लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३८२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३८१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३८२
[[लेखकः :|]]
अध्यायः ३८३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि पातिव्रत्यं परं तव ।
मां विहाय कदापि त्वं तिष्ठसे न जनान्तरे ।। १ ।।
यत्र यत्रास्ति मेंऽशो वै तत्र तत्रासि चांशतः ।
पातिव्रत्यं परं मुख्यं धर्मं धृत्वा हि वर्तसे ।। २ ।।
अहं चापि हृदि रक्षन् पत्नीव्रतपरायणः ।
वर्तामि च त्वयि लक्ष्मि! सर्वात्मनाऽऽन्तरे बहिः ।। ३ ।।
मदिच्छातः पुरा जाता लक्ष्मीस्त्वं हृदयाद् बहिः ।
वैकुण्ठे त्वं ततो जाता सती नारायणप्रिया ।। ४ ।।
गोलोके राधिकारूपा कृष्णप्रियाऽसि सर्वदा ।
श्रीश्च त्वं वर्तसे चाऽव्याकृते धाम्नि मम प्रिया ।। ५ ।।
श्वेतद्वीपेऽपि मे पत्नी क्षीराब्धौ त्वं रमासि मे ।
प्रभा च पार्वती चासि मम धाम्नि चिदम्बरे ।। ६ ।।
माणिकी च वरारोहा सर्वदाऽसि ममाऽऽसनम् ।
क्षीराब्धौ त्वं ततो जाता जाता केदारपुत्रिका ।। ७ ।।
भृगोः ख्यात्यां समुत्पन्ना जाता पद्मा तथा प्रिया ।
अनरण्यगृहे त्वं वै धरण्यां चापि मे प्रिया ।। ८ ।।
तथा त्वं कम्भरालक्ष्मीर्जाता सौराष्ट्रके शुभे ।
सा त्वं नित्या जगन्माता विष्णोः श्रीरनपायिनी ।। ९ ।।
कृष्णनारायणसक्थ्नि वामे गौरस्वरूपिणी ।
वर्तसे त्वं सदा लक्ष्मीरदृश्या सेविका सती ।। 1.382.१ ०।।
यथा सर्वगतश्चाऽहं तथा सर्वगताऽसि वै ।
न त्वां विना क्वचिच्चाहं मां विना त्वं न च क्वचित् ।। ११ ।।
अपृथकसिद्धतादात्म्यं वर्तते लक्ष्मि! नौ सदा ।
सदा सर्वत्र सर्वाऽसि सर्वश्चास्मि तथाप्यहम् ।। १२।।
पतित्वं मे सदा ते च पत्नीत्वं सर्वदा प्रिये ।
कर्मणा मनसा वाचा वर्ष्मणा गुणचिन्तनैः ।। १ ३।।
जाग्रति स्वापने घोरे सुषुप्तावपि तुर्यके ।
स्थाने चात्मनि सर्वत्र विषये विलये तथा ।। १४।।
सृष्टौ लये चिदाकाशे जडे चेतनवर्गके ।
कार्ये वा कारणे लक्ष्मि! सदा त्वं मे पतिव्रता ।। १५।।
पत्नीव्रतस्तथाऽजस्रं भवाम्येव न संशयः ।
अहं विष्णुश्च सर्वत्र व्यापकोऽस्मि सती सदा ।। १६ ।।
त्वं तत्र व्यापिनी देवी मम शक्तिस्वरूपिणी ।
अक्षरेशोऽप्यहं त्वं चाक्षरी भवसि मत्प्रिया ।। १७।।
मुक्तेशोऽहं यदा लक्ष्मि! मुक्तानी त्वं हि वर्तसे ।
जया च ललिता त्वं वै हरिकृष्णस्तदाऽप्यहम् ।। १८।।
अह चार्थस्त्वं च वाणी नीतिस्त्वं च नयोऽस्म्यहम् ।
बोधश्चाहं त्वं च बुद्धिर्धर्मोऽहं त्वं च सत्क्रिया ।। १९ ।।
स्रष्टा चाहं त्वं च सृष्टिर्भूमिस्त्वं भूएधरोऽस्म्यहम् ।
सन्तोषोऽह त्वं च तुष्टिः कामोऽहं त्वं च कामना ।। 1.382.२० ।।
यज्ञोऽहं दक्षिणा वै त्वं वेदोऽहं त्वं च वेदिका ।
आज्याहुतिस्त्वमेवासि पुरोडाशोऽस्मि वै तदा ।। २१ । ।
पत्नीशाला त्वमेवाऽसि प्राग्वंशोऽहं भवामि च ।
