लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३८६
← अध्यायः ३८५ | लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः) अध्यायः ३८६ [[लेखकः :|]] |
अध्यायः ३८७ → |
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि कथामन्यां तु मोक्षदाम् ।
पतिव्रतायाः स्वपत्युरुद्धारकारिणीं शुभाम् ।। १ ।।
देवर्षिपितृभूतानि यस्य निःश्वस्य वेश्मनि ।
प्रयान्त्यनर्चितान्येव न तस्मात्पापकृन्नरः ।। २ ।।
हतं देवादिनिःश्वासैः शरीरं यस्य वेश्म च ।
भाग्यं तस्य हतं सर्वं नाशाय कल्पते हि सः ।। ३ ।।
पत्न्या पूज्याः साधवश्च साध्व्यो वृद्धा जनास्तथा ।
पितरो देवताश्चातिथयः साध्व्या दिने दिने ।। ४ ।।
पतिव्रतया स्वामिनो वै पुण्येन कर्मणा सदा ।
आयुष्यं वर्धनीयं च यज्ञाः कार्याः शुभावहाः ।। ५ ।।
अनभ्यर्च्य ऋषीन् देवान् पितृभूताऽतिथींस्तथा ।
यो भुंक्ते स स्वकीयं सुकृतं नाशयति ध्रुवम् ।। ६ ।।
श्रूयते च पुरा ख्यातो राजा शतधनुर्भुवि ।
पत्नी च तस्य शैब्याऽभूत् स्वामिधर्मपरायणा ।। ७ ।।
पतिव्रता महाभागा सत्यशौचदयान्विता ।
वृद्धसेवापरा शान्ता नयेन विनयेन च ।। ८ ।।
स तु राजा तया सार्धं कृष्णनारायणं हि माम् ।
विभुं त्वाराधयामास परमेण समाधिना ।। ९ ।।
होमैर्जप्यैस्तथा दानैरुपवासैश्च भक्तितः ।
पूजाभिश्चानुदिवसं मन्मना नान्यमानसः ।। 1.386.१ ०।।
एकदा तौ समं स्नातौ भार्यापती नदीजले ।
भागीरथ्याः समुत्तीर्णौ कार्तिक्यां समुपोषितौ ।। ११ ।।
एकादश्या व्रतिनौ तौ द्वादश्यां प्रातरेव हि ।
भागीरथ्यां सस्नतुस्तौ गृहं समागतौ ततः ।। १ २।।
पारणार्थं रन्धितान्नं व्यञ्जनं दधि दुग्धकम् ।
देवर्षिपितृभूतेभ्यश्चानर्प्य स्थालरक्षितम् ।। १ ३।।
शैब्या प्रतीक्षते वाटं ब्राह्मणस्याऽतिथेर्गुरोः ।
समागत्य गुरुर्विप्रो नाम्ना चापार्यकः स्वयम् ।। १४।।
वैश्वदेवं स्वयं कृत्वा ऋषिपितृगवार्पणम् ।
दास्यति नः प्रसादं तमत्स्यामः पारणात्मकम् ।। १५।।
तावत्प्राघूर्णिका राज्ञो गृहे तत्र समाययुः ।
तेषां वै सत्कृतौ राज्ञो राज्ञ्याश्च समयो गतः ।। १६।।
गुरुश्चापि समागत्य दृष्ट्वा प्राघूर्णिकान् बहून् ।
भार्यापती व्यवसायपरौ दृष्ट्वा क्षणान्तरे ।। १७।।
देवर्षिपितृभूतेभ्यश्चाऽनिवेद्यान्नवारि च ।
ययौ स्वीयं गृहं कालो मध्याह्न्नोत्तरतां गतः ।। १८।।
रन्धितान्नं तथैवाऽऽस्ते देवर्षिपितरश्च ये ।
समागताः क्षुधिताश्चाऽप्राप्य पूजां जलान्नकम् ।। १ ९।।
निराशाश्चातिरुष्टाश्च ययुः स्वस्थानमेव ते ।
पतिव्रता तु सा नारी पत्यौ ज्ञात्वा सुराश्रितम् ।।1.386.२०।।
