लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३८१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३८० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३८१
[[लेखकः :|]]
अध्यायः ३८२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां चान्यां पातिव्रत्यपरायणाम् ।
रेणुका जमदग्नेर्या पत्नी चाऽभूत्पतिव्रता ।। १ ।।
या मृतं पतिमादाय संविवेश चिताऽनले ।
यत्पुत्रः परशुरामो ह्यासीद्वने तपःस्थितः ।। २ ।।
नर्मदायास्तटे माहिष्मत्या नातिप्रदूरके ।
वने श्रेष्ठाश्रमो ह्यासीज्जमदग्नेर्द्रुमाकुलः ।। ३ ।।
जमदग्निः कामधेनुः पर्शुरामश्च रेणुका ।
एते मुख्यास्तथा चान्ये ह्यासन् शिष्याः सुताः परे ।। ४ ।।
सहस्रशः पतिं संसेवते भक्त्या तु रेणुका ।
पातिव्रत्येन धर्मेण देवतावन्दिता सती ।। ५ ।।
शृणु विस्तरतस्तस्याः कथां लक्ष्मि! प्रमुक्तिदाम् ।
रेणुका पुत्रलब्ध्यर्थं तपश्चचार दारुणम् ।। ६ ।।
शीतकाले पतिसेवा करोत्यहर्निशं सती ।
आर्द्रवस्त्रेण च कृष्णपूजां करोति वै प्रगे ।। ७ ।।
एकभुक्ताऽभवच्चैव सूर्यपूजां करोति च ।
वह्निपूजामतिथीनां गवां पूजां करोति च ।। ८ ।।
वर्षमात्रं फलाहारा वर्षं पत्रादनाऽभवत् ।
वर्षं जलादना वर्षं वाय्वाहाराऽभवत् सती ।। ९ ।।
वर्षं बाष्पादना वर्षं निराहाराऽभवत् सती ।
कृष्णनारायणनाम्ना जपति स्म निरन्तरम् ।। 1.381.१ ०।।
पत्युः सेवां द्वितीयेन रूपेण च करोति वै ।
एवं तस्मै प्रसन्नोऽभूत् कृष्णनारायणः प्रभुः ।।१ १ ।।
साक्षाज्जगाम तस्यास्त्वन्तिकं प्राह वरं वृणु ।
सती प्राह भवान् मेऽत्र गृहे पुत्रोऽस्तु रक्षकः ।। १ २।।
तथास्त्विति प्राह कृष्णनारायणस्तिरोदधे ।
ततः कालेऽभवद् रामः काष्ठार्तं परशुं दधन् ।। १ ३।।
परशुरामनामाऽसौ ख्यातोऽभवद् वनेषु सः ।
एकदा पितरौ नत्वा पितामहगृहं गतः ।। १४।।
ऋचीकं तं पितामहं नत्वाऽऽससाद चासने ।
उवास कतिचिन्मासान् तच्छुश्रूषापरायणः ।।१५।।
ततो ययौ भृगुं ख्यातिं ननाम विनयान्वितः ।
भृगुः प्राह हितं कर्तुं लोकानां राममच्युतम् ।। १६ ।।
गच्छ पुत्र ममाऽऽदेशाद्धिमवन्तं तपःकृते ।
शंकरः सर्वथा तुष्टस्तव श्रेयः करिष्यति ।। १७।।
नत्वा तौ च ततो रामो जगाम हिमपर्वतम् ।
सरस्तीरे पर्णकुटीं कृत्वा तपश्चचार ह ।।१८।।
बहुवर्षं गते काले मृगव्याधवपुः शिवः ।
तपस्तुष्टो जगामास्याऽन्तिकं प्राह तु तापसम् ।।१ ९।।
स्नाहि सर्वत्र तीर्थेषु तपो घोरं समाचर ।
