लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३९१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३९१
[[लेखकः :|]]
अध्यायः ३९२ →

श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पतिसेवाचमत्कृतिम् ।
यच्छ्रुत्वा संशयाः पतिव्रतानां यान्ति वै लयम् ।। १ ।।
पतिः कृष्णस्वरूपोऽस्ति श्रीकृष्णः पतिरूपतः ।
वर्तते सर्वथा पत्न्याः कल्याणार्थं हरिः स्वयम् ।। २ ।।
पतिः प्राकृतजनवत् करोति विविधां क्रियाम् ।
तथापि पुण्यरूपा सा पतिव्रताकृते मता ।। ३ ।।
पतिव्रतायास्तत्रैव श्रेयः परं हि वर्तते ।
यथा यत्र प्रसन्नः स्यादधर्मोऽपि वृषः सहि ।। ४ ।।
भर्तुः प्रीतिकरं कुर्यात् सदा पत्नी पतिव्रता ।
महाप्रीतिमवाप्नोति भर्त्रा सह तथाकरी ।। ५ ।।
यद् देवेभ्यो यत्पितृभ्योऽतिथिभ्यो यद् यदात्मने ।
तत्सर्वं स्वामिनश्चार्थे विदध्याद्वै पतिव्रता ।। ६ ।।
कृतस्याऽर्धं सती भुंक्ते भर्तृशुश्रूषयैव सा ।
भर्तृपुण्यं सदा भुंक्ते भर्तृलोके वसेच्चिरम् ।। ७ ।।
यावदादित्यचन्द्रौ च तावद्देवोपमा दिवि ।
अत्र तत्र महासौख्यानन्दमग्ना भवेत् सती ।। ८ ।।
पतिव्रताया ब्राह्मण्याः पतिसेवां वदाम्यहम् ।
कौशिकाख्यो ब्राह्मणो वै वेदकर्मविशारदः ।। ९ ।।
प्रतिष्ठानपुरे त्वासीद् युवा रूपगुणालयः ।
कथाख्यानपरश्चापि बहुशिष्यप्रशिष्यकः ।। 1.391.१० ।।
धर्मं करोति नित्यं सः पुण्यं दानं करोति च ।
षटकर्मनिरतश्चापि राजकार्यकरस्तथा ।। ११ ।।
अन्तःपुरे वधूवर्गे विश्वास्यो याति नित्यदा ।
राज्ञीनां बोधकर्ता च कन्यानां शिक्षकस्तथा ।। १ २।।
कलादाक्ष्यादिसंश्रेष्ठस्तत्त्वज्ञाने विशारदः ।
उत्सवेषु नृपाणां स राज्ञीनां याति मन्त्रणात्। ।। १ ३।।
राजजन्माहसंसत्सु विप्रो याति निमन्त्रणात् ।
नर्तक्यो यत्र विविधा वादयित्र्यश्च गायिकाः ।। १४।।
देवीसमाः स्वर्णवर्णा द्व्यष्टवर्षाः सुसत्कृताः ।
राज्ञाऽऽदिष्टाः प्रगायन्ति नृत्यन्ति वादयन्ति च ।। १५।।
संगो हि बलवान् लक्ष्मि! यस्य संगः प्रजायते ।
तद्रंगरञ्जितं व्यक्तेर्मानसं स्फटिकादिवत् ।। १६।।
जायते दर्शनं यादृक् तादृगिच्छा प्रवर्तते ।
प्रवृत्तिर्भोग्यलब्धौ च मोहितस्य प्रजायते ।। १७।।
पुरा सुसंस्कृता बुद्धिर्मोहाविष्टा तु कल्मषा ।
अतृप्तस्य सतृष्णस्य जायते लब्धिकिंकरी ।। १८।।
अस्य कौशिकविप्रस्य भार्याऽऽसीद्वै पतिव्रता ।
