लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३७९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३७८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३७९
[[लेखकः :|]]
अध्यायः ३८० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि मेनोक्तान् पार्वतीं प्रति ।
पातिव्रत्यपरान् धर्मान् भुक्तिमुक्तिप्रदान् शुभान् ।। १ ।।
कृत्वा विवाहं पार्वत्या मेना हिमगिरेः प्रिया ।
पुत्रीं सयापयामास धर्मानुक्त्वा परान् यथा ।। २ ।।
गिरिजे! शृणु सुप्रीत्या धर्मवृद्धिकरं वचः ।
इहाऽमुत्राऽऽनन्दकरं शृण्वतां च सुखप्रदम् ।। ३ ।।
धन्या पतिव्रता नारी त्वादृशी शंकरप्रिया ।
पावनी सर्वकान्तानां सर्वपापप्रणाशिनी ।। ४ ।।
या सती सेवते प्रेम्णा कृष्णनारायणं पतिम् ।
इह भुक्त्वाऽखिलान् भोगान् पत्यान्ते याति सद्गतिम् ।। '९ ।।
पातिव्रत्येन धर्मेण पत्नी याति प्रपूज्यताम् ।
ब्रह्मविष्णुहरैर्मान्या मुनिमान्या भवत्यपि ।। ६ ।।
त्वया पतिः सदा सेव्यः शंकरो लोकशंकरः ।
भुञ्जाद् भुक्ते प्रिये पत्यौ पातिव्रत्यपरायणा । । ७ ।।
तिष्ठेत् तस्मिन् सुखे नारी पत्यौ यदा तु तिष्ठति ।
स्वप्यात् स्वपिति पत्यौ सा बुद्ध्येत्तु प्रथमं सदा ।। ८ ।।
सर्वदा तद्धितं कुर्यादकैतवगतिः प्रिया ।
अनलंकृतमात्मानं दर्शयेन्न क्वचित् सती ।। ९ ।।
कार्यार्थं प्रोषिते तस्मिन् भवेन्मण्डनवर्जिता ।
पत्युर्नाम न गृह्णीयात् कदापीह पतिव्रता ।। 1.379.१ ०।।
आक्रुष्टापि न चाक्रोशेत् प्रसीदेत्ताडिताऽपि च ।
आहूता गृहकार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ।। ११ ।।
तदादिष्टा चरेत् कर्म मनसा कर्मणा प्रिया ।
चिरं तिष्ठेन्न वै द्वारे परगृहे न सञ्चरेत् ।। १२।।
गृहतत्त्वं परस्मै न कथयेच्चार्पयेत्तथा ।
पूजावस्तूनि सर्वाणि त्वनुक्तापि प्रसाधयेत् ।। १३ ।।
गच्छेन्न तीर्थयात्रादो पत्युराज्ञां विना क्वचित् ।
तीर्थार्थिनी सती स्वस्याः पत्युः पादोदकं पिबेत् ।। १४।।
पत्युः पादोदके सर्वतीर्थक्षेत्राणि तत्कृते ।
भुंज्यात्पतिप्रसादं च मिष्टमन्नादिकं जलम् ।। १५।।
अविभज्य न वै भुंज्याद् देवातिथिपितृष्वपि ।
परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ।। १६।।
संस्कृतोपस्करा हृष्टा चातिव्ययपराङ्मुखी ।
पत्याज्ञया व्रतकर्त्री भवेत्पतिपरायणा ।। १७।।
सुखासीनं रममाणं पतिं नोत्थापयेत् क्वचित् ।
दीनं क्लीबं व्याधितं च वृद्धं वापि न तर्जयेत् ।। १८।।
स्त्रीधर्मिणी त्रिरात्रं च स्वमुखं नैव दर्शयेत् ।
सुस्नाता भर्तृवदनमीक्षेताऽन्यस्य न क्वचित् ।। १ ९।।
पत्यौ चानुपस्थिते तं स्मृत्वा सूर्यं विलोकयेत् ।
हरिद्रां कुंकुमं बिन्दुं सिन्दूरं कज्जलादिकम् ।। 1.379.२० ।।
ताम्बूलं मंगलसूत्रं शृंगाराऽऽभूषणानि च ।
केशसाधन कबरीं कंकणं कर्णभूषणम् ।। २१ ।।
नासिकाभूषणं सूत्रं सौभाग्यद्रव्यमित्यपि ।
भर्त्रायुष्येच्छुकी साध्वी दूरयेन्न कदाचन ।।२२।।
भर्तुर्विद्वेषिणी संभाषयेन्नैव पतिव्रता ।
यत्र यत्र रुचिर्भर्तुस्तत्र प्रेमरतिर्भवेत् ।। २३ ।।