तेन पुण्येन ते राम! सर्वाण्यस्त्राण्यवाप्स्यसि ।।1.381.२०।।
इत्युक्त्वाऽन्तर्दधे शंभू रामस्तीर्थानि संययौ ।
कैलासं च ययौ तस्मै शैवमस्त्रं ददौ हरः ।।२१ ।।
दत्वा च परशुं प्राह सुरशत्रून् सदा जहि ।
रामो दैत्यान् बहून् हत्वा समापेदे स्वकाश्रमम् ।।२२।।
शंभुस्तत्र समागत्य ददावस्त्राण्यशेषतः ।
सप्रयोगं ससंहारंमस्त्रग्रामं चतुर्विधम् ।।२३ ।।
असंवेगं शुभ्राश्वं सुध्वजं च रथोत्तमम् ।
इषुधी चाऽक्षयबाणौ ददौ रामाय शंकरः ।।२४।।
अभेद्यमजरं दिव्यं दृढज्यं विजयं धनुः ।
सर्वशस्त्रसहं चित्रं कवचं च महाधनम् ।।२५।।
तपःप्रभावं चोग्रं च प्रददौ भार्गवाय सः ।
अथाऽरण्ये व्याघ्रव्यापादितं द्विजसुतं तदा ।।२६।।
जीवयामास रामोऽयं चाऽकृतप्रणनामकम् ।
शिष्यं कृत्वा तु शान्तर्षिसुतं रामो ययौ गृहम् ।।२७।।
जमदग्निं रेणुकां च ननाम दण्डवद्भुवि ।
अथ कालान्तरे तत्राऽऽययौ हैहयभूपतिः ।।२८।।
चतुरंगबलैर्युक्तो नर्मदातीरमाश्रमम् ।
दृष्ट्वोपेत्य जमदग्निं ननाम शिरसा नृपः ।।२९।।
जमदग्निस्तदातिथ्यं कामधेन्वा ह्यकारयत् ।
नगरं वाटिकाश्चोद्यानानि सौधानि सेविकाः ।।1.381.३० ।।
दासा गा उपसामग्रीर्भोज्यपेयानि निर्ममे ।
रेणुकाऽपि कामधेनुं दोग्ध्रीमुवाच वै पुनः ।।३१ ।।
अयं राजा कार्तवीर्यो ममाऽतिथिस्तवाऽतिथिः ।
तस्मात् सर्वं तवैश्वर्यं प्रकटीकुरु मे स्वसः । ।।३२।।
इत्युक्ता कामगौः प्राह कुरु संकल्पमीश्वरि! ।
पातिव्रत्यबलात्तेऽहं वैराजस्मृद्धीरानये ।।३३।।
अथ द्वयोः प्रभावात्तद्वने सुवर्णपत्तनम् ।
सुरराजगृहतुल्यं तदासीद् भगुवंशिनः ।।३४।।
दिव्यविभूतिभेदैश्चाऽचिन्त्यरूपं तदाऽभवत् ।
हेमरत्नोज्ज्वलमार्गं समुद्यानचतुष्कवत् ।।३५।।
राजमार्गादिकल्लोलवालुकास्तबकान्वितम् ।
पूर्णचन्द्राभशिखरैः प्रासादैः परिशोभितम् ।।३६।।
स्वर्णरौप्यरीतिताम्ररसैः सौधैर्विराजितम् ।
रत्नोपलाभिः स्फटिकमिश्ररत्नालिराजितैः ।। ३७।।
महामणिप्रदीपानां प्रकाशैरक्षतैर्युतम् ।
रत्नोज्ज्वलसुवर्णाढ्यवेदीसोपानसद्गृहैः ।।३८।।
रत्नमालाढ्यकुड्यादिकपाटार्गलगोपुरैः ।
स्वर्णास्तरणसंसक्तदेहल्यजिरशालिभिः ।।३९।।
रात्रिगृहान्वितं चतुष्किकातोरणशोभितम् ।
दिव्यस्तम्भैः कुण्ड्यचित्रैः स्वर्णसिंहासनादिभिः ।।1.381.४०।।
पीठकैर्भक्ष्यभोज्यैश्च भाण्डैः पानैरनन्तकैः ।
देवोचितान्नसम्पद्भिर्वधूभिश्च मनोहरम् ।।४१।।
सुवर्णरत्नदुर्गैश्च कोष्ठकैः साप्तभौमकैः ।
