लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३८५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३८४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३८५
[[लेखकः :|]]
अध्यायः ३८६ →

श्रीनारायण उवाच-
मन्नाम्नां त्वं कीदृगर्थान् सुजानासि पतिव्रते! ।
वद मां येन तुष्यामि ज्ञात्वा ते ज्ञानमुत्तमम् ।। १ ।।
इत्युक्ता भार्गवी सा त्वं व्युत्पत्तिं प्रचकर्थ ह ।
कृषिर्भूवाचकः शब्दः णश्च निर्वृत्तिवाचकः ।। २ ।।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ।
दुःखानां कर्षणाद् धाम्नि नयनात् कृष्ण उच्यते ।। ३ ।।
राशब्दः संपदां नाम मो माने प्रोच्यते सदा ।
सम्पत्प्रमाणदः कृष्णो रामनामा समुच्यते । । ४ ।।
रमते रमया सार्धं तेन रामः समुच्यते ।
रमाया रमणस्थानं रामः कृष्णः स उच्यते ।। ५ ।।
नरात्मनां समुदायेऽयनं संवासमेव यः ।
करोत्ययं प्रभुर्नारायणः कृष्णः स उच्यते ।। ६ ।।
नारा पापानि वै तेषां चाऽयं नाशो यतो भवेत् ।
नारायणः स एवाऽस्ति कृष्णनारायणः प्रभुः ।। ७ ।।
नारा जलानि तत्राऽऽस्ते तेन नारायणः स हि ।
नारा तु भार्गवी लक्ष्मीस्तयाऽयनं करोति यः ।। ८ ।।
कृषिश्च प्रेम तन्नेता कृष्णनारायणः स वै ।
भवान् मम पतिः श्रीश्रीकृष्णनारायणो हरिः ।। ९ ।।
हरसि भक्तदुःखानि हरिस्त्वं भगवान् स्वयम् ।
षडैश्वर्यसमेतस्त्वं भगवान् प्रोच्यते सदा ।। 1.385.१० ।।
भगं भक्तस्तदेस्यास्ति भगवाँस्त्वं ततो मतः ।
अंकुरो भक्तिवृक्षस्य भक्तसंगेन वर्धते ।। ११ ।।
तथा हरिकथालापपीयूषसेचनेन च ।
अभक्तालापदीपाग्निज्वालायाः कलयाऽपि तु ।। १ २।।
अंकुरः शुष्कतां याति भक्तसेक्तेन वर्धते ।
तस्मादभक्तसंघं वै सावधाना त्यजामि वै ।। १ ३।।
कृषिसत्कृष्टवचनो णश्च सद्भक्तिबोधकः ।
अश्चापि दातृवचनः कृष्णस्त्वं प्रोच्यसेऽपि च ।। १४।।
कृषिश्च परमानन्दे णश्च तद्दास्यकर्मणि ।
तयोर्दाता भवान् कृष्णः कृष्णदासी च भार्गवी ।। १५।।
कृषिः क्लेशस्तस्य नाशात् कृष्णस्त्वयि प्रवर्तते ।
जलं भित्त्वा यथा पद्मं तथा भक्तस्त्वदाश्रयात् ।। १६।।
उद्धरति कृष्णनारायणनाम्ना भवार्णवात् ।
श्रिया त्वं श्रीकृष्णनारायणो युक्तोऽसि वै मया ।। १७।।
मम भाग्यं महन्मन्ये तव योगात्परेश्वर ।
धन्या सा कंभरालक्ष्मीर्धन्यो गोपालकृष्णकः ।। १८।।