यूपोऽहं च चितिस्त्वं च त्वमिध्मा च कुशोऽस्म्यहम् ।। २२ । ।
उद्गीतिस्त्वं च सामाऽहं त्वं स्वाहाऽहं हुताशनः ।
गौरी त्वं शंकरश्चाहं त्वं प्रभाऽहं दिवाकरः ।। २३ ।।
अहं पितृणस्त्वं च स्वधा शाश्वतपुष्टिदा ।
आकाशोऽहं तथा त्वं द्यौश्चन्द्रोऽहं त्वं च कौमुदी ।। २४ ।।
वायुश्चाऽहं धृतिस्त्वं वै वेला त्वं सागरोऽस्म्यहम् ।
इन्द्राणी त्वं महेन्द्रोऽहं धूमोर्णा त्वं यमोऽस्म्यहम् ।। २५ ।।
ऋद्धिस्त्वं च कुबेरोऽहं गौरी त्वं वरुणोऽस्म्यहम् ।
देवसेना त्वमेवाऽसि सेनान्यहं च कार्तिकः ।। २६ ।।
अवष्टंभोऽस्म्यहं यत्र तत्र शक्तिस्त्वमेव मे ।
त्वं काष्ठाऽसि निमेषोऽस्मि मुहूर्तोऽहं कलासि मे ।। २७ ।।
त्वं ज्योत्स्नाऽहं प्रदीपोऽस्मि द्रुमोऽहं त्वं लतासि वै ।
दिवसोऽहं निशा त्वं च वधूस्त्वं च वरोऽस्म्यहम् ।। २८ ।।
नदोऽहं त्वं नदीरूपा पताका त्वं ध्वजोऽस्म्यहम् ।
लोभोऽहं त्वमसि तृष्णा रागोऽहं त्वं रतिर्मता । । २९ । ।
देवतिर्यङ्मनुष्यादौ माया त्वं मायिकोऽस्म्यहम् ।
दुर्वासःशापतस्त्वं तु महेन्द्राद्रिं विहाय वै । । 1.382.३० । ।
समुदेऽतीव संमग्ना पुनश्चाविर्बभूविथ ।
त्वं सिद्धिस्त्वं पद्मिनी च ख्यात्यां लक्ष्मीर्भृगोः सुता । । ३१ । ।
नर्मदायास्तटे त्वं तु भार्गवी दिव्यविग्रहा ।
जातमात्रा युवती त्वं तेपिषे दुष्करं तपः । । ३२ । ।
नारायणः पतिर्मेऽस्तु चतुर्बाहुः स्वयं हरिः ।
इति वर्षाऽयुतं साध्वि! त्वया तप्तं परं तपः । । ३३ । ।
नित्यं षोडशवर्षीया वृद्धिहासविवर्जिता ।
तेजोमण्डलमध्यस्था भृगुकृच्छोच्छ्रयस्थिता । । ३४। ।
वर्षसहस्रं पञ्चाग्नौ तपश्चकर्थ दारुणम् ।
ततो वर्षसहस्रं वै तण्डुलाहारकं तपः । । ३५ । ।
ततो वर्षसहस्रं वै फलाहारपरायणा ।
ततो वर्षसहस्रं वै कन्दाहारपरायणा । ।३६ । ।
ततो वर्षसहस्रं वै पत्राहारपरायणा ।
ततो वर्षसहस्रं त्वं शुष्कपत्रपरायणा । । ३७। ।
ततो वर्षसहस्रं त्वं जलफेनपरायणा ।
ततो वर्षसहस्रं त्वं क्वचिज्जलपरायणा । । ३८ । ।
ततो वर्षसहस्रं त्वं धूम्रबाष्पपरायणा ।
ततो वर्षसहस्रं वै वायुपानपरायणा । । ३९ । ।
एकादशे सहस्रे त्वं सर्वेन्द्रियनिरोधिनी ।
ब्रह्मरंध्रं समासाद्य समाधिं मयि चागता । ।1.382.४० । ।
त्वया स्तुतोऽप्यहं नेति विवाहार्थं जगाद् ह ।
त्वया प्राणान् परित्यक्तुं ज्ञापयित्वा द्रुतं तु मे । ।४१ । ।
ब्रह्मरन्ध्रं समुद्धाट्य यावदूर्ध्वं गतिः कृता ।
तावन्मया समागत्य पुना रन्ध्रे निवेशिता । ।४२ । ।
त्वयोक्तं तु तदा लक्ष्मि! या त्वं मे पतिर्भव ।
तदा रोधय मे प्राणानन्यथा त्वं वियोजय । ।४३ । ।
विहस्य साश्रुनेत्रोऽहं प्रेमपुलकितांऽगकः ।
हृष्टरोमा स्वेदगात्रोऽभवमाश्लिष्टवानपि । ।४४। ।
प्रोक्तवाँस्त्वं निवर्तस्व तपसश्चातिदारुणात् ।
यावत्सृष्टिर्ब्रह्मलोकस्तावत्पत्नीं करोमि वै । ।४५ । ।
गच्छ त्वं पितरं लक्ष्मि! मातरं वद सर्वथा ।