परिखाभिश्च दिव्याभिर्जलनालीविराजितम् ।।४२।।
विद्युद्दीपैर्दूरयन्त्रैर्दूरदृश्यप्रदर्पणैः ।
दूरश्रावणकोशैश्च यानैर्वैहायसैर्युतम् ।।४३।।
दीर्घिकाभिर्वापिकाभिः स्नानतडागशोभितम् ।
प्रदर्शनैर्विविधैश्च नाटकैः श्रमनोदनैः ।।४४।।
मल्लैर्बहुसमायासैः रंजनैर्नर्तकैर्युतम् ।
गायकैर्वाद्यशालाभिः राजसंसद्विराजितम् ।।४५।।
शस्त्रागारैश्चोपकरणैर्मुक्तिशालाभिरन्वितम् ।
स्नानसेवनशालाभिर्विमानैः कामगैर्युतम् ।।४६। ।
हंसैश्च गरुडैश्चापि मेनाचातकसच्छुकैः ।
मयूरैर्देववाण्या वै वदद्भिश्चान्वितं शुभम् ।।४७।।
वृक्षवल्लीफलपुष्पदिव्यगन्धसुगन्धितम् ।
कृतं वै नगरं तत्र दुग्धेक्षुरसराजितम् ।।४८।।
अमृतं च कृतं तत्र प्रतिगृहं ह्रदेषु च ।
जलान्तर्यानसंपूर्ण वह्न्यन्तर्यानभूषितम् ।।४९।।
रेणुका गौर्निर्ममाते योग्ययोषित्कुमारिकाः ।
विचित्रवेषाभरणपुष्पगन्धाम्बरादिभिः ।।1.381.५०।।
शृंगारशोभाश्रीकान्तिहावभावादिचेष्टितैः । ।
चाञ्चल्यौज्ज्वल्यनैर्मल्येषद्धास्याकर्षणादिभिः ।।५१ ।।
सौन्दर्यादिगुणैर्युक्ता मन्दहास्याऽऽस्यशोभनाः ।
कुन्दकलिकासदृशदन्तपंक्तिविराजिताः ।।५२।।
प्रत्यग्रयौवनभरा वल्गुमिष्टगिरः शुभाः ।
प्रेममन्थरनेत्राक्तकटाक्षेक्षणमण्डिताः ।।५३।।
प्रीतिप्रसन्नहृदयाः शृंगाररतिसत्प्रभाः ।
कल्पवृक्षकुसुमानां हृत्सु हारालिराजिताः ।।५४।।
देवांगनाऽधिकाऽत्यन्तसौभाग्यदिव्यतान्विताः ।
सौकुमार्याऽऽभिरूप्याढ्यमधुराकृतिराजिताः ।।।५५।।
पीनवक्षोरुहद्वन्द्वभरानतसुमध्यमाः ।
श्रोणीभरानताश्चापि रक्तांघ्रिकरसत्तलाः ।।५६।।
हारकेयूरकंकणकण्ठसूत्रादिराजिताः ।
कर्णकपोलभालादिविभूषाभिर्विराजिताः ।।५७।।
प्रकोष्ठांगुलिकाभूषाकटिभूषाभिराजिताः ।
पुष्पभूषात्यभिरामालकपाशसुशोभिताः ।।५८।।
कांचीकलापकिंकिणीपरिशिञ्जितनूपुराः ।
नर्मसान्त्वनहास्यार्घ्यकेलीगीतिविशारदाः ।।५९।।
सुस्वरा सुमधुभाषा मिष्टगंभीरभाषणाः ।
रतिप्रगल्भा भावाढ्याः कामयोगविशारदाः ।।1.381.६०।।
पद्मपत्रनिभनेत्राः सम्पदौदार्यसंभृताः ।
गृहकार्यनिपूणाश्च तादृश्यः परिचारिकाः ।।६१ ।।
गृहचरान् भृत्यदासान् शतशोऽथ सहस्रशः ।
पाचकान् मर्दकान् पादसंवाहकाँश्च यापकान् ।।६२।।
देवालयान् रथाश्वाँश्च मातंगाँश्च खरोष्ट्रकान् ।
गोऽजाऽविकानुयुक्तान्निर्ममाते पशून् बहून् ।।६३ ।।
सामन्तांश्च नरेन्द्राँश्च राजन्याँश्च निषादिनः ।
