लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३८७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३८६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३८७
[[लेखकः :|]]
अध्यायः ३८८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! च विप्रायाः पातिव्रत्यबलाश्रिताम् ।
कथां वदामि ते रम्यां श्रवणाद्धर्मवर्धिनीम् ।। १ ।।
विन्ध्यभूमौ बभूवाऽऽद्ययुगे योगविशारदः ।
वेदश्रवा महर्षिश्च जपयज्ञपरायणः ।। २ ।।
बहुवृक्षाकुले रम्ये शाद्वले जलसन्निधौ ।
पर्णकुटीं शुभां कृत्वा वसति स्म वने सदा ।। ३ ।।
होमं देवार्चनं सन्ध्यामतिथेः पूजनादिकम् ।
सूर्यमन्त्रजपादींश्च कृत्वा वन्यफलादनः ।। ४ ।।
आत्मश्रेयःपरोभार्याद्वितीयोऽरण्यकासनः ।
वर्तते स्म सदाचारः पत्नीव्रतपरायणः ।। ५ ।।
क्वचिद् योगसमाधौ स तिष्ठत्येव दिनानि षट् ।
भार्यापि सुव्रता तस्य नित्यं सेवापरायणा ।। ६ ।।
ब्रह्मिष्ठा योगिनी नाम्ना सुश्रुतिर्हि पतिव्रता ।
स्नानध्यानार्हणाध्ययनादिसत्कार्यवर्तिनी ।। ७ ।।
ब्रह्म ध्यात्वा पतिं नत्वा सम्पूज्य प्रातरेव सा ।
आत्मानं मन्यते श्रेयःपरं प्राप्तां सजीवनीम् । । ८ ।।
आत्मा चास्ति परब्रह्मकिरणं स च मे पतिः ।
पतिरेव परंब्रह्म धर्मः सर्वोऽस्ति वै प्रिये ।। ९ ।।
प्रियस्य या प्रियंकर्त्री तस्याः प्रियं सदा भवेत् ।
छाया देहं यथा तद्वत् पत्नी पतिमनुश्रयेत् ।। 1.387.१० ।।
पत्न्याः सर्वेविधो धर्मः पत्यावेवाऽवतिष्ठति ।
पत्यौ तुष्टे हरिस्तुष्टो रुष्टे पत्यौ सरुट् हरिः ।। ११ ।।
भोगदानेन भोज्यादिप्रदानेन च सेवया ।
माधुर्यादिप्रदानेनाऽर्हणया तोषयेत्पतिम् ।। १ २।।
संवाहनं तदंगानां मर्दनं वर्ष्मणः सदा ।
शयनं स्वामिना साकं रमणे विग्रहेण च ।। १ ३।।
आप्लवनं जलाद्यैश्च शोभनं दिव्यवस्तुभिः ।
सुगन्धनं कुसुमादिसारैः संपोषणं फलैः ।। १४।।
रक्षणं जाग्रतिभावैः रञ्जनं सहखेलनैः ।
तोषणं तद्धृदि वासैर्गमनं चैकभावतः ।। १५।।
आनन्दनं तनुदानैस्तर्पणं नेत्रदानकैः ।। १६।।
हवनं चाऽपत्यदानैर्जपनं ओमितिकृतैः ।
स्नपनं रतिदानैश्च ध्यानं चात्मसमर्पणैः ।। १७।।
दानं ऋतुप्रदानैश्च धर्मं सह प्रवर्तनैः ।
यानं सह विहारैश्च निधनं तत्समर्पणैः ।।१८।।
सती साध्वी सार्थकं वै पत्यौ कुर्यात् पतिव्रता ।
इति धर्मान्परान् स्वामिपरायणान् स्वमानसे ।। १ ९।।
सर्वधर्मोत्तमान् ज्ञात्वा सेवते सा पतिं वने ।
सुश्रुतिर्योगिनी योगे समाधौ तिष्ठति क्वचित् ।।1.387.२० ।।
तस्या अग्रेऽप्यरण्यानां पशूनां यत्परस्परम् ।
वैरं साहजिकं तद्वै शान्तं चाभूत् सहस्थिते ।।२१ ।।
