लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३८३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३८२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३८३
[[लेखकः :|]]
अध्यायः ३८४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! भृगोः पुत्री महालक्ष्मीर्हिं कानकी ।
चम्पकपुष्पवर्णाभा प्रोज्ज्वला दिव्यविग्रहा ।। १ ।।
अतीव सुन्दरी रम्या रमा रामासु पूजिता ।
नवयौवनसम्पन्ना रत्नाभरणभूषिता ।। २ ।।
तप्तकांचनकान्त्याढ्या तेजःपरिधिराजिता ।
शुद्धसत्यस्वरूपा सा सत्यशीला पतिव्रता ।। ३ ।।
शान्ता दान्ता नितान्ता चाऽप्यनन्तगुणशालिनी ।
इंद्राणी वरुणानी च चन्द्रनारी च रोहिणी ।। ४ ।।
कुबेरपत्नी सूर्यस्त्री स्वाहा शान्ता कलावती ।
अन्या अपि त्वहल्याद्याः पार्वत्याद्याश्च सूज्ज्वलाः ।। ५ ।।
भार्गव्या भगुकन्यायाः कलां नार्हन्ति षोडशीम् ।
तां दृष्ट्वा देवनार्यश्च भगवद्योषितस्तथा ।। ६ ।।
शरत्पूर्णेन्दुशोभाढ्यां शरत्कमललोचनाम् ।
विवाहयोग्यां युवतीं लज्जानम्राननां सतीम् ।। ७ ।।
मुमुहुस्ताः श्रियं सर्वा रूपानुरूपविग्रहे ।
दृष्ट्वा स्तब्धा भवन्ति स्म लीनाः काष्ठजडा इव ।। ८ ।।
अहो नारायणः साक्षात् पतिर्ययाऽभिनिश्चितः ।
तत्र किं नाम गौणं स्याद् गुणे रूपे च वर्ष्मणि ।। ९ ।।
न काचिद् भगवत्सृष्टावीदृशी जनिता सती ।
नास्ति न वा च दिव्यांगी भाविनी वा कदाचन ।। 1.383.१ ०।।
इयं नारायणी साक्षात्पद्मा त्वस्त्येव भार्गवी ।
कृष्णनारायणयोग्या सोऽप्यस्या योग्य एव च ।। ११ ।।
इत्याश्चर्यं परं प्रोचुर्जहृषुर्ददृशुर्मुहुः ।
तृप्ताश्चात्मनि तां ध्यात्वा कन्यां लक्ष्मीं हि भार्गवीम् ।। १ २।।
मेनिरे च वरं योग्यं नवयौवनसंभृतम् ।
धर्मशीलं सत्यसन्धं नारायणमधीश्वरम् ।। १ ३।।।
वेदवेदांगविज्ञं च पण्डितं सुन्दरं शुभम् ।
शान्तं दान्तं क्षमाशीलं गुणिनं चिरजीविनम् ।। १४।।
ब्रह्मकुलप्रसूतं च सर्वत्रैव प्रतिष्ठितम् ।
कृष्णनारायणं पूर्णं ब्रह्म श्रीपुरुषोत्तमम् ।। १५।।
निर्लिप्तं च निरीहं च साक्षिणं सर्वकर्मणाम् ।
यं न जानन्ति चत्वारो वेदाः सन्तश्च देवताः ।। १६।।
सिद्धेन्द्राश्च मुनीन्द्राश्च देवा ब्रह्मादयस्तथा ।
ध्यायन्ति ध्यानपूताश्च योगिनो न विदन्ति यम् ।। १७।।
सरस्वती जडीभूता वेदाः शास्त्राणि यानि च ।
सहस्रवक्त्रः शेषश्च पञ्चवक्त्रः सदाशिवः ।। १८।।
चतुर्मुखो जगद्धाता कुमारः कार्तिकस्तथा ।
ऋषयो मुनयश्चापि भक्ताः परमवैष्णवाः ।। १ ९।।
अन्येऽपि यं न जानन्ति यथा यावच्च यद्गुणः ।
