लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३७६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३७५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३७६
[[लेखकः :|]]
अध्यायः ३७७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! पातिव्रत्यं सीतायाश्चापि कीदृशम् ।
पत्यर्थं जीवनं दत्वा दुःखं त्वाजन्म वै महत् ।। १ ।।
अनुभूय महारण्ये राक्षसादिगृहादिषु ।
अन्ते पृथ्व्यां निमग्नाऽभूल्लक्ष्मीरूपाऽपि सा सती ।। २ ।।
कुशध्वजस्य सा पोष्या कन्या धरणिकुक्षिजा ।
धनुर्भंगं तु रामो वै कृत्वा तां परिणीतवान् ।। ३ ।।
साकेताख्यनगर्यां वै नृपः शतमखोऽभवत् ।
तस्य पुत्रः शातमखी रामादित्यो बभूव ह ।। ४ ।।
नरादित्यस्तु तद्भ्राता द्युवर्णातो बभूव ह ।
ब्रह्मणा प्रार्थितो विष्णुः कृष्णनारायणः स्वयम् ।। ५ ।।
वासुदेवोऽभवद् भूमौ रामाऽऽदित्योऽतिधार्मिकः ।
द्यवर्णायां च भगवाँस्त्रेतायां प्रथमेऽभवत् ।। ६ ।।
विश्वामित्रप्रेषितस्तु राक्षसानां वधाय सः ।
नरादित्येन सहितः प्रययौ ऋषिणा सह ।। ७ ।।
दृष्ट्वा पाषाणरूपां तां गौतमेनाऽप्यधिश्रिताम् ।
पतिव्रतामहल्यां वै स्वमार्गे दिव्यनेत्रकः ।। ८ ।।
विश्वामित्रं तु पप्रच्छ कारणं जगदीश्वरः ।
पूर्ववृत्तं तदा श्रुत्वा रामो भुवनपावनः ।। ९ ।।
दिव्यरूपेण तां ज्ञात्वा पतिसेवापरायणाम् ।
पस्पर्श पादांगुलिभिः सा बभूव तु पद्मिनी ।।1.376.१ ०।।
सा च रामाशिषं कृत्वा प्रययौ स्वामिना सह ।
विमानेन परं लोकं सत्यं स्वपतिसंश्रिता ।। ११ ।।
शुभाशिषं ददौ रामादित्यायाऽपि तु गौतमः ।
अग्रे वामनपादाँऽकपावनं भूस्थलं ततः ।।१ २।।
ददर्श रामस्तत्रैवाऽलुण्ठद् रजोधृतीच्छया ।
पावनं तु रजो देहे तत्र प्रमृद्य भावतः ।। १ ३।।
विश्वामित्राश्रमं गत्वा हत्वा मारीचराक्षसम् ।
गत्वा तु मिथिलां शंभुधनुर्भंगं विधाय च ।। १४।।
चकार पाणिग्रहणं सीताया लक्ष्मि! तत्र च ।
कृत्वा विवाहं भगवानयोध्यां प्रययौ मुदा ।। १५।।
राजा पुत्रं नृपं कर्तुमियेष कृतसादरम् ।
तप्ततीर्थोदकं तूर्णमानीय मुनिपुंगवान् ।। १६ ।।
कृताधिवासं रामार्कं सर्वमंगलसंयुतम् ।
दृष्ट्वा तु कलहानाम्नी रा्ज्ञी पूर्ववचोबलात् ।। १७।।
वारयामास राजानं पूर्वमंगीकृतं वरम् ।
रामस्य वनवासं च राजत्वं स्वसुतस्य वै ।। १८।।
अयोग्यस्यापि तस्यैव कालहेयस्य सर्वथा ।
वरं दातुं महाराजो नेयेष न्यायमार्गगः ।। १ ९।।
रामार्कस्तं नृपं प्राह धर्मसत्यान्वितं सुधीः ।
तडागशतदानेन यत्पुण्यं तु ततोऽधिकम् ।।1.376.२० ।।
वापीदानेन लोकेऽत्र लभ्यते मानवैः पितः! ।
दशवापीप्रदानेन यत्पुण्यं च ततोऽधिकम् ।।२ १ ।।
यज्ञेनैकेन लभ्येत सर्वथा मानवैर्भुवि ।