ऋषिश्चापि सदा पत्नी सहायः शुभधार्मिकः ।
ब्रह्मदृष्ट्या स्थितिं श्रेष्ठां प्राप्तो भार्यात्मदर्शनः ।।२२।।
भार्यां भार्या न वै मेने मेने तां परमेश्वरीम् ।
परब्रह्मतनोर्जातां परब्रह्मस्वरूपिणीम् ।।२३।।
पत्नीं त्यक्त्वा न स विप्रो भुंक्ते कन्दफलादिकम् ।
स्वसेवार्थं तथाऽऽयासे न युनक्ति मृषा क्वचित् ।।२४।।
शरीरं मनुते क्षय्यं नश्वरं जलबिन्दुवत् ।
प्रसन्नः सर्वदा चास्ते मत्वा ब्राह्मीं प्रियां सतीम् ।।२५।।
रसनाया रसे नैव कर्णस्य श्रवणे न च ।
नासिकायां न च गन्धे त्वचः स्पर्शं न वै तथा ।।२६।।
चक्षुषोर्न च रूपेऽपि समासक्तो विरागवान् ।
भार्या पतिव्रता ब्राह्मी रसाद्यात्मा ह्यभूत् कृता ।।२७।।
पत्नीधर्मः परो धर्मो मुक्तिः पत्नीप्रसेवनात् ।
पतिव्रतायास्तोषेण तुष्यन्ति देविकासुराः ।।२८।।
भोजने शयने याने पाने विहरणे वने ।
रंजने स्वपने कार्ये ज्ञाने जपे सुरार्हणे ।।२९।।
शृंगारे चोत्सवस्थाने वैराग्ये श्रवणे रसे ।
गायने नर्तने वाद्ये विश्रान्ते शाद्वलाश्रये ।।1.387.३ ०।।
आभूषणे गृहकार्ये वनकार्ये विनोदके ।
हसने श्रवणे वादे विचारे ब्रह्मभावने ।।३ १ ।।
आर्तवे विकृतौ स्वास्थ्ये सुखे दुःखे च तापने ।
संशये तर्कणे खाने पाने संस्करणे गिरि ।।३२।।।
प्रसाधने पवित्रणे त्राणने दिनयापने ।
आलस्ये जल्पने पुराख्याने सर्वत्र भूसुरः ।।३३।।
पत्नीधर्मं पुरस्कृत्य वर्तते नान्यथा क्वचित् ।
एवं तौ धर्ममापन्नौ परस्परं तदात्मकौ ।।३४।।
वर्तेते स्माऽभिन्नधर्मौ पत्नीपतिसमार्थकौ ।
परस्परं प्रकुर्वाते सेवां ब्रह्ममयीमुभौ ।।३५।।
कामचारौ कामरूपौ सेवाधर्मपरायणौ ।
आत्मतृप्तिप्रदौ मत्वा ब्रह्मतृप्तिं हि सेवया ।।३६।।
यद्दर्शनाद्धि पापानि प्रयान्ति विलयं खलु ।
तादृशीं साधुतां प्राप्तौ विन्ध्यारण्यनिवासिनौ ।।३७।।
मनुष्यो न यथा पश्येत् क्वचिद् भवत ऐणकौ ।
पशुर्न च यथा पश्येत् शुकौ भवतश्च क्वचित् ।।३८।।
पक्षी न तौ यथा पश्येत् मत्स्यौ च भवतः क्वचित् ।
यादश्च न यथा पश्येद् गोवृषौ भवतः क्वचित् ।।३९।।
कश्चित्पराभवेन्नाऽतो व्याघ्रौ च भवतः क्वचित् ।
सिंहौ हंसौ सरीसृपौ शाखामृगौ क्वचित्क्वचित् ।।1.387.४०।।
भवतस्तौ वने तत्र क्वचित् सजटतापसौ ।
क्वचित्कल्पलताकल्पद्रुमरूपौ घनागमे ।।४१ ।।
क्वचिन्मणिस्वरूपौ च क्वचिद् वायुस्वरूपिणौ ।
क्वचिद् देवस्वरूपौ च क्वचिद् बालस्वरूपिणौ ।।४२।।
क्वचिद् वृद्धौ युवानौ चादृश्यौ दृश्यौ बभूवतुः ।
क्वचिद् विप्राऽतिथियोगे गुरुशिष्यस्वरूपिणौ ।।४३।।
पितृपुत्रस्वरूपौ वा यथापेक्षं व्यजायताम् ।
