लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३९०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३८९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३९०
[[लेखकः :|]]
अध्यायः ३९१ →

श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! कथा वैकुण्ठलोकगा ।
मम जन्मजयन्त्या उत्सवे नृत्ये सुसंभवा ।। १ ।।
कार्तिकस्याऽधवलस्य पक्षस्य त्वष्टमीतिथौ ।
क्ष्मायां प्राविरभुवं कम्भरागोपालयोऽर्गृहे ।। २ ।।
तन्निमित्तं महं चक्रुर्वैकुण्ठे मम पार्षदाः ।
पार्षदाण्यश्च भक्ताश्च वैकुण्ठं सोत्सवं ह्यभूत् ।। ३ ।।
मण्डपाः कारिता रम्याः स्वर्णकलशशोभिताः ।
कदल्यादिस्तम्भयुक्ताऽशोकपत्रादितोरणाः ।। ४ ।।
विद्युत्प्रदीपशोभाढ्याः श्रुतियन्त्रादिराजिताः ।
रंगानुरंगसच्चित्रहारालिदिव्यतान्विताः ।। ५ ।।
सिंहासनादिशोभाढ्या भोज्यपेयादिशोभनाः ।
नृत्यमण्डपभागाढ्या नर्तकीगणसंश्रिताः ।। ६ ।।
गन्धर्वाश्रितसद्वाद्या देवर्षिगणमण्डलाः ।
गृहाण्यपि विचित्राणि भवनानि कृतानि च ।। ७ ।।
शृंगारितानि दिव्यानि रथ्यामार्गाः स्वलंकृताः ।
आवासाः संस्कृताः सर्वे नरा नार्यः स्वलंकृताः ।। ८ ।।
खानभोजनपेयादिसमुत्सवप्रफुल्लिताः ।
गावः शृंगारिताः कन्या वस्त्रभूषादिशोभिताः ।। ९ ।।
अजीराणि दधिरंगैश्चूर्णैर्मण्डलितानि च ।
वाद्यान्यपि प्रतिगृहं समवाद्यन्त तन्महे ।। 1.390.१ ०।।
गीतयश्चापि श्रूयन्ते सर्ववैकुण्ठवासिषु ।
प्रातः सवितृसौवर्णे चाम्बरेऽथाभिकाशिते ।।१ १ ।।
दिव्यारमाप्रभालक्ष्मीमाणिकीपार्वतीश्रियः ।
कृष्णनारायणं नैजं स्वामिनं परमेश्वरम् ।। १ २।।
संस्नाप्यामृतवार्भिश्च सुगन्धसारचन्दनैः ।
तैलसारादिभिर्वासयित्वा वस्त्रविभूषणैः ।। १ ३।।
रत्नहीरकमण्यादिहारैः कुसुमवस्तुभिः ।
मकुटकुण्डलहारकटकशृंखलादिभिः ।। १४।।
ऊर्मिकानूपुरैर्यष्टिकुण्डलैस्तिलकादिभिः ।
शोभितो भगवान्नाथो दासीभिश्च चमत्कृतः ।। १५।।
पत्नीभिः सहितः स्वस्य पार्षदैश्चापि कोटिभिः ।
कन्याभिर्दासदासीभिर्मुक्तैः सभां समाययौ ।। १६ ।।
जयशब्दा ह्यभवँश्चाऽवाकिरन् कुसुमाऽक्षतैः ।
लाजाभिः कुसुमैर्द्रव्यैः स्वर्णमुद्रादिभिः प्रिया ।। १७।।
चक्रुर्गुणध्वनिं वेत्रहाराः कर्णमनोहरम् ।
नमन्ति स्म सभासंस्था वीक्षन्ते वैकुण्ठप्रजाः ।। १८।।
पूजयन्ति क्रमात् सर्वे भागवतास्तु पार्षदाः ।
सर्वा मुक्ताश्च मुक्तान्यः कृष्णपत्न्यश्च दासिकाः ।। १९।।
कन्यकाश्च प्रजाः सर्वा वैकुण्ठवासिनो जनाः ।
तिलकेन ललाटे च दर्भदानेन कर्णयोः ।।1.390.२०।।
पुष्पाञ्जल्या मस्तके च गुच्छेन करयोस्तथा ।