तमेनं वरमासाद्य भार्गव्याप्तं जनोः फलम् ।। 1.383.२०।।
घृतकुल्यासहस्राणि मधुकुल्याऽयुतानि च ।
दधिकुल्यासहस्राणि दुग्धकुल्याऽयुतानि च ।।२१ ।।
तैलह्रदा गुडशैलाः शर्कराराशयस्तथा ।
मिष्टान्नानां पर्वताश्च पिष्टानां राशयस्तथा ।।२२।।
यवगोधूमचूर्णानां पृथुकानां च पर्वताः ।
व्यंजनानां राशयश्च दृश्यन्तोऽक्षयभूमिकाः ।।२३।।
अहोऽस्माकं महद्भाग्यं यदैतदवलोकिकम् ।
सोत्साहं सम्प्रपश्यामो विवाहं पद्मयोरिमम् ।।२४।।
प्रासादाः स्वर्गतुल्याश्चामृतनद्यो वहन्ति च ।
यानानि च विमानानि वैहायसानि सर्वथा ।। २५।।
हंसगारुडहस्त्यादिवाहनानि च कोटिशः ।
पत्तनानि भृगुकच्छगिरौ गिरेः समन्ततः ।।२६।।
नूतनानि कारितानि भृगुणा मानसानि वै ।
यथा नवं हि वैकुण्ठे नारायणेन कारितम् ।।२७।।
तथा वै भृगुणा वार्धितटमायतमुज्ज्वलम् ।
शतयोजनविस्तारं लक्षयोजनसूच्छ्रयम् ।।२८।।
दिव्यं भृगुपुरं तत्र कारितो मण्डपः श्रियः ।
समुद्रश्च स्वयं तत्र बभूव सत्कृतिप्रदः ।।२९।।
मेरुश्चापि तथा चान्ये सिद्धाश्च मुनयोऽपरे ।
कल्पसिद्धास्तथा सत्ययुगाद्याः सत्कृतिप्रदाः ।।1.383.३ ०।।
आसन् कन्याप्रपक्षे वै कृष्णतुल्या हि तापसाः ।
तापस्यश्च श्रिया तुल्या यत्र न्यूनं न वै मनाक् ।। ३१ ।।
मंगलानि त्रयोदश्यां शिष्टाचारास्तथा कृताः ।
लोकाचाराः कृताश्चैव पूजिता भोजितास्तथा ।।३२।।।
रात्रौ मांगल्यगीतानि नृत्यानि कारितानि च ।
नार्यः प्रातश्चतुर्दश्यां देवार्चनानि चक्रिरे ।।३३।।
देवीनां देवतानां च लोकाचारकृतानि वै ।
पूजनानि प्रचक्रुस्ता वधूयुक्ताः स्त्रियः शुभाः ।।३४।।
चतुर्दश्यां भोजयित्वा भूमा नारायणौ निशि ।
सुवेषं कारयामास कृष्णनारायणस्य वै ।।३५।।
अतीव रम्यमतुलं त्रिषु सृष्टिषु दुर्लभम् ।
सम्पूज्य कारयामास यात्रां च प्रवरं वरम् ।।३६।।
कृष्णाद्याश्च तथा नारायणाद्या अवतारकाः ।
वैराजाद्यास्तथा मुक्ता ब्रह्मसृष्टिप्रयोषितः ।।३७।।
राधारमाप्रभाद्याश्च ब्रह्मा विष्णुर्महेश्वरः ।
तेषां पत्न्यो गणेशाश्चर्षयो द्युवासिनस्तथा ।।३८।।
देवा देव्यो ययुः सर्वे भृगुपत्तनमण्डपम् ।
तत्र कोट्यर्बुदान्यासन् स्वर्णसिंहासनानि वै ।। ३९।।
सुधर्मा निर्मिता तेन समुद्रे स्वर्णवालुके ।
नर्तक्यो लक्षशस्तत्र गान्धर्व्यो लक्षशस्तथा ।।1.383.४०।।
किन्नर्यो गायिकाः पर्यः कोटिसंख्या उपस्थिताः ।
भृगुणा निर्मितं सर्वं भगवतां प्रतुष्टये ।।४१ ।।
न भूतं न च यद्भावि क्लृप्तं सिद्धिकृतं नवम् ।
विद्याधर्योऽपि लक्षं चाऽप्सरसो लक्षशस्तथा ।।४२।।