सादिनश्च पदातींश्च सेनापतींश्च नायकान् ।।६४।।
विप्रादिकाँश्च रथिनः सारथीन् सूतबन्दिनः ।
मागधाँश्चारणाँश्चापि नर्तकाँश्च नटाँस्तथा ।।६५।।
किन्नरान् बहुरूपाँश्च गणिकाँश्च नपुंसकान् ।
चक्राह्वहंसकुररीबकसारसचातकान् ।।६६।।
कल्हारकंजकुमुदोत्पलकुन्दकदम्बकान् ।
चूतप्रियालपनसान् मधूककदलीतरून् ।।६७।।
नागकेतकीपुन्नागमन्दारकुन्दचम्पकान् ।
करवीरान् यूथिकाश्च फलपुष्पाणि सर्वशः ।।६८।।
सर्वर्तुसौरभान् वायून् मन्दं मन्दं प्रसारिणः ।
निर्ममाते रेणुकायुक्कामधेनुर्नियोजिता ।।६९।।
राजा त्वातिथ्यसत्कारं देवादीनां हि दुर्लभम् ।
जग्राह प्राविशत्पुण्यं पत्तनं स्वकृते कृतम् ।।1.381.७०।।
सर्वोपभोगनिलयं कौशेयाऽम्बरकोटिभिः ।
चित्ररंगौर्णवस्त्रैश्च शोभितं चोज्ज्वलं पुरम् ।।७१ ।।
अन्तःप्रविश्य पुर्यर्द्धिं स्वर्गिलोकविमोहिनीम् ।
सबलो विस्मयं प्राप हेतुं विवेद गां ततः ।।७२।।
प्रवेशितं च राजानं नार्यश्चन्दनवारिभिः ।
प्रसूनलाजाप्रकरैश्चावीवृषन् गवाक्षगाः ।।७३।।
ब्राह्मीं तपःश्रियं दृष्ट्वा राजा मुमोह सर्वथा ।
शशंस मनसा वाचा मेने क्षत्रोत्तरां नवाम् ।।७४।।
अस्याः शतांशतुलनां नोपगन्तुं मम श्रियः ।
प्रभवन्तीति मत्वैव मानगर्वगतोऽभवत् ।।७५।।
रत्नहीरकमालादिसपर्यां लब्धवान्नृपः ।
कामधेनुकृतसैन्यैः सेवकैश्च प्रवेशितः ।।७६ ।।
कक्षान्तराणि शनकैरतीत्य त्रीणि चार्जुनः ।
सद्माऽऽविवेश सौवर्णदीपोज्ज्वलसुभास्वरम् ।।७७।।
दधिदर्पणसौगन्ध्यपुष्पदुर्वाऽक्षतादिभिः ।
कन्याभिर्वर्धितो राजाऽऽरुरोह स्वर्णविष्टरम् ।।७८।।
पुरन्ध्र्यस्तु पुपूजुस्तं राजयोग्याऽर्हणादिभिः ।
ताभिश्च साकं नृपतिर्दिनं निनाय नाकवत् ।।७९।।
प्रपेदे च सदः सायं मन्त्रिसामन्तनायकैः ।
वाद्यविनोदः प्रवृत्तो नृत्यहास्यकथायुतः ।।1.381.८०।।
विलासा गणिकानां च हासक्रीडादयोऽभवन् ।
अर्धरात्र्युत्तर सौधं विश्रामार्थं जगाम सः ।।८ १ ।।
राजसैन्यं राजरूपवैभवेषु समेषु वै ।
सौधेषु प्राप्तवच्छान्तिं बभूव मुदितं बहु ।।८२।।
राजवद् राजसैन्यानां भोज्यं पेयं च भोग्यकम् ।
सर्व चाऽभूत् समं तेन वसामोऽत्रैव ते जगुः ।।८३।।
स्वपन्तमेत्य राजानं सूतमागधबन्दिनः ।
प्रातः प्रबोधयितुं तं जगुरुच्चैर्मधुस्वरैः ।।८४।।
वीणावेणुरवोन्मिश्रैस्तालमूर्छासुमिश्रितैः ।
विनिद्राक्षः समुत्थाय राजा नैत्यकमाचरत् ।।८५।।
सेवितो वारयोषाभिः समुपेत्य तपोनिधिम् ।
ननामाऽथ ऋषिः प्राह व्युष्टा रात्रिः सुखेन किम् ।।८६।।
