लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३८०
← अध्यायः ३७९ | लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः) अध्यायः ३८० [[लेखकः :|]] |
अध्यायः ३८१ → |
श्रीनारायण उवाच-
शृणु लक्ष्मि! मृगीं वन्यां पातिव्रत्यपरायणाम् ।
पुष्करे साऽभवत्पत्नी ऋषेर्मृगस्य पाशवी ।। १ ।।
यथा वै मानुषे देहे वर्तते तु पतिव्रता ।
तथा सा मृगदेहेऽपि पातिव्रत्ये ह्यवर्तत ।। २ ।।
मृगी मृगे कामधर्मा समाश्लिष्यत्तु यद्दिनात् ।
तत एव दिनात् कान्तं मृगमेकं पतिं शुभम् ।। ३ ।।
स्वीकृत्यैव तमाश्रित्य प्रावर्तत पतिव्रता ।
नान्यं मृगं सा स्मरति नान्यं पश्यति भावतः ।। ४ ।।
नान्यं स्पृशति नान्येन रमते सा कदाचन ।
मृगयूथे पुनर्जाता मृगी सा तु रजस्वला ।। ५ ।।
तदा बलिष्ठाः सारंगाः पतन्त्यनु च तां मृगीम् ।
किन्तु सा स्वपतिं हित्वा नान्ययोगं समिच्छति ।। ६ ।।
तदाऽन्यैः क्रोधमापन्नैर्मृगैर्यूथाद् बहिष्कृता ।
सा तु पतिं मृगं नीत्वा मृगयूथं विहाय च ।। ७ ।।
धर्मरक्षार्थमेवाऽऽयान्निर्मृगं काननान्तरम् ।
मध्यमे पुष्करे तीर्थे शाद्वले निर्भये स्थले ।। ८ ।।
तत्र सा सेवते नित्यं पतिं समनुवृत्तिभिः ।
शृंगाग्रैः स्वामिनः कण्डूनाशयत्येव भावतः ।। ९ ।।
लेलिहाना जिह्वया स्वकान्तं स्नेहमयी तथा ।
स्पृशमाना मुखाद्यैश्च रञ्जयत्येव तं मृगम् ।। 1.380.१ ०।।
घट्टेषु द्रुस्तबकेषु घासान्वितस्थलीषु च ।
यत्र शैत्यं न वा वृष्टिर्न वा तापो भवेद् रवेः ।। ११ ।।
तत्र छायामूलमध्ये स्तम्बान्तःस्थलमाप्य च ।
रात्रिं कान्तेन वै साकं विनिर्गमय्य सा मृगी ।। १ २।।
कान्तस्य जाग्रतः पूर्वं निद्रां त्यक्त्वा तु वै शनैः ।
कान्ताननं विलोक्यैव प्रलेढि जिह्वया सती ।। १ ३।।
मृगस्तु जाग्रतिं प्राप्य कान्तां दृष्ट्वा पतिव्रताम् ।
शृंगेण जिह्वया कान्ताकण्डूयनमथैति हि ।। १४।।
एवं परस्परं पत्नीव्रतस्वामिव्रतान्वितौ ।
शय्यां स्थलीं प्रविहाय समायातो बहिःस्थलीम् ।। १५।।
यावत्कान्तो न गृह्णाति तृणं वा कोमलं दलम् ।
तावन्मृगी न चाऽऽदत्ते पत्रं तृणं च वाऽङ्कुरम् ।। १६।।
प्रातः कान्तेन चेद्दत्तं पत्रं तदा मृगी ह्यपि ।
पत्रमेव समादत्ते नान्यत् तृणं च वाऽङ्कुरम् ।। १७।।
यदि कान्तः समादत्ते तृणं तदनु सा मृगी ।
भक्षयत्ति तृणमेव तत्र पतिप्रसादजम् ।। १८।।
पत्यभक्ष्यं न चाऽऽदत्ते सरसं श्रेष्ठमित्यपि ।
भक्ष्यमाणे तृणादौ च यदि प्राप्नोति नूतनम् ।। १ ९।।
मिष्टं श्रेष्ठं मृदु भक्ष्यं पत्रं पुष्पं फलं तृणम् ।
