लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३७५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३७४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३७५
[[लेखकः :|]]
अध्यायः ३७६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! पतिव्रताऽहल्यासामर्थ्यमद्भुतम् ।
गौतमस्य ऋषेः पत्नी त्वहल्याऽभूत् पतिव्रता ।। १ ।।
कुमारे शरीरे यस्यास्तेजोराशिः समन्ततः ।
अभूच्चन्द्रस्य परिधिर्यथा तथाऽत्र सर्वदा ।। २ ।।
गंगातीरेऽवसत्काश्यां गौतमो ज्ञानवानृषिः ।
ब्रह्मपुर्यां पर्णकुट्यां समुच्छ्राये स्थले सदा ।। ३ ।।
एकदा हिमशैलेऽभून्मुशलधारवर्षणम् ।
जलपूराणि तटयोर्मर्यादा सरितो जहुः ।। ४ ।।
विपथेषु प्रवाहाश्च दद्रुवुर्वै भयंकराः ।
ग्रामान् खेटान् खर्वटाँश्च नीत्वा पूराणि चावहन् ।। ।५ ।।
काशीमभितः सलिलं पर्यवर्तत चोच्छ्रयम् ।
ऋषयो मुनयश्चान्ये प्रजाश्च निम्नभूमिगाः ।। ६ ।।
जले मग्ना मृताः सर्वे हाहाकारो बभूव ह ।
लक्षशः कोटिशस्तत्र मग्ना जानपदस्थिताः ।। ७ ।।
मानवाः पशवः पक्षसहाया वनिनस्तथा ।
गौतमो ध्यानमग्नश्च दृष्टवान् विप्लवं लयम् ।। ८ ।।
ध्यानाद् बहिः समागम्य प्राह पत्नीमहल्यिकाम् ।
अरे! पश्य लयं वारिकृतं सर्वस्वनाशकम् ।। ९ ।।
जलान्येतानि गंगाया गृहं तेऽभिद्रवन्त्यपि ।
उच्छ्रयेऽपि प्रदेशे वै समागच्छन्ति वेगतः ।। 1.375.१० ।।
पर्णशाला तथाऽहं त्वं बहिष्यामश्च धेनवः ।
बहुधा प्रलयो जातो नाऽद्याऽपि स निवर्तते ।। ११ ।।
किं कार्यं वद कल्याणि! जलं सोपानमागतम् ।
पश्य वत्सा वत्सतर्यः क्रोशन्ति जलदर्शनात् ।। १ २।।
कुरु शीघ्रं तथा यत्नं जीवामस्तु यथा वयम् ।
नाऽस्मद्गृहादपरोऽत्रोच्छ्रयदेशो गृहं विना ।। १३ ।।
मनुष्या द्रुममालम्ब्य जीविष्यन्ति यथाकथम् ।
गवां का वा दृशा साध्वि! महाकष्टमुपस्थितम् ।। १४।।
इत्युक्त्वा गौतमो देवः शुशोचाऽश्रुभृदीक्षणाः ।
अहल्या प्राह तं स्वामिन्! यद्भावि तद्भविष्यति ।। १५।।
परं पतिमुपस्पृश्य चलो प्रयतामि वै ।
इत्युक्त्वा प्रययौ साध्वी शीघ्रं पर्णगृहान्तरम् ।। १६ ।।
अग्निं प्रज्वालयामास घृतेन होममाचरत् ।
सस्मार गंगां चाहल्या पातिव्रत्यबलेन वै ।। १७।।
एहि गंगे! भगिनि! मे कथं नाशं करोषि वै ।
यदि नाऽऽयासि कल्याणि! करोमि त्वां हि भस्मसात् ।। १८।।
गंगा भीता समायाता मूर्तिरूपा सुकन्यका ।
ववन्दे किंकरी भूत्वाऽहल्यां गौतमयोषितम् ।। १ ९।।
अहल्या प्राह तां तूर्णं का गंगे दुर्दशा कृता ।
प्रलयं ते जलान्यद्य कुर्वन्ति प्राणिनामति ।।1.375.२०।।.