वन्या मृगसधर्माणो वयं वन्येन पोषिताः ।
राजानस्तु वने क्लेशं गणयन्ति प्रदुःसहम् ।।८७।।
इत्युक्तः प्रहसन् राजा मुनिं प्राह विनिर्मदः ।
भवत्प्रभावसंजातविभवाऽऽहतचेतसः ।।८८।।
इतो न गन्तुमिच्छन्ति सैनिका मे सुखालयाः ।
नैव चित्रं तव विभो! तपःसिद्धस्य योगिनः ।।८९।।
कामधेन्वास्तथा पतिव्रताया योषितश्च ते ।
स्वर्गं त्वत्रैव सञ्जातं का स्मृद्धिः क्षुद्रभूभृतः ।।1.381.९० ।।
गमिष्यामि गृहं ब्रह्मन्ननुजानातु मां भवान् ।
तथेत्युक्तश्च मुनिना संप्रतस्थे पुरीं स्वकाम् ।।९१ ।।
चिन्तयामास धेनुं तां सर्वकामदुहां वराम् ।
किं मे सकलराज्येन कपर्दिकोपमेव वै ।।९२।।
ऋद्धमैन्द्रपदं धेनोः कलां नार्हति षोडशीम् ।
धेन्वा .कृतं वने स्वर्गं धेन्वा क्षणेन नाशितम् ।।९३ ।।
एवंप्रभावा सा धेनुः राज्ययोग्या न तापसे ।
दत्वा मूल्यं गवाश्वादि त्वानेतव्या मया पुरे ।।९४।।
इति निर्णीय राजा सः प्रेषयामास मन्त्रिणम् ।
चन्द्रगुप्तः ऋषिं प्राह राजा वै भुवि रत्नभाक् ।।९५।।
रत्नान्यादाय राज्ञे त्वं गां रत्नं दातुमर्हसि ।
प्राहर्षिर्होमधेनुर्मे दातव्या नैव कस्यचित् ।।९६।।
क्रयविक्रयोर्नाऽहं कर्ता न नृपतेर्वशः ।
प्रसह्य हरणे त्वायुर्नाशस्ते भूभृतस्तथा ।।९७।।
इत्युक्तः क्रोधमापन्नो मन्त्री बुद्ध्वा तु गां तदा ।
विचकर्ष यथाशक्तिर्जमदग्निः रुरोध तम् ।।९८।।
मन्त्र्याज्ञप्ता मुनिं भृत्याः कषाभिर्जघ्नुरत्यथ ।
दूरे चक्रुः ऋषिः सेहे गां प्रसह्य प्रजगृहुः ।।९९।।
सा तु व्योमगता पश्चाद् वत्सां धृत्वा ययुर्हि ते ।
ऋषिर्ममार तावत्तु पर्शुरामो ह्युपस्थितः ।। 1.381.१ ००।।
वनादागत एवासौ मातरं रुदतीं सुतः ।
श्रुत्वाऽऽक्रोशं च रामेति रामेत्येवं पुरो द्रुतम् ।। १०१ ।।
समिद्भारं त्ववतार्य दृष्ट्वा वै पितरं मृतम् ।
सान्त्वयामास जननीं रुदतीं साश्रुलोचनः ।। १ ०२।।
रेणुका शोकमापन्ना तदा वैधव्यशंकया ।
त्रिःसप्तकृत्वो हस्ताभ्यामुदरं समताडयत्। ।। १ ०३।।
तदा रामो मातरं स्वामुवाचाऽऽवेशतः खलु ।
त्रिःसप्तकृत्वो यदिदं त्वया वक्षः समाहतम् ।। १ ०४।।
तावत्संख्यमहं क्षत्रं हनिष्ये मा शुचं व्रज ।
अथ सा रेणुका स्वामिव्रता पुत्रानुवाच ह ।। १ ०५।।
अहं पतिव्रता पुत्राः स्वर्गतं पितरं तु वः ।
अनुगन्तुमिहेच्छामि वह्निं प्रज्वाल्य देहतः ।। १०६ ।।
यथा तेन प्रवर्तिष्ये परत्रापि सहाऽनिशम् ।