आगच्छति विवाहार्थं कृष्णनारायणः प्रभुः । ।४६ । ।
इत्युक्ता त्वं समुत्थाय नत्वा स्पृष्ट्वाऽऽननं मम ।
सर्वं समर्पितं कृत्वा गता स्वपितृमन्दिरम् । ।४७। ।
अहं यातश्च वैकुण्ठं तदा सस्मार नारदम् ।
सप्तर्षीन् राधिकां श्रीं च माणिकीं पार्वतीं प्रभाम् । ।४८ । ।
ते सर्वे तु समागत्य पप्रच्छुः कारणं तु माम् ।
मया गदितो वृत्तान्तो भार्गवीयोगसंभवः । ।४९। ।
नर्मदायास्तटे रम्ये भगुर्ब्राह्मणसत्तमः ।
दिव्यं वर्षसहस्रं तु समुपास्ते हरं प्रभुम् ।।1.382.५० ।।
वल्मीकावस्थितश्चासौ दक्षिणं च निकेतनम् ।
तं ध्यायति समाधिस्थो वरं प्रार्थयते तथा ।।।५१ ।।
आश्चर्यं तु महज्जातमुमायाः शंकरस्य च ।
गौरी पृच्छति शंभुं तु वल्मीकस्थोऽयमस्ति कः? ।।५२ ।।
शंभुः प्राह भृगुर्नामा ऋषीणां प्रवरो मुनिः ।
वरं ध्यायति तपति प्रार्थयत्येव शंकरात् ।।।५३ ।।
तदा प्रहसिता गौरी शंकरं प्रत्यभाषत ।
धूमवत्तु शिखा जाता ततोऽद्यापि न तुष्यसि ।।५४।।
दुराराध्योऽसि मे नाथ कथमेवं तु वर्तसे ।
शिवः प्राह महादेवि! भृगुः क्रोधेन चेष्टितः ।।।५५।।
दर्शयामि तथा तथ्यं प्रियं ते च करोम्यहम् ।
स्मारितो देवदेवेन धर्मरूपो वृषस्तदा ।।।५६ ।।
स्मरणाद् देवदेवस्य वृषः शीघ्रमुपस्थितः ।
वदते मानुषीं वाचमादेशो दीयतां प्रभो ।।५७।।
वल्मीकैश्छादितो विप्रः एव भूमौ निपातय ।
योगस्थस्तु ततो ध्यायँस्ततस्तेन निपातितः ।।५८।।
तत्क्षणात् क्रोधसन्तप्तो हस्तमुत्क्षिप्तवान् वृषम् ।
एष संभाषमाणश्च कुत्र गच्छसि भो वृष! ।।५९।।
अद्य त्वामत्र पाप्मानं प्रत्यक्षं हन्म्यहं वृष! ।
धर्षितस्तु तदा विप्रो ह्यन्तरिक्षगतं वृषम् ।।1.382.६ ०।।
आकाशे प्रेक्षते विप्रो ह्येतदद्भुतमुत्तमम् ।
ततः प्रहसिते रुद्रे ऋषिरग्रे व्यवस्थितः ।।६ १ । ।
तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात् पतितो भुवि ।
प्रणम्य दण्डवत् भूमौ स्तौति श्रीपरमेश्वरम् ।।६२।।
अलीकाहंकारयुक्तं क्षणभंगुरवैभवम् ।
क्रूरं कुपथपतितं त्राहि मां परमेश्वर ।।६३ ।।
शीघ्रं हरस्व मे तृष्णां लक्ष्मीं देहि च हृच्छ्रयाम् ।
छिन्धि पाशान् भवजातान् समुद्धारय शंकर! ।।६४।।
रुद्रवेदी भवेदेषा नारायणस्वरूपिणी ।
यदि तुष्टोऽसि विश्वेश चैतत्सम्पादयस्व मे ।।६५।।
तथास्त्विति तदा प्राह शंभुर्लोकहिताय वै ।
नारायणी महालक्ष्मीः पुत्री तेऽत्र भविष्यति ।।६६।।
क्रोधस्थानं रुद्रवेदी भृगुक्षेत्रं भविष्यति ।
न पिता पुत्रयोश्चात्र ह्येकवाक्यं भविष्यति ।।६७।।
इत्युक्त्वा च हरस्तस्मात्तिरोभूच्च भृगोर्गृहे ।
दिव्या संकल्पजा पुत्री लक्ष्मीर्जाताऽतिशोभना ।।६८।।
ख्यातिः पुत्रीमती जाता पुष्पवृष्टिर्दिवौकसाम् ।
बभूव चोत्सवश्चापि वैकुण्ठमिव भूरभूत् ।।६९।।
तदा प्रभृति ब्रह्माद्याः सर्वे देवाः सकिन्नराः ।
उपासते भृगोस्तीर्थं तुष्टो यत्र महेश्वरः ।।1.382.७०।।
नित्यं यत्राऽभवल्लक्ष्मीर्भार्गवी वै नरायणी ।