हृष्टं हृष्टा विषण्णास्या विषण्णास्ये प्रिये प्रिया ।
विपदि संपदि साध्वी भवेत् पत्येकरूपिणी ।।२४।।
सर्पिर्लवणतैलादिक्षये कष्टे न योजयेत् ।
विधेर्विष्णोर्हराद्वापि नारायणाच्च सर्वथा ।। २५।।
पतिरेकः परः सत्याः परब्रह्मस्वरूपकः ।
भर्तुराज्ञां विना चोपवासव्रतादि नाचरेत् ।।२६ ।।
उक्ता प्रत्युत्तरं क्रुद्धा दद्यात् सा सरमा भवेत् ।
शृगाली च भवेत् तिरस्कारिणी वानरी भवेत् ।। २७।।
उच्चासनं न सेवेत नाऽभिमानवती भवेत् ।
अपवादं कलहं च कलंकं न ददेत् प्रिये ।। २८ ।।
गुरूणां सन्निधौ नोच्चैर्वदेन्नापि हसेत् सती ।
बाह्यादायान्तमालोक्य भर्तारं त्वरिता सती ।। २९।।
जलान्नफलताम्बूलपादसंवाहनादिभिः ।
श्रमनोदनवाक्यैश्च प्रियैः संप्रीणयेत् पतिम् ।।1.379.३ ०।।
मितं ददाति जनको माता भ्राता सुतो मितम् ।
अमितस्य प्रदातारं पतिं सन्तोषयेत् सदा ।।३ १ ।।
पतिर्देवः पतिर्धर्मस्तीर्थं भर्ता पतिर्गुरुः ।
परत्रेह च सुखदस्तं पतिं सेवयेत् सदा ।।३२।।
विना पतिं रहश्चारा तूलूकी जायते द्रुमे ।
पत्युस्ताडनकर्त्री च व्याघ्री दंशा च जायते ।।३३ ।।
नरान्ये चक्षुषोर्दात्री वक्राक्षी मिञ्जरी भवेत् ।
पतिं त्यक्त्वा तु मिष्टादी सूकरी वल्गुरी भवेत् ।।३४।।
तूंकृत्य स्वामिनं ब्रूते या सा मूकाऽल्पजिह्विका ।
सपत्नीद्वेषयुक्ता स्याद् दुर्भगा गुप्तरोगिणी ।।३५।।
पत्यन्यं कामनायुक्तं मुखं दर्शयति स्वकम् ।
काणा कुब्जा कुरूपा च कुमुखी च भवेत्तु सा ।।३६।।
अभर्तृका सुवर्णाऽपि नारी शवसमा मता ।
माता धन्या पिता धन्यो धन्याः सम्बन्धिबान्धवाः ।।।३७।।
धन्यो ग्रामः पतिर्देशो यत्रास्ते वै पतिव्रता ।
पितृवंश्या मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ।।३८।।
पतिव्रताप्रपुण्यैस्ते दिवि देवा भवन्ति वै ।
पतिव्रतापदन्यासा भूमिवैकुण्ठमुच्यते ।। ३९।।
चन्द्रः सूर्योऽनलो वायुः पावित्र्याथ सतीपदम् ।
स्पृशत्येव जलं तद्वत् तीर्थं भवति पावनम् ।।1.379.४० ।।
भार्या गार्हस्थ्यमूलं चाऽऽनन्दमूलं प्रजाप्रदा ।
पुण्यमूलं सर्वलोके जयदा गृहमेव सा ।।४१ ।।
गंगावत्पावनी साध्वी या सदा भर्तृतोषिणी ।
पापनाशकरी देवी स्मरतां सद्गतिप्रदा ।।।४२।।।
सतीत्वं सति! दुष्प्राप्यं निसर्गाच्छ्रीप्रसंभवम् ।
साध्वीत्वं प्राप्य सद्धर्म प्रमादात्तं न नाशयेत् ।।४३ ।।
पातिव्रत्यं सदा रक्षेत् प्राप्याऽपि विपदः सती ।
सतीत्वं पुण्यतः प्रात नास्तिक्याद् या न मन्यते ।।४४।।
सा तु धर्मच्युता नारी कुलटात्वं प्रपद्यते ।
स्वधर्मनिरता सत्यवादिनी च जितेन्द्रिया ।।४५।।
प्राप्नोति विपुलं स्वर्गं देवानामपि दुर्लभम् ।
तस्मात् सर्वप्रयत्नेन साध्वी स्वधर्मतत्परा ।।४६।।
हेतुं सर्वपुमर्थस्य पातिव्रत्यं हि रक्षयेत् ।
गवार्थं ब्राह्मणस्यार्थं स्वाम्यर्थं या हि वर्तते ।।४७।।
सा स्वमोक्षमवाप्नोति स्वामिसेवासमर्जितम् ।
शृणु साध्वि! मम पुत्रि! पञ्चचूडोदितं तु यत् ।।४८।।
नारदः पञ्चचूडाख्यां पप्रच्छाऽप्सरसं पुरा ।