यद्गृहे श्रीकृष्णनारायणस्त्वं वर्तसे सदा ।
यद्वाचि श्रीकृष्णनारायणनाम प्रवर्तते ।। १ ९।।
भस्मीभवन्ति वै तस्य महापातककोटयः ।
दिव्यो भूत्वा महामुक्तो जायते न पुनर्भवः ।।1.385.२०।।
सर्वेषामपि यज्ञानां लक्षाणि च व्रतानि च ।
तीर्थस्नानानि सर्वाणि तपांस्यनशनानि च ।।२१ ।।
वेदपाठसहस्राणि प्रादक्षिण्यं भुवः शतम् ।
कृष्णनारायणनाम्नः कलां नार्हन्ति षोडशीम् ।।२२।।
मा च ब्राह्मी वैष्णवी श्रीर्नारायणी सनातनी ।
महालक्ष्मीर्भार्गवी च तासां स्वामी च माधवः ।।२३।।
त्वयि सर्वेश्वरे भक्तिस्त्वद्दास्यं मे सदाऽस्तु वै ।
तव नाम्नां भजनं च सर्वदाऽस्तु च मे हृदि ।।२४।।
देहेन मनसा वाचा क्रियया सर्वकर्मभिः ।
तवैव सेवनं नाथ! वाञ्छितं मे सदाऽस्तु तत् ।।२५।।
तपस्तप्तं तदर्थं वै सेविष्ये मत्प्रियं पतिम् ।
आनन्दं च त्वया दत्तं भोक्ष्ये शाश्वतमेव च ।। २६।।
इत्युक्त्वा भार्गवी लक्ष्मि! विरराम हरेः पुरः ।
तावत्सख्यः समायाता भूषयितुं तु भार्गवीम् ।। २७।।
कृष्णनारायणो ज्ञात्वाऽवसरं चोत्थितस्तदा ।
नर्मदायास्तटे यातो विहारार्थं वयस्यकैः ।।२८ ।।
तावत्तत्र दिव्यरूपाः सर्वा नारायणप्रियाः ।
रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ।।२९।।
कृष्णपत्नी प्रभादेवी रत्नमालां गले ददौ ।
पार्वती दक्षिणे हस्ते क्रीडापद्म ददौ शुभम् ।। 1.385.३०।।
पद्मा तस्या ददौ पादपद्मयुग्मेऽप्यलक्तकम् ।
प्रददौ माणिकी पत्नी सिन्दूरं सुन्दरं वरम् ।।३ १ ।।
चन्दनेन समायुक्तं सीमन्ताऽधस्तलोज्ज्वलम् ।
सुचारुकबरी रम्यां चकार मंगला प्रिया ।। ३२।।
मनोहरां मुनीनां च मालतीमाल्यभूषिताम् ।
स्थलपद्मदलपुष्पग्रथितं धम्मिलं व्यधात् ।।३३ ।।
कस्तूरीकुंकुमाक्तं च चारुचंदनपत्रकम् ।
स्तनयुग्मे सुकठिने चकार ललिता प्रिया ।। ३४।।
चारुचम्पकपुष्पाणां मालां गन्धमनोहराम् ।
सुधासखी ददौ तस्यै प्रफुल्ला नवमल्लिकाम् ।।३५।।
जया रत्यां सुरसिका रत्नभूषणभूषिताम् ।
तां चकाराऽतिरसिकां वरां रतिरसोत्सुकाम् ।।३६।।
शरत्पद्मदलाभं च लोचनं कज्जलोज्ज्वलम् ।
कृत्वा ददौ सुललितं पाञ्चाली चाम्बरं नवम् ।।३७।।
विजया पारिजातानां कुसुमानि करे ददौ ।
अमृता च सखी तैलं सुगन्धं प्रददौ तनौ ।।३८।।
रतिः शृंगारविषयं स्मारयामास राजसम् ।
