेथाः प्रसादं च ततस्ते मध्यमात् फणात् ।
समुत्पत्स्यति कल्याणी पतिधर्मा मदालसा ।।१ २४।।
सा तु साध्वी धर्मराजभवनेऽद्य विराजते ।
प्रतीक्षते पुनर्जन्म जातिस्मरं पतिं पुनः ।। १ २५।।
सा च ते भाविनी पुत्री ऋतध्वजस्य कामिनी ।
इत्युक्त्वा शंकरस्तत्र तिरोदधेऽथ सर्पराट् ।। १२६ ।।
रसातले गृहं गत्वा चकार श्राद्धमर्पितम् ।
पिण्डं च मध्यमं तद्वद् यथावदुपभुक्तवान् ।। १२७।।
तावत्तां धर्मराजोऽपि प्राह गच्छ रसातलम् ।
तत्राऽश्वतरनागेशः स्मरत्येव सुपुत्रिकाम् ।।१ २८।।
भव दिव्या मनोजन्या जातमात्रा सुयौवना ।
वरारोहा सुकन्या चाऽऽप्नुहि स्वेष्टमृतध्वजम् ।। १२९।।
इत्युक्ता श्राद्धतः पश्चात् साऽऽगता च जनिं गता ।
शुशुभे द्व्यष्टवर्षावद्यथापूर्वा हि सुन्दरी ।। 1.392.१३०।।
प्रतीक्षते तु सा कान्तं त्र्यवस्थासु मदालसा ।
तदा स नागराडश्वतरः प्राह स्वपुत्रकौ ।। १३१ ।।
स राजपुत्रो युवयोरुपकारी ममान्तिकम् ।
कस्मान्नानीयते वत्सौ दृष्टव्योऽस्ति ममाऽपि सः ।। १ ३२।।
एवमुक्तौ सुतौ गत्वा कृत्वा किञ्चित्कथान्तरम् ।
अब्रूतां प्रणयोपेतं स्वगेहगमनं प्रति ।। १३३।।
ऋतध्वजः स्वकं मत्वा समुत्थाय वरासनात् ।
पितरं पादयोर्नत्वा ययौ नागपुरं सह ।। १३४।।
ताभ्यां नागकुमाराभ्यां नगरी दर्शिता शुभा ।
कुमारैस्तरुणैर्वृद्धैरुरगैर्दिव्यवर्ष्मभिः ।। १ ३५।।
मोहकृन्नागकन्याभिः क्रीडन्तीभिः सुशोभिता ।
ततः ऋतध्वजस्ताभ्यां प्रविवेश निवेशनम् ।। १ ३६।।
ददर्श मित्रपितरं मणिकुण्डलधारिणम् ।
दिव्यमालाम्बरभूषं सुरूपं दिव्यदेववत् ।। १ ३७।।
स्वच्छमुक्ताफललताहारिहारोपशोभितम् ।
केयूरिणं महाश्रेष्ठासने सर्वसुकाञ्चने ।। १ ३८।।
मणिविद्रुमवैडूर्यजालान्तरितरूपके ।
समासीनं सुपुत्राभ्यां ऋतध्वजाय दर्शितम् ।। १३९।।
राजपुत्रो ननामैनं मित्रयोः पितरं मुहुः ।
राजपुत्रं बलाद्गाढ नागेन्द्रः परिषस्वजे ।। 1.392.१४०।।
मूर्ध्नि चैनमुपाघ्राय चिरं जीवेत्युवाच सः ।
निहताऽमित्रवर्गश्च पित्रोः शुश्रूषणं कुरु ।। १४१ ।।
वत्स धन्यस्य कथ्यन्ते मत्पुत्राभ्यां तु ते गुणाः ।
जीवितं गुणिनः श्लाघ्यं जीवन्नेव मृतोऽगुणः ।। १४२।।
देवताः पितरो विप्रा मित्रार्थिबान्धवाऽहिताः ।
स्वेपरेऽन्ये तथेच्छन्ति जीवितं गुणिनश्चिरम् ।। १४३ ।।
परिवादनिवृत्तानां दुर्गतेषु दयावताम् ।
गुणिनां सफलं जन्म त्वादृशानां नृपात्मज! ।। १४४।।
एवमुक्त्वा स्नापयित्वा शृंगारयित्वा भावतः ।
मधुपानादिसंभोगान् दापयित्वाऽदनं तथा ।। १४५।।
तर्पयित्वाऽन्नपेयाद्यैर्विश्रान्तिशयनं ददौ ।
सेवार्थं नागकन्याश्च प्रेषयामास नागराट् ।। १४६ ।।
परिश्रान्तोऽथ नृपजः सुष्वाप सुखनिद्रया ।
सेवयामासुरत्यर्थं कन्याः संवाहनादिभिः ।। १४७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये शत्रुजित्पुत्रस्य ऋतध्वजस्य अश्वतरनागपुत्राभ्यां मित्रता, दैविवाजिप्राप्तिः, गालवाश्रमे विघ्नकर्तारं दैत्यं हन्तुं पाताले प्रवेशः, स तत्र नगरे मदालसामपश्यत्, पातालकेतुं दैत्यं जघान, मदालसामुद्वहत्, तुम्बुरुं कुण्डलां
चापृच्छ्य स्वगृहागमनम्, यमुनातटे तालकेतुं कपटिनं जघान, मदालसामरणम्, कुमारतपश्चर्या, मदालसाया अश्वतरगृहेऽवतरणम्, ऋतध्वजमाहूय पुनर्मदालसादानमित्यादिनिरूपणनामा द्वानवत्यधिकत्रिशततमोऽध्यायः ।।३ ९२।।