युवती सेविका शैब्या पत्याज्ञां पारमेश्वरीम् ।। १ ९।।
विधिश्रुतिं परां श्रेयस्करीं मत्वाऽनुवर्तते ।
पत्न्या सेविकया साध्व्या सुख्यभूत् स तथापि वै ।।1.391.२०।।
यदा राजसभां याति नृत्यगीतिविलासिताम् ।
तदा द्व्यष्टसमान्यूनाश्चन्द्रास्या गणिका द्विजः ।।।२ १ ।।
विलोक्य हावभावादिकर्त्रीः शृंगारशोभनाः ।
स्वर्णचम्पकवर्णाभाः कामनावान् बभूव सः ।।२२।।
तत्रैकां तनुशोभाढ्यां भोग्यां विप्रो ह्यकल्पयत् ।
अथाऽऽगतो गृहं दैवाज्ज्वरोगातिपरार्दितः ।।२३।।
असृग् जलात्मभावं वै देहे तस्य व्यजायत ।
चर्मकुष्ठं ततो जातं गलत्कुष्ठा नखास्तथा ।।२४।।
एवं रोगेण संक्लिष्टः स्मररोगेण चाधिकः ।
जाज्वल्यमानोहृदये निद्रां नाऽवाप वै पलम् ।।२५।।
सती पत्नी सुशीला सा सर्वभावेन सेवते ।
तं पतिं परमात्मानं मत्वा घृणां करोति न ।।२६।।
नित्यं प्रक्षालयत्युष्णसलिलेन नखादिकम् ।
स्नानं कारयति सम्यग् वस्त्राधानादिकं तथा ।।२७।।।
अत्रेः शिष्योऽभवद् विप्रः सुशीला तु पतिव्रता ।
अनसूयासुशिष्याऽभूज्ज्ञानधर्मादिसद्धना ।।२८।।
अतः सा स्वपतिं नित्यं देहेन मनसा धिया ।
कर्मणा वचसा साध्वी सन्तोषयति सेवया ।।२९।।
विप्रो निःश्वासमामुच्यैकदा प्रोवाच तां सतीम् ।
निद्रा मे न समायाति मानसं ज्वलते सदा ।।1.391.३ ०।।
यद्दिनाद् वै मया दृष्टा गणिका राजसंसदि ।
तां भोक्तुं मे समिच्छाऽस्ति वद पत्नि करोमि किम् ।।३ १ ।।
कामानलो हृद्ये मे ज्वलते गणिकाश्रयः ।
पादौ कुष्ठौ करौ वृक्णौ रुग्णोऽहं तां कथं लभे ।।३२ ।।
तां यदि प्रापय पत्नि! सद्गतिर्मे भविष्यति ।
अन्यथा वासनावत्त्वे निधनेऽधोगतिर्ध्रुवा ।।३ ३।।
इत्युक्ता सा सती साध्वी नत्वा पत्युः प्रपादयोः ।
अहो भाग्यमहोभाग्यं पत्युस्तोषं करोमि वै ।।३४।।
गणिकां प्राप्नुयात् स्वामी यथा तद्वै करोम्यहम् ।
पत्नी सद्भाग्ययुक्ता सा बोध्या पुण्यकरी तथा ।।३५।।
याऽऽदिष्टा स्वामिना तुष्ट्यै द्राक् तुष्टिं प्रददाति सा ।
यया स्वामी भवेत् तुष्टः सेवा सा नेतरा क्वचित् ।।३६।।
इत्युक्त्वा प्रययौ साध्वी पृष्ट्वा पतिं तु तद्गृहम् ।
गणिकां पादयोर्नत्वा प्राह साध्वी प्रियं कुरु ।।३७।।
मम पत्युरसि मान्या स्मरत्यहर्निशं स्वसः! ।
त्वामेव हृदये ध्यात्वा विप्रो निद्रां करोति न ।।३८।।
अहं ते किंकरी भूत्वा करिष्ये तेऽतिसेवनम् ।
रंजय मे पतिं श्रेष्ठे यदिच्छस्व ददाम्यहम् ।।३९।।
इत्युक्ता सा ब्राह्मणस्य पप्रच्छ नाम वै धनम् ।