हारालिभिः कण्ठदेशे जलेन कृष्णपादयोः ।।२१ ।।
नमनेन तस्य हृदि प्रेम्णा नारायणात्मनि ।
उपदाभिश्चरणाग्रे पूजयित्वा च संसदि ।।२२।।
यथास्थानं स्थिताः सर्वे नृत्यं प्रावर्तताऽद्भुतम् ।
गान्धर्वा गायनं चक्रुर्वादयामासुरीश्वराः ।।२३ ।।
गायिकाश्चाभ्यनुजगुस्तालदास्तालमाचरन् ।
नारदाद्याश्च तत्रासन् विप्रचीत्यादिकाः स्त्रियः ।।२४।।
ऋषयो मुनयो देवाः समाजग्मुर्महोत्सवे ।
अथात्र समये कन्या सात्त्वतपार्षदस्य वै ।।२५।।
कन्याशतयुता शृंगारिता नारायणस्य तु ।
पूजां कर्तुं समायाता द्व्यष्टवर्षातिसुन्दरी ।।२६ ।।
पार्षदस्तत्र श्रीकृष्णनारायणस्य पार्श्वगः ।
गान्धर्वजातीयवर्यो गान्धर्वः सलिलद्युमान् ।।२७।।
चकमे तां वरारोहां दृष्ट्वा चञ्चलनेत्रकः ।
कन्या कृष्णं पूजयित्वा जलं कृष्णस्य पादयोः ।।२८।।
धृत्वा मुखे क्षितौ शेषं स्मृत्वा गान्धर्वमेव सा ।
शशाप त्वं क्षीणधनो मानवो भव चञ्चलः ।।२९।।।
गान्धर्वोऽपि सुकन्यायाश्चिकीर्षितं ददर्श तत् ।
शशाप तां त्वमपि प्रक्षीणद्रव्यं तु मानवी ।।1.390.३ ० ।।
चञ्चलाऽनुप्रयाह्यस्मात् स्थानाद् यावत् समानवः ।
इत्यभिधाय नत्वा तं ययौ नारायणं गृहम् ।।३ १ ।।
तावत् पृथ्व्यां पतितोऽसौ च्यवनोऽभूदयोनिजः ।
अरण्ये व्यचरन्नित्यं सलिलेऽपि स्थितोऽभवत् ।।३२।।
जातिस्मरो जरद्देहो व्यचरच्च्यवनो मुनिः ।
वंशस्तम्बाश्रितः पृथ्व्यां तपस्तेपे स दारुणम् ।।३ ३।।
वल्मीकस्तस्य शिरसि वंशस्तम्बोऽप्यजायत ।
सुकन्या सात्त्वतपुत्री महान्ते भवनं ययौ ।।३४।।
पितरं प्राह तत्सर्वं सात्त्वतो हरिपार्षदः ।
सान्त्वयामास पुत्रीं स्वां प्राह कन्यां सुलोचनाम् ।।३५।।
शोकं मा कुरु पुत्रि! त्वं त्वदर्थं चाप्यहं भुवि ।
द्वितीयेन स्वरूपेण चक्रवर्ती भवामि वै ।।३६।।
पश्चात्त्वं तु समायाहि त्वद्दुःखं नाशयाम्यहम् ।
इत्युक्त्वा सात्त्वतः पृथ्व्यां शर्यातिरभवन्नृपः ।।३७।।
परमो भक्तराड् राजा ब्रह्मिष्ठो ब्राह्मणप्रियः ।
जातिस्मरो वैष्णवश्च सूर्योदयास्तभूप्रभुक् ।।३८।।
वैकुण्ठस्य क्षणे याते सुकन्या भुवमागता ।
शर्यातिर्लक्षवर्षोऽभूच्च्यवनस्तु द्विलक्षकः ।।३९।।
शर्यातेस्तु गृहे कन्या मानसी पुत्रिकाऽभवत् ।
दिव्या दिव्यरमातुल्या यथा वैकुण्ठवासिनी ।।1.390.४०।।
नारायणपरा नित्यं शुभा पित्रोस्तु सेविका ।
पातिव्रत्यपरासर्वचमत्कारातिशालिनी ।।४१ ।।
जातिस्मरावनेऽरण्ये तीर्थे भूमौ च पर्वते ।
समुद्रे चाम्बरे स्वर्गे पाताले सैन्यकृद्रणे ।।४२।।
सर्वत्र व्योमगा दिव्या ययौ राज्ञोऽनुयायिनी ।