शतयज्ञप्रपुण्येन यत्सुखं च ततोऽधिकम् ।।२२।।
पुत्राऽऽस्यदर्शनेनाऽत्र लभ्यते कर्मभूमिषु ।
दर्शने शतपुत्राणां यत्पुण्यं च ततोऽधिकम् ।।२३।।
सत्यस्य पालनाद् राजन् लभते पुण्यवाञ्जनः ।
नहि सत्यात् परो धर्मो नाऽनृतात्पातकं परम् ।।।२४।।
नास्ति धर्मात्परो बन्धुर्नास्ति धर्मात्परं धनम् ।
सत्यधर्मात्परः को वा स्वधर्मं रक्ष यत्नतः ।।२५।।
स्वधर्मे रक्षिते राजन् शश्वत्सर्वत्र मंगलम् ।
यशस्यं सुप्रतिष्ठां च प्रतापः पूजनं परम् ।।२६ ।।
चतुर्दशाब्दं धर्मेण त्यक्त्वा गृहसुखं भ्रमन् ।
वनवासं करिष्यामि सत्यस्य पालनाय ते ।।२७।।
कृत्वा सत्यं तु शपथमिच्छयाऽनिच्छयाऽथवा ।
न कुर्यात्पालनं यस्तु भस्मान्ता तस्य निष्कृतिः ।।२८। ।
कुंभीपाके पच्यते स यावद्वै ब्रह्मणो दिनम् ।
ततो मूको भवेत् कुष्ठी मानवः सप्तजन्मसु ।।२९।।
इत्युक्त्वा पितरौ नत्वा धृत्वा जटां सवल्कलाम् ।
यावद् गच्छत्यरण्यं स रामादित्यो नरार्कयुक् ।।1.376.३ ०।।
सीता पतिव्रता चापि प्रतस्थे स्वामिना सह ।
रामार्कस्तां जगादेदं प्रिये तिष्ठाऽत्र वाऽऽव्रज ।।३ १ ।।
दुःखानि बहुलान्येव वने सन्ति पदे पदे ।
त्वमशक्ताऽसि सोढुं तान्यखिलानि तु जानकि! ।।।३ २।।
सीता प्राह कुमारांगी पतिप्राणा पतिप्रिया ।
पतिधर्मपरा साध्वी पातिव्रत्यसुरक्षिणी ।।३३।।
जनकेनाऽर्पिता तुभ्यं नाऽन्यस्मै त्वर्पिताऽस्मि वै ।
पत्याज्ञा पालनीया मे धर्मोऽस्त्येव तथाप्यहम् ।।३४।।
प्रार्थयामि कृपासिन्धो! त्वां विना मरणं ध्रुवम् ।
ममाऽत्र स्याद् गतिर्नैव भवेन्मे मत्पतिं विना ।।।३५।।
अरण्ये मरणं श्रेयः पत्युः सान्निध्यमेव मे ।
पतिं विना गतिर्नास्ति पत्नीनां पारलौकिकी ।।३६।।
ऐहिकी च गतिर्नैव विद्यते पतिमन्तरा ।
सुखं सुखे दुःखे दुःखं प्रसन्ने तु प्रसन्नता ।।३७।।
क्षुधिते क्षुधिता साध्वी तृप्ते तृप्ता सती भवेत् ।
स्वार्थानन्दपरा पक्षपातिनी नरकं व्रजेत् ।।३८।।
पतिभाग्येन सौभाग्यवती भवति साध्विका ।
पतिहीना सपतिका सजीवापि मृतैव सा ।।३९ ।।
नारी पार्श्वं स्वामिनोऽस्ति चार्धं साऽहं तवाऽस्मि तु ।
न वियोक्तुं तु योग्याऽहं स्वर्गं मे पतिरेव यत् ।।1.376.४०।।
दुःखिनं स्वामिनं त्यक्त्वा सुखं वाञ्च्छति स्वैरिणी ।
पतिव्रता महासाध्वी दुःखभागान् प्रविन्दति ।।४१ ।।
सर्वस्वस्य प्रदानेन यदि स्वामी सुखी भवेत् ।
प्राणैर्देहेन वा नार्या सुखनीयः पतिः सदा ।।४२।।
रक्षणीयः पतिर्नार्या देहं विक्रीय वाऽऽपदि ।
धनं यौते गतं कृत्वा रक्ष्यः स्वामी सुयोषिता ।।४३।।
स्वामी स्वस्याः परंब्रह्म धर्मः स्वामी सुखं विधिः ।
सर्वं स्वामी न चान्यो वै सुखयोगः कथंचन ।।४४।।
तस्मान्मया प्रभोः छायारूपया चानुनीतया ।