महापुरं भगुव्याप्तं दिव्यं तद्भृगुपत्तनम् ।
वैराजभवनं यद्वत् ततोऽपि त्वतिभासुरम् ।।४३।।
यस्य प्राकारकलशे सम्प्रतिष्ठापितो रविः ।
यदन्तर्भागमध्ये च पूर्णचन्द्रः स्थिरीकृतः ।।४४।।
तेजोमया ध्रुवास्त्वेवं रथ्यां रथ्यां प्रति कृताः ।
प्रकाशोऽकारणस्तत्र वर्तते भृगुपत्तने ।।४५।।
तत्त्वानि मूर्तिमन्ति च सेवायां स्थापितानि वै ।
चक्रः प्रवेशनं भृगुपत्तनं वरयात्रिकाः ।।४६।।
पूर्णिमायां प्रगे सूर्यदर्शने भृगुसत्कृताः ।
एतस्मिन्नन्तरे चाग्रे बुहस्पतिरुपस्थितः ।।४७।।
कोट्यर्बुदर्षिसंयुक्तश्चाजगाम हरेः पुरः ।
मंगलं तु फलं दत्वा चन्द्रकं साक्षतं तथा ।।४८।।
पुष्पमालां गले दत्वाऽवाकिरत् कुसुमैर्हरिम् ।
लोकाचारं मंगलं च वारिकलशदर्शनम् ।।४९।।
चक्रुः कन्याश्च साध्व्यश्च ग्रामगोपुरसन्निधौ ।
वेदघोषाः श्राविताश्च मुनिभिरभिवर्धनाः ।।1.383.५०।।
पुरं प्रवेशयामास बृहस्पतिर्वदन् ऋचः ।
देवकन्या नागकन्या राजकन्या ऋषेः सुताः ।।।५१ ।।
मुनिकन्या वरं द्रष्टुं सस्मिताश्च समाययुः ।
ददृशुर्योषितः सर्वा निमेषरहिताऽक्षिभिः ।।५२।।
प्रसन्नं जलदश्यामं शोभितं पीतवाससा ।
चन्दनोक्षितसर्वांगं वनमालादिभूषितम् ।।५३।।
रत्नकेयूरवलयरत्नमालाकुलोज्ज्वलम् ।
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ।।५४।।
रत्नेन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जितम् ।
सस्मितं मुरलीहस्तं पश्यन्तं रत्नदर्पणम् ।।।५५।।
पार्षदैः शतसाहस्रैः सेवितं श्वेतचामरैः ।
नवयौवनसम्पन्नं शरत्कमललोचनम् ।।५६।।
शरत्पूर्णेन्दुतुल्यास्यं रमाराधादिहृद्भरम् ।
कोटिकन्दर्पसौन्दर्य ब्रह्मशेषेशवन्दितम् ।।५७।।
परमाह्लादकं रूपं कोटिचन्द्रसमप्रभम् ।
कामवीर्यभरं पुष्टं कृष्णनारायणं प्रभुम् ।।५८।।
दूर्वया पट्टसूत्रं च रत्नेन्द्रसारदर्पणम् ।
दधाने कतृकासाध्यं कदल्याः स्फुरमञ्जरीम् ।।५९।।
चूडां त्रिविक्रमाकारां मालतीमाल्यभूषिताम् ।
पुष्पं नारीप्रदत्तं च मुकुटं मस्तकोज्ज्वलम् ।।1.383.६०।।
दृष्ट्वा वरं युवत्यश्च मोहं प्रापुः परेश्वरम् ।
भार्गवीजीवनं धन्यं श्लाघ्यमित्यूचुरीप्सितम् ।।६१ ।।
जामातारं सा ददर्श ख्यातिर्भृग्वर्षिकामिनी ।
निमेषरहिता तुष्टा प्रसन्नवदनेक्षणा ।।६२।।
भृगुः प्रसन्नवदनः समुनिः सपुरोहितः ।
समागत्य हरिं कृष्णं सुरान् विप्रान्ननाम ह ।।६३।।
ददौ विश्रान्तिभवनं शतयोजनविस्तरम् ।
भक्ष्यपूर्णं पानपूर्णं सेविकाभिर्विलासितम् ।।६४।।
भूमा चकार मन्त्रैश्च शुभाऽधिवासनं हरेः ।
सम्पूज्य मातृकाः सर्वाः साक्षाच्च सर्वदेवताः ।।६५।।