स्मरति स्म सलिलद्युं तपन्तं वंशविस्तरे ।।४३।।
तया सार्धं वनं यातो राजा सैन्येन संयुतः ।
सखीभिः सहिता सा च विचिन्वाना सुमानि वै ।।४४।।
ययौ यत्र तपस्व्यास्ते भाविसेवाश्रयो मुनिः ।
याम्यां दृष्टा चंचलाभ्यां नेत्राभ्यां ते ददर्श सा ।।४५।।
वल्मीकरन्ध्रके रम्ये शुभे चञ्चत्सुतारके ।
दैवप्रेरणया बालाऽविध्यत्कण्टकयोजिते ।।४६।।
सुस्रावाऽसृक् ततो सैन्यस्याऽभून्मूत्रादिरोधनम् ।
शर्यातिस्तद्विलोक्याऽऽह सैनिकान् दुःखितान् मुहुः ।।४७।।
दैवीभूमिरियं काचिद् देवा वा मुनयोऽथवा ।
तापसा वा राक्षसा वाऽवश्यं स्युरत्र सद्वने ।।४८।।
कस्याऽप्यत्राऽपराधो वै मया सैन्येन कारितः ।
अन्यथा न भवेद् यावत्सैन्यमूत्रादिरोधनम् ।।४९।।
यत्किंचिद्वा यथा यद्वा तद्वा क्वापि च किंचन ।
यदि जातं केनचिच्चाऽवश्यं प्रकाश्यमेव तत्। ।।1.390.५० ।।
यद्वयं तत्प्रतीकारैः रक्षिताः स्याम ऐश्वरात् ।
तदा जातिस्मरा कन्या सुकन्या पितरं जगौ ।।५१ ।।
वंशस्तम्बेऽत्र युगलं ज्योतिर्मयं निभालितम् ।
मया वल्मीकविवरे निर्भिन्नं कण्टकेन च ।।५२।।
ततोऽसृङ्निर्गतं राजन् मन्ये तदपराधनम् ।
एतद्विज्ञाय राजाऽपि सस्मार सात्त्वतः स्वयम् ।।५३।।
सलिलद्युं च सुकन्यां च वैकुण्ठे शापशारदाम् ।
दुहितुर्वचनं श्रुत्वा राजा वल्मीकसन्निधौ ।।५४।।
ययौ प्रसादयामास वल्मीकान्तर्हितं मुनिम् ।
प्राह देही सुकन्यां मे मूत्ररोधादि नश्यति ।।५५।।
तथास्त्विति नृपः प्राह च्यवनश्चोत्थितो मृदः ।
वंशस्तम्बेन शिरसि शृंगवत्स व्यराजत ।।५६।।
तत्रैव दुहिता तस्मै प्रदत्ता सूर्यसाक्षिणा ।
स्वस्थं चाभूच्च तत्सैन्य ययौ राजा गृहं स्वकम् ।।५७।।
च्यवनस्तपसा व्याप्तः शुष्कनाडीशरीरकः ।
तत्राश्रमे पर्णकुट्यां रुक्षो वृद्धोऽवसत्तथा ।।५८।।
सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् ।
प्रीणयामास चित्तज्ञा समयज्ञाऽनुसेवया ।।५९।।
शरीरं मर्दयामास वृद्धस्य स्वामिनः सती ।
तैलेन पुष्पसारेण सुगन्धचन्दनादिभिः ।।1.390.६ ०।।
उष्णोदकेन स्नपनं कारयामास भावतः ।
वस्त्राणि चार्पयामास धारयामास चान्वहम् ।।६ १ ।।
वन्यं फलं कणं कन्दं भोजयामास सद्दलम् ।
पाययामास मधुरं जलं प्रस्रवणाऽऽहृतम् ।।६ २।।
शाययामास कदलीदलकृच्छयने सती ।
अग्निं प्रज्वाल्याग्निहोत्रं कारयामास सद्रसैः ।।६ ३ ।।
अतिथीन् सेवयामास दर्शनार्थं समागतान् ।
देवसेवां तुलस्याश्च पत्रैश्च कमलैः सती ।।६४।।
कारयामास विधिना फलैर्जलैश्च श्रद्धया ।
समिधश्चानयामास पार्श्वपवित्रवृक्षजान् ।।६५।।
गीतिकां कीर्तनं ज्ञानं श्रावयामास कण्ठतः ।