पतिं सा पारयामास भोजनं जलमादि च ।
पत्न्यर्थं तत् प्रसादान्नं पतिशिष्टमभूत्तदा ।।२१ ।।
पतिभुक्तं तु तत्पूर्वं नासीद् देवप्रसादजम् ।
तद्दोषेण पतिर्लिप्तः पत्नी लिप्ता न धर्मतः ।।२२।।
पत्यर्थ चाऽप्रसादान्नं पत्न्यर्थं तु प्रसादजम् ।
पत्युस्तद्दोषकृज्जातं पत्न्यास्तु पुण्यदं ह्यभूत् ।।२३।।
भोजयित्वा महीमानान् भुक्त्वा भार्यापती ततः ।
सस्मरतुर्गुरूं देवर्षिपितृपूजकं तदा ।।२४।।
ज्ञातवन्तौ च भुक्तान्नमभूद् देवाद्यनर्पितम् ।
विष्णोः पूजादिकं सर्वं कृतवन्तौ पराह्णके ।।२५।।।
अथापि जातदोषस्य यावन्नाशो न विद्यते ।
तावद्भवति भोक्तव्यो भवे वा च भवान्तरे ।।।२६ ।।
कालेन गच्छता राजा ममार ज्वरपीडितः ।
अन्वारुरोह तं पत्नी चितास्थं भूपतिं पतिम् ।।२७।।
सहयानेन तौ यातौ मार्गं स्वर्गस्य तत्क्षणम् ।
तावदम्बरमार्गस्य पितरः क्रोधकारिणः ।।२८।।
अकस्माद् वै समागत्य विमानं ह्यवरोधयन् ।
क्रूरदृष्ट्या तु राजानं भालयामासुरम्बरे ।।२९।।
तावज्जायापति तस्माद्विमानात्पतितौ भुवि ।
राजा पूर्वेण दोषेण श्वा जज्ञे वैदिशे पुरे ।।1.386.३ ०।।
राज्ञी जातस्मरा जज्ञे काशीराजकुमारिका ।
सर्वविज्ञानसम्पूर्णा सर्वसल्लक्षणान्विता ।।३ १ ।।
अवश्यंभाविनो भावा भवन्ति न निवारिताः ।
पतिव्रताया अपि पितृरोषो रोधकोऽभवत् ।।३२।।
सा तु योग्या यदा जाता वरारोहा पतिव्रता ।
तां पिता दातुकामोऽभूद् वराय वारितस्तया ।।।३३।।
पुत्रीरुद्धः स विरतो विवाहारंभतो नृपः ।
दिव्यया योगदृष्ट्या सा पतिं श्वानं प्रपश्यति ।।३४।।
पित्राज्ञां सा समादाय यात्रार्थं निर्ययौ सुता ।
वैदिशाख्यं पुरं गत्वा श्वानं पतिं ददर्श ह ।।३५।।
श्वाऽपि दृष्ट्वा तु तां पत्नीं तदा जातिस्मरो ह्यभूत् ।
रुरोद क्षणमात्रं च लज्जावानभवत् क्षणम् ।।३६ ।।
सापि रुरोद तं दृष्ट्वा तदवस्थं सुदुःखितम् ।
ददौ देवप्रसादं च सत्कारवचनं जलम् ।।३७।।
पस्पर्श सशुनः पृष्ठं करेण कर्णमस्तकम् ।
भुञ्जन् दत्तं तया सोऽन्नमतिमिष्टमभीप्सितम् ।।३८।।
कुर्वन् श्वजातिललितं चकार बहुचाटुताम् ।
चाटुतां कुर्वता तेन बाला कृताऽतिलज्जिता ।।३ ९।।
सा सस्नेहा तमादेहं दयिते पशुयोनिजम् ।
स्मर्यतां तन्महाराज! देवाद्यनर्पिताऽदनम् ।।1.386.४०।।
येन श्वयोनिमापन्नः पितृक्रोधस्य भाजनम् ।
विमानात्पतितो व्योम्नो मया साकं जनेश्वर! ।।४१ ।।
प्राप्तोऽसि कुत्सितां योनिं किन्न स्मरसि तत्प्रभो ।
तयैवं स्मारिते तत्र पूर्वजातिकृतेऽवृषे ।।।४२।।।
दध्यौ चिरमथाऽवाप्य वैराग्यमतिदुर्लभम् ।