सुधोपमं सुमधुरं वचनादि प्ररञ्जकम् ।।३९।।
कमलानां चम्पकानां दले चन्दनचर्चिते ।
चकार रतितल्पं च कमला चाशु कोमलम् ।।1.385.४०।।
चारु चम्पकपुष्पाणि स्थलाब्जानां दलानि च ।
चकार चन्दनाक्तानि कृष्णार्थं शारदा प्रिया ।।४१ ।।
केलिकदम्बपुष्पाणां स्तबकं च मनोहरम् ।
तथा माला कदम्बानां श्रीः कृष्णार्थं चकार ह ।।।४२।।।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।
कृष्णा चकार कृष्णार्थं ददौ तस्यै तथाऽपरम् ।।४२।।
कर्णयोर्भूषणे मेना धन्या ललाटभूषणम् ।
कलावती तु भार्गव्यै ददौ नासाविभूषणम् ।।४४।।
सिद्धिस्त्वस्यै ददौ गन्धसारं चोष्ठप्ररंजनम् ।
ब्रुद्धिर्ददौ तु भार्गव्यै गण्डबिन्दु मनोहरम् ।।४५।।
हरेर्वसुमती पत्नी रत्नहारान् गले ददौ ।
मूर्तिश्चास्यै ददौ रम्यां कंचुकीं कांचनप्रभाम् ।।४६।।
सावित्री च ददौ यज्ञोपवीतं कांचनं वरम् ।
प्रेयसी च ददौ त्वस्यास्तनयोश्चन्दनं शुभम् ।।४७।।
श्रेयसी च ददौ कट्यां रशनां स्वर्णनिर्मिताम् ।
ऋतम्भरा ददौ त्वस्यै प्रकोष्ठशृंखला शुभाम् । ।४८। ।
भूरिशृङ्गा ददावस्यै भुजयोः कटके वरे ।
राध्यासा प्रददौ तन्तीं ललाटफलके तदा ।।४९ । ।
संज्ञा कण्ठीं सुवर्णस्य मुद्गमालात्मिकां ददौ ।
यतिनी प्रददौ चास्यै यवमालां सुशोभिताम् । ।1.385.५० । ।
अरुणा प्रददौ शाटीं सूर्यवर्णां सुवर्णजाम् ।
अरुन्धती ददौ तस्यै स्वर्णोर्मिकादशद्वयम् । ।८१ १ । ।
मिष्टादेवी योगपट्टं ददौ सुवर्णनिर्मितम् ।
कंभरा प्रददौ रम्यं दर्पणं व्यजनं शुभम् । ।।५२। ।
द्युवर्णा प्रददौ त्वस्यै स्वर्णघर्घरिकां शुभाम् ।
विकुण्ठा प्रददौ तस्यै नूपुरे कानके तदा ।।।५३ । ।
नखरंगं ददौ वम्री ज्योष्ट्री नेत्रप्रकज्जलम् ।
वार्क्षी धूपं सुगन्धं च पुष्पा गन्धजलं ददौ ।।५४। ।
सुदुघा च ददौ दुग्धवटिकां पुष्टिदायिनीम् ।
तुलसी स्तंभनरसमपाययत्तु भार्गवीम् । ।५५। ।
सरस्वती ददौ तस्याः पादयोः समलक्तकम् ।
चम्पा च मञ्जुला रामा दया शान्ता जयाऽनिला । ।५६ । ।
शान्तिर्हैमी च रत्ना च मुक्ता देवी च पानिका ।
मौक्तिकाऽऽमोदिका कान्तिः शिवा मणिश्च वै दमी । ।।५७। ।
इत्याद्या भगवत्पत्न्यो विदधुस्तामलंकृताम् ।
एवं शृंगारसम्पन्नां कृत्वा सख्योऽप्यरंजयन् ।।५८ ।।
परस्परं च विधिना भगवत्तोषहेतवे ।