सर्वमावेदितं तस्यै साध्व्या स गणिका तदा ।।1.391.४०।।
साध्वी प्राह प्ररुग्णस्य कथं संगं ददामि वै ।
तथापि धनलोभेन रञ्जयिष्ये पतिं तव ।।४१ ।।
देहि नित्यं शतं मुद्रा राजतीर्निशिथेऽत्र मे ।
गृहे त्वानीय शयने कुरु ते तु पतिं मम ।।४२।।
नित्यं कुष्ठाक्तवस्त्राणि कुष्ठहस्तौ तथेतरत् ।
त्वमेव क्षालय चेद्वै दास्ये कामक्रियां तदा ।।४३।।
देहि सुवर्णभूषाश्च कामभोगं करोतु सः ।
इत्यादिष्टा सती चातिप्रसन्नाऽभूत् हृदन्तरे ।।४४।।
तावद् द्रव्यं ददात्येव नीत्वा स्वस्कन्धयोः पतिम् ।
संयोजयति सुन्दर्येष्टया गणिकया समम् ।।४५।।
बहुभिर्वासरैः स्वामी तृप्तोऽभूत् कामदेवतः ।
पत्नीं प्राह सति! तेऽस्तु सतीलोकोऽत्र शाश्वतः।।४६ ।।
अद्याऽन्तिमनिशायां मां नीत्वा भोगं प्रकारय ।
पश्चात् तृप्तः सदा जातो नेच्छामि गणिकागृहम् ।।४७।।
इत्युक्ता सा सती भार्या स्कन्धे निधाय सत्पतिम् ।
रात्रावन्धतमोव्याप्तमार्गेण गणिकां ययौ ।।४८।।
तावन्मध्ये महद्विघ्नं समुत्पन्नं प्रिये! शृणु ।
माण्डव्याख्यो महर्षिर्वै रात्रौ वृक्षतले स्थितः ।।४९।।
तत्र तेनैव मार्गेण चोरा राजधनं बहु ।
चोरयित्वा निर्गतास्तान् राजभटाः समन्ततः ।।1.391.५०।।
बद्ध्वा राजगृहं निन्युर्माण्डव्यं जगृहुश्च ते ।
पथि शूले तदा प्रोतमचौरं चौरशंकया ।।५१ ।।
माण्डव्यं तं तथाविधं शूलमारोप्य किंकराः ।
गतवन्तो गृहं नैजं माण्डव्यो दुःखितोऽभवत् ।।५२।।
पतिव्रता सुशीलाऽथ स्कन्धयोः कौशिकं पतिम् ।
कृत्वा दुःखार्तमाण्डव्यशूलं स्पृष्ट्वा तमोमये ।।५३ ।।
मार्गे यावज्जगामाऽसौ तावत्स्कन्धगतः पतिः ।
माण्डव्यमतिदुःखार्तं चालयामास स द्विजः ।।५४।।
पादावमर्षणात् क्रुद्धो माण्डव्यस्तमुवाच ह ।
सूर्योदये मृतिस्तस्य येनाऽहं चालितः पदा ।।५५।।
तच्छ्रुत्वा प्राह तद्भार्या सूर्यो नोदयमेष्यति ।
यद्यहं स्यां पतिभक्तिमती स्वामिपरायणा ।।५६।।
पतिसेवाप्रपुण्येन सूर्यमार्गो निरुध्यताम् ।
एतया तु यथोक्तं वै तत्तथैव प्रवर्तितम् ।।५७।।
ततः सूर्यस्य वै चाश्वाः प्रेर्यमाणा अपि ध्रुवाः ।
स्थैर्यमाप्ता जडीभूता गतिं नाग्रे समालभन् ।।५८।।
ततः सूर्योदयाऽभावादभवत् सततं निशा ।
सा तु सती पतिं नीत्वा वेश्याभोगं प्रदाय च ।।५९।।
पतिं तृप्तं कारयित्वा ययौ स्वस्या गृहं पुनः ।
पतिं संस्नाप्य विधिना कुष्ठं प्रक्षाल्य वर्ष्म च ।।1.391.६० ।।