एवमृषेरनुवृत्त्या प्रीणयामास सा सती ।।६६ ।।
पातिव्रत्यं परं प्राप्ता विना कामसुखं सती ।
एकदा चिन्तयामास वृद्धस्य शुष्कवर्ष्मणः ।।६७।।
ऋषेर्देहस्य कल्पार्थं सस्माराश्विकुमारकौ ।
सुकन्यया स्मृतौ सूर्यपुत्रौ क्षणादुपस्थितौ ।।६८।।
वैद्यौ तां प्राहतुर्नम्रौ वद मातर्नमोऽस्तु ते ।
सुकन्याऽऽह ऋषेर्वर्ष्म मम योग्यं यथा भवेत् ।।६९।।।
सुन्दरं यौवनोपेतं सबलं वीर्यवत्तमम् ।
तथा दत्तं वयो मत्स्वामिने भोगसमर्थकम् ।।1.390.७० ।।
तथास्त्विति समुच्चायीऽश्विपुत्रौ च्यवनाय वै ।
नत्वा तस्माच्च वव्राते सोमभागं क्रतौ सदा ।।७१ ।।
ऋषिर्बाढं तु तौ प्राह ततश्चैतौ रसायनैः ।
तत्रैव निर्मिते कुण्डे पूर्णे चाऽस्नापयदृषिम् ।।७२ ।।
ऋषिर्विंशतिवर्षो वै युवा देवीप्रमोहकः ।
मांसलः सुन्दरो रम्यः पूर्णसंभृतवीर्यकः ।।७३ ।।
रसायनैस्तु सञ्जातो न दृष्टो न श्रुतः पुरा ।
पुरा सुकन्ययापि तद्रूपं न दृष्टं न श्रुतं पुरा ।।७४।।
कन्यायाः पातिव्रत्यस्य परीक्षार्थं च तावपि ।
वैद्यौ रूपान्तरे धृत्वा रसायनेन मिश्रितौ ।।७५।।
यूना मुनिना संयुक्तौ समरूपौ बभूवतुः ।
पश्यन्त्या कन्यया कुण्डाद् दृष्टाः समुत्त्थितास्त्रयः ।।७६ ।।
पुरुषाः सदृशाकाराः कुण्डलिनः सुवाससः ।
सुगन्धव्याप्तशरीरा लावण्यरसवार्धयः ।।७७।।
दिव्यस्रग्धारिणस्तेजोभिश्च सूर्या इवाऽपरे ।
अजानती पतिं साध्वी दध्यौ ध्यानेन तं पतिम् ।।७८।।
कतमोत्र ऋषिर्बोध्यो यस्याऽस्म्यहं पतिव्रता ।
वरणीयः स एवाऽद्य त्याज्यौ द्वौ च तदन्यकौ ।।७९।।
विचार्येति सती स्वस्माच्छरीराच्च महानलम् ।
समुत्पाद्याऽनलव्याप्ता ययौ ताँस्त्रीं परीक्षितुम् ।।1.390.८०।।
उवाचाग्निं विना कान्तं प्रज्वालय तदन्यकौ ।
तावद्वह्निर्ववल्गे तावन्यौ ज्वालाभिरेव वै ।।८ १ ।।
भस्मीकर्तुं मुनिं त्यक्त्वा तावच्चुक्रुशतुश्च तौ ।।
जाज्वल्यमानाऽवयवौ ववन्दाते भिषक्तमौ ।।८२ ।।
रक्षार्थं चक्रतुर्याञ्चां सत्या वह्निर्निवारितः ।
पातिव्रत्येन सत्येन च्यवने मालिकाऽर्पिता ।।८३ ।।
पातिव्रत्यं परं ज्ञात्वा सन्तुष्टौ त्वश्विपुत्रकौ ।
ऋषिमामन्त्र्य ययतुः सतीं नत्वा त्रिविष्टपम् ।।८४।।
अथर्षिश्च्यवनः स्वस्य श्वशुरं भूभृतं प्रति ।
वनिनं प्रेषयामासाऽऽकारयामास तद्वने ।।८५। ।
शर्यातिः सुप्रसन्नात्माऽऽययौ ऋषिवराश्रमम् ।
दृष्ट्वा युवानं दिहुतुः पार्श्वे रूपान्तरान्वितम् ।।८६ । ।
राजाऽऽश्चर्यसमापन्नो बभूवोद्विग्नमानसः ।
पुत्री स्वपितरं दृष्ट्वा समुत्थाय नतिं व्यधात् ।।८७।।
राजा प्राह तदा पुत्रीं मुनिं वृद्धं विहाय किम् ।