पत्नीव्रतं पतिव्रते यथा लोपे न चाप्नुयात् ।।४४।।
तथा तथा स्वरूपैस्तौ वर्तेते स्म वनादिषु ।
अथ मासिकधर्मान्ते ऋतुस्नातां पतिव्रताम् ।।४५।।
ऋतुदानप्रदानार्थं युयुजे कामधर्मतः ।
ऋषिर्मानुषधर्मेण रतिकेलिपरायणः ।।४६ ।।
कामधर्माश्रितयोर्विप्रयोराश्रमसन्निधौ ।
स्फीतान्धतमसि कश्चिन्मानवो मानवीं गिरम् ।।४७।।
वदन्नटन्वनं तत्राऽकस्मादागतवाँस्तदा ।
तेनाऽदृष्टौ द्विजौ तावत् कामविघ्नं विचार्य च ।।४८।।
शब्देन मानुषं ज्ञात्वा प्रच्छन्नौ मृगरूपिणौ ।
बभूवतुस्तदा तत्राऽवियुक्तौ कामनायुतौ ।।४९।।
अप्राप्तौ कामनातृप्तिं पशुधर्मं समाश्रितौ ।
मनुष्यभालितौ चापि कामिनौ पशुधर्मिणौ ।।1.387.५०।।
मन्येते नैव लज्जां तौ तौ न निन्दन्ति मानवाः ।
कामासक्तौ पशूनैव ध्याने कुर्वन्ति मानुषाः ।।।५१ ।।
पशून्नग्नान् ज्ञानहीनान् लज्जाधर्मादिहीनकान् ।
मत्वा तु मानवाः पश्वोर्विघ्नयन्ति न मैथुने ।।५२।।
मैथुनस्थाः पशवोऽपि गणयन्ति न मानवान् ।
ऋतुदानं कामतृप्तिः पशुरूपेऽद्य संभवेत् ।।।५३।।
मानुषे तु मानुषस्याऽऽतिथ्यं कर्तव्यमापतेत् ।
अशुद्धौ च कथं तत् स्यात् परिहर्तव्यमेव तत् ।।।५४।।।
रिक्तं पर्णगृहं मत्वा चाऽविलोक्य ऋषिं ततः ।
वनान्तरं मानवोऽयं गमिष्यति शुभं भवेत् ।।५५।।
निशा तु निष्फला न स्यात् स्यात्काले ऋतुदानकम् ।
कामाऽशान्तिकृतो वह्निर्न च पत्नीं प्रतापयेत् ।।५६।।
बीजं त्वर्धमथनादिप्राप्तं नो विकृतिं व्रजेत् ।
ऋत्वदानसमुत्थश्च यथा दोषो न चापतेत् ।।५७।।
सुखयाप्यं तथा सर्वं मृगरूपे धृते भवेत् ।
इति कृत्वा मृगरूपौ कामारूढौ बभूवतुः ।।५८।।
किन्तु तथापि तत्काले जातं वै विपरीतकम् ।
मानुषः स तु बाणेन दृष्ट्वा विव्याध तन्मृगम् ।।५९।।
मृगो मृगी दुद्रुवतुः कामधर्मं विहाय वै ।
त्रासात् प्रधावितयोश्च पृष्ठं जग्राह मानवः ।।1.387.६ ०।।
ततस्तौ मानवं व्याधं मत्वा वै पशुहिंस्रकम् ।
पशुरूपं विहायैव ऋषिरूपौ बभूवतुः ।।६ १ ।।
एवं कृतेऽपि व्याधः स निववृते न मानवौ ।
दृष्ट्वापि ब्राह्मणौ हृष्टो धर्तुं वेगेन संययौ ।।६२।।
ब्राह्मणं धृतवाँस्तूर्णं भक्षणार्थं स राक्षसः ।
ब्राह्मणी कामधर्मा सा निर्जनारण्यवासिनी ।।६ ३ ।।
कान्ताऽऽधारा निराधारा विललाप जगाद च ।
पादयोः पतिता तेऽत्र मां वा भक्षय भक्षक! ।।६४।।
मां तु निराश्रयां ज्ञात्वा देहि पतिधनं मम ।
शरण्यस्य शरणस्था नारी वै किंकरी तव ।।६५।।।
विलोक्य पतिधर्मां मां कामधर्मं विमोचय ।
वित्तहीनं प्रमत्तं च सुप्तं पृष्ठप्रदर्शिनम् ।।६६।।
प्रपन्नं चाश्रितं दीनं तवाऽस्मीतिब्रुवं जनम् ।