स्वयं स्नात्वा पतिं सुगन्धाद्यैः साऽमर्दयत्तथा ।
वस्त्रभूषापुष्पमालाधूपदीपादि संददौ ।।६ १ ।।
दुग्धपानं ददौ साध्वी सर्वां पूजां चकार सा ।
पतिस्तृप्तो गृहस्मृद्धिः सर्वा वेश्यावशंगता ।।६२।।
सती त्वचिन्तयल्लक्ष्मीं लक्ष्मीस्तत्रा समागता ।
वन्दिता पूजिता सत्या ददौ चिन्तामणिं ततः ।।६३।।
आशीर्वादवचो दत्वा ययौ लक्ष्मीर्निजं गृहम् ।
सती चिन्तामणिद्वारोऽरचयद्धनधान्यकम् ।।६४।।
गृहोपकरणं सर्वं भूषणानि च मुद्रिकाः ।
रसान् दिव्याँस्तथा भोगान् मिष्टान्नजलवैभवान् ।।६५।।
अथ सूर्याऽनुदयने ततो देवा भयं ययुः ।
ब्रह्माणं शरणं जग्मुस्तानूचे पद्मसंभवः ।।६६।।
पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः ।
पतिव्रतातपस्तेजः सूर्यतेजोऽधिकं यतः ।।६७।।
सूर्यस्याऽनुदयान्नाशो मर्त्यानां प्राणिनां तथा ।
सन्ध्यापूजार्चननैवेद्यऋतुनाशनं भवेत् ।।६८।।
देवानामृषिवर्याणां पितॄणां चापि भोजनम् ।
विना सूर्योदयं लुप्तं भवेदेव न संशयः ।।६९।।
तस्मात् पतिव्रतां साध्वीं कौशिकस्य हि सेविकाम् ।
प्रसादयत वै पत्नीं भानोरुदयकाम्यया ।।1.391.७०।।
इत्याज्ञां ब्रह्मणो लब्ध्वा देवा मुनिजनर्षयः ।
ययुस्तत्र यत्र कुष्ठी त्वास्ते पत्न्या समं गृहे ।।७१ ।।
आगता म्लानवदनाः सत्कृतास्ते हि योषिता ।
अर्चिता वन्दिताश्चापि पृष्टाश्चागमकारणम् ।।७२।।
सर्वे स्वासनपाद्याद्यैः पूजिताः सुखहेतवे ।
ववन्दिरे सतीं हेतुं विनिवेद्य पुनः पुनः ।।७३।।
देवि! माण्डव्यशापस्ते स्वामिने यत्कृतोऽधुना ।
त्वया सूर्याऽनुदयश्चेत्युभौ वै लोकनाशकौ ।।७४।।
किमत्र देव्या कर्तव्यं यथा लोकहितं भवेत् ।
कृपां कृत्वा कुरु साध्वि! यथा कार्यद्वयं भवेत् ।।७५।।
पत्यायुः सूर्यदेवस्योद्गमश्च सुखदो भवेत् ।
माण्डव्यवचनं चापि यथा सत्यं भवेत्तथा ।।७६ ।।
अत्रेः पत्नी तदा तत्राऽनसूया लोकवन्दिता ।
कौशिकस्य गुरुपत्नी सुशीलां प्राह सा सती ।।७७।।
शृणु पुत्रि! त्रयं कार्यं यथा भवेद् वदामि ते ।
देवास्त्वत्रागतास्तेषां प्रार्थना हितकारिणी ।।७८।।
कर्तव्या सर्वथा मात्रा त्वया चापि मयापि च ।
ब्रूहि धृत्वा जलं हस्ते यातु सूर्यः समुद्गमम् ।।७९।।
ब्रूहि पुत्रि! देववैद्यौ कुरुतं निरुजं पतिम् ।
पत्युः रोगस्य नाशोऽत्र पतिनाशः प्रकल्प्यताम् ।।1.391.८०।।
कायाकल्पः स्वामिनस्ते निधनं परिगण्यते ।
युवा दिव्यस्वरूपो वै देववत् ते पतिर्भवेत् ।।८१ ।।