शीघ्रं वार्युपसंहारं कुरु गंगेऽन्यथा क्षणात्। ।
हवनं ते करिष्यामि मृता यास्यसि वै लयम् ।। २१ ।।
चकम्पे तत्समाश्रुत्य प्राह दीना सतीं प्रति ।
किं करोमि महासाध्वि! न मे दोषोऽत्र विद्यते ।।२२।
हिमालयो विशालाद्रिर्जलानि न रुणद्धि हि ।
रक्षत्येव नहि स्वस्मिंस्तेनाऽयं विप्लवोऽस्ति वै ।।२३।।
श्रुत्वाऽहस्यऽऽह तां गंगां तिष्ठ सुन्दरि मद्गृहे ।
आह्वयामि हिमाद्रिं च तदुपायं करोम्यपि । । २४ ।।
इत्युक्त्वा गौतमपत्नी सस्मार वह्निसन्निधौ ।
हिमालय! समायाहि त्वन्यथा हवनं तव । । २५ ।।
करिष्ये मा चिरं पश्य प्राणिनां कदनं महत् ।।
तावच्चकम्पे गिरिराट् मूर्तिमान् समुपागतः ।। २६ ।।
काश्यामहल्या यत्राऽस्ति नत्वा प्रोवाच तां सतीम् ।
वद देवि! कथं चाऽहं स्मृतश्चात्र द्रुतं दिश । ।। २७ ।।
पश्य वारिप्रलयं त्वं कथं वारि न रक्षसि ।
निरोधं कुरु चाऽरण्ये वारीणां पर्वतेषु च । ।। २८ ।।
हिमालयस्तदा प्राह मातः शक्तोऽस्मि तत्र न ।
नास्ति तत्र मम दोषो मया रक्ष्यं जलं सदा । । २९ ।।
शिखरेषु जलं मेऽस्ति द्रोणीषु च गुहासु च ।।
उदरे चोच्छ्रये चाऽधित्यकोपत्यकिकास्वपि । । 1.375.३० ।।
अरण्येषु वनेषूर्ध्वं नदीष्वपि स्थलीष्वपि ।
यावच्छक्यं जलान्येव धारयामि समन्ततः । । ३१ ।।
किन्तु वृष्टिरतिवृष्टिः सततं सप्तवासरात् ।
दिवानिशं पतत्येव मुशलधारसदृशी । । ३२ ।।
अहं जले निमग्नोऽस्मि किं करोमि न शक्तिमान् ।
मत्प्रमाणाजलान्यद्य वर्धन्तेऽतिपतन्ति च । । ३३ ।।
न संहरन्ति मेघा वै वृष्टिं प्रलयकारिणीम् ।
यदि मेघाः संहरेयुर्जलानि संययुः क्षयम् । । ३४ ।।
श्रुत्वाऽहल्या तमुवाच तिष्ठाऽऽहृयामि वार्धरम् ।
आहुत्या जलदं तत्र सस्मार द्रुतमानसा । ३५ । ।
मेघा मृत्युभयोद्विग्नास्तूर्णं तत्र समाययुः ।
प्रकम्पन्तः प्रतस्थुश्च तानाह गौतमप्रिया । । ३६ ।।
रे रे मेघा घातकाः स्थ किं प्रालयो विचारितः ।
जलानामुपसंहारं कुर्वन्तु द्राङ् न चेन्मृताः । । ३७।। ।
भयंकरं तु तच्छ्रुत्वा कम्पमानास्तु तां सतीम् ।
प्राहुर्मातर्न नो दोषो दोषस्त्विन्द्रस्य विद्यते । । ३८ ।।
वयं तु किंकरास्तस्य वर्षामो वै तदाज्ञया ।
त्रस्ताः शान्ताः परिश्रान्ता जलहीनाः क्रुधाऽपि नु । । ३९।।
वज्रेण निहताः सर्वे वर्षामोऽत्र क्षमस्व नः ।
सदाऽकिंचित्कराश्चेन्द्रनिदेशकृतजीवनाः । । 1.375.४० ।।
न तदाज्ञां विना किंचित् कर्तुं शक्ताः स्म साध्विके ।
