लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३८९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३८८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३८९
[[लेखकः :|]]
अध्यायः ३९० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि मेरुदेव्याः कथां शुभाम् ।
पतिव्रताया नाभेश्च पत्न्या यदृषभः सुतः ।। १ ।।
जम्बूद्वीपाधिपः पूर्वमासीदाग्नीध्रराजकः ।
तस्य पुत्रोऽभवन्नाभिरनपत्योऽभजद्धरिम् ।। २ ।।
नाभेः पत्नी मेरुदेवी पातिव्रत्यपरायणा ।
पतिं देवं पतिं कृष्णं पतिं नारायणं परम् ।। ३ ।।
पतिं धर्मं पतिं कर्म वर्म नारायणात्मकम् ।
परब्रह्म पतिं मत्वा सेवते स्वात्मवत्। सदा ।। ४ ।।
स च ब्रह्मर्षिपत्नीनां ब्रह्मज्ञा ब्रह्मवित्तमा ।
ब्रह्मतन्तुवेदविद्यावती होमपरायणा ।। ५ ।।
कर्मकाण्डक्रियाभिज्ञा पूजापाठपरायणा ।
ब्रह्मशक्तिस्वरूपा सा सरस्वत्यपरा यथा ।। ६ ।।
वर्ततेस्म ब्रह्मपरा सति राज्येऽपि पावनी ।
प्रातः स्नात्वा पतिं नत्वा देवान् संपूज्य वस्तुभिः ।। ७ ।।
पत्युः पूजां विधातुं सा प्रावर्तते पतिप्रिया ।
पतिं संस्नाप्य वस्त्राद्यैरलंकृत्य ततः सती ।। ८ ।।
तदंगुष्ठजलं पीत्वा महापूजां करोति सा ।
सुवर्णस्य शुभे पीठे संनिषाद्य पतिं मुदा ।। ९ ।।
विष्णवे पतिरूपाय समर्पयामि चासनम् ।
अर्घं पाद्यं चाचमनं मत्स्वामिनेऽर्पयामि च ।। 1.389.१ ०।।
दन्तशुद्धिकरं चाङ्गं काष्ठं ददामि रक्षिणे ।
गण्डूषार्थं जलं तैर्थं सुगन्धियुक् ददामि च ।। ११ ।।
शौचाद्यर्थं जलं चान्यत् प्रददामि मदर्थिने ।
मृत्तिकाद्यैः परां शुद्धिं कारयित्वाऽमृतानि च ।। १२।।
दधि दुग्धं घृतं मिष्टं मधु ददामि स्वामिने ।
अभिषेकार्थसलिलं समर्पयामि स्वामिने ।। १ ३।।
स्नपयामि पतिं तैलं मर्दयामि सुगन्धकृत् ।
सिञ्चामि च जलं योग्यं स्नानार्थं मम स्वामिनि ।। १४।।
कोमलेनाऽम्बरेणाऽहं मार्जयामि जलं तनोः ।
वस्त्रं सुवर्णवर्णं च धौत्रं यज्ञोपवीतकम् ।। १५।।
उत्तरीयं यज्ञपट्टं स्वामिने त्वर्पयामि च ।
केशप्रसाधनं पुष्पसुगन्धतैलयोगतः ।। १६।।
कुर्वे मत्स्वामिनस्तुष्ट्यै समर्पयामि चन्दनम् ।
तिलकं चन्द्रकं भाले कारयामि सुशोभितम् ।। १७।।
नेत्रयोः कज्जलं रम्यं समनज्मि सतीपतेः ।
मस्तके मुकुटं रम्यं कर्णयोः कुण्डले शुभे ।। १८।।
कण्ठे मणिग्रथितात्युत्तमहारान् ददामि च ।
हस्तयोः शृंखले द्वे च भुजयोः कटके शुभे ।।१ ९।।