प्रतीक्षन्ते त्वागमनं कृष्णनारायणस्य ताः ।।।५ ९।।
अन्तर्यामी हरिर्ज्ञात्वा विहाय नर्मदातटम् ।
समाययौ भवनाग्रे कदम्बद्रुमसन्निधौ ।।1.385.६ ० ।।
दौवारिककृतं शब्दं जयं श्रुत्वा सखीजनः ।
सत्कारार्थं भगवतो द्रागेव बहिराययौ ।।६ १ ।।
पाद्यं चार्घ्यं जलं दत्वा पेयं दत्वा सुमिष्टकम् ।
निनाय श्रीकृष्णनारायण वै भार्गवीशयम् ।।६ २।।
ताश्च सर्वा विमुच्यैव नत्वा कृष्णनरायणम् ।
ययुर्गृहान्तराण्येव रहो दत्वा वधूं वरम् ।।६ ३ ।।
पातिव्रत्येन धर्मेण सिषेवे भार्गवी मुदा ।
कृष्णनारायणः पत्नीं ददर्श स्थिरचक्षुषा ।।६४।।
श्वेतचम्पकवर्णाभामतुलां सुमनोहराम् ।
शृंगारितां सखीभिर्वै स्वस्यार्थं मोहिनीं कृताम् ।।६५।।
सुकेशीं सुन्दरीं श्यामां स्तनयुग्मोन्नताननाम् ।
नितम्बकठिनश्रोणीं सस्मितां सुदतीं सतीम् ।।६६।।
कोटीन्दूज्ज्वलकान्त्यास्यां शरत्कमललोचनाम् ।
कज्जलोज्ज्वलनेत्रां च स्वर्णभूषाविभूषिताम् ।।६७।।
चित्रालितनुसद्रूपां कामपूर्णसुविग्रहाम् ।
रसिकां सोत्सुकां कृष्णनारायणाङ्कमानसाम् ।।६८।।
वह्निशुद्धांशुकाधानां रतिवेगभरान्तराम् ।
चारुकुण्डलयुग्मेन श्रुतिगण्डस्थलोज्ज्वलाम् ।।६९।।
सुनासास्वर्णवालां च गजमुक्तासुमालिकाम् ।
कुंकुमालक्तकस्तूरीस्निग्धचन्दनचर्चिताम् ।।1.385.७० ।।
खगेन्द्रचञ्चुसन्नासां कोमलांगीं सुकामुकीम् ।
दधानां सुकपोलौ च कमनीया करेणुगाम् ।।७ १।।
कामकाम्यालयां तन्वीं कटाक्षानंगद्र्शिनीम् ।
पारिजातप्रसूनानि दधानां क्रीडनाय वै ।।७२।।
कर्मणा मनसा वाचा स्वप्ने जागरणे तथा ।
कृष्णनारायणप्रीतिस्मृत्याढ्यां प्रेमसंभृताम् ।।७३ ।।
भावानुभावनासक्तां शुद्धभक्तां पतिव्रताम् ।
गौरवर्णां रक्तपूर्णां शश्वद्वक्षःस्थलस्थिताम् ।।७४।।
प्रियासु प्रियभक्तेषु भक्तासु प्रियवादिनीम् ।
दृष्ट्वा तु भार्गवीं कृष्णनारायणो मुमोह वै ।।७५।।
भार्गवी शयने दृष्ट्वा स्वामिनं प्राणवल्लभा ।
कामपूर्णं शुभवेषं सुन्दरेशं च सस्मितम् ।।७६।।
नवीनजलदश्यामं पीतकौशेयवाससम् ।
चन्दनोक्षितसर्वागं रत्नभूषणभूषितम् ।।७७।।
स्वर्णसत्कल्गिमुकुटं मालतीमाल्यशोभितम् ।
ईषद्धास्यप्रसन्नाऽऽस्यं भक्तानुग्रहविग्रहम् ।।७८।।
रन्तुकामं मनःकान्तं कामकान्तं पतिं प्रियम् ।
जवेन वक्षसि कृत्वा प्रोवाच परमेश्वरम् ।।७९।।