नारायणं पतिं लब्धुं तपस्तेपेऽतिदारुणम् ।।७१ ।।
अहं तुष्टश्च तपसाऽयुतवर्षोत्तरं ययौ ।
तस्यै पणं मया दत्तं विवाहाय ततो मया ।।७२।।
गन्तव्यं वै भृगुक्षेत्रं वररूपेण वै यतः ।
वैकुण्ठात्तु गमिष्यामः कुर्वन्तु सज्जतां प्रियाः ।।७३ ।।
भृगुतुंगे मुनिवर्यो भृगुः ख्यात्या विराजते ।
अष्टाशीतिसहस्रैश्च ब्रह्मर्षिभिस्तपोधनः ।।७४।।
ततो दूरं नर्मदायास्तटे विष्णुर्विराजिते ।
पञ्चाशद्योजने भागे विष्णुतीर्थे वयं खलु ।।७५।।
वैकुण्ठं कारयित्वैव पार्थिवं विश्वकर्मणा ।
स्थास्यामश्च त्रयस्त्रिंशत्कोटि देवा अपि प्रियाः ।।७६।।
देवतीर्थे तटे तत्र नः स्थास्यन्ति प्रवाहितः ।
ऋषितीर्थे च ऋषयो मानवाश्चक्रतीर्थके ।।७७।।
शुक्लतीर्थे च कृष्णाद्याः सर्वे वै परमेश्वराः ।
ब्रह्मतीर्थे तथा मुक्ताः स्थास्यन्ति महीमानकाः ।।७८।।
एवं वै नार्मदे देशे वत्स्यामो वयमादरात् ।
कार्तिक्यां च करिष्यामो वैकुण्ठं तत्र नूतनम् ।।७९।।
माघ्यां विवाहविधये यास्यामो भृगुपत्तनम् ।
इति सर्वान् विनिर्दिश्य कृष्णनारायणः प्रभुः ।।1.382.८०।।
आहूय पृथिवीं देवीं समाज्ञापयदच्युतः ।
कुरु रेवातटं रिक्तं शतयोजनविस्तरम् ।।८१ ।।
समतलं समुद्यानैर्व्यवस्थितैः सुशोभितम् ।
सर्वखाद्यखनियुक्ताः शालास्तत्र च कारय ।।।८२।।
वस्तूनि चापि सर्वाणि तत्रोपस्थापय प्रिये ।
सस्यान्नानि फलपत्रकन्दमूलानि सर्वथा ।।८३।।
वेषवाराणि दिव्यानि गन्धचूर्णानि यानि च ।
मिष्टान्नानि च मृष्टानि शर्करादीनि चापि वै ।।८४।।
उपस्थापय ते गर्भे गह्वरेषु बहूनि च ।
भव दिव्या मम योगाद् वैकुण्ठाभा वसुन्धरा ।।८५।।
इत्याशीर्वादमादाय भूमिस्तत्र समागता ।
शतयोजनविस्तारे भूगर्भे सर्वसम्पदः ।।८६।।
रचयित्वा निधायैव स्वस्था चास्ते मुदान्विता ।
वरुणं जलदेवं च समाहूय नरायणः ।।८७।।
आदिदेशाऽमृतादीनां पेयानां पयसामपाम् ।
दध्नां च मादकानां च घृतानां रसिनां तथा ।।८८।।
मधूनां गूडवारीणां द्रुमाणां रसशालिनाम् ।
सोमवल्लीकल्पलताकल्पद्रुमादिसम्पदाम् ।।८९।।
रसानां च प्रवाहाणां पेयानां विपुलान् ह्रदान् ।
कर्तुं भर्तुं दिदेशाऽपि सोऽपि गत्वा तथाऽकरोत् ।।1.382.९० ।।
सूर्यं चन्द्रं विद्युतश्च वाडवाग्निं महानलम् ।
कृष्णनारायणश्चाज्ञापयामास महानसान् ।।९१ ।।
पाकशाला विविधाश्च वह्निशालाश्च बाष्पदाः ।
कर्तुं रचयितुं तत्र शीतोष्णकुण्डवैभवान् ।।९२।।
दीपप्रदीपशोभाश्च चन्द्रिकाशीतलप्रभाः ।
स्फीतालोकान्महालोकानन्धकारप्रकल्पकान् ।।९३ ।।
कण्डनीः पेषणीश्चुल्लीश्चोदकुंभीश्च मार्जनीः ।
दिव्या दिव्यद्रवोपेताः कर्तुं दिदेश केशवः ।।९४।।
वायुं तथा समाहूय प्राणाँश्च मरुतस्तथा ।
व्यजनानां च तालानां मन्दसुगन्धशालिनः ।। ९५।।
शीतान् वायून् क्वचित्तूष्णान् कर्तुमजीज्ञपद्धरिः ।
आकाशं च समाहूय चिदाकाशमथाऽकरोत् ।।९६ ।।
विभूतिं तत्र संप्रेष्य वैकुण्ठान्यमथाऽकरोत् ।