इति श्रुत्वा च मेघानां वचनानि महासती । । ४१ । ।
इन्द्रं सस्मार मन्त्रेण वह्निमध्ये जुहाव च ।
तावदिन्द्रासनादिन्द्रः पतितो मन्त्रकर्षितः ।।४२। ।
व्योममार्गेण तु शीघ्रं पर्णकुट्यां समापतत् ।
मृतोऽहं नाशितोऽहं च रक्षन्तु देवतागणाः ।।४३ ।।
इति ब्रुवन् पर्णकुट्यां तस्थौ साध्वीप्रतापतः ।
नत्वोवाच महासाध्वी महेन्द्रं देवभूभृतम् ।।४४।।
अरे चेन्द्र! पृथिव्यां वै प्राणिनां कदनं महत् ।
जातं वृष्ट्याऽनया कस्मात्। संहारं न करोषि वै ।।४५ ।।
जलसंहारमेवाऽद्य शीघ्रं वै रोधनं कुरु ।
अन्यथा ते वह्निमध्ये करिष्ये हवनं सुर! ।। ४६ ।।
इत्युक्तः स महाक्रुद्धः किन्तु दृष्ट्वा पतिव्रताम् ।
विनाशं क्षणमध्ये च समुपस्थितमीक्ष्य च ।।४७ ।।
समयं तं प्रविज्ञाय नम्रतायाः पुरन्दरः ।
प्रोवाच वै तदा मेघान् शीघ्रं कुर्वन्तु रोधनम् ।।४८ ।।
मेघाः संकुचितास्तत्र हिमाद्रौ च तथापि वै ।
जलानां निम्नता नासीत् तदा प्राह पतिव्रता ।।४९ ।।
इन्द्र! मेघाः! गिरे! गंगे! कथं नावतरन्ति वै ।
निम्नगानि न दृश्यन्ते जलानि प्रवदन्तु माम् । ।।1.375.५०।।
इन्द्रः प्राह महासाध्वि! वरुणो वारिषु स्थितः ।
स संकोचं जले कुर्यात् स्युर्निंम्नगानि वै तदा ।।५ १ ।।
सस्मार तु तदा साध्वी वरुणं यादसां पतिम् ।
जलाधिदेवरूपं च तावत्सोऽपि समागतः ।।५ २।।
प्राहाऽहल्या जलेशं तं नैव पश्यसि मर्दनम् ।
कीदृशोऽयं लयो जातः संकोचय जलानि वै ।।५ ३ ।।
अन्यथा ते भवेन्मृत्युर्वह्नौ नात्र विचारणा ।
तावत्सोऽपि द्रुतं नत्वा प्राणायामाँश्चकार ह । ।५४।।
तावज्जलानि संवेगाज्जातानि घट्टकानि हि ।
निम्नगानि बभूवुश्च संकुचितानि सर्वतः ।।५५।।
अथ दृष्ट्वा दुःखितान् वै मृतान् सम्बन्धिबान्धवान् ।
दयावती तदाऽहल्या वह्निं पप्रच्छ जीवनम् ।।५६।।
मृतानां वै पुनश्चात्र भवेदुपाय उच्यताम् ।
वह्निश्चेन्द्रो वरुणश्च गंगा मेघाश्च पर्वतः ।।५७।।
सर्वे प्राहुर्यमराजो जीवाऽजीवप्रदो मतः ।
अहल्या तं प्रसस्मार समायातो यमस्तदा ।।५८।।
समुवाच प्रांजलिस्तां किं कार्यं मेऽत्र साध्विके! ।
तमुवाच सती शीघ्रं जलेऽत्र प्रलयेऽतिगे ।।५९।।
मृतान् मनुष्यान् वनिनो गृहिणोऽरण्यवासिनः ।
पशूंश्च प्राणिनः पक्षिजातीश्चान्यान् सरीसृपान् ।।1.375.६ ०।।
सर्वानकालानिधनान् समुज्जीवय मद्बलात् ।
यदि नोज्जीवयेश्चाद्य तव मृत्युरुपस्थितः ।।६१ ।।
होष्यामि त्वां तृणमात्रं शीघ्रं जीवय वै मृतान् ।