अंकुरं कन्दमूलं वा सस्यं शाखादिकं यदि ।।1.380.२ ०।।
तदा कान्तं समाहूय स्वामिने तद् ददाति सा ।
जलपानेऽपि पूर्वं वै मृगः पिबति वै जलम् ।।२१ ।।
तदन्वेव मृगी पाने जलस्याचरतीति वै ।
प्रयाते यात्यनु नित्यं स्थिते भवति सा स्थिता ।।२२।।
पलायमाने तु तदनु सा करोति पलायनम् ।
तर्जिता ताडिता वापि न सा गणयति व्यथाम् ।।२३ ।।
मृगश्चेत्! सूर्यकिरणे तापे तिष्ठति वै मुदा ।
यावत् तावच्च सा धर्मं मत्वा तापे प्रतिष्ठति ।।२४।।
एवं छायां गते पत्यौ ततश्छायां प्रतीच्छति ।
सदा कान्तस्य सेवायां कल्याणं मन्यते सती ।।२५।।
एवं वै वर्तमानायां वने तत्राऽप्यवग्रहः ।
समभूत् तेन सस्यानि नाऽप्ररोहन् जलं विना ।।२६।।
स्थली शुष्काऽभवच्चापि तत्र खाद्यं क्षय गतम् ।
मृग्यमाणं क्वचिच्छुष्कं शलाकाकाण्डपत्रकम् ।। २७।।
लभ्यते च क्वचिन्नैव प्राप्यते तु तदा निशा ।
क्षुधिताभ्यां याप्यते च स्वधर्मिभ्यां वने वने ।।२८।।
अथ प्राग् यत्परित्यक्तं मृगव्रातं सुधान्वितम् ।
भ्रमद्वनं समायातं यत्रास्ते सा पतिव्रता ।।२९।।
दुःखं क्षुधितं चालोक्य कुटुम्बियूथमेव सा ।
हृष्टा स्मृत्वा पतिं तत्र कृत्वा वृद्धान्नतिं मुहुः ।।1.380.३ ०।।
प्रोवाच तेषां भोज्यार्थं यद्यस्म्यहं पतिव्रता ।
तदैतेषामतिथीनां सत्कारार्थं वनं मम ।।३ १ ।।
वृष्टिं विनापि सदलं नूतनांकुरशोभितम् ।
शाद्वलं सफलं सस्योत्तमश्रीललितं तथा ।।३२।।
सतृणं सजलं चापि भवत्वत्र मुहूर्तकम् ।
इत्येवं कथिते तद्वै वनं हरितमेव च ।।३३ ।।
सम्पन्नं भक्ष्यपौष्कल्यप्रपूर्णं ह्लादकारकम् ।
सर्वे कुटुम्बिनो जग्ध्वा जलं पीत्वा ययुस्तदा ।।३४।।
पतिव्रताया माहात्म्यं गायन्तः स्मृद्धिकारकम् ।
तैस्तु सर्वत्र वार्ता सा कथिताऽऽश्चर्यकारिणी ।।३५।।
मृगा वनान्तरेभ्यश्च समायाताः क्षुधातुराः ।
इयं पतिव्रता नित्यं पतिं नत्वा पुनः पुनः ।।३६।।
अतिथीनां भोजनार्थं नित्यं संकल्पमाचरत् ।
नित्यं मुहूर्तमात्रं च शुष्कं भवति चार्द्रकम् ।।३७।।
हरितं शाद्वलं भक्ष्यं भक्षयन्ति मृगास्ततः ।
तृप्त्वा गच्छन्ति भूभागान् पुनः शुष्कायते वनम् ।।३८।।
अथैकदाऽभवत्तत्र वने दावानलोद्भवः ।
प्रालेयवह्निसदृशः पशुपक्षिक्षयंकरः ।।३९।।
तदा सर्वैः स्मृता सा च मृगी वह्निप्रशान्तये ।
मृगी पतिक्षुरं स्पृष्ट्वा नत्वा प्रोवाच वै पतिम् ।।1.380.४० ।।
यदि नाथ कृता सेवा तव भक्त्या सदा मया ।
तेन पुण्येन दावोऽयं शान्तिमेतु क्षयावहः ।।४१ ।।
इति सकल्पिते तत्र वह्निः कृष्णमृगोऽभवत् ।
समायातो यत्र साऽस्ति मृगी स्वामिव्रता सती ।।४२।।