भर्तुर्मम भविष्यामि पितृलोकप्रियाऽतिथिः ।। १ ०७।।
तावत्तत्राऽतिगंभीरा वागुवाचाऽशरीरिणी ।
पतिव्रतेऽत्र मा कार्षीः साहसं धैर्यमावह ।। १ ०८।।
कुरु पत्युः प्रबोधाय संकल्पं त्वं पतिव्रते ।
अचिरेणैव भर्ता ते भविष्यति सचेतनः ।। १ ०९।।
इत्युक्ता सा पतिदेहं निनाय कुटिकागृहे ।
सती संकल्पयामास भर्तुरुत्थानजीवनम् ।। 1.381.११ ०।।
तावत्तत्र समायातो भृग्वर्षिः सुरवन्दितः ।
मृतसञ्जीवनीविद्यावारिधिस्तमजीवयत् ।। १११ ।।
जमदग्निरुत्थितश्च ननाम तं पितामहम् ।
पप्रच्छ राज्ञा पापं किं कृतं येन मृतोप्यहम् ।। ११ २।।
भृगुः प्राह वशिष्ठेन शप्तो नाशाय स नृपः ।
द्विजापराधतो मूढ वीर्यं ते विनशिष्यते ।। ११ ३।।
तेन पुत्रश्च ते रामो हनिष्यति तमर्जुनम् ।
एकविंशतिवारं स निःक्षत्रां क्ष्मां करिष्यति ।। १ १४।।
दत्रात्रेयाद्धरेरंशाल्लब्धैश्वर्यः स जीवति ।
रामशस्त्रैर्हतश्चाद्य परलोकं गमिष्यति ।। १ १५।।
इत्युक्त्वाऽर्चनमादाय ययौ गृहं भृगुस्ततः ।
रामश्चक्रे प्रतिज्ञां चाऽर्जुनं नाशयितुं तदा ।। १ १६।।
जमदग्निश्च तं प्राह सतां धर्मं स्मरन् द्विजः ।
साधवो ये महाभागाः संसारान्मोक्षकारिणः ।। १ १७।।
न कस्मैचित्प्रकुप्यन्ति निन्दितास्ताडिता अपि ।
क्षमाधना महाभागा ये च दान्तास्तपस्विनः ।। १ १८।।
तेषां चैवाऽक्षया लोकाः सततं साधुकारिणाम् ।
यस्तु दुष्टैश्च दण्डाद्यैर्वचसापि प्रताडितः ।। ११ ९।।
न तु क्षोभमवाप्नोति स साधुः परिकीर्त्यते ।
ताडयेत्ताडयन्तं यो न च साधुः स पापभाक् ।। 1.381.१२०।।
क्षमयाऽर्हणतां प्राप्ताः साधवो ब्राह्मणा वयम् ।
तस्मान्निवारये पुत्र! क्षमां कुरु तपश्चर ।। १२१ ।।
इति पित्रा समादिष्टः पर्शुराम उवाच तम् ।
सः शमः साधुदीनेषु न खलेषु कदाचन ।। १ २२।।
तस्मादस्य वधः कार्यः कार्तवीर्यस्य वै मया ।
इत्युक्तवन्तं तं पुत्रं जामदग्निरुवाच वै ।। १२३ ।।
इतो व्रज त्वं ब्रह्माणं तदुक्तकारको भव ।
इत्युक्तः स ययौ व्योम्ना ब्रह्माणं तं ननाम च ।। १ २४।।
वृत्तान्तं स्वप्रतिज्ञां च कथयामास सर्वथा ।
ब्रह्मा प्राह शृणु पुत्र! गच्छ त्वं शंकरं प्रति ।। १२५।।
दिव्यं पाशुपतं चास्त्रं दास्यति कृष्णवर्म च ।
पश्चाद् विजेष्यसि पुत्र! शंभुमाराध्य सर्वथा ।। १ २६।।
इत्याज्ञया ययौ रामः शिवं कैलासमुत्तमम् ।
ननामोवाच कार्यार्थी ब्रह्मोक्तं सर्वमेव च ।। १२७।।
शिवस्तस्मै ददौ मन्त्रं कवचं विजयप्रदम् ।