कृत्वादित्योदयं रुग्णं पतिं कान्तं प्रजीवय ।
इति प्रसादिता पत्नी सूर्योदयमकारयत् ।।८२।।
पतिं सूर्यस्य पुत्राभ्यां नवं देवमकारयत् ।
कृत्वादित्योदयं चैवं स्वभर्तारमजीवयत् ।।८३ ।।
कौशिकः सबलोवीर्यशक्तिभृतोऽभवत् क्षणात् ।
अश्विनीसुकुमाराभ्यां रसायनेन संस्कृतः ।।८४।।
अपूजयत सर्वदेवान् विससर्ज ततः सती ।
सिषेवे कान्तिकान्तं तं लेभे ब्रह्मसुखं महत् ।।८५।।
माण्डव्यो यमराजं च प्राह मे कर्मणः फलम् ।
यमः प्राह त्वया बाल्ये पञ्चवर्षेण खेलने ।।८६।।
तृणशुकी प्रविद्धाऽभूत् तीक्ष्णशूलेन मोहतः ।
तत्फलं शूलविध्यत्वं लब्धं त्वयाऽत्र मा शुचः ।।८७।।
माण्डव्यस्तु तदा धर्मं प्राह न्यायमयं वचः ।
पञ्चवर्षस्य बालस्य कामचारस्य सर्वथा ।।८८।।
दूषणं पातकं दण्डः सर्वं नास्त्येव बोध मे ।
पित्रोस्तत्पातकं पश्चादर्थं दशसमाऽवधिम् ।।८९।।
दशवर्षात्तरं शिक्षा पातकं चोभयं भवेत् ।
मम तत्पातकं नास्ति कस्माच्छूलेऽभिरोपितः ।।1.391.९०।।
तस्मात् त्वं तत्फलं भुंक्ष्व भव धर्मश्चतुर्युगे ।
त्रेताधर्मेण विद्धस्त्वं द्वापरेणापि विद्धकः ।।९१ ।।
विद्धश्च कलिना दुःखमवाप्स्यसि गतः क्षितौ ।
अधर्मशूलविद्धस्य शुद्रता तेऽस्त्वहर्निशम् ।।९२।।
इति शप्तो धर्मराजः शूलात्तमवरोपयत् ।
क्षमां ययाचे शूलस्य वृणं दस्रेण नीरुजम् ।।९३ ।।
सन्धाय पूरयित्वा च यथापूर्वमकारयत् ।
इति ते कथितं लक्ष्मि! चमत्कारपरायणम् ।।९४।।
पातिव्रत्यं व्रतं यत्र पापं पुण्यं प्रजायते ।
अधर्मो धर्मतां याति योगैश्वर्यादिवत् प्रिये! ।।९५।।
पातिव्रत्यं महद्धर्मः पावनः सर्वदेहिनाम् ।
द्विजेनाऽनेन वै पूर्वं कृतं दीनस्य दुःखकृत् ।।९६।।
घातं तेनैव घातेन कुष्ठीजातोऽत्र जन्मनि ।
पुरा तेन कृतं दानं गौरीकन्यात्रयस्य वै ।।९७।।
तेन पुण्येन विप्रस्य गेहे पत्नी पतिव्रता ।
पठनाच्छ्रवणाच्चास्य भुक्तिर्मुक्तिः सुखं भवेत् ।।९८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये कुष्ठिनः कौशिकविप्रस्य गणिकातृष्णस्य गणिकायोजनं तत्पतिव्रतया सुशीलया कारितं, माण्डव्यस्य शूलस्थस्य पादघट्टनेन कौशिकस्य रव्युदयपूर्वं निधनमिति शापे सुशीलया सूर्यस्याऽनुदयनं कृतम्, ततो देवानां प्रार्थनया सुशीलया शापादिनिवृत्तिः कृता, धर्मस्य तु प्रतिदंडरूपं युगेषु तत्तद्युगधर्मविद्धत्वमिति च निरूपणनामैकनवत्यधिकत्रिशततमोऽध्यायः ।। ३९१ ।।