लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३८४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३८३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३८४
[[लेखकः :|]]
अध्यायः ३८५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कृष्णनारायणसकाशतस्तु यत् ।
वस्त्रभूषादिकं दिव्यमर्पितं तु वधूकृते ।। १ ।।
ब्रह्मधाम्नो विभूतेर्वै सर्वं वस्त्रविभूषणम् ।
तत्सर्वं सन्दधारेयं भार्गवी दिव्यरूपिणी ।। २ ।।
भूषयांचक्रिरे लक्ष्मीः श्रीः सावित्रीरमादिकाः ।
पार्वती माणिकी जया प्रभा च ललितादिकाः ।। ३ ।।
ख्यात्याद्या मातरश्चापि तामलंचक्रुरादरात् ।
विभूषिताऽत्यलंकृता शुशुभे दिव्यतायुता ।। ४ ।।
वह्निशुद्धांशुकाधाना कबरीभारभूषिता ।
कस्तूरीबिन्दुभिर्युक्ता स्निग्धसच्चन्दनार्चिता ।। ५ ।।
सिन्दूरबिन्दुना शश्वद्भालमध्यस्थलोज्ज्वला ।
तप्तकांचनवर्णाभा कोटिचन्द्रसमप्रभा ।। ६ ।।
चन्द्रमोक्षितसर्वांगा मालतीमाल्यशोभिता ।
नेत्रयो रञ्जितकृष्णा पक्वबिम्बौष्ठसुन्दरी ।। ७ ।।
नागरंगस्तनी स्वर्णवर्णांगुलिकरद्वया ।
सूक्ष्मरोमावलीराजत्तत्तत्स्थलीमनोहरा ।। ८ ।।
लक्ष्मीस्थदिव्यचिह्नानां रेखाभिर्ज्ञातपद्मजा ।
अलक्ताञ्चितपादाब्जतला कमलवत्करा ।। ९ ।।
आनीता मण्डपे वेदीसन्निधौ वरमालया ।
रत्नहीरकस्वर्णादिकुसुमादिसुक्लृप्तया ।। 1.384.१० ।।
करयोर्धृतया स्त्रीभिः शोभिता वरसन्निधौ ।
कृष्णनारायणं नत्वा वह्निं नत्वा च देवताः ।। ११ ।।
स्थिरीकृता सव्यपार्श्वे जयशब्दो ह्यभूत्तदा ।
वाद्यानि च विचित्राणि वादयन्ति स्म तन्महे ।। १ २।।
दृश्यमाणा सस्मिता सा कृष्णनारायणाननम् ।
प्रणम्य स्वपतिं लक्ष्मीः पुष्पाञ्जलिमवाकिरत् ।। १ ३।।
कृष्णस्य मूर्धनि भालेऽक्षतकुंकुमचन्द्रकम् ।
तिलकं चान्दनं चक्रे सुगन्धजलमार्पयत् ।। १४।।
वरमालां कृष्णगले दत्वा नमाम पादयोः ।
तीर्थजलेन चांगुष्ठं प्रक्षाल्य त्वपिबज्जलम् ।। १५ । ।
सप्तप्रदक्षिणाः कृत्वा प्रणम्य स्वपतिं पुनः ।
सिषेच पल्लवैस्तीर्थजलं चन्दनमिश्रितम् ।। १६ ।।
अथ नत्वा वामपार्श्वे निषसाद सती यदा ।
तां सिषेच जगत्कान्तः कान्तां शान्तां ससुस्मिताम् ।। १ ७।।
साक्षतं चन्द्रकं तस्या भाले कृत्वा स्वयं प्रभुः ।
मस्तके च करौ दत्वा पुष्पाण्यवाकिरद्धरिः ।। १८ ।।