गुरुं च पितरं रुग्णं मातरं भगिनीं प्रियाम् ।।६७।।
साधुं साध्वीं बालकं गां स्त्र्यासक्तं स्त्रीं रतिस्थिताम् ।
सुप्तं निष्कल्मषं नैव मारयेद् घातयेन्न वा ।।६८।।
नाऽनेन ते हतं किञ्चिन्न वा दुष्टं विचिन्तितम् ।
वन्यधर्मपरश्चायं न द्रोग्धा ते कदाचन ।।६९।।
ब्राह्मणोऽयं न हन्तव्यो ब्रह्महत्या तु ते भवेत् ।।1.387.७०।।
ऋतुहत्या महत्पापं बालहत्याकरं हि ते ।
भक्ष्यार्थं प्राणिनः सन्ति मा हिंसि मे पतिं नरम् ।।७१ ।।
अयं मे प्राणनाथोऽस्ति सर्वथा जीवनं मम ।
तन्नाशे स्यां विधवा स्त्री सर्वमांगल्यवर्जिता ।।।७२।।।
मा कुरु निष्फलं जन्म वैधव्यपापगर्भितम् ।
दयालुर्भव मे वाक्ये याचे सर्वस्वमेव मे ।।७३ ।।
अनेन पतिना सार्ध स्वर्गे मोक्षोऽत्र मेऽस्ति वै ।
तन्नाशे यमलोकोऽयं देहो मे वै भविष्यति ।।७४।।
मुञ्च नाथं कृपां कृत्वा स्वर्गं ते वै भविष्यति ।
मा जहाहि पतिं मेऽत्र मा जहीहि वृषं मम ।।।७५।।।
प्रसीदेक्ष्वाकुवंश्यानां तिलक! त्वं पतिं मम ।
त्यज राजन् रक्ष धर्मं ययाचे त्वां मुहुर्मुहुः ।।७६।।
कामधर्माऽकृतार्थायां मयि कृपाकरो भव ।
न बुद्ध्यसे ऋतुधर्मसुखाऽभिज्ञोऽतिपापवान् ।।७७।।
एवं याचितवत्याः स वाक्यं कर्णे चकार न ।
तस्यां तु विलपन्त्यां स भर्तारं समभक्षयत् ।।७८।।
रुरोद सा सती तत्र दुःखिताऽतिप्रतापिनी ।
अतिकोपयुता तं राजान शशाप दुःखिनी ।।७९।।
त्वया मय्यप्रतृप्तायां मत्पतिर्भक्षितो यतः ।
त्वमप्यन्तं प्रियाभोगप्रवृत्तौ प्राप्स्यसि ध्रुवम् ।।1.387.८०।।
इत्युक्त्वा सा पत्युरस्थिखण्डं नीत्वा करे सती ।
पातिव्रत्यप्रतापेन जीवयामास तं पतिम् ।।८१ ।।
राक्षसं दग्धुकामाऽपि व्योमवाण्या निवारिता ।
वशिष्ठशापाद् दग्धोऽसौ सौदासो राक्षसो भवन् ।।८२।।
कल्माषपादः संभूत्वा समाः भ्रमति द्वादश ।
पश्चाच्छापविनिर्मुक्तो मदयन्तीपतिर्नृपः ।।८३।।
भविष्यति प्रजापालो मैनं शापेन योजय ।
वैवस्वतो मनोर्वंशे जाता नृपतयः सति! ।।८४।।
इक्ष्वाकुनृगशर्यातिनाभागाद्या हरेः प्रियाः ।
सुद्युम्नेलापुरूरवागयशतमुखादयः ।।८५।।
करन्धमाऽविक्षिमरुत्तृणबिन्दुविशालकाः ।
शर्यात्यानर्त रैवतककुद्म्यम्बरिषादयः ।।८६।।
शशादककुत्स्थपृथुयुवनाश्वमान्धातृकाः ।
रुक्मांगदमुचुकुन्दाऽनरण्यकत्रिशंकवः ।।८७।।
हरिश्चन्द्रसगरांशुमद्दिलीपभगीरथाः ।
जनकबदरर्तुपर्णसुदाससौदासकाः ।।८८।।।
दिवोदासेन्द्रद्युम्नतोण्डमद्रामकयाधुजाः ।
एतेऽभवन् हरेर्भक्ता महाभागवता नृपाः ।।८९।।
वशिष्ठादिकृपापात्रचमत्कारसमृद्धयः ।
सौदासोऽयमटव्यां वै व्याघ्रद्वयमलोकयत् ।।1.387.९०।।