सोऽपि चकम्पे यमराट् प्रोवाच दीनमानसः ।।६२।।
अहं रुद्राधीनसत्त्वः संकर्षणानुगः सदा ।
मरणं वै तदधीनं यथाकर्म च देहिनाम् ।।६३ ।।
सती सस्मार रुद्रं तं संकर्षणं च तत्क्षणात् ।
कालकालौ समायातौ सतीं नत्वा ह्युपस्थितौ ।।६४।।
सती प्राह मृतान्सर्वानुज्जीवयतां चेश्वरौ ।
अन्यथा पातिव्रत्येन हरिष्ये वां प्रजीवनम् ।।६५।।
रुद्रः संकर्षणश्चाह सृष्टिः पुष्टिर्विनाशनम् ।
भवत्येव क्रमात्त्वत्र नारायणविनिर्मितम् ।।६६।।
वयं कर्तुं तथाऽकर्तुमन्यथाकर्तुमित्यपि ।
न समर्था भवामोऽत्र समर्थः श्रीहरिः परः ।।६७।।
सती सस्मार च तदा कृष्णनारायणं हरिम् ।
पातिव्रत्यप्रतापेन हरिस्तत्राऽऽययौ क्षणात् ।।६८।।
हरिं प्राह सती नत्वा महाविनयमानसा ।
अहो नारायण! स्वामिन्! कृष्णनारायण! प्रभो! ।।६९।।
महावृष्टिलये चात्र कोटिशः प्राणिनो मृताः ।
मानवाः पशवः पक्षिजातयो जन्तवस्तथा ।।1.375.७० ।।
जीवयैतान् हरे कृष्ण त्वकालमृत्युमास्थितान् ।
भगवाँस्तां तदा प्राह कुरु संकल्पमेव ह ।।७१ ।।
यदि धर्मः पातिव्रत्यात्मकः संपालितो मया ।
तदा वृष्टिप्रवेगेन मृता जीवन्तु जन्तवः ।।७२।।
इत्याज्ञया हरेस्तत्र तयाऽहल्याख्यया कृतः ।
संकल्पस्तावदेवैते जीविता देहिनोऽखिलाः ।।७३ ।।
तेषां यत्र शवान्यासँस्तत्र तत्र समुत्थिताः ।
आसमुद्रप्रपर्यन्तं यावन्तो जीवितास्तदा ।।७४।।
ताँस्तु हर्याज्ञया गंगा मेघाश्चेन्द्रादयः सुराः ।
हिमाद्रिः सलिलेशश्च रुद्रः संकर्षणस्तथा ।।७५।।
नारायणो यमः कालो मृत्युश्च पार्षदा हरेः ।
सर्वान्नीत्वा यथापूर्वस्थानं तेषां गृहाणि च ।।७६।।
प्रापयामासुरेवेशाः पातिव्रत्यप्रभावतः ।
सुरूपां सुसमर्थां तां नवयौवनसुन्दरीम् ।।७७।।
नत्वा सर्वे ययुर्देवास्ततो नैजालयाँस्तदा ।
जनुषा जीविता ये जाताः सुखिन एव ते ।।७८।।
इन्द्रो दृष्ट्वा मुमोहाऽत्र गौतमस्य तु योषिति ।
पतिव्रतायां देवेन्द्रो दूरं गत्वाऽऽजगाम ह ।।।७९।।
तदा दृष्ट्वाऽपि पश्चात्तां नाऽपश्यद् देवराड् यतः ।
ययौ निराशः स्वर्गं वै पुनः कालान्तरेऽगमत् ।।1.375.८० ।।
तदापि पर्णकुट्यां तां स्थितां नैव ददर्श सः ।
यतो मलिनहृदयो न ददर्श पतिव्रताम् ।।८१ ।।
पुनर्गत्वा ततः स्वर्गं कालान्तरे स आययौ ।
तदापि तां पर्णकुट्यां नैवाऽपश्यत् स्थितामपि ।।८२।।
पापानां चाऽप्यशुद्धानां मलिनाऽगुणशालिनाम् ।
नार्यः पतिव्रताः क्वापि नाऽऽयान्ति दृष्टिगोचरम् ।।८३ ।।
एवमिन्द्रो बहुवारं समागतो गतोऽपि च ।