प्रदाय वसुधारां च वृद्धिश्राद्धादिकं तथा ।
सर्वान् संभोजयामास पाययामास सद्रसान् ।।६६।
वाद्यानि वादयामास कारयामास मंगलम् ।
सुबेषं कारयामास वरस्याऽप्रतिमस्य च ।।६७।।
सुसज्जं कारयामास नरयानं सुशोभनम् ।
एवं मुनिर्भृगुश्चापि विवाहार्थं सुमंगलम् ।।६८।।
पुरोहितेन गुरुणा मन्त्रैरकारयद्विधिम् ।
रत्नानि च धनाद्यानि मुक्तामाणिक्यहीरकम् ।।६९।।
भक्ष्याणि चाम्बरादीनि ददौ दानानि चार्थिणे ।
वाद्यानि वादयामास कारयामास मंगलम् ।।1.383.७०।।
सुवेषं कारयामास भार्गव्याः सुमनोहरम् ।
देवीभिर्मुनिपत्नीभिर्विधानं च यथोचितम् ।।७१ ।।
ततः शुभे क्षणे प्राप्ते माहेन्द्रे परमोदये ।
विवाहोचितलग्ने च लग्नाधिपतिसंयुते ।।७२।।
सद्ग्रहेक्षणशुद्धे चाऽप्यसतां दृष्टिवर्जिते ।
शुभक्षणे शुभर्क्षे च विशुद्धे चन्द्रतारयोः ।।७३ ।।
वेधदोषादिरहिते शलाकादिविवर्जिते ।
दम्पत्योः शर्मयोग्ये च परिणामसुखप्रदे ।।७४।।
एवंभूते तु समये भृग्वर्षिप्रागणं हरिः ।
आजगाम सुरेशाद्यैर्मुनिविप्रपुरोहितैः ।।७५।।
ईश्वरैर्भगवद्भिश्च धर्मभक्त्यादिभिस्तथा ।
भूम्ना लक्ष्म्या पार्षदैश्च मुक्तैश्च मुनिभिस्तथा ।।७६ ।।
स्थावरैर्जंगमैर्दिव्यैः शास्त्रज्ञैर्नर्तकैर्नटैः ।
गायकैर्माल्यकृद्भिश्च विद्याधरीभिरप्यथ ।।७७।।
अप्सरोभिः किन्नरीभिः सांख्ययोगिनिकादिभिः ।
स्थलं तद् ददृशुर्देवा देव्य ईशाश्च तत्स्त्रियः ।।७८।।
स्वर्णरंभास्तंभलक्षैः पट्टसूत्रपरिष्कृतैः ।
चम्पकानां चन्दनानां रसालानां च पल्लवैः ।।७९।।
माल्यैर्नानाविधैश्चैव पीतरक्तसितान्वितैः ।
परितो मंगलघटैः फलपल्लवसंयुतैः ।।1.383.८०।।
कस्तूरीचन्दनाक्तैश्च कुंकुमेन विराजितैः ।
पर्णैर्लाजाफलपुष्पदूर्वाभिरुपशोभितैः ।।८१ ।।
ईश्वरैर्मुनिभिर्विप्रैर्देवैः पितृभिरास्थितम् ।
रत्नेन्द्रसारनिर्माणवेदीयुक्तं मनोहरम् ।।८२।।
अर्चितं चन्दनस्निग्धैः कस्तूरीकुंकुमान्वितैः ।
सुगन्धिशीतमन्दैश्च वायुभिः सुरभीकृतम् ।।८३ ।।
रत्नानां कोटिभिश्चाप्युज्ज्वलं तेजस्विदीपकैः ।
नानाप्रकारधूपैश्च गन्धद्रव्यैः सुवासितम् ।।८४।।
चित्रैश्च शिल्पिनां रम्यैः परितः शोभनं कृतम् ।
गन्धर्वाणां सुसंगीतैर्नर्तकानां सुनर्तनैः ।।८५।।
विद्याधरीणां हावाद्यैरप्सरसा सुगायनैः ।
सुस्वरितं गबाक्षैश्च बधूभिरभिवीक्षितम् ।।८६।।
मंगलेन घटेनापि विदुषा सुपुरोधसा ।
भृगुणा कुशहस्तेन दानेन दानवस्तुना ।।८७।।
दृष्ट्वा सुप्रांगणे देवान् भृगोर्ब्रह्मादिकेश्वरान् ।
कृष्णं नारायणं वैराजं च मत्स्यादिकाँस्तथा ।।८८ ।।