व्याघ्राभ्यां तु वनं सर्वं खादित्वाऽपमृगं कृतम् ।
मृगयां न ततो राजालब्धवानिति रोषतः ।।९१ ।।
व्याघ्रमेकं जघानाऽथाऽपरो व्याघ्रो विदुद्रुवे ।
म्रियमाणश्च वै व्याघ्रो राक्षसो भीषणाकृतिः ।।९२।।
कृत्वाऽदृश्योऽभवत्तत्र द्वितीयोऽपि तु राक्षसः ।
प्रतिक्रियां करिष्यामीत्युक्त्वाऽन्तर्धी जगाम ह ।।९३।।
अथ कालेन सौदासो यज्ञं चकार वैष्णवम् ।
आचार्ये तु वशिष्ठे च विनिष्क्रान्ते सदक्षिणे ।।९४।।
वसिष्ठरूपमास्थाय राक्षसः स समागतः ।
देयं मे भोजनं मांसं संस्करोतु द्रुतं त्विह ।।९५।।
क्षणादिहाऽऽगमिष्यामीत्युक्त्वा निष्क्रान्त एव सः ।
सूदवेषं पुनः कृत्वा राक्षसः स महानसे ।।९६।।
विवेश मानुषं मांसं संस्कृत्य क्ष्माभृते ददौ ।
सौदासोऽपि स्वर्णपात्रे मांसमादाय तदृषेः ।।९७।।
वाटं विलोक्य भक्तिमान् प्रतीक्षातत्परोऽभवत् ।
आगताय वसिष्ठाय नरमांसं स चार्पयत् ।।९८।।
वसिष्ठो नैव जानाति केनोक्तं किं कृतं न्विदम् ।
इति चिन्तापरो भूत्वा किं वस्त्विति व्यलोकयत् ।।९९।।
ज्ञात्वा ध्यानेन मांसं तन्मानुषं वै समर्पितम् ।
अहो राज्ञोऽस्य दौःशील्यं मांसं मम प्रयच्छति ।। 1.387.१० ०।।
तत्रापि मानुषं चैतद् राक्षसार्हं प्रयच्छति ।
इति क्रोधपरो भूत्वा तूर्णं शशाप भूभृतम् ।। १०१ ।।
यस्मादभोज्यमस्माकं जानन्नपि ददासि मे ।
तस्मात्त्वं नरमांसादो भव राजन् विगर्हितः ।। १ ०२।।
राज्ञा स्फुटीकृतं कृत्यं कस्येदं ज्ञातवान् ऋषिः ।
नाऽपराधस्तु राजर्षेः राक्षसेन कृतं हि तत् ।। १ ०३।।
इति विज्ञाततत्त्वश्च वसिष्ठः करुणाकरः ।
सौदासे द्वादशाब्दं राक्षसत्वं कृतवान् मुनिः ।। १ ०४।।
न त्वात्यन्तिकमित्येवमनुग्रहं चकार वै ।
सौदासोऽपि करे धृत्वोदकं शप्तं समुद्यतः ।। १ ०५।।
वशिष्ठाय तदा तस्य मदयन्ती सती प्रिया ।
पतिं रुरोध सहसा गुरुं शप्तुं ददौ न सा ।।१ ०६।।
गुरवो न हि शप्तव्या रक्षकास्तारकाश्च ते ।
कल्याणं वचने तेषां शिष्याणां सर्वथा हितम् ।। १ ०७।।
इति प्रसादितो राजा जलं चिक्षेप पादयोः ।
स्वपादौ मन्त्रशापोददग्धौ कल्माषतां गतौ ।। १ ०८।।
ततः कल्माषपादोऽसौ सौदासो मांसभक्षकः ।
षष्ठे काले राक्षसत्वमुपेत्य पर्यटन् क्षितौ ।। १ ०९।।
अनेकशो मानुषाँश्चाऽभक्षयद्विविधे वने ।
सोऽयं राजाऽस्ति सौदासो वशिष्ठस्य प्रशापतः ।। 1.387.११ ०।।
दग्धोऽस्ति राक्षसे भावे तव पत्युः प्रभक्षकः ।
रतिभंगकृतं पापं स्त्रीसंगेऽस्योपयास्यति ।। १११ ।।
मरिष्यति ह्ययं राजा माऽन्यं शापं प्रदेहि तम् ।
क्षमां कुरु सति! चात्र पतिस्त्वया प्रजीवितः ।। १ १२।।