ननाम तां सतीं प्राह देवि! शान्तोऽस्मि ते भयात्। ।
नातः प्रज्वालयेऽरण्यं विहरन्तु मृगाः सुखम् ।।४३ ।।
बिभेम्यहं सतीशापात् क्षमस्व मां पतिव्रते! ।
इत्युक्त्वा च सतीं नत्वा ययौ शान्तिं दवानलः ।।४४।।
अथ सिंहास्तथा व्याघ्रा भल्लुका हिंस्रकास्तु ये ।
तेऽपि यातान्पशूँस्तत्र ज्ञात्वाऽऽययुस्तु तद्वने ।।४१।।
हिंस्राः पशून् विहिंसन्ति दुःखाऽऽक्रोशोऽभवद् वने ।
पशवोऽपि तु संभूय त्रस्तास्तत्र समाययुः ।।४६।।
पतिव्रता मृगी यत्र पुष्करे वर्तते भुवि ।
तदा तेषां महद्दुःखविनाशायाऽर्थयच्छिवम् ।।४७।।
मृगीश्वरो महादेवस्तत्र साक्षात् समागमत् ।
प्राह सा तं हरं नाथ! रक्षां कुरु वने सदा ।।४८।।
हिंस्राः खादन्ति ते भक्तानस्मानवितुमर्हसि ।
महादेवस्तदा रूपं धृत्वा शरभमुत्कटम् ।।४९।।
वने चचार हिंस्राणां विद्रावणाय सर्वतः ।
प्रहिंस्राः पशवः क्रूरा दूरं यान्ति स्म तद्वनात् ।।1.380.५०।।
अथैनं शरभं देवं दृष्टवान् पर्शुरामकः ।
जामदग्न्यस्तपः कर्तुं यश्च तिष्ठति पुष्करे ।।५१ ।।
धनुरादाय बाणेन यावद्धन्तुं प्रवर्तते ।
तावद्देव गिरा प्राह शंकरः शरभः स्वयम् ।।५२।।
रे रे राम! महाभाग! भक्तरक्षाकरोऽस्म्यहम् ।
पतिव्रताया मृग्या वै संकल्पेन समागतः ।।५३ ।।
शंकरस्तवरूपोऽहं मा यत्न त्वं वृथा कुरु ।
इत्युक्त्वा तु हरस्तस्मायदर्शयद्धरं तनुम् ।।।५४।।
देवौ रामहरौ षष्वजाते परि परस्परम् ।
शंभु प्रदर्श्य सुखदां स्वर्णदीं तापसस्थलीम् ।।५५।।
तिरोऽभवत् ततो रामो ययौ तत्र फलाप्तये ।
स्तोत्रं चकार कृष्णस्य तेन तुष्टोऽभवद्धरिः ।।५६ ।।
जगाम दर्शनं तस्य जामदग्न्यस्य केशवः ।
ददावस्त्राणि शस्त्राणि क्षत्रवर्गलयाय वै ।।५७।।
तिरोभवच्च स कृष्णो रामोऽपि प्रति पुष्करम् ।
स्नानाद्यर्थं समागच्छद् दृष्टवान् स मृगीं सतीम् ।।५८ ।।
यत्प्रभावेन हरितं वनं तज्जायते मुहुः ।
यत्प्रतापेन शान्तोऽभूत् तत्र दावानलो वने ।।।५९।।।
यत्प्रभावाच्च शरभं रूपं वै धृतवान् हरः ।
तां तु दृष्ट्वा सतीं दिव्यां मृगीमाश्चर्यमाप्तवान् ।।1.380.६० ।।
मृगी रामं कृष्णनारायणांशं दिव्यसद्धिया ।
ज्ञात्वा ननाम तुष्टावाऽतिथिसत्कारमाचरत् ।।६१ ।।
मृगोऽपि तं पर्शुरामं ननाम प्रणयान्वितः ।
तावत्तत्र समायातो व्याधो वै मृगयारतः ।।६ २ ।।
पिपासितो घर्मतप्तो जलपानसमुत्सुकः ।
रामस्य पश्यतस्तत्र सरसस्तटमागतः ।।६३ ।।
मृगीमृगौ तु पिबतस्तत्र वारि भयान्वितौ ।
व्याधो मृगीमृगौ दृष्ट्वा मृगयार्थं धनुर्दधौ ।।६४।।