मेघान्प्राह हरिः कृष्णश्छत्राणि रचयन्त्विति ।।९७।।
इन्द्रं राजोपकरणान्याहर्तुं प्राह माधवः ।
कुबेरं सर्वरत्नाढ्ययन्त्रानयनमादिशत् ।। ९८।।
यमं प्राह महासैन्यं शोभार्थं कुरु चाग्रगम् ।
शंभुं प्राह हरिस्तत्र सगणं नर्तनाय वै ।।९९।।
वाद्यानां वादनार्थं तु सरस्वत्यै न्यवेदयत् ।
मण्डपानां रचनार्थं दिदेश विश्वकर्मणे ।। 1.382.१० ०।।
शोभाऽऽधिक्यकरणार्थं प्रैरयद् देवशिल्पिनः ।
भृग्वादिष्टो गुरुर्लग्नं दृष्ट्वा विलिख्य पत्रिकाम् ।। १०१ ।।
धाम ययौ ददौ भूम्ने वाद्यान्यवादयच्च सः ।
नारदं प्रेषयामासाऽऽह्वनार्थं त्रिषु सृष्टिषु ।। १ ०२।।
बलिशेषादयः पातालस्था आकारितास्तथा ।
पर्वताद्याः सरितश्च तीर्थानि जडचेतनाः ।। १०३ ।।
ऋषयो मुनयो देवाः पितरो ब्रह्मचारिणः ।
साध्व्यश्च साधवः सर्वे सात्वता आहुतास्तथा ।। १ ०४।।
ईशाश्चेशेश्वराश्चापि भगवन्तो दिगीश्वराः ।
लोकपालाः प्रजापालास्तत्त्वेशाः परमेश्वराः ।। १ ०५।।
ब्रह्माणो विष्णवो रुद्रा आदित्या वसवस्तथा ।
वैराजा वालखिल्याश्च याम्या ग्रहाश्च तारकाः ।। १ ०६।।
केतवश्चावरणस्था ईश्वरा अमृताऽक्षराः ।
वैकुण्ठस्थाश्च गोलोकवासिनः श्वेतधामगाः ।। १ ०७।।
मायालोकपराश्चान्ये तेजःपरास्तथाऽपरे ।
मुक्ताश्च धामवासाश्च शक्तयो मुक्तयोषितः ।। १ ०८।।
ब्रह्माण्यः सांख्ययोगिन्यो भगवत्यश्च देवताः ।
ईश्वरिण्यस्तथाऽऽर्ष्यश्च वेदा वेदान्य इत्यपि ।। १ ०९।।
अवतारास्तथा चावतारिण्यो हरियोषितः ।
मानव्यो वल्लिकाः सर्वा काश्यप्यः प्रमदास्तथा ।। 1.382.११ ०।।
कुमारिकाश्च सधवास्तथा हरिधवाः पराः ।
जडाश्च चेतनाः सर्वाः समहूताश्च योषितः ।। १११ ।।
कृष्णनारायणस्यात्र भार्गव्या सह लग्नके ।
विवाहोत्सववृद्ध्यर्थं माध्यामायान्तु मद्गृहे ।। ११ २।।
अक्षराधिपतिः साक्षात्पुरुषोत्तमसंज्ञकः ।
आकारयाम्यतिप्रेम्णैकादश्यां मद्गृहे शुभे ।। ११ ३।।
मण्डपारोहणे याने कन्यापितृगृहे तथा ।
सहायाः सन्तु सर्वे वै स्वयं तुष्याम्यहं हरिः ।। १ १४।।
अक्षरे मम धाम्न्यत्र समागच्छन्तु सगृहाः ।
सर्वे वयं गमिष्यामो भुवि भार्गवपत्तनम् ।। १ १५।।
नर्मदायास्तटे रम्ये शुक्लतीर्थे कृताश्रमे ।
भार्गव्यास्तु विवाहार्थं ततो यास्याम ईश्वराः ।। ११६ ।।
कुंकुमपत्रिकास्त्वेवं ब्रह्माण्डेषु प्रतिस्तरम् ।
प्रेषिताः पार्षदैश्चाथ मंगलान्यभवँस्ततः ।। १ १७।।
देव्यस्तु गीतिकाश्चक्रुर्मंगलायतनाः शुभाः ।
कृष्णनारायणं पिष्टचूर्णमर्दनमाचरन् ।। १ १८।।
वादकाश्चारुवाद्यानि सर्वतश्चाप्यवादयन् ।
जगुस्तु देवगन्धर्वा नर्तक्यो नृत्यमाचरन् ।। ११ ९।।
महीमानाः समाजग्मुरक्षराख्यं गृहं प्रति ।
मानं सत्कारमाचक्रे भगवान् पुरुषोत्तमः ।। 1.382.१ २०।।
भोजयामास दिव्यानि मिष्टान्नान्यमृतानि च ।
पाययामास दिव्यानि वारीण्यमृतकानि च ।। १२१ ।।
शृंगारवेषरम्याणि यानवाहनकानि च ।
कोटिशो हस्तिनः श्वेता गरुडाः कोटिशस्तथा ।। १ २२।।