तदा पुरोहितो बृहस्पतिर्मालां गलस्थिताम् ।
नारदस्य समक्षं वै वधूकण्ठेऽप्यधापयत् ।। १९ ।।
वरमालान्विता लक्ष्मीः शुशुभे मेघवैद्युती ।
अथ मन्त्रास्तदा तत्र प्रावर्तन्तर्षिमण्डलात् । । 1.384.२ ० ।।
भृगुस्तत्र सुताहस्तं कृष्णहस्ते ददौ शुभम् ।
एवं भृगुः प्रदानेन वेदमन्त्रेण वै ददौ ।। २१ ।।
बृहस्पतेः कथनेन स्वस्तीत्याह हरिस्तदा ।
जग्राह लक्ष्मीं श्रीकृष्णनारायणः प्रियां स्वकाम् । । २२।।
अथ दानानि रत्नानां द्रव्याणां च गवां तथा ।
गृहाणां भवनानां च ब्रह्माण्डानामपि प्रभुः ।। २३ ।।
भृगुश्चापि ददौ तत्र ददौ नारायणोऽपि च ।
भृगुः पुत्र्यै भृगुकच्छं पत्तनं प्रददौ तदा । । २४।।
भूमा च भृगवे मोक्षदानं ज्योतिःप्रवेदनम् ।
त्रिकालाऽबाध्यविज्ञानं चार्पयत् करुणाकरः ।। २५।।
हस्त्यश्वयानवाहानां दानान्यपि ददौ तदा ।
यौतकं हस्तके द्रव्यं वध्वै वराय संददुः ।। २६ । ।
अवतारा ईश्वराश्च मुनयः पितरस्तथा ।
देवाश्च मानवा भौमा पातालस्था यथायथम् । । २७।।
येषां वै यादृशी स्मृद्धिस्तद्योग्यं दानमाचरन ।
अथाग्निं संप्रदक्षिणीकृत्य वारचतुष्टयम् ।। २८ ।।
दंपती संस्थितौ वह्निसान्निध्ये च नतौ पुनः ।
निषेदतुस्ततो होमं चक्रतुस्तौ घृतादिभिः । । २९ ।।
अंगुलीयकमेवाऽस्यै वध्वै ददौ हरिस्तदा ।
अंगुल्यग्रेषु धृत्वा सा भोज्यकवलमार्पयत् । । 1.384.३० ।।
कृष्णाय तस्यै कृष्णोऽपि भोज्यकवलमार्पयत् ।
ऊर्मिकयाक्षणं रन्त्वा निवृत्तौ तौ प्रमोदितौ ।। ३१ । ।
स्वेदाक्तौ तु करौ लक्ष्म्याश्चाथ नारायणस्य तौ ।
पुलकांकितरोमाणौ प्रकोष्ठयोर्बभूवतुः ।। ३२ ।।
लग्नग्रन्थियुतौ तौ च वह्निं नत्वा गुरुं तथा ।
देवताश्च तदा नत्वा निर्यातौ मण्डपात् तदा ।। ३३ ।।
ख्यात्यादिभिर्भोजितो तौ विश्रान्तौ रहसि क्षणम् ।
अथ हस्त्यादिभिः पूर्यां सर्वत्र भ्रामितौ मुदा ।।३४।।
पूजितौ तौ प्रजाभिश्च वन्दितौ पितरौ जनैः ।
लग्नग्रन्थिं नर्मदायां निर्ग्रन्थिं संविधाय च ।।३५।।
भार्गवीजननी ख्यातिरीशनीभिः क्रियादिभिः ।
पतिपुत्रवतीभिश्च साध्वीभिः सहिता मुदा ।।३६।।
आगत्य मंगलं कृत्वा कुंकुमक्षालनादिकम् ।
दम्पतीं वेशयामास रत्ननिर्माणमन्दिरम् ।।३७।।
अनेकचित्रकृच्छोभं हीरहारेण भूषितम् ।
मुक्तामाणिक्यरत्नैश्च सुदीप्तं दर्पणैस्तथा ।।३।।