प्रकोष्ठयोः कटके च कट्यां च रशनां तथा ।
पादयोर्नूपुरे रम्ये पुष्पहाराँश्च शेखरान् ।।1.389.२०।।
गले मालाः करे गुच्छं पादुके पादयोः शुभे ।
समर्पयामि पतये सौवर्णस्य कृतानि वै ।।२१ ।।
छत्रं च चामरे रम्ये सिंहासनं सुवर्णजम् ।
धूपं दीपं चाऽक्षताँश्च कुंकुमं स्वर्णयष्टिकाम् ।।२२।।
समर्पयामि पतये नैवेद्यं मिष्टभोजनम् ।
स्वर्णस्थाल्यां प्रदत्तं च शष्कुलीलड्डुकादिकम् ।।२३।।
पायसान्नं व्यञ्जनानि दधि दुग्धादिकं फलम् ।
भक्ष्यभोज्ये लेह्यचोश्ये पेयं मिष्टं जलादिकम् ।।२४।।
समर्पयामि पतये कृष्णनारायणात्मने ।
आरार्त्रिकं ताम्बूलकं जलं शंखस्य शीतलम् ।।२५।।
प्रदक्षिणां दक्षिणां च पुष्पाञ्जलिं समर्पये ।
नतिं क्षमार्पणं चापि दास्यं सर्वं समर्पये ।।२६ ।।
पादसंवाहनं चान्यां सेवां सर्वां करोमि च ।
कृष्णनारायणरूपस्वामिनोऽहं पतिव्रता ।।२७।।
अद्मि प्रसादं देवस्य पत्युर्मे पापनाशनम् ।
एवं पूजयते नित्यं प्रातः पतिं यदा सती ।।२८।।
पत्यौ दिव्यं कृष्णनारायणं तत्र चतुर्भुजम् ।
पश्यति स्म तदा पातिव्रत्यभक्त्या महासती ।।२९।।
एवं प्रातश्च मध्याह्ने सायं रात्रौ च सेवते ।
एकदा सा स्थिता ध्याने सेवयित्वा पतिं सती ।।1.389.३ ०।।
ददर्श सा महत्तेजो ब्रह्मलोकाऽवधिप्रथम् ।
आविश्चकार भगवान् कृष्णनारायणो हरिः ।।३ १ ।।
हिरण्मयः पीतकौशेयाम्बरधृक् श्रिया युतः ।
शंखचक्रगदापद्मचर्मखड्गसुवेणुमान् ।।३२।।
लसन्मुकुटकुण्डलकटककटिसूत्रकः ।
हारकेयूरनूपुराद्यंगभूषणभूषितः ।।३३।।
तादृशं श्रीकृष्णनारायणं चाऽऽर्हत् पतिव्रता ।
तुलसीदलदूर्वाऽद्भिः कुसुमैश्च निवेदनैः ।।३४।।
अर्हत्तमोऽसि भगवन् दिव्यगुणसमन्वितः ।
गुणगानं सेवनं ते भक्ताया मेऽस्तु गोचरम् ।।३५।।
राजर्षिर्मे पतिः शश्वत्प्रजाकामोऽस्ति भक्तराट् ।
त्वत्समः स्यादस्य पुत्रो येनाऽहं सुखमाप्नुयाम् ।।३६।।
भगवानाह मे दासि! त्वन्मुखं मन्मुखं सति! ।
त्वयाऽर्थितं सतीवाक्यं सत्यं भवतु तत्तथा ।।३७।।
आग्नीध्रीयोंऽशकलयाऽवतरिष्यामि ते गृहे ।
इत्युक्त्वा सत्कृतिं लब्ध्वा त्वन्तर्दधे पुमुत्तमः ।।३८।।
तस्मिन्दिने निशाकाले मेरुदेव्यां नरायणः ।
प्राविवेशाऽथ प्रातश्चावाततार तद्गृहे ।।३९।।
जातमात्रो युवा सर्वज्ञानसिद्धिप्रपूरितः ।
साम्योपशमवैराग्यैश्वर्यविभूतिसंभृतः ।।1.389.४०।।
एतादृशं सुतं कीर्तिबलौजःश्रीगुणादिभिः ।
वीर्यशौर्यधर्मभक्तियुतं तं ऋषभं जगौ ।।४१ ।।