हंसाः सिंहा वृषा नीलकण्ठाश्चापि च कोटिशः ।
अश्वाश्च कोटिशो दिव्याः शरभा गवयादयः ।। १ २३।।
अर्बुदाः शेषशय्याश्च शिबिकाः कोटिकोटिशः ।
पर्य्यः सपक्षाश्चानन्ता ईशान्यः पक्षचारिकाः ।। १ २४।।
संयुञ्जन्ति स्म वाहिन्यां विवाहप्रोत्सवोत्सुकाः ।
अनन्ताश्चाक्षरमुक्ता गोलोकस्था अनन्तकाः ।। १ २५।।
श्रीकृष्णेन सह याता वैकुण्ठस्था असंख्यकाः ।
अमृतस्था हिरण्यस्था आवृतिस्था विराट्स्थिताः ।। १२६ ।।
सत्यस्थाश्च जनादिस्था देवाः सृपाश्च मानवाः ।
स्थावरा जंगमाः सर्वे वाहिन्यामाययुर्मुदा ।। १ २७।।
कृष्णनारायणस्याऽस्ति भार्गव्या सह लग्नकम् ।
गच्छामस्तद्दर्शनार्थं समायान्तु कुटुम्बिनः ।। १२८।।
इति सर्वे मुदा याताः पूजिता भोजितास्तथा ।
आबालवृद्धाः संभूय वाहिन्यां मिश्रितास्तदा ।। १ २९।।
वरः शृगारितः सम्यग् यथा राधेश्वरोऽपरः ।
साऽक्षतकुंकुमपुष्पमालाम्बरविभूषणैः ।। 1.382.१३ ०।।
रत्नमौक्तिकसौवर्णशृंखलोर्मिककज्जलैः ।
सुगन्धरसचूर्णाद्यैराशीर्भिर्वर्धितः पुनः ।। १३१ ।।
भार्गव्याश्च विवाहार्थं ययौ षोडशहायनः ।
अक्षरब्रह्मलोकाद्वै वैकुण्ठलोकलम्बिनी ।। १ ३२।।
वाहिनी साऽभवद्दीर्घा वरपक्षानुयायिनी ।
नृत्यमंगलवाद्यादिकण्ठघोषादिरञ्जिता ।। १३३ ।।
अर्बुदाऽर्बुदसंख्यास्था शुक्लतीर्थं समाययौ ।
ब्रह्माण्डेषु च सर्वेषु मंगलान्यभवँस्तदा ।। १ ३४।।
कोटिभूमिकवैकुण्ठे दिव्ये रेवातटे शुभे ।
शतयोजनविस्तारे लक्षयोजनसूच्छ्रये ।। १३५ ।।
नारायणेच्छयाऽगम्याऽऽयतोच्छ्रायमये शुभे ।
असंख्यवाहिनीलोका ययुस्तत्र हरीच्छया ।। १३६ ।।
अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ।
गरिमा वशिता कामावसायिता च सिद्धयः ।। १ ३७।।
भवन्ति तु हरेर्यत्र तत्राश्चर्यं नु वै किमु! ।
ब्रह्माण्डान्यप्यसंख्यानि यद्रोम्णा विवरेषु वै ।। १ ३८।।
अणुमात्रे स्थले सन्ति तत्राऽऽश्चर्यं नु वै किमु ।
एवं समागता शुक्लतीर्थे सा वरवाहिनी ।। १३ ९।।
विशश्राम सुखं तत्र नैजे वैकुण्ठके मुदा ।
स्नाताश्च भोजिताः सुप्ता धामधामनिवासिनः ।। 1.382.१४०।।
सर्वत्र मंगलं जातं सोत्सुकाः प्राणिनस्तदा ।
आयान्ति शुक्लतीर्थं ते विवाहः पद्मयोरिति ।। १४१ ।।
सावित्र्या सहितो ब्रह्मा भवान्या च भवः स्वयम् ।
अनन्तश्चापि भोगिन्या धर्मो मूर्त्यादिभिः सह ।। १४२।।
भास्करः प्रभया साकं स्वाहया तु हुताशनः ।
स्मृद्ध्या साकं कुबेरश्च वरुणो वारुणीयुतः ।। १४३ ।।
पवनश्चापि चांजन्या यमो धूम्या सहाऽऽययौ ।
रोहिण्यादियुतश्चन्द्रः शचीयुक्तः सुरेश्वरः ।। १४४।।
रुद्राण्यादियुता रुद्रा आदित्याः सह संज्ञया ।
वसवश्चापि गन्धर्वाः किन्नरा देवदानवाः ।। १४५ ।।
आययुः शुक्लतीर्थं ते विवाहः पद्मयोरिति ।
दृष्ट्वा तु देवताद्या वै वैकुण्ठं नूतनं कृतम् ।। १४६ ।।
आकाशाच्च विमानैश्च सम्प्राप्य नर्मदातटम् ।
पत्तनं नूतनं चैव भृगुकच्छसमीपतः ।। १४७।।