जारं संसेवसे भर्तुः पितुर्निपात्यसे कुलम् ।।८८।।
अधिक्षिप्ता जनकेन पुत्री प्रसन्नमानसा ।
उवाच तात! जामाता तवैषश्च्यवनो मुनिः ।।८९।।
शशंस सर्ववृत्तान्तं मुनिः प्राह नृपं ततः ।
स्वागतं तेऽस्तु साम्राज्यं निर्विध्नं चास्तु सर्वथा ।।1.390.९०।।
यज्ञं कुरु महाराज! सोमाऽभिधं ममाऽऽज्ञया ।
अश्विनोरसोमपयोर्देहि सोमग्रहं क्रतौ ।।९१ ।।
चकार यज्ञं राजाऽसौ च्यवनः स्वेन तेजसा ।
अकारयत् सोमपानं त्वश्विनोर्वैद्ययोस्तदा ।।९२।
इन्द्रो वज्रं समुद्यम्य हन्तुं मुनिं समागतः ।
सवज्रं स्तंभयामास च्यवनः स हरेर्भुजम् ।।९३। ।
अन्वजानंस्ततः सर्वे सदा सोमग्रहाविति ।
वैद्यौ कनिष्ठाविति यत् पूर्वं मत्वा बहिष्कृतौ ।।९४।।
ततस्तौ स्वर्गतौ राजा ददौ भूयसी दक्षिणाः ।
देवविप्राऽतिथिभ्यश्च च्यवनः स्वाश्रमं ययौ ।।।९५।।
शर्यातेरभवत्पुत्रस्त्वानर्त्तः कृष्णभक्तिमान् ।
गोलोकात् स मणेः खण्डं कृष्णदत्तं समानयत् ।।९६।।
सोऽयमानर्तदेशोऽस्ति सौराष्ट्रः पश्चिमाब्धिभाग् ।
आनर्ताद् रेवतो जातो निर्ममे स कुशस्थलीम् ।।९७।।
तस्य जातः ककुद्मी च यस्य कन्या तु रेवती ।
याता पित्रा सह सत्ये लोके प्रष्टुं पितामहम् ।।९८।।
योग्यं पतिं तु कं लप्स्ये तत्र प्राह पितामहः ।
क्षणे कालेऽत्र संयाते पृथिव्यां सप्तविंशतिः ।।९९।।
चतुर्युगानां चातीता मूला आद्या नृपादयः ।
तद्वंशवंशवंश्यानामपि चिह्नं न विद्यते ।। 1.390.१०० ।।
तस्माद् देहि कृष्णभ्रात्रे बलदेवाय मे मतम् ।
इत्युक्तः स समागत्य बलदेवाय तां ददौ ।। १०१ ।।
ककुद्मी तु तपः कर्तुं नरनारायणाश्रमम् ।
बदर्याख्यं ययौ भेजे कृष्णनारायणं सदा ।। १० २।।
इति ते कथितं लक्ष्मि! पातिव्रत्यपरायणम् ।
चमत्कारं सुकन्याया पठनाच्छ्रवणादपि ।। १ ०३।।
पापनाशस्तथा मुक्तिर्भुक्तिश्च वर्धतेऽधिका ।
कान्ते कृष्णेऽतिगा लक्ष्मि! फलं सेवाकृतं लभेत् ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वैकुण्ठे श्रीकृष्णनारायाणस्योर्जाऽधवलाऽष्टम्यां जयन्त्युत्सवे नृत्यादियोगे सलिलद्युगान्धर्वस्य सात्त्वतकन्यायाः सुकन्यायाः चञ्चलनेत्रदर्शनकृतशापेन परस्परं पृथिव्यामागत्य च्यवनत्वं शर्यातिकन्यात्वं च, ततो वने च्यवननेत्रयोः कण्टकाग्रेण स्फोटने सैन्यमलमूत्रादिनिरोधः, कन्यायाञ्चा च, च्यवनगार्हस्थ्यम्, अश्विनीकुमारद्वारा नवयौवनम्, पातिव्रत्यपरीक्षणम्,
वैद्ययोः सोमयागे सोमभागग्राहित्वम्, शर्यातिपुत्र आनर्तस्तस्य ककुद्मी तस्य रेवत्या बलदेवेन विवाहनं चेत्यादिनिरूपणनामा नवत्यधिकत्रिशत-
तमोऽध्यायः ।।३९० ।।