किन्तु दृष्ट्वा पर्शुरामं तस्थावक्षिप्तसायकः ।
शंकितश्चिन्तयामास तदा भीतस्तु रामतः ।।।६५।।
पीत्वा मृगीमृगौ वारि वृक्षछायासमाश्रितौ ।
दृष्ट्वा रामं मृग्युवाच कान्तं निर्भयमानसा ।।६६ ।।
कान्त! चात्रैव तिष्ठावो यावद्रामोऽत्र संस्थितः ।
अस्य वीरस्य सान्निध्ये व्याधो नौ प्रहरिष्यति ।।६७।।
तदा दृष्टः स मुनिना भस्मीभूतो भविष्यति ।
मृगश्चाह तथास्त्वेनं रामं जानामि भार्गवम् ।।६८।।
शिवस्य नारदस्यापि शुकस्यापि च मारुतेः ।
अम्बरीषस्य च बलेर्विभीषणस्य चोत्तमा ।।६९।।
प्रह्लादस्य रन्तिदेवस्योद्धवस्यापि चोत्तमा ।
गोपीनां च प्रभायाश्च पार्वत्याश्च यथोत्तमा ।।1.380.७० ।।
माणिक्यायाश्च लक्ष्म्याश्च भक्तिः कृष्णे यथाऽस्ति वै ।
तथा भक्तिं प्रकुर्वन् वै रामोऽयं तपसि स्थितः ।।७१ ।।
जातिज्ञानं त्वद्य जातं रामस्याऽस्य तु दर्शनात् ।
शृणु प्रिये! प्रवक्ष्यामि यथाऽऽवां मृगतां गतौ ।।७२।।
पुरा द्रविडदेशे वै ब्राह्मणानां कुले शुभे ।
जातः कौशिकगोत्रो मे सत्रायणाऽभिधः पिता ।।७३ ।।
वेदसूरिस्तस्य पुत्रश्चाऽहमासं सुभक्तिमान् ।
गुरुशुश्रूषणे रक्तो वेदाध्ययनतत्परः ।।७४।।
एकदा कृतमालायां स्नात्वा ह्युषसि पर्वतम् ।
समारूढस्तत्र चैका मृगी त्वागात् पिपासिता ।।।७५।।
वारिपानपरां तां च वीक्ष्याऽहं कृपया द्रुतम् ।
तस्याः समीपमगमं सापि विश्वासशालिनी ।।७६ ।।
मम वै पादयोस्तत्रागत्य नम्रा बभूव वै ।
तावत्तत्र समायातः शार्दूलोऽतिभयंकरः ।।७७।।
मृगी पलायिता त्रस्ता शार्दूलो जगृहे च ताम् ।
अहं शार्दूलनाशार्थं कृतवान् बहुयत्नकम् ।। ७८।।
मृग्याः प्राणाऽवनार्थ च सा तथापि क्षता तदा ।
कन्यारूपं चोनपञ्चदशवर्षं विधाय वै ।।७९।।
मत्समीपं समागत्य पतिता पादयोस्तु मे ।
अहमाश्चर्यमापन्नः पृष्ठवाँस्तां कुमारिकाम् ।।1.380.८०।।
देवि! देवीसमा का त्वं मृगीरूपा हि कन्यका ।
कस्य पुत्री कथं चाद्रौ त्वैकाकिनी समागता ।।८ १ ।।
कन्या प्राह तदा मां सा पुत्र्यहं परमेष्ठिनः ।
देवीनां ब्रह्मसरसां मध्ये नाम्ना हरिण्यहम् ।।८२।।
वरयोग्याऽभवं चाहं ब्रह्मणा प्रेषिताऽत्र वै ।
सात्रायणिं वेदसूरिमुद्वहितुं समागता ।।८३ ।।
मृगीरूपेण चायाता मां यथाऽन्यो न धर्षयेत् ।
सारंगी चाऽक्षता चाऽप्यरजस्वलाऽस्मि कन्यका ।।८४।।
ऋतुयोग्याऽस्मि सञ्जाता समुद्वहतु मां भवान् ।
इत्युक्ता सा मया तत्र गान्धर्वेण विवाहिता ।।८५।।
अग्निं प्रज्वाल्य तत्रैव हृत्वा फलादिकं वने ।
कृत्वा प्रदक्षिणं पुष्पमालां धृत्वा च दम्पती ।।८६।।
गार्ह्यंधर्म समापन्नौ कामरूपौ हि योगिनौ ।