तत्र नारायणः कृष्णो ददर्श देवयोषितः ।
ईश्वरयोषितश्चापि मुक्तानिश्च रमादिकाः ।।३९।।
मुनिपत्नीश्च याः सर्वाः पातिव्रत्यपरायणाः ।
रत्नसिंहासनस्थास्ता रत्नभूषणभूषिताः ।।1.384.४० ।।
ता अपि श्रीकृष्णनारायणं दृष्ट्वा च सत्परम् ।
उत्तस्थुर्वासयामासू रत्नसिंहासने मुदा ।।४१ ।।
स्तुतिं चक्रुर्मुनिपत्न्यो नर्म चक्रुः सखीजनाः ।
ख्यातिः संभोजयामास वरेण सह कन्यकाम् ।।४२।।
सकर्पूरं सताम्बूलं प्रददौ वासितं जलम् ।
शारदा च ददौ कृष्णहस्ते श्लोकादिपत्रिकाम् ।।४३।।
सर्वासामाज्ञया देवी पठेति तमुवाच सा ।
पपाठ पत्रिकां कृष्णनारायणोऽतिहर्षितः ।।४४।।
 लक्ष्मीः सरस्वती दुर्गा सावित्री राधिका रमा ।
सती मेना जया ख्यातिर्माणकी पार्वती प्रभा ।।४५।।
तुलसी पृथिवी वृन्दाऽरुन्धती यमुनाऽदितिः ।
गंगा सीता शतरूपा देवहूतिश्च नर्मदा ।।४६।।
देव्यश्चैता वरवध्वोः कुर्वन्तु मंगलं परम् ।
पपाठ चेति श्रीकृष्णः शुश्रुवुर्जहसुश्च ताः ।।४७।।
नवं तु यौवनं कान्तो नवः कान्ता नवा तथा ।
विदग्धाया विदग्धेन संगमोऽस्तु नवो नवः ।।४८।।
प्रौढा रूपवती पुष्टा युवा वीर्यभरो बली ।
योगे बलाबले चाऽद्य ज्ञास्यामः कस्य वै जयः ।।४९।।
राधा रमा तथाऽन्याश्च तव सन्ति सुयोषितः ।
भार्गवी कीदृशी रम्या रहश्चास्ति वदात्र नः ।।1.384.५०।।
इति क्षणं वरतुष्ट्यै जहसुः सर्वयोषितः ।
लोपामुद्राऽनसूया चाऽप्यहल्याऽरुन्धती तथा ।।५१ ।।
कंभरा ता मुनिपत्न्यो रभसं चक्रुरीश्वरम् ।
अथमुक्तानीश्वराँश्च देवान् स्थावरजंगमान् ।।५२।।
पूजयामास च भृगुर्भोजयामास चादरात् ।
खाद्यतां खाद्यतां मिष्टं दीयतां दीयतामिति ।।५३।।
शब्दो बभूव नगरे वाद्यसंगीतमंगलैः ।
अथ प्रभाते त्वरिताः सज्जा बभूवुरीश्वराः ।।५४।।
कारयामास यात्रां च नारायणं च भार्गवीम् ।
ख्यातिः रुरोद पुत्रीं स्वां कृत्वा वक्षसि वै क्षणम् ।।५५।।
पुत्रि! वत्से! विना त्वां वै कथं जीवामि दुःखिनी ।
वद नारायणं शश्वन् निवासार्थं भृगोर्गृहे ।।९६।।
जायापतिभ्यां दत्तं वै यौतकं भृगुपत्तनम् ।
अत्र द्वितीयरूपेण नारायणं निवासय ।।५७।।
लक्ष्मीः पतिव्रता नैवं चक्रे नियोगमच्युते ।
सजला नेत्रयोर्जाता कृष्णनारायणस्तदा ।।५८।।
लक्ष्मीं प्राह कथं सुभ्रु जाता सजललोचना ।
यथा श्वश्रूर्वदत्येवं करोम्येव वसाम्यहम् ।।५९।।