ऋषभोऽयं कृष्णनारायणावतार एव सः ।
यत्स्पर्धया महेन्द्रश्च न ववर्ष समात्रयम् ।।४२।।
योगेश्वरः स ऋषभः प्रहस्य योगमायया ।
अजनाभे स्वीयराज्ये मेघो भूत्वाऽभ्यवर्षयत् ।।४३।।
नाभिः पुत्रं तमृषभं राज्येऽभिषिच्य चात्मना ।
परात्मनि महायोगं मेरुदेव्या युतोऽलभत् ।।४४।।
नरनारायणं ध्यात्वा दम्पती मोक्षमीयतुः ।
ऋषभः स्थापयामास विद्याशिक्षाप्रदं शुभम् ।।४५।।
धर्मशिक्षणलाभार्थं विद्यागुरुकुलं महत् ।
स्वयं राजा स्वयं शिक्षाचार्यो भूत्वाऽप्यशिक्षयत् ।।४६।।
इन्द्रः स्वयं समागत्य जयन्त्याख्यां स्वपुत्रिकाम् ।
लक्ष्मीरूपां भगवते ऋषभाय ददौ सतीम् ।।४७।।
गृहधर्मेण ऋषभस्तस्यां पुत्रशतं शुभम् ।
योगिनां मण्डलं तद्वै जनयामास सदृशम् ।।४८।।
तत्र वै भरतो राजा भारताधिपतिर्बभौ ।
कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।।४९।।
आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ।
महाभागवताश्चैते ब्रह्ममार्गाश्च योगिनः ।।1.389.५०।।
अन्ये कुशावर्तकाद्या राजानोऽप्यभवन् सुताः ।
ब्राह्मणा यज्ञशीलाश्च श्रोत्रीयाश्चाऽभवन्परे ।।।५१ ।।
ऋषभो भगवान् कारुणिकः शान्तिप्रदो नृणाम् ।
द्रव्यदेशवयःश्रद्धाकालोजितवृषेऽचरत् ।।५२।।
एकदाऽभूत् समालक्षावधिब्रह्मर्षिसंकुला ।
ब्रह्मावर्ते जगाम श्रीऋषभो बोधमाददौ ।।५३।।
राज्यं स्मृद्धिः सुखं सर्वं स्वीयं चेति प्रकल्पितम् ।
पार्थिवेन प्रपुष्टं च देहं पारक्यमित्यपि ।।५४।।
क्लिद्यमानैर्भोजनाद्यैः क्लेदधर्मं च पाशवम् ।
संज्ञानं तत्तनुं लब्ध्वा ब्रह्मार्जनं प्रशस्यते ।।५५।।
सत्त्वशुद्धिर्देहभावे कथं स्याद् भोगसंभृते ।
ब्रह्मसौख्ये शाश्वतिके कुर्वन्तु श्रमणं प्रजाः ।।५६ ।।
ब्रह्मात्मानो ब्रह्मरूपा ब्रह्मसौख्या हि साधवः ।
योगिनो यतयः सेव्या महाभागवता जनैः ।।५७।।
गृहदाराऽपत्यवाटीपशुक्षेत्राणि यानि च ।
मां तु नारायणं त्यक्त्वा बन्धनानि तु तानि वै ।।५८।।
तानेव मां पुरस्कृत्य योजितानि परे यदि ।
मोक्षद्वाराणि जायन्ते सुहृदः साधवो यथा ।।५९।।
मां विहायेन्द्रियग्रामे लुब्धश्च विषयेष्विह ।
रमते यः सदा बद्धो न स साधुः प्रजायते ।।1.389.६ ० ।।
यस्यात्मेन्द्रियविषयाऽन्तःकरणाढ्यवर्ष्मणः ।
आत्मतत्त्वाप्त्यानुकूल्यं स वै पाशात्प्रमुच्यते ।।६ १ ।।
तत्सर्वं मत्प्रीतियुक्तं योद् स्यात् कर्मकृद् यदि ।
निर्गुणं मत्पदप्राप्तिप्रदं स्यादात्मनः प्रियम् ।।६२।।।