सर्वान् विलोक्य सहसा भृगुः कुटुम्बिसंयुतः ।
मूर्ध्ना ववन्दे देवाँश्चेश्वरान् मुनीन् समर्हणाम् ।।८९।।
रत्नसिंहासनेष्वेव सुरम्येषु पृथक् पृथक् ।
क्रमान्निषादयामास सत्कृत्य चादरेण वै ।।1.383.९०।।
उवाचाऽद्य जनुर्मे वै सफलं जीवितं मम ।
बभूव जन्मकोटीनां कर्ममूलनिकृन्तनम् ।।९१ ।।
अवतारी स्वयं कृष्णनारायणोऽक्षरेश्वरः ।
दाता यः सम्पदां मुक्तेर्भुक्तेः स्वर्गस्य सर्वदा ।।।९२।।
स्वप्ने यत्पादपद्मं वै द्रष्टुं नैव क्षमोऽस्म्यहम् ।
तपसां फलदाता सः स्रष्टाऽद्य प्रांगणे मम ।।९३।।
स्वात्मारामेषु पूर्णेषु शुभप्रश्नमभीप्सितम् ।
योगीन्द्रैरपि सिद्धेन्द्रैः सुरेन्द्रैश्च मुनीश्वरैः ।।९४।।
ध्यानाऽदृष्टः स भगवान् श्रीहरिः प्रांगणेऽद्य मे ।
कालकालश्चाऽक्षरेशोऽवतारेशेश्वरः प्रभुः ।।९५।।
मानुषं रूपमास्थाय नराणां दृष्टिगोचरः ।
मत्कन्यां सफलीकर्तुं त्वांगणे मे समागतः ।।९६ ।।
सर्वान्तर्यामिता यस्य सर्वकामप्रदः प्रभुः ।
नास्त्यन्तो यस्य वेदेषु स हरिः प्रांगणेऽद्य मे ।।९७।।
ईशानामीश्वरो यस्तु सर्वाग्रे यस्य पूजनम् ।
स कृष्णो गोलोकपतिर्भाग्याद्वै प्रांगणेऽद्य मे ।।९८।।
यस्य लक्ष्यो ह्यनन्ताश्च रमाद्या योषितः प्रियाः ।
स मत्कन्याग्रहणार्थं नारायणोऽङ्गणेऽद्य मे ।।९९।।
वैराजाश्चापि देवाद्याः पितरो मानवाश्च ये ।
पातालस्था भागवता धन्योऽहं प्रांगणेऽद्य मे ।। 1.383.१ ००।।
अपुनरावर्तनाश्च मुक्तास्त्वक्षरवासिनः ।
कोटिशः कृष्णपत्न्यश्च स्थावरं जंगमं तथा ।। १०१ ।।
सर्वं दिव्यं सत्त्वकुलं धन्योऽहं प्रांगणेऽद्य मे ।
ब्रह्मपुत्राः प्रपौत्राश्च वंशजा ये न लोकिताः ।। १ ०२।।
ते सर्वे मद्गृहेऽद्यैव धन्या कन्या च मे प्रभो! ।
अहो कल्पान्तपर्यन्तं तीर्थीभूतौ ममाऽऽश्रमः ।। १०३ ।।
येषां पादोदकैस्तीर्थं विशुद्धं तद्गृहं मम ।
पृथिव्यां यानि तीर्थानि तानि सर्वाणि सागरे ।। १ ०४।।
सागरे यानि तीर्थानि तानि सतां पदेषु वै ।
सतां पादोदकक्लिन्ना यावत् तिष्ठति मेदिनी ।। १ ०५।।
तावद्देवाश्च पितरस्तृप्ता भवन्ति वै भुवि ।
निकृन्तनं तु विपदां सम्पदां संप्रदं तथा ।। १०६ ।।
व्याधीनां नाशकं मायारोगहारकमौषधम् ।
सुखदं शुभदं सारं देवर्षिचरणाऽमृतम् ।। १ ०७।।
कृष्णनारायणस्याऽद्य प्राप्स्येऽहं चरणामृतम् ।
न रेवासदृशं तीर्थं न देवः केशवात्परः ।। १ ०८।।
स एव भगवानद्य साक्षात् कृष्णो मम गहे ।
इत्युक्त्वा दण्डवत् कृत्वा तुष्टाव भृगुरच्युतम् ।। १ ०९।।
'तवाऽस्म्यहं मे सुसुताऽस्ति ते प्रभो!