सहैव सर्वदा स्थेयं नात्र स्थेयं कथंचन ।।४५।।
यत्र पतिस्तत्र स्वर्गं वैकुण्ठं मोक्षणं तथा ।
राज्यं सम्पत् परा स्मृद्धिर्धर्मः शृंगार इत्यपि ।।४६ ।।
पतिं विना गृहं राज्यभवनं फेरुराड्गृहम् ।
भोग्यान्यपि च सर्वाणि विषतुल्यानि सर्वथा ।।४७।।
न स्वर्गं स्वर्गमेवोक्तं पतिः स्वर्गः सदा स्त्रियाः ।
न व्रतं व्रतमत्रोक्तं पतिरेव व्रतं स्त्रियाः ।।४८।।
न धर्मो धर्म एवोक्तः पतिर्धर्मः सदा स्त्रियाः ।
दानं जपस्तथा पूजा सौभाग्यं शान्तिरेव च ।।४९।।
स्वामिपार्श्वस्थितपत्न्याः सर्वं सिद्ध्यति नान्यथा ।
न फलं लभते स्वामिशून्या प्रोषितभर्तृका ।।1.376.५०।।
पश्य कान्त! स्त्रिया भाग्यं पत्यौ देशान्तरं गते ।
निस्तेजस्त्वं भवत्येवोत्साहशक्तिविवर्जितम् ।।५१ ।।
पतिशून्यं सार्वभौमं राज्यं वै मुण्डिकासमम् ।
पतियुक्ता पर्णकुटी माहेन्द्रपदतोऽधिका ।।५२ ।।
नार्या वनं वनं नैव भवनं भवनं न वै ।
वनं सपतिकं स्वर्गं निःस्वामिभवनं वनम् ।।५३ ।।
देहः सपतिको दिव्यो पतिशून्यः शवात्मकः ।
न भूषा भूषणं प्रोक्तं पतिरेव हि भूषणम् ।।५४।।
अपतिकाऽऽभूषणानि गणिकां ख्यापयन्ति ताम् ।
जलं चान्नं चाऽम्बराणि सौभाग्यद्रव्यमंजनम् ।।५५।।
पतियुक्तं सतेजस्कं त्वन्यथा दूषणप्रदम् ।
तस्मात्पत्न्या सदा सार्धं वस्तव्यं स्वामिना प्रभो ।।५६।।
पतिं पार्श्वे विना पत्नी विनाशाय हि कल्प्यते ।
मा मे नाशो भवेत् कान्त! वियुक्ताया गृहेऽत्र वै ।।५७।।
तथा कृपां परां कर्तुं त्वमेवाऽर्हसि केशव! ।
इत्युक्त्वा साश्रुनेत्रा सा धृतवल्कलवस्त्रका ।।५८।।
हार्दं रामस्य विज्ञाय सज्जाऽभूद् गमनाय वै ।
रामः प्राह वने साध्वि! क्षुधाऽसह्या भविष्यति ।।।५९।।।
सीता प्राह गृहे स्वामिन् क्षुधा मे न शमिष्यति ।
रामः प्राह वने साध्वि तृषा मृत्यु नयिष्यति ।।1.376.६ ० ।।
सीता प्राह गृहे स्वामिँस्त्वत्तृषा मारयिष्यति ।
रामः प्राह वने कान्ते! सिहाद्यैस्त्वं मरिष्यसि ।।६ १ । ।
सीता प्राह गृहे कान्तवियोगो मांसमत्स्यति ।
रामः प्राह वने पत्नि! चातपोऽसून् हरिष्यति । ।६ २ ।।
सीता प्राह गृहे रामविरहाग्निर्ज्वलिष्यति ।
शैत्याग्निर्वनिकः श्रेष्ठो गृहशैत्याग्निमानतः ।।६ ३ ।।
रामः प्राह वने दैत्यः कदाचित्त्वां हरिष्यति ।
सीता प्राह तदा रामो ध्येयकार्यो भविष्यति ।।६४। ।
रामः प्राह ततो नाऽयं सकलंकां ग्रहीष्यति ।
सीता प्राह तदा सत्याः धर्मः प्रकाशमेष्यति ।।६५।।
रामः प्राह ततः पश्चाद्वियोगं सती चेष्यति ।
सीता प्राह ततः सीता वैकुण्ठे योगमेष्यति ।।६६।।
रामः प्राह शरीरेण सुखं दृष्टं न वै भवेत् ।
सीता प्राह त्वया साकं दुःखं दृष्टं न वै भवेत् ।।६७।।
रामः प्राह वने सीते! दुःखदा त्वं भविष्यसि ।