स्वार्थं बन्धकरं सर्वं परार्थं मोक्षदं यतः ।
स्त्रीपुंभावं हृदयस्थं ग्रन्थिरूपं विचिन्त्य यः ।।६३ ।।
मोहं विहाय विज्ञः स्यात्तदाऽऽश्लथेत बन्धनम् ।
कर्माशयो विलीयेत मुक्तः स्यादात्मनाऽऽत्मनि ।।६४।।
इच्छालये यत्नलयो निष्तृष्णस्य प्रजायते ।
पूर्णकामाश्रये प्राप्ते तृष्णा सर्वा निवर्तते ।।६५।।
दुःखदोषान्तकृत्सर्वं नाहं तथा निरीहकः ।
इति विमृश्य विद्यावान् परमहंसमाश्रयेत् ।।६६।।
मयि कर्माणि सन्न्यस्य मत्कथाश्रवणादिभिः ।
मम सतां प्रसंगेन मम लीलाप्रकीर्तनैः ।।६७।।
मयि निर्गुणभावेन युञ्जाना मुक्तिमाप्नुयुः ।
दृश्ये श्रव्ये तथा स्पृश्ये मां विभाव्यात्मनो गुरुम् ।।६८।।
साधुशीलो जनो भूत्वा ह्युपरमेत योगतः ।
भक्त्त्यानुवृत्त्या क्षमया वितृष्णया तितिक्षया ।।६ ९।।
मायायां दोषवृत्त्या च जिज्ञासयाऽप्यनीहया ।
मत्कथया सेवया मत्साम्यदृष्ट्या जिहासया ।।1.389.७०।।
अध्यात्मबुद्ध्या प्रहंससेवया ब्रह्मचर्यया ।
श्रद्धयेन्द्रियजयया यमनियमवार्तया ।।७१ ।।
भावनया प्रमादादिवर्जितया च विद्यया ।
योगवृत्त्या सत्त्वबुद्ध्या मद्दयया प्रसन्नया ।।७२।।
मदनुग्रहसंप्राप्त्योद्धरन्नुद्धारयेत्परान् ।
आशावादगतान् जीवान्निसर्गगृध्नसंवहान् ।।७३।।
अविद्यायां वर्तमानान् कामकामाननारतान् ।
कर्ममूढाज्जडभावान् सुखलेशार्थमूर्छितान् ।।७४।।
उत्पथगान् रुड्द्विड्व्याप्तान्नन्धकूपे न पातयेत् ।
प्रयोजयेच्च नैष्कर्म्ये येन शान्तिर्हि शाश्वती ।।७५।।
पुत्रः पत्नी गुरुर्माता पिता बन्धुः पतिः स्वसा ।
सुहृन्मित्रं सुताः सार्थः स एव यो विमोचयेत् ।।७६।।
धर्मं तु वक्षसि कृत्वा पृष्ठे विहाय चाऽवृषम् ।
युञ्ज्यात सर्वात्मना कृष्णे ऋषभो हंस एव सः ।।७७।।
धर्मतो मानवाः पूज्याः पुण्यश्रेष्ठा हि देवताः ।
सत्त्वश्रेष्ठास्तु ऋषयो ब्रह्माद्या ब्रह्मशक्तिभिः ।।७८।।
त एव ब्राह्मणाः प्रोक्ता ब्रह्मशक्त्यन्वितास्तु ये ।
मत्परा ब्राह्मणाः सर्वे महाभागवताः प्रियाः ।।७९।।
साधवो हृदयास्या मे तोलये नेतरत् समम् ।
यत्र वै श्रद्धया दत्तं हुतं गृह्णाम्यहं स्थितः ।।1.389.८०।।
त एव सेवनीया वै प्रजाभिर्मत्स्वरूपिणः ।
पदे पदे पावकास्ते यत्राऽर्हणं कृतं तु मे ।।८१ ।।
साक्षात् सोऽहं साधुमूर्तिश्चेतनः क्ष्माभुजां गुरुः ।
परः सोऽहं हंसरूपो धावल्यदः शुभात्मनाम् ।।८२।।
महामोहलयं प्राप्तः कृतान्तपाशकर्तनः ।