नागपाशं पाशुपतं ब्रह्मास्त्रं वारुणं तथा ।। १ २८।।
नारायणास्त्रमाग्नेयं वायव्यं गारुडं तथा ।
गान्धर्वं जृंभणास्त्रं च गदां शक्तिं त्रिशूलकम् ।। १ २९।।
दण्डं परशुं शस्त्रास्त्रजालं रामः प्रहर्षितः ।
ययौ नत्वा पुष्करं सः साधयामास सर्वथा ।। 1.381.१३ ०।।
अगस्त्योक्तेन मार्गेण कृष्णमाराध्य भक्तितः ।
कृष्णं साक्षाद् दृष्टवाँश्च कृष्णः प्राह भृगूद्वहम् ।। १३१ ।।
मम चक्रावतारं हि कार्तवीर्यं विनाशय ।
मदंशावेशयुक्तस्त्वं क्षौण्यां विचर भार्गव! ।। १ ३२।।
रामश्चाहं पुनर्भूत्वा हरिष्ये तेज एव ते ।
इत्युक्त्वाऽन्तर्दधे कृष्णो रामो माहिष्मतीं ययौ ।। १३३ ।।
युद्धं वव्रेऽर्जुनाद् रामोऽर्जुनो युद्धाय निर्ययौ ।
अनेकाऽक्षौहिणीयुक्तो ददर्शाऽपशकुनं पथि ।। १ ३४।।
सरजस्का दिशो व्योम निस्तेजस्त्वं ग्रहादिकम् ।
मुक्तकेशां छिन्ननासां रुदतीं च दिगम्बराम् ।। १३५ ।।
कृष्णवस्त्रपरीधानां वनितां स ददर्श च ।
कुचैलं पतितं भग्नं नग्नं काषायवाससम् ।। १३६ ।।
अंगहीनं ददर्शाऽसौ नरं दुःखितमानसम् ।
गोधां च शशकं शल्यं रिक्तकुंभं सरीसृपम् ।। १ ३७।।
कार्पासं कच्छपं तैलं लवणं चास्थिखण्डकम् ।
स्वदक्षिणे शृगालं च कुर्वन्तं भैरवं रवम् ।। १ ३८।।
रोगिणं पुल्कसं चैव वृषं च श्येनभल्लुकौ ।
दृष्ट्वाऽपि प्रययौ योद्धुं कालपाशाऽऽवृतो हठात् ।। १ ३९।।
शतपुत्रानर्जुनं च शताऽक्षौहिणिकायुतान् ।
दारयामास संग्रामे रामः शस्त्रास्त्रमण्डलैः ।। 1.381.१४०।।
ततो ययौ स कैलासं दर्शनार्थं शिवस्य वै ।
गोपुरस्थगणेशेन रुद्धो दन्तं गणेशितुः ।। १४१ ।।
भंक्त्वा दृष्ट्वा शिवां शंभुमाजगाम पितुर्गृहम् ।
ददर्श पितरौ रामः पपात पादयोस्तयोः ।। १४२।।
उवाच कार्तवीर्यस्य हननं वामनुग्रहात् ।
रामं पिता सान्त्वयित्वा प्रायश्चित्तं ददौ ततः ।। १४३ ।।
महेन्द्राद्रिं ययौ प्रायश्चित्तं रामश्चकार ह ।
तत्र कृत्वाऽऽश्रमपदं तपस्तेपे सुदुष्करम् ।। १४४।।
ततः कदाचिद् विपिने चतुरंगबलान्विताः ।
अन्ये सहस्रार्जुनजाः पुत्रास्तदाश्रमं ययुः ।। १४५।।
जमदग्नेः शिरो हृत्वा प्रययुः स्वपुरीं प्रति ।
भर्तारं निहतं भूमौ पतितं वीक्ष्य रेणुका ।। १४६ ।।
समुद्भाव्य चिताग्निं च विवेश भस्मतां गता ।
भर्त्रा सह सती वैहायसा यानेन चाम्बरे ।। १४७।।
देवर्षिपूजिता स्वर्गं ययौ पश्चात् तदात्मजाः ।
अन्ये चक्रुस्तदूर्ध्वं यत्कर्तव्यमनन्तरम् ।। १४८।।
ततः काले गते रामः स्वाश्रमं त्वाययौ वनात् ।