निर्विण्णमानसो भूत्वा नगरात्स विनिर्गतः ।।४३।।
कुमार्या रक्षितः सीम्नि जलेन प्रोक्षितो मुहुः ।
तावत्तस्य शरीराद्वै पापानि निर्ययुर्बहिः ।।४४।।
एकं शृगालरूपं च द्वितीयं वृकरूपकम् ।
तृतीयं गृध्ररूपं च चतुर्थं काकरूपकम् ।।४५।।
पञ्चमं मायूररूपं ददृशे वै पृथक् पृथक् ।
कुमारी प्राह तान्सर्वान् के यूयं कथमीदृशाः ।।४६।।
ते तु प्राहुस्तदा कन्यां शुनः पापानि वै वयम् ।
राज्ञा चौर्यं परराष्ट्रे कृतं पूर्वं तदस्म्यहम् ।।४७।।
प्रजाद्रव्यं वृकवच्च भक्षितं च तदस्म्यहम् ।
देवस्वं पतितं चास्य कोशे गृध्रस्तदस्म्यहम् ।।४८।।
अन्यायान्नं त्वस्य कोष्ठे जीर्णं काकस्तदस्म्यहम् ।
नदीगोचरगीर्यादेर्द्रव्यं मुक्तं शिखी त्वहम् ।।४९।।
पञ्चजन्मानि ते पत्युर्भविष्यन्ति ततः परम् ।
पुण्यस्तरेण राजाऽसौ जनको वै भविष्यति ।।1.386.५०।।
स्वयंवरे पतिं तं त्वं लब्ध्वा स्वर्गं प्रयास्यसि ।
पितरस्ते जनकस्य श्राद्धैर्मुक्तिं गता यदा ।।५१ ।।
भविष्यन्ति तदा चास्य त्वया स्वर्गं भविष्यति ।
गच्छ साध्वि! गृहं नैजं मा नो नाशय प्रोक्षणैः ।।५२।।
इत्युक्ता सा सती प्राह यदि साध्वी भवाम्यहम् ।
पतिव्रता यथार्थाऽस्मि पत्युद्धारोऽस्तु मेऽत्र वै ।।५३।।
यद्यस्मि सेविका पत्युः पितॄणां मोक्षकारिणी ।
तेन पुण्येन च यमस्त्वत्राऽऽगत्योपतिष्ठतु ।।५४।।
इत्युक्त्वा जलमादाय चिक्षेप परितस्तदा ।
शुनि देहे तथा याम्यदिशि तावद् यमः स्वयम् ५५।।
उपस्थितः सतीं प्राह शैब्ये! स्मृतः कथं त्वया ।
वद साध्वि! कुरु शीघ्रं किं ते मनसि वर्तते ।।५६।।
शैब्या प्राह शुनो देहे यानि पापानि सन्ति वै ।
तेषां नाशं विधायैव पतिः प्राप्यो मया सह ।।५७।।
वदाऽत्र सत्वरं राजन् भस्मीकरोमि चान्यथा ।
यमः प्राह शृणु साध्वि! भोगेन कर्मणां क्षयः ।।५८।।
त्वया संकल्प्यतां साध्वि! न्यायश्चापि विधीयताम् ।
यद्वा प्रदर्शयाम्यत्र कुरु शीघ्रं तथा यदि ।।५९।।
तव धर्मप्रतापेन शीघ्रं चान्तो भविष्यति ।
एकैकस्य जनोर्नित्यं पापभोगोऽस्य संभवेत् ।।1.386.६०।।
तथाऽत्र पञ्चदिवसान्नुषित्वा क्षपणं कुरु ।
सती नारी पातिव्रत्यबलेन यत्तु धारयेत् ।।६१ ।।
कर्तुं शक्ता तथा साऽत्र भवसि त्वं पतिव्रते! ।
कुरु त्वद्य जलं गृह्य संकल्पं मम सन्निधौ ।।६२।
अनेन जलयोगेन पतिर्मे मुच्यतां शुनः ।
दिनैकं स प्रेतदेहः शृगालः संभविष्यति ।।६ ३।।।
श्वः प्रातः स शृगालो वै भूत्वाऽऽयास्यति तेऽन्तिकम् ।
अनेन जलदानेन मुच्यतां स शृगालतः ।।६४।।
दिनैकं सप्रेतदेहो वृको भूत्वा परेऽहनि ।
आयास्यति जलं देहि मुच्यतां वृकयोनितः ।।६५।।