तदोक्तं च वशिष्ठेन यदा वेदश्रवाः ऋषिः ।
सुश्रुतया समं वने तव नाश्यो भविष्यति ।। ११ ३।।
तदुत्तरं त्वदुद्धारो रक्षोभावाद् भविष्यति ।
निधनं वेदश्रवसस्तव हस्तेन वेधसा ।। १ १४।।
लिखितं वै तावदेव तस्याऽऽयुरस्ति नाऽधिकम् ।
ततः पत्न्या जीवितोऽपि पातिव्रत्यबलेन वै ।। १ १५।।
भूमौ स्थातुं न वै योग्यः स्वर्गं पत्न्या गमिष्यति ।
सौदासश्च मदयन्त्यां वशिष्ठेन महर्षिणा ।। १ १६।।
नियोजितेन बीजार्थं वासिष्ठान् शतपुत्रकान् ।
लब्ध्वा पश्चान् मदयन्त्यां कामभोगं करिष्यति ।। १ १७।।
मृत्युना मोहितस्तत्राऽलब्धकामविनिर्वृत्तिः ।
मृत्युं प्राप्स्यति द्रागेव कालः सोऽयं समागतः ।। १ १८।।
अश्मकाद्यास्तस्य पुत्रा भविष्यन्ति हि सात्त्वताः ।
खद्वांगश्च दिलीपश्च रघुर्दशरथस्ततः ।। १ १९।।
रामचन्द्रादयश्चान्ये भविष्यन्ति प्रमुक्तिदाः ।
तदेवं निश्चितं मत्वा सुश्रुते त्वं पतिं स्वकम् ।। 1.387.१ २०।।
चितां कृत्वाऽत्र काष्ठीयां पातिव्रत्यविधानतः ।
अग्निं प्रज्वाल्य चांगुष्ठान्नारीमानुषविग्रहम् ।। १२१ ।।
पत्यस्थ्ना सह संगग्ध्वा जीवितं स्वामिनं पुनः ।
विलीयाऽत्रैव संघातकृतं सर्वं समाप्य च ।। १ २२।।
दिव्या त्वं दिव्यपतिना वह्निशुद्धा च नाकिना ।
शरीरेण विमानेऽत्र पतिं नीत्वा प्रयाहि वै ।। १ २३।।
नाऽन्या पतिव्रता पत्नी ते समाऽन्या भविष्यति ।
ब्रह्मणो दिनपर्यन्तं स्वर्गे सुखमवाप्य च ।। १ २४।।
ततो यास्यसि वैकुण्ठं तेनैव पतिना सह ।
इत्युक्त्वाऽऽकाशवाणी सा विरराम च सुश्रुतिः ।। १ २५।।
ननाम तां दिशं राजा ननाम च सतीं तदा ।
ययौ क्षमां सुयाचित्वा स्वकं वै नगरं प्रति ।। १ २६।।
सस्मार सुश्रुतिस्तत्र वशिष्ठं सोऽप्यदृश्यत ।
नत्वा धृत्वा पतिं काष्ठचितायां निजवह्निना ।। १ २७।।
भस्मीकृत्वा सती देहौ दिव्यौ विधाय च ।
नत्वा वशिष्ठं यानेन ययतुः स्वर्गमेव तौ ।। १२८।।
देवदुन्दुभयो नेदुः पुष्पवृष्टिर्बभूव ह ।
इति ते कथितं लक्ष्मि! चमत्कारकरं परम् ।। १ २९।।
प्राग्वृत्तं दिव्यसिद्ध्यादिप्रदं तत्पठनात्तथा ।
श्रवणाच्च भवेद्धर्मदार्ढ्यं स्वर्गं च मोक्षणम् ।। 1.387.१३ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये वेदश्रवसः पत्न्याः पतिव्रतायाः सुश्रुतेश्चमत्काराः, कल्माषपादात्मकराक्षसस्य कामासक्तयोर्वेदश्रवःसुश्रुत्योराश्रमं प्रत्यागमनं, वेदश्रवसो राक्षसकृतभक्षणं, सुश्रुतिदत्तशापः, आकाशवाण्या
सौदासस्य राक्षसत्वे निमित्तकारणाख्यानकथनं, वशिष्ठसन्निधौ सुश्रुतिवेदश्रवसोः सतीबलेन स्वर्गमनमित्यादिनिरूपणनामा सप्ताऽशीत्यधिकत्रिशत-
तमोऽध्यायः ।। ३८