जातं मे सफलं जन्म यस्या मे ईदृशः पतिः ।
सुजीवितं जीवितं मे यस्याः कान्तो नरायणः ।।1.385.८० ।।
दृष्ट्वा ते मुखचन्द्रं मे सुस्निग्धं लोचनं मनः ।
पञ्चप्राणा द्रविताश्च हर्षो माति न मे तनौ ।।८१ ।।
त्वद्दृष्ट्याऽमृतवृष्ट्या च सुसिक्ताऽऽनन्दसम्मुखी ।
विरहः स्वामिनो नाथ! दावानलः सुदारुणः ।।८२।।
इत्युक्त्वा भार्गवी लक्ष्मीः कृष्णनारायणं पतिम् ।
स्वासने स्वापयामास चक्रे पादादिमर्दनम् ।।८३ ।।
सुगन्धं जलसारं च तैलसारं च दर्पणम् ।
जाम्बूलं जलपानं च पुष्पहारान् सुचन्दनम् ।।८४।।
मधु भोज्य फलं मिष्टं चानंगबलगूटिकाम् ।
सुधां ददौ कृष्णनारायणाय स्वां ददौ ततः ।।८५।।
सफलीकृतवान् स्वामी पुष्पशय्यां मनोहराम् ।
भार्गवीं सफलीचक्रे नवोढां रतिमन्दिराम् ।।८६।।
सस्मिता सस्मितं कान्तं शान्तं कान्तमनोहरा ।
तल्पे सर्वात्मना लक्ष्मीः सिषेवे सुखमूर्छिता ।।८७।।
सन्तुष्टा भार्गवी कान्तं सन्तुष्टं प्राह धर्मतः ।
सा स्त्री भावानुरक्ता या, यः पाति स्त्रीं पतिश्च सः ।।८८।।
प्रेमसौख्यं पतिपत्न्योर्धर्मतः खलु दुर्लभम् ।
पतिव्रता विजानाति रसिका गुणवत्पतिम् ।।।८५।।
दूराद्धावति पद्मार्थं मधुलोभान्मधुव्रतः ।
भेकस्तन्नहि जानाति तन्मूर्ध्नि पादमुत्सृजेत् ।।1.385.९० ।।
यन्त्री जानाति संगीतरसं यन्त्रं तु नैव हि ।
दुग्धस्वादं क्षुधितश्च न दर्वी नैव भाजनम् ।।९१ ।।
परिपक्वफलाऽऽस्वादं सुखं जानन्ति भोगिनः ।
एकत्राऽवस्थिताः शश्वन्न किंचित् फलिनो यथा ।।९२।।
सुशीतलजलाऽऽस्वादं विजानन्ति कृषीवलाः ।
न वापी न च कलशश्चैकत्राऽवस्थितो यथा ।।९३ ।।
भोगिनो हि विजानन्ति शालिस्वादुरसं परम् ।
एकत्राऽवस्थितं चापि न क्षेत्रं भाजनं न वा ।।९४।।
बुबुधे चन्दनाऽऽघ्राणं चन्दनार्थी न गर्दभः ।
सौभाग्यं गौरवं प्रेम दुर्लभं नित्यनूतनम् ।।९५।।
पतिव्रता विजानाति सुलभं पतिसेवनात् ।
पत्नीव्रतः पतिश्चापि प्राप्नोति सुलभं हि तत् ।।९६।।
तव सेवाप्रदं मेऽस्तु पातिव्रत्यं त्वयि प्रभो! ।
पत्नीव्रते कृष्णनारायणे नाथे वृणोम्यहम् ।।९७।।
तथाऽस्त्विति हरिः प्राह भार्गवीं पतिसेविकाम् ।
दर्शयामास रूपाणि यानि लक्ष्म्या भवन्ति वै ।।९८।।
पश्य त्वं भार्गवि! ते तु धृतानि यत्र यानि वै ।
रूपाणि तु मया साकं पातिव्रत्येन तिष्ठसि ।। ९९।।