सीता प्राह गृहे त्यक्त्वाऽत्यतिदुःखो भविष्यसि ।।६८।।
अर्द्यमाना वने सीता क्लिश्यमाना मुहुर्मुहुः ।
पत्याधारा दुःखशब्दं श्वासेऽपि न गदिष्यति ।।६९।।
आनुकूल्यस्य संकल्पं प्रातिकूल्यविवर्जनम् ।
सीता पतिव्रताऽरण्ये सर्वथैवाऽऽचरिष्यति ।।1.376.७०।।
वह्निना रक्षिता चाऽथ रामेणाऽप्यनुमोदिता ।
छायया राक्षसं क्षिप्त्वा पातिव्रत्यमविष्यति ।।।७१ ।।
भ्रामयित्वा साक्षरान्वै राक्षसान् छायया सती ।
सीता सितत्वसंयुक्ता पुना रामं मिलिष्यति ।।।७२।।
छाया वह्नौ विलीना वै भविष्यति पतीच्छया ।
धर्मरक्षाकरं वाक्यं मत्वा पत्युः पुनः सती ।।७३।।
पत्युः प्रियंकरी सीता सती संशिक्षयिष्यति ।
गुर्वाश्रमोऽथवाऽरण्यं स्वर्गं मान्यं पतीच्छया ।।७४।।
पत्युर्वाक्यं परो धर्मः पतिः श्रीपरमेश्वरः ।
सीताद्वारा पती रामो हत्वा राक्षसकोटिकान् ।।७५।।
आज्ञापयिष्यति पत्नीं हृदि रक्षितुमिच्छुकः ।
वैकुण्ठे दिव्यरूपा च साकेते हृदयस्थिता ।।७६।।
जनैरदृश्या सीते! त्वं सेवां कुरु सदा मम ।
इत्याज्ञां सा समागृह्य धरण्यां वै प्रवेक्ष्यति ।।७७।।
तामिमां जानकीं बालां साकं नेतुं त्वमर्हसि ।
इत्युक्त्वा वनवासं वै गन्तुं प्रोत्साहसंयुता ।।७८।।
दिव्यरूपाऽभवत् सीता माया मार्गप्रदर्शिका ।
अग्रगा साऽभवत्तत्र रामः पश्यति तां तदा ।।७९।।
मानुष्या दृश्यतन्वा तु रामपृष्ठं ययौ सती ।
एवं सेवकरूपोऽसौ नराऽऽदित्योऽपि संययौ ।।1.376.८०।।
प्रययौ तु वनं रामादित्यः सीतानरार्कयुक् ।
पुत्रशोकाच्छतमखस्तत्याज स्वतनुं प्रिये! ।।८१ ।।
पालनाय पितुः सत्यं रामो बभ्राम कानने ।
कालान्तरे महारण्ये भगिनी रावणस्य च ।।८२।।
ददर्श रामं कामार्त्ता ब्राह्मणी राक्षसी हि तम् ।
प्राह शूर्पणखा राम! रूपधाम! गृहाण माम् ।।८३।।
रामः प्राह सभार्योऽहमभार्यं गच्छ मेऽनुजम् ।
एकपत्नीव्रतश्चाऽहं दुःखमन्यापरिग्रहः ।।८४।।
श्रुत्वा सा तु नरादित्यं मां भजस्वेत्युवाच वै ।
नरादित्यो ब्रह्मचारी तामुवाच हि राक्षसीम् ।।८५।।
न मे दारग्रहः कालो गच्छ सौम्ये! जनान्तरम् ।
क्रुद्धा शूर्पणखा प्राह यदि त्यजथो मां वृथा ।।८६ ।।
युवयोस्तु विपत्तिर्वै भविष्यति न संशयः ।
मम शापादयं रामो हृतभार्यो भविष्यति ।।८७।।
राक्षसीमित्युक्तवतीं मिषं वै रक्षसां वधे ।
कर्तुं शस्त्रेण चिच्छेद नरार्को नासिकां स्त्रियाः ।।८८।।
तन्निमित्तेन वै चतुर्दशसहस्रराक्षसान् ।
नरादित्यो यममार्गे प्रेषयामास संगरे ।।८९।।
शूर्पणखा तपः कृत्वा कुब्जा जाता तपस्विनी ।
कृष्णं प्राप पतिं सा वै वेधोवरमवाप्य यत् ।।1.376.९०।।
अथ शूर्पणखा सिंहलाख्यं द्वीपं जगाम ह ।
तन्नृपं रावणं सा वै जगाद चेष्टितं हरेः ।।९१ ।।