दिनैकं स प्रेतदेहो गृध्रो भूत्वा चतुर्थके ।
दिने चायास्यति देहि वारि गृध्रो विमुच्यताम् ।।६६ ।।
दिनैकं स प्रेतदेहो मयूरः संभविष्यति ।
पञ्चमेऽहनि वार्देहि मयूरोऽयं प्रमुच्यताम् ।।६७।।
मायूरं त्वस्य वर्ष्मापि वाजिमेधमहाक्रतोः ।
अवभृथे जनकस्य निक्षिप सलिले सति ।।६८।।
यज्ञपुत्रो जनकस्य भविष्यति पतिस्तव ।
जातमात्रो युवा पुष्टो दिव्यो ज्ञानी प्रतापवान् ।।६९।।
स्वयंवरे गृहाण त्वं पातिव्रत्यबलात् सति! ।
बहुवर्षसहस्राणि कुरु राज्यं ततः परम् ।।1.386.७०।।
इत्युक्त्वाऽन्तर्दधे धर्मो नत्वा शैब्यां पतिव्रताम् ।
शैब्यां तथा तथा सर्वं प्रत्यहं विदधे मुदा ।।७१ ।।
श्वाऽपि प्रेतस्तथा भूत्वा नित्यं जहाति वै तनुम् ।
एवं राजकुमारोऽसौ षष्ठेऽह्नि समजायत ।।७२।।
ऋतुध्वजोऽभवन्नाम्ना जातमात्रो युवा बली ।
ततः सा स्वगृहं साध्वी समागत्याऽर्थयत् पुनः ।।७३ ।।
तमेव दिव्यपुरुषं पतिं स्वमनसा सती ।
ततश्च पितरं शैब्या विवाहार्थमनोदयत् ।।७४।।
स चापि कारयामास शिबिस्तस्याः स्वयंवरम् ।
स्वयंवरे कृते साध्वी संज्ञातं पतिमात्मनः ।।७५।
मुदा ववार भूयोऽपि भर्तृभावेन भामिनी ।
बुभुजे च तया सार्धं नृपभोगान्नृपः पुनः ।।७६।।
पितृपरम्पराप्राप्तं राज्यं विदेहभूमिषु ।
चकार विधिवत्पितृमोक्षणं यज्ञकर्मभिः ।।७७।।
इयाज यज्ञान्सुबहून् ददौ दानानि चार्थिषु ।
पुत्रानुत्पादयामास भुक्त्वा राज्यवसुन्धराम् ।।७८।।
तत्याजाऽशीतिसाहस्रवर्षान्ते स्वकलेवरम् ।
ततश्चितास्थं तं भूयो भर्तारं सा पतिव्रता ।।७९।
अन्वारुरोह विधिवद् यथापूर्वं मुदान्विता ।
ततोऽवाप तया सार्धं राजपुत्र्या स पार्थिवः ।।1.386.८०।।
ऐन्द्रानतीत्य वै लोकान् लोकान् कामदुहोऽक्षयान् ।
स्वर्गाऽक्षयत्वमतुलं दाम्पत्यमतिदुर्लभम् ।।८१ ।।
सत्यलोकात्परं प्राप्य वैराजस्थलमेव च ।
प्राप पुण्यफलं तत्र पतिव्रताप्रभावतः ।। ८२।।
वैकुण्ठं जलतेजःस्थ प्राप सा स्वामिना सह ।
शैब्या हि वैष्णवी राज्ञी ऋतुध्वजनृपान्विता ।।८३।।
एवं पतिव्रतानार्या पतिः स्वस्य समुद्धृतः ।
पितरस्तारिताश्चापि वैकुण्ठवासिनः कृताः ।।८४।।
पापानि स्वप्रतापेन नाशितानि दिने दिने ।
पठनाच्छ्रवणाच्चास्य समुद्धारो भवेद्ध्रुवम् ।।८५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये शैब्यापत्युर्देवपित्राद्यनर्पितभोजनेन पापान्तरैश्च शृगालवृकगृध्रकाकजन्मानि पञ्चाहेषु समाप्य ऋतुध्वजाख्यराजपुत्रत्वं वैकुण्ठमोक्षणं च पातिव्रत्यप्रतापेनेत्यादिनिरूपणनामा षडशी-
-त्यधिकत्रिशततमोऽध्यायः ।। ३८६ ।।