इत्युक्त्वा श्रीकृष्णनारायणो द्वेधा बभूव ह ।
भार्गवीसहितस्तत्र भृगोर्गेहेऽवसत् सदा ।।1.384.६ ०।।
द्वितीयं दम्पतीरूपं कोटियौतकसंभृतम् ।
असंख्यवाहिनीसंघैः शुक्लतीर्थं ययौ तदा ।।६१ ।।
प्रविश्य भवनं रम्यं कारयामास मंगलम् ।
भूमा नारायणो वाद्यं वादयामास सुन्दरम् ।।६२।।
सर्वा देव्यश्च मुक्तान्यस्तथाऽन्या योषितो हरेः ।
भार्गवीं श्रीकृष्णनारायणं विलोक्य वै मुहुः ।।६३ ।।
गृहं प्रवेशयामासुश्चक्रिरे मंगलानि हि ।
चतुर्विधं भोजयित्वा त्रिसृष्टिवासिनो जनान् ।।६४।।
महीमानान् रंजयित्वा परिहारं प्रचक्रिरे ।
भूमा सैन्यानि चादाय धामधामनिवासिनाम् ।।६५।।
ययौ वैकुण्ठमेवाऽऽद्य दम्पतीसहितस्तदा ।
महीमानाः स्वकान् लोकान् ययुर्धनप्रपूरिताः ।।६६।।
पृथ्वीजलादयश्चक्रुः क्लृप्तवैकुण्ठनाशनम् ।
भृगोर्गृहे महीमानाः भोजिताः पूजिताश्च ते ।।६७।।
ययुः सत्कारमादाय दिव्यरत्नादिसंभृताः ।
भृगुक्लृप्तमासमुद्रं महीमाननिवासनम् ।।६८।।
संहृतं क्षणमात्रेण भृगुणा सिद्धिभिस्तदा ।
कंभरा च महालक्ष्मीः कृष्णगोपाल एव तौ ।।६९ ।।
पितरौ पुत्रसान्निध्ये निवासं भृगुपत्तने ।
चक्रतुर्भार्गवीकृष्णनारायणस्य तुष्टये ।।1.384.७०।।
दिव्यदेहौ च पितरौ दम्पतीसविधे सदा ।
यथा ख्यातिभृगू पूज्यौ वर्तेते भृगुपत्तने ।।७१ ।।
भार्गवी श्रीकृष्णनारायणं प्राप्य रहः सदा ।
सेवते विविधैः कामैः पातिव्रत्यपरायणा ।।७२।।
कथं न स्मरसि लक्ष्मि! त्वं जाता भार्गवी तदा ।
अहं जातः कृष्णनारायणः स्मरामि लग्नकम् ।।७३ ।।
त्वादृशी मे सदा दासी पत्नी भोग्या च किंकरी ।
सखी सह्या सहवासा सुरक्षिका पतिव्रता ।।७४।।
नाऽपरा मे सुखकर्त्री शान्ता सौभाग्यशालिनी ।
हृत्स्था रेखात्मिका गौरात्मिका श्रीवत्सविग्रहा ।।७५।।
अहं त्वं च त्वमेवाऽहं न भेदोऽस्ति मनागपि ।
इति ते कथितं लक्ष्मि! बहुभाग्यवती भव ।।७६।।
पठनाच्छ्रवणाच्चास्य स्वर्गं मोक्षः फलं भवेत् ।
नारीणां श्रीकृष्णनारायणप्राप्तिर्ध्रुवा भवेत् ।।७७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये भार्गव्या मण्डपानयनं कन्यादानविधिर्विवाहोत्तरं महीमानानां वरस्य च यात्रा, कृत्रिमवैकुण्ठादिविलयनम्, जामातुर्भगुगृहे द्वितीयरूपेण वासश्चेत्यादिनिरूपणनामा चतुरशीत्यधिकत्रिशततमोऽध्यायः ।। ३८४ ।।