ग्रन्थिग्रथितग्रामाढ्यैः सुखप्राप्योऽत्र हंसकः ।।८३ ।।
स्वहंसेषु परहंसं गृह्णन्तु हंसकल्पकाः ।
इत्युपदेशमादत्वा शिष्यान् हंसान् विधाय च ।।८४।।
दिग्वासा ब्रह्मभोक्ता स ययावरेण्यमेकलः ।
जडान्धमूकबधिरोन्मत्तवद्व्यचरद् वने ।।८५।।
आत्मार्पितस्वपरधर्ममताऽहंविवर्जितः ।
ब्रह्मानन्दपरिपूर्णतृप्तिहासप्रफुल्लितः ।।८६ ।।
अनन्तकामसौन्दर्यो नैजतेजःसमुज्ज्वलः ।
विकर्षन् प्रौढवनितामनांसि भगवद्गुणः ।।८७।।
क्षेत्रे वने ह्यटव्यां चाजगरीं वृत्तिमाश्रितः ।
शयानोऽश्नाति पिबति खादत्यपि च मेहति ।।८८।।
एवं गोमृगकाकादिचर्यया विचचार सः ।
कैवल्याधिपतिश्चात्ममहानन्दानुवेशितः ।।८९।।
जलस्थलाम्बरगतिः सिद्धसर्वार्थसंभृतः ।
यदृच्छाप्तैश्वर्यसिद्धीर्नाभ्यनन्दत् हृदापि वै ।।1.389.९० ।।
अस्थिरे मनसि सख्यं नैव कुर्याद्धरेर्जनः ।
विश्वस्तं तच्चिराच्चीर्णं तपो नाशयति द्रुतम् ।।९१ ।।
मिष्टं मिष्टं प्रदर्श्यैव गर्ते क्षिपति योगिनम् ।
कामं क्रोधं कलिं मोहं भयं दैन्यं ददाति यत् ।।९२।।
सोऽयं भगवद्रूपोऽपि दर्शयन्नैश्वरीं प्रथाम् ।
अवधूतकृतिं तिष्ठन् जिहासुः स्वकलेवरम् ।।९३।।
पाषाणं कवलं कृत्वा ददाह वेणुजेऽनले ।
अवतारा हरेर्याने नेतुं तत्र समागताः ।।९४।।
साधुं पुराणपुरुषं कल्याणसंभृतक्रियम् ।
निन्युः सत्कारवाद्याद्यैः स्थानिपावित्र्यलब्धये ।।९५।।
स्वर्ग जनं तपो महः सत्यं वैराजकं स्तरम् ।
हैरण्यगर्भं भौमं चामृतं कृत्वा स पावनम् ।।९६ ।।
ययौ ब्रह्मपरं लोकं सच्चिदानन्दपौरुषम् ।
यत्र वै नैष्ठिका योगा ब्राह्मा ब्रह्मविदः सुराः ।।९७।।
पिबन्ति ब्रह्म परमं नित्यतृप्ता अथापि ते ।
इति ते कथितं लक्ष्मि! मेरुदेव्यास्तथा शुभम् ।।९८।।
नाभेश्चरित्रं यस्य वै पुत्रोऽभूदृषभो हरिः ।
क्षुद्रजीवा यमाश्रित्य भविष्यन्ति सजीवनाः ।।९९।।
हंसा भूत्वा ब्रह्मलोकं यास्यन्ति केवलं पदम् ।
पठनाच्छ्रवणात्त्वस्य कैवल्यपदभाग् भवेत् ।। 1.389.१० ०।।
आश्रयणाद् गृहत्यागाद् दीक्षाग्रहाद् वनासनात् ।
यो लाभः स भवेदस्य श्रद्धया श्रवणात् प्रिये! ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये नाभेर्मेरुदेवीकृतया पातिव्रत्यधर्मेण महापूजया भगवदवतारः ऋषभः पुत्रो बभूव, तस्य योगेश्वरादयः पुत्राः, तस्योपदेशः, वनचर्या, चिरन्तनपरमहंसरीतिविवेचनम्, विवेकज्ञानमित्यादि निरूपणनामैकोन-
नवत्यधिकत्रिशततमोऽध्यायः ।। ३८९ ।।