कदाचिद्ऋषिसद्रूपं कदाचिन्मृगरूपिणौ ।।८७।।
कदाचिद् देवरूपौ च कदाचिद्वै पतत्त्रिणौ ।
कदाचिज्जलमत्स्यौ च हंसौ च गरुडौ तथा ।।८८।।
भूत्वा भूत्वा यथेष्टं स्म वने वर्तावहे गिरेः ।
पातिव्रत्यपरा त्वं च तथा पत्नीव्रतोऽप्यहम् ।।८९।।
गाढानुरागावन्योन्यमास्तां धर्मपरायणौ ।
जातिस्मरौ त्रिकालज्ञौ धर्मकर्मपरौ सदा ।।1.380.९०।।
गिरौ चासन् मृगा मृग्यश्चान्ये शतसहस्रशः ।
ते यथा न विजानीयुरावां मृगात्मकौ तथा ।।९१ । ।
भूत्वा तेषु मिलित्वैव विहरावः स्म नित्यदा ।
एकदा स्तम्बपर्णानां निचये वृष्टिकारणात् ।।९२।।
वृक्षस्तम्बाश्रयं कृत्वा तिष्ठावो निर्भयं स्थलम् ।
वियुज्य तन्मृगव्रातात् कामधर्मसुखेच्छया ।। ९३ ।।
निशा तु क्षपिता प्रातर्वृष्टिर्नैव निवर्तते ।
तावत्तत्र च क्षुधितः सिंहः कश्चित्समागतः ।। ९४।।
ह्यकस्माद् विधृतौ तेन क्षतौ जातौ मृगौ तदा ।
पातव्रत्येन धर्मेण हरिण्या रक्षितावपि ।।९५।।
कालधर्मं हि सम्प्राप्तौ मृगरूपौ मृगस्मृती ।
अन्ते या च स्मृतिर्यस्य गतिस्तस्य तथा भवेत् ।।९६।।
इति भावनया तत्र व्याघ्रव्यापादनोत्तरम् ।
सा मृता त्वं मृगी जाता मृगश्चाऽहं त्वया सह ।। ९७। ।
पत्नीव्रतस्तथा त्वं च मे प्रियाऽसि पतिव्रता ।
आवाभ्यां भार्गवो रामो दुष्टः साक्षाद्धरिः स्वयम् ।।९८।।
गमिष्यामः शुभान् लोकान् येषु गत्वा न शोचति ।
ययतुस्ताविति प्रोच्य रामस्य शरणं ह्युभौ ।।९९।।
प्रोचतुः परशुरामं सहस्रवर्षजीवितौ ।
राम राम हरे कृष्णनारायण जगद्गुरो! ।। 1.380.१ ००।।
जातिस्मरौ मृगीमृगौ स्वस्वधर्मपरायणौ ।
शरणं ते च मुक्त्यर्थं प्राप्तौ मोचय बन्धनात् ।। १०१ ।।
एवमुक्त्वा पर्शुरामं तुष्टुवतुर्मृगीमृगौ ।
यावत्तच्चरणौ स्पृष्टौ तावत्स्वर्यानमागतम् ।। १ ०२।।
चतुर्भिरद्भुतैः सिद्धैः कामरूपैर्मनोजवैः ।
अनुयातमथोत्प्लुत्य स्त्रीपुंसौ हरिणौ तदा ।। १०३ ।।
रामस्य चरणौ नत्वा समारुरुहतुर्मुदा ।
दिव्यदेहधरौ भूत्वा शंखचक्रादिचिह्नितौ ।। १ ०४।।
गतौ च वैष्णवं लोकं सर्वदेवनमस्कृतम् ।
शृण्वतां पठतां चैतल्लक्ष्मि! मोक्षगतिर्भवेत् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये ब्रह्मणः पुत्र्या हरिण्या वेदसूरिणा सह विवाहः, मृगीमृगदेहे पातिव्रत्यपत्नीव्रततापालनम्, वृष्टिं विनापि वनस्य हरितीकरणम्, दावानलप्रशमनम्, हिंस्रप्राणिनाशाय शिवस्य शरभरूपेणागमनम्, पर्शुरामदर्शनम्, पुष्करे प्राग्वृत्तान्तकथनम्, हरिणयोर्मुक्तिश्चेत्यादिनिरूपणनामाऽशीत्यधिकत्रिशततमोऽध्यायः ।। ३८०।।