मुक्तामाणिक्यहीरादिरत्नराजिविराजितम् ।
परितश्चतुरस्रं च शतयोजनसम्मितम् ।। १४८।।
सप्तभिः परिखाभिश्च गंभीराभिस्तु वेष्टितम् ।
प्राकारैः षोडशलक्षैस्त्रयस्त्रिंशत्सरोवरैः ।। १४९ ।।
सपद्मैः सर्वतोभद्रैः पुष्पोद्यानाऽयुताऽयुतैः ।
प्रफुल्लपुष्पैः पवनैः सर्वत्र सुरभीकृतम् ।। 1.382.१५ ०।।
आमोदितं च शीतेन मन्दचन्दनवायुभिः ।
तरुभिः कोटिलक्षैश्च भूषितं चाम्रभूरुहैः ।। १५१ ।।
नारीकेलैश्च पनसैर्नवरंगैश्च दाडिमैः ।
द्राक्षाभिर्नागवल्लीभिरेलालवंगकैश्च ह ।। १५२।।
बदरीभिश्च बिल्वैश्च जम्बूभिश्चम्पकैस्तथा ।
बकुलैस्तिन्तिडीभिश्च जम्बीरैरिक्षुभिस्तथा । । १५३ ।।
खर्जूरैर्नागरंगैश्च धात्रीभिः फलवद्द्रुमैः ।
अन्यैरुद्यानवर्यैश्च युक्तं शाद्वलसंप्लुतम् । । १५४।।
असंख्यैर्मन्दिरै रम्यैरत्युच्चैरपि संस्कृतम् ।
तत्तद्धाम्नां सुचित्रैश्च राजितं कलशान्वितैः । । १५५।।
मणिसोपाननिकरैर्दिव्यस्तंभोज्ज्वलं तथा ।
दर्पणैः सूक्ष्मवस्त्रैश्च शोभितं श्वेतचामरैः । । १५६।।
प्रांगणैः पद्मरागाद्यैरिन्द्रनीलपरिष्कृतम् ।
सचत्वरैः राजमार्गैर्देवदेवीभिरञ्चितम् ।। १५७।।
दृष्ट्वा वैकुण्ठनगरं सर्वे ते विस्मयं ययुः ।
विष्णुः पद्मः श्रीश्च पद्मा श्वशुरस्तु भृगुः स्वयम् ।। १५८।।
जामाता भगवान् यत्र किं न्यूनं यत्र वै भवेत् ।
गान्धर्वाः किन्नरा विद्याधर्यः किन्नर्य ईशिकाः ।। १५९।।
नर्तक्यो गायिका वाद्यभाण्डका गायकास्तथा ।
भिक्षुका गणका भट्टा भूपा वैद्याश्च सेवकाः ।। 1.382.१६० ।।
नटा मल्ला बहुरूपा वेषध्रा मानवास्तथा ।
सोत्साहा आययुस्तत्र विवाहः पद्मयोरिति ।। १६१ ।।
भृगुकच्छेऽपि सन्न्यासियतिनैष्ठिकयोगिनः ।
भृग्वाहूता आययुर्वै विवाहः पद्मयोरिति ।। १६२।।
सनकश्च सनन्दश्च सनत् सनातनस्तथा ।
आययुस्त्रिकोटिशिष्यैर्विवाहः पद्मयोरिति ।। १६३।।
दुर्वासा लक्षशिष्यैश्च लक्ष्यभृत्यैश्च कश्यपः ।
पत्नीवतो लक्षशिष्यैर्विवाहः पद्मयोरिति ।। १६४।।
गौतमोऽयुतशिष्यैश्च वाल्मीकोऽयुतशिष्यकैः ।
शुक्रश्च कोटिशिष्योऽगुर्विवाहः पद्मयोरिति ।। १६५ ।।
भारद्वाजोऽयुतशिष्यैः कोट्या बृहस्पतिः स्वयम् ।
अंगिरोऽयुतशिष्यैश्च विवाहः पद्मयोरिति ।। १६६ ।।
लक्षशिष्यैर्वशिष्ठश्च प्रचेता लक्षशिष्यवान् ।
पुलस्त्यो लक्षशिष्योऽपि विवाहः पद्मयोरिति ।। १६७।।
अगस्त्यो लक्षशिष्यैश्च पुलहो लक्षशिष्ययुक् ।
क्रतुर्लक्षेण चात्रिस्तु कोटिशिष्येण चागतः ।। १ ६८।।
मरीचिर्लक्षशिष्यैश्च शतानन्दः सहस्रकैः ।
भृगोर्गृहं समाजग्मुर्विवाहः पद्मयोरिति ।। १६९ ।।
सार्धं सहस्रशिष्यैश्च ऋष्यशृंगो विभाण्डकः ।
पाणिनिः कोटिशिष्यैश्चाऽयुतैः कात्यायनस्तथा ।। 1.382.१७०।।
याज्ञवल्क्यः सहस्रैश्च व्यासः कोटिप्रशिष्यकैः ।
गर्गोयुतेन शिष्याणां विवाहः पद्मयोरिति ।। १७१ ।
गालवोऽपि सहस्रेण सहस्रेण च सौभरिः ।
कोटिना लोमशश्चापि विवाहः पद्मयोरिति ।। १७२।।