रावणोऽपि शूर्पणखावाक्यात् क्रोधितमानसः ।
ज्ञात्वा सीतां सतीं हर्तुं चक्रे तु मानसं दृढम् ।।९२।।
मन्दोदर्या तस्य पत्न्या निषिद्धो रावणो बहु ।
परनार्यास्तत्र पतिव्रतायास्तु प्रधर्षणम् ।।९३ ।।
सर्वथा नाशफलकं मा याहि सिंहलेश्वर! ।
एवं संप्रार्थितश्चापि सीतां जहार मायया ।।९४।।
रामः सुग्रीवसाहाय्यो वरं दत्वा हनूमते ।
दत्वाऽङ्गुलीयकं विश्वासस्थानं वानरेश्वरम् ।।।९५।।
हनूमान् प्रययौ व्योम्ना सिंहलद्वीपमेव तु ।
अशोककानने सीताच्छायां ददर्श शोकिताम् ।।९६।।
निराहारामतिकृशां रामनामजपस्थिताम् ।
रूक्षजटाभारयुतां ध्यायमानां पतिं प्रभुम् ।।९७।।
प्रणम्य मातरं रत्नाङ्गुलीयकं ददौ जगौ ।
रामसन्देशमेवाऽथ भस्मीचकार सिंहलम् ।।९८।।
रामदूतं च सोवाच साश्रुनेत्रा पतिव्रता ।
अये! जीवति मे रामो मच्छोकार्णवदारुणात् ।।९९।।
अपि मे कुशली नाथो न शोकेन हतः प्रभुः ।
अपि जाता वने तस्य स्वामिनो दुःखरूपिगी ।। 1.376.१०० ।।
मदर्थे कति दुःखं वा सम्प्राप स मदीश्वरः ।
किमाहारश्च किं भुंक्ते मम प्राणाऽधिकः प्रियः ।। १०१ ।।
अपि द्रक्ष्यामि तं रामं समुद्रान्तिकमागतम् ।
अपि सेवां करिष्यामि पादपद्मे पुनः प्रभोः ।। १ ०२।।
पतिसेवाविहीनाया मूढाया जीवनं वृथा ।
अयि! मे धर्मपुत्रस्तु नरादित्यः प्रजीवति ।। १ ०३।।
मच्छोकसागरे मग्नो देवकल्पस्तु देवरः ।
हनूमाँस्तां सर्वनिरामयं विज्ञाप्य चाम्बरात् ।। १ ०४।।
प्रययौ कथयामास रामादित्यं सतीव्रतम् ।
स च वानरसैन्यैश्च सेतुं बध्वा ययौ हरिः ।। १ ०५।।
सिंहलाधिपतिं हत्वा चक्रे सीताप्रमोक्षणम् ।
ययौ पुष्पकयानेन साकेतं सीतया सह ।। १०६ ।।
विजयस्योत्सवं कृत्वा सीतां कृत्वा तु वक्षसि ।
जहतुर्विरहज्वालां सीता रामार्क इत्युभौ ।। १ ०७।।
बभूवतू रामपुत्रौ धार्मिकौ च कुशीलवौ ।
वाल्मिकस्याश्रमे जातौ सूर्यवंशकरौ शुभौ ।। १ ०८।।
सीता तु धरणौ मग्ना साकेतपत्तने ततः ।
वर्षद्वादशसाहस्रं रामो राज्यं चकार ह ।। १ ०९।।
ततो यातः स वैकुण्ठं धर्मं संस्थाप्य भूतले ।
इति ते कथितं लक्ष्मि! सीताचरित्रमुत्तमम् ।। 1.376.११ ०।।
पातिव्रत्यपरं क्रूरारण्यराक्षसपीडितम् ।
श्रीरामचरितं त्वेतद् भुक्तिमुक्तिप्रदं सदा ।। १११ ।।
न जातो रामसदृशो दयालुर्धार्मिकः शुचिः ।
न च जनिष्यते पश्चात् कृष्णनारायणं विना ।। ११ २।।
नापि सीतासमा पत्नी दुःखंजीवा पतिव्रता ।
भविष्यति स्वामिजीवा न जातापि श्रुताऽपरा ।। ११३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये शतमखद्युवर्णापुत्रवध्वाः सीताया रामादित्येन सह वनवासकष्टादिकं पत्यर्थमेवेति पातिव्रत्यधर्मपरत्वमित्यादिनिरूपणनामा षट्सप्तत्यधिकत्रिशततमोऽध्यायः ।। ३७६ ।।