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वदाऽत्र मे ।।४९।।
पञ्चचूडा प्राह तत्र नारदं मुनिसत्तमम् ।
स्त्रीस्वभावस्य कथनं निन्दायां परिवर्तते ।।1.379.५०।।
मुने! शक्या कथं नारी नार्या तु निन्दितुं वद ।
विदितास्ते स्त्रियो याश्च यादृश्यश्च स्वभावतः ।।५ १ ।।
न मामर्हसि देवर्षे नियोक्तुं प्रश्नमीदृशम् ।
तथापि त्वन्नियोगाद्वै कथयामि यथातथम् ।।५२।।
तत्र वाणीकृतो दोषस्त्वयि नारद्! गृह्यताम् ।
ओमित्यंगीचकारर्षिस्ततः प्राहाऽप्सरोवरा ।।५३ ।।
कुलीना नाथवत्यश्च रूपवत्यश्च योषितः ।
मर्यादासु न तिष्ठन्ति स्त्रीषु चाञ्चल्यदूषणम् ।।५४।।
चाञ्चल्येन स्वकं धर्मं पातिव्रत्यं गतिप्रदम् ।
रक्षितुं न प्रयतन्ते ततो यान्त्यधमां गतिम् ।।५५।।
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो! ।
पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ।।५६ ।।
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ।।५७।।
अनर्थित्वान्मनुष्याणां भयात्पतिजनस्य च ।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ।।५८।।
नाऽऽसां कश्चिदमान्योऽस्ति नाऽऽसां वयसि निश्चयः ।
सुरूपं वा कुरूपं वा पुमांसमुपभुंजते ।।५९। ।
न भयादथवाऽऽक्रोशान्नार्थहेतोः कथंचन ।
न ज्ञानिकुलसम्बन्धात् स्त्रियस्तिष्ठन्ति भर्तृषु ।।1.379.६०।।
इत्याह स्त्रीस्वभावाँश्च पञ्चचूडाऽप्सरोवरा ।
तान् स्वभावान् प्रसंमृद्य मनो नियम्य यत्नतः ।।६ १ ।।
पतिं परं प्रभुं ज्ञात्वा चांचल्यं तत्र योजयेत् ।
पतिमेव परंब्रह्म पतिमेव च भाजनम् ।।६२।।
सेवायाः परमं ज्ञात्वा तथा पुण्यस्य भाजनम् ।
धर्मस्य भाजनं चैव तथा मोक्षस्य भाजनम् ।।६३ ।।
परलोकस्य सर्वस्य तथा स्वर्गस्य भाजनम् ।
भाजनं सद्गुणानां च परमानन्दभाजनम् ।।६४।।
कुलककीर्तेर्भाजनं च मर्यादाभाजनं तथा ।
चाञ्चल्यशान्तिपात्रं च धर्मपात्रं परं तथा ।।६५।।
कामनाशान्तिपात्रं च लज्जाया भाजनं तथा ।
मनःशान्तेर्मार्जनं चाऽनर्थाऽनुत्पादसाधनम् ।।६६ ।।
वंशोत्पत्तेर्बीजपात्रं स्वर्गमोक्षादिपात्रकम् ।
पतिं हरिस्वरूपं वै भजेद्दिव्यं पतिव्रता ।।६७।।
अन्तकः शमनो मृत्युः पातालं वडवामुखम् ।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ।।६८।।
तदेतानन्तकादिस्वभावान् निसर्गजान् गुणान् ।
वर्तितव्यं विलीयैव सत्या पत्यौ हि सर्वथा ।।६९।।
पतिं ज्ञात्वा हरिं नित्यं पूजयेद् या पतिव्रता ।
न तस्याः श्रीहरेः पूजा पत्यर्चाऽतोऽतिरिच्यते ।।1.379.७०।।
इति ज्ञात्वा सदा पुत्रि! पतिं सेवय धर्मतः ।
भुक्तिं मुक्तिं तथा स्वेष्टं प्राप्स्यसि पत्यनुग्रहात् ।।७१ ।।
इति लक्ष्मि! पातिव्रत्यधर्माश्चोक्ता हि मेनया ।
पार्वत्यै च मया तुभ्यं प्रोक्तास्त्वत्र प्रसंगतः ।।७२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये मेनकोक्तान् पार्वतीं प्रति पतिव्रताधर्मान् पंचचूडोक्तान्नारदं प्रति स्त्रीस्वभावाँश्च प्रदर्श्य पातिव्रत्यधर्मनिगमनमित्यादिनिरूपणनामैकोनाऽशीत्यधिकत्रिशततमोऽध्यायः ।। ३७९ ।।