सान्दीपनिर्देवलश्च मार्कण्डेयश्च लक्षकैः ।
पञ्चशिखश्च गोपालो वोढुश्च लक्षशिष्यकैः ।। १७३ ।।
स्वयंप्रकाशस्तथाऽहं नरो नारायणः प्रभुः ।
विश्वामित्रः कोटिभिश्च विवाहः पद्मयोरिति ।। १७४।
जरत्कारुश्च लक्षेणाऽस्तीकश्चाऽयुतशिष्यकैः ।
पर्शुरामः सहस्रेण विवाहः पद्मयोरिति ।। १७५।
वत्सः शतेन दक्षस्त्रिशतेन कपिलोऽयुतैः ।
सवर्तोऽयुतशिष्याद्यैर्विवाहः पद्मयोरिति ।। १७६ ।।
उतथ्यः शतशिष्यैश्च शतैश्चापि च भागु रिः ।
समाययुस्त्वसंख्याता विवाहः पद्मयोरिति ।। १ ७७।।
भृगोः ख्यात्यां समुत्पन्नां लक्ष्मीं नारायणप्रियाम् ।
कृष्णं लग्नयितुं यामो विवाहः पद्मयोरिति ।। १७८।।
देवौ धाताविधातारौ मेरोर्जामातरावुभौ ।
लक्ष्म्याश्च भ्रातरौ तेषां सम्मानं वै प्रचक्रतुः । । १७९।।
आयतिर्नियतिश्चापि मेरोः कन्ये पतिव्रते ।
तयोर्धातृविधातृभ्यां प्राणो मृकण्डुरौरसौ ।। 1.382.१८०।।
मार्कण्डेयो मृकण्डोश्च प्राणोद् वेदशिरा सुतः ।
मरीचेरपि संभूतौ पूर्णमासः सुतस्तथा ।। १८१ ।।
कन्याचतुष्टयं तुष्टिर्वृष्टिः कृष्टिश्चापचितिः ।
विरजाः पर्वतश्चोभौ पूर्णमासस्य वै सुतौ ।। १८२।।
पुलहस्य क्षमा पत्नी पुत्राः कर्दम इत्यथ ।
वरीयाँश्च सहिष्णुश्च कनीयाँश्चेति वै ययुः ।। १८३ ।।
अत्रेः पत्नी ह्यनसूया पुत्राः सोमश्च दत्तकः ।
दुर्वासाश्चाथांगिरसः पुत्री नाम्ना स्मृतिस्तथा ।। १८४।।
वासिष्ठाः शक्तिमुख्याश्च वाह्नेया क्रतुपुत्रकाः ।
अग्निष्वात्ता बार्हिषदा आज्यपाः सोमपास्तथा ।। १८५।।
वालखिल्याश्च ऋषयो धरणी मेरुभामिनी ।
पर्वताः सरितश्चापि सरांस्युपवनानि च ।। १८६।।
एवमृषीणां विस्तारा वंशास्तत्र महोत्सवे ।
भृगोर्गृहं समायाता विवाहः पद्मयोरिति ।। १८७।।
मत्स्यः कूर्मो वराहश्च नृसिंहः ऋषभस्तथा ।
कपिलो वासुदेवाश्च पृथुर्दत्तो मुनीश्वरः ।। १८८।।
हंसो हरिर्वामनश्च पर्शुरामः कुमारकाः ।
यज्ञो रामो ह्यग्रीवो नारदो राजराजकः ।। १८९।।
व्यासः कृष्णश्च बुद्धश्च कल्किर्नारायणः स्वयम् ।
पलीव्रतस्तथा चान्ये शिष्याः योगिप्रयोगिणः ।। 1.382.१ ९०।।
सौराष्ट्रीया रैवताद्रेर्योगसिद्धाः समाययुः ।
पत्नीयुक्ताः समायाता विवाहः पद्मयोरिति ।। १९१ ।।
कन्यापक्षस्य माण्डप्या ह्यासन् कोट्यब्जकाऽधिकाः ।
वरपक्षस्य वाहिन्या ह्यासँस्ततोऽप्यसंख्यकाः ।। १ ९२।।
द्वादश्यां भोज्यपानाद्यैः सत्कृता महीमानकाः ।
विशश्रमुश्च ते रात्रौ गीतनृत्यादिरञ्जिताः ।। १ ९३।।
मंगलानि विविधानि लोकाचाराः कृताः पराः ।
हृष्टसद्ध्रदयाः सर्वे ह्यासन् प्रसन्नतोषिताः ।। १९४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये भृगोः पुत्र्या भार्गव्या लक्ष्म्या कृततपसा तुष्टः श्रीकृष्णनारायणो भृगुकच्छनिकटे शुक्लतीर्थे वैकुण्ठं कारयित्वा विवाहार्थं समागतस्तद्वाहिनीभृगुमहीमानादिवर्णननामा द्व्यशीत्यधिकत्रिशततमोऽध्यायः ।।३८२।।