भवान्ममाऽस्त्येव मदीयकं तव ।
सर्वं भवानेव ममाऽस्ति कारणं
परं पदं देहि 'पुनातु जीवनम्' ।। 1.383.११० ।।
ननाम पादयोश्चापि कृत्वा कृष्णकरौ स्वके ।
पाद्यं पद्मार्चिते पादपद्मे भृगुर्मुदा ददौ ।।१ ११ ।।
अर्घ्यं च प्रददौ दूर्वापुष्पाक्षितजलान्वितम् ।
मधुपर्कं च सुरभिं सर्वांगे गन्धचन्दनम् ।। ११ २।।
पारिजातादिमालां च जामातुस्तु गले ददौ ।
वरणार्थं प्रकोष्ठे च भूषां कामफलं ददौ ।। १ १३।।
द्योतितरत्नमुकुटं ददौ कृष्णस्य मस्तके ।
धूपं रत्नप्रदीपं च नैवेद्यं सुमनोहरम् ।। १ १४।।
नानाप्रकारपुष्पाणि रत्नसिंहासनं ददौ ।
सप्ततीर्थोदकं तस्मै ददावाचमनीयकम् ।। १ १५।।
ताम्बूलं च वरं मिष्टं कर्पूरादिसुवासितम् ।
शय्यां रतिकरीं रम्यां पानार्थं वासितं जलम् ।। १ १६।।
एवं वै वरणं कृत्वा ददौ पुष्पांजलिं मुदा ।
अथ वै मण्डपे वेदीसन्निधौ श्रीनरायणम् ।। १ १७।।
आनयामास पूर्णायां पूर्णे चन्द्रेऽम्बरं गते ।
लोकाचारं विधाप्यैव माणिक्यस्तंभमार्चयत् ।। १ १८।।
कलशं च गणेशं च वह्निं नत्वा गुरुं हरिः ।
निषसादाऽऽसने रम्ये पट्टके कृतमंगलः ।। ११ ९।।
ब्राह्मणैर्वेदमन्त्रैश्च देवैरीशैस्तथाऽऽत्मभिः ।
आशीर्वादे प्रदत्तं च कृतचन्द्रे हरौ ततः ।। 1.383.१ २०।।
भृगुः सम्पूज्य पुत्रीशं देहशुद्धिमकारयत् ।
वेदघोषाः स्वस्तिमन्त्रा गीतयो योषितां तथा ।। १२१ ।।
वाद्यघोषास्तथा तत्राऽभवन् विचित्ररीतयः ।
महोत्सवस्तदा जातो भृग्वानन्दो न निर्ममौ ।। १२२ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये शुक्लतीर्थाद् भृगुपत्तनं प्रति वरस्य वरातिकाजनैः सह यात्रा, मंगलादिसत्काराः भृगोर्हर्षवाक्यानि वरस्य मण्डपागमश्चेत्यादिनिरूपणनामा त्र्यशीत्यधिकत्रिशततमोऽध्यायः ।।३८३ ।।