अक्षरे ब्रह्मणि चाहं वर्तामि पुरुषोत्तमः ।
तत्राऽसि त्वं चिदानन्दाऽक्षररूपेण वर्तसे ।। 1.385.१०० ।।
गोलोके गोकुले वृन्दावने त्वं राधिकाऽसि मे ।
द्विभुजो गोपवेषोऽहं कृष्णोऽस्मि राधिकापतिः ।। १०१ ।।
चतुर्भुजोऽहं वैकुण्ठे द्वेधा नारायणः सदा ।
लक्ष्मीः सरस्वती त्वं च मया कान्तेन वर्तसे ।। १ ०२।।
सिन्धुकन्या त्वं तु लक्ष्मीर्मर्त्यो लक्ष्मीपतिस्तदा ।
श्वेतद्वीपे च क्षीरोदे लक्ष्मीपतिश्चतुर्मुजः ।। १०३।।
अहं नारायणर्षिश्च नरो धर्मः सनातनः ।
शान्तिर्लक्ष्मीस्वरूपा त्वं मयि चासि पतिव्रता ।। १ ०४।।
अहं कपिलस्त्वं सिद्धिः सर्वत्रैवं प्रवर्तसे ।
अहं पत्नीव्रतस्त्वं च पतिव्रता प्रवर्तसे ।। १ ०५।।
वैकुण्ठे तु महालक्ष्मीर्भवती हि सरस्वती ।
भवती मृत्युलक्ष्मीश्च क्षीरोदशायिनः प्रिया ।। १०६ ।।
धर्मपुत्रवधूस्त्वं च शान्तिर्लक्ष्मीस्वरूपिणी ।
कपिलस्य प्रिया कान्ता भुवि त्वं भारती सती ।। १ ०७।।
त्वं सीता रामरूपस्य मम पत्नी प्रवर्तसे ।
भविष्यसि कृष्णरूपे रुक्मिणी त्वं प्रिया तदा ।। १ ०८।।
कंभरा त्वं महालक्ष्मीर्गोपालकृष्णभामिनी ।
एवं त्वं भार्गवी जाता कृष्णनारायणोऽस्म्यहम् ।। १ ०९।।
पद्मा त्वं च रमा त्वं च प्रभा त्वं पार्वती तथा ।
माणिकी त्वं जया त्वं च श्रीस्त्वं कृष्णा मम प्रिया ।। 1.385.१ १०।।
हंसा च मंजुला चम्पा हैमी देवी रमा दया ।
मौक्तिका च जया शान्तिस्त्वं तद्रूपाधिदेवता ।। १११ ।।
यत्र यदा जनुं प्राप्ता वर्तसे मे प्रिया तदा ।
उद्वाहयित्वा संगृह्य नयामि त्वां मया सह ।। १ १२।।
नानारूपः सदा चास्मि स्वांशेन कलया च वा ।
त्वया सहितः सर्वत्र विराजे मत्प्रिये! शुभे! ।। १ १३।।
परिपूर्णतमश्चास्मि त्वं च पूर्णतमाऽसि वै ।
यत्र यादृग् भवेत् कार्यं तत्र यामि त्वया सह ।। १ १४।।
पतिव्रतासमा नान्या त्वया चान्या हि विद्यते ।
अतितुष्टोऽस्मि देवेशि! चैकरूपेण वर्तसे ।। १ १५।।
यास्तवेमां पतिसेवां श्रोष्यन्ति भावतश्च ताः ।
पठिष्यन्ति च वा ता वै समवाप्स्यन्ति मां पतिम् ।। १ १६।।

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये भार्गव्याः शृंगारः, श्रीकृष्णनारायणस्य सेवनम्, पातिव्रत्यपरायणताप्रदर्शनं चेत्यादिनिरूपणनामा पञ्चाशीत्यधिकत्रिशततमोऽध्यायः ।। ३८५ ।।