पितुस्तु जीवहरणं शिरोहरणमित्यपि ।। १४९।।
मातुश्च मरणं श्रुत्वा क्षत्रनाशे मनो दधे ।
क्षत्रवंश्यानशेषेण हत्वा तद्देहलोहितैः ।। 1.381.१५०।।
करिष्ये तर्पणं पित्रोरिति निश्चित्य संययौ ।
प्राप्य माहिष्मतीं रामः टंकारान् धनुषोऽकरोत् ।। १५१ ।।
सहस्रार्जुनपुंत्राश्च राजानश्चतुरंगिणः ।
युयुधिरे समागत्य हता रामेण दुद्रुवुः ।। १५२।।
उदैरयत् भार्गवोऽस्त्रं तदा कालाग्निनामकम् ।
पुरीं प्राकारसहितां प्रददाहाऽस्त्रपावकः ।। १५३।।
भस्मावशेषं तद्राज्यं कृत्वा निःक्षत्रियां महीम् ।
महेन्द्राद्रिं ययौ रामस्तपसे धृतमानसः ।। १५४।।
वर्षद्वयेन भूयोऽपि कृत्वा निःक्षत्रियां महीम् ।
भूयोऽपि विरलं पृथ्व्यां क्षत्रमुत्पादितं द्विजैः ।। १५५।।
जघान भूमौ निःशेषं साक्षात् काल इवान्तकः ।
यथा यथा क्षितौ भूयः क्षत्रवंशः प्रकाशितः ।। १५६।।
त्रिःसप्तकृत्वः पृथ्वीं चक्रे निःक्षत्रियां मुहुः ।
ततो मूर्धाभिषिक्तानां षट्सहस्रद्वयं पुनः ।। १५७।।
जीवग्राहं गृहीत्वैव कुरुक्षेत्रं जगाम सः ।
सरसां पञ्चकं तत्र खानयित्वा भृगूद्वहः ।। १५८।।
जघान तत्र वै राज्ञः शरीरप्रभवाऽसृजा ।
सरांसि तानि वै पञ्च पूरयामास भार्गवः ।। १५९।।
पितॄन् सन्तर्पयामास श्राद्धं पित्रोश्चकार ह ।
ततो निवृत्तः रामोऽसौ गयातीर्थं ययौ पुनः ।। 1.381.१६०।।
समन्तपंचकं तीर्थं कुरुक्षेत्रेऽभवद्धि तत् ।
यत्र स्नातः सर्वतीर्थैः स्नातो भवति मानवः ।। १६१ ।।
गयायां पितरस्तस्य पितृलोकादुपागताः ।
जगृहुस्तत्कृतां पूजां जमदग्निपुरोगमाः ।। १६२।।
प्राहुः राम! महत्कर्म कृत्वा तर्पितवानसि ।
वधाच्च विनिवर्तस्व प्रायश्चित्तं पुनः कुरु ।। १६३।।
शममाप्नुहि भद्रं ते इत्युक्त्वाऽन्तर्दधुश्च ते ।
रामस्तीर्थानि सर्वाणि जगाम शुद्धिकाम्यया ।। १६४।।
ततो ययौ महेन्द्राद्रिं हयमेधं चकार सः ।
कश्यपाय ददौ पृथ्वीं चचार भार्गवस्तपः ।। १६५।।
इति ते कथिता लक्ष्मि! पर्शुरामचमत्कृतिः ।
पातिव्रत्यं रेणुकायाः पुत्रस्य पितृभक्तता ।। १६६।।
क्षत्रियाणां च दौरात्म्यं फलं विनाश इत्यपि ।
पठनाच्छ्रवणाच्चास्य तत्तद्भक्तिफलं भवेत् ।। १६७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये पतिव्रताया रेणुकायाः कामधेन्वाश्च प्रभावेण पर्शुरामकृतक्षत्रियनाशो मृतजमदग्निसजीवनता रेणुकाजमदग्न्योश्च स्वर्गनिवास इत्यादिनिरूपणनामा एकाशीत्यधिकत्रिशततमोऽध्यायः ।।३८१ ।।