धर्षणार्थमहल्यायाः कम्पमानोऽपि मूर्छितः ।।८४।।
कामान्धो न विजानाति मृत्युं स्वस्य परस्य च ।
ततः कालान्तरे रात्रौ समायातो भुवस्तलम् ।।८५।।
यत्राऽऽस्ते सा धर्ममयी साध्व्यहल्या पतिव्रता ।
तत्र रात्रौ त्वन्धकारे परितः प्रासरन्महत् ।।८६ ।।
तेजो दृष्टं महेन्द्रेण गौतमस्याऽऽश्रमाऽभितः ।
सोऽवातरत्पृथिव्यां वै तेजः पश्यति केवलम् ।।८७।।
यथा वै पूर्णिमाचन्द्रकौमुदीमण्डलं न्विदम् ।
तत्राऽहल्यां न चाऽपश्यत् पुनर्नाकं ययौ तदा ।।८८ ।।
चन्द्राय कथयामास मानसीं विकृतिं तथा ।
तेजोमयं दिव्यरूपं भोग्याहं चिरवाञ्छितम् ।।८९ ।।
चन्द्रेणाऽऽवेदितं तस्मै भवान् गौतमरूपधृक् ।
अहं भवामि ब्राह्मस्य सूचकः कुक्कुटः खलु ।।1.375.९० ।।
गच्छावो यत्र सा चास्ते कुर्वंश्छद्मं फलं भवेत् ।
न भवेच्चेद्भवेन्मृत्युर्नात्र कार्या विचारणा ।।९१ ।।
इति सम्मन्त्र्य तावास्तां तदा बिडालकुक्कुटौ ।
अर्धरात्रोत्तरं गत्वा गौतमस्य गृहान्तिकम् ।।९२।।
जगौ तु कुक्कुटश्चन्द्रो ब्राह्ममुहूर्तकूजनम् ।
गौतमस्तत्तदा श्रुत्वा ययौ स्नानाय स्वर्णदीम् ।।९३ ।।
बिडालस्तु महेन्द्रो वै प्रविवेश गृहे नलात् ।
धृत्वा गौतमरूपं स जगाम शयने प्रियाः ।। ९४।।
अहल्या तु पतिं दृष्ट्वा कामभावेन चागतम् ।
चूम्बनं त्वर्पितवती कामभोगेहयाऽऽदृता ।।९५।।
तावत्तु गौतमाय द्युनद्या द्राक् संप्रभाषितम् ।
न ब्राह्मोऽयं ऋषे! कालो गृहे ते कपटं भवेत् ।। ९६।।
याहि शीघ्रं सतीं पश्य श्रुत्वैतत् गोतमो द्रुतम् ।
समायात् स्वगृहं यावत्तावद्भोक्तुं स्थितं हरिम् ।।१७।।
इन्द्रं स्वरूपमापन्नं ददर्श कपटान्वितम् ।
गौतमस्तं तुराषाहं भगलुब्धं विभाव्य वै ।।९८।।
मुनिः शशाप शक्रं च भगांगस्त्वं भवेति हि ।
अहल्याऽपि ज्ञातवती पत्यन्यं तं तथापि सा ।। ।। ९९ ।। ।
पतिप्रतिमारूपं तं न शशाप पतिव्रता ।।
नाऽऽलिंगनं ददौ यावद् गौतमाऽन्यं विवेद सा । । 1.375.१०० । ।
गौतमाय स्वरूपाय दण्डयोग्याय चापि सा ।
समर्थापि महादण्डं न ददौ पतिरूपिणे ।। १०१ ।
पतिरेव समायाति जानाति गौतमः स्वयम् ।
यावन्नाऽऽलिंगनं कुर्वे तावद् दण्डं प्रदास्यति ।। १०२ । ।
इति कृत्वा तदाऽहल्या पतिरूपाऽतिमानिनी ।
न ददौ शापमिन्द्राय प्रतिर्दण्डं ददौ स्वयम् । । १०३ । ।
इन्द्रो योनिसहस्राढ्यो ययौ स्वर्गं मलान्वितः ।
चन्द्रो गुप्ततया तस्माद् दुद्राव भयविह्वलः ।। १०४ । ।
गौतमः स्वां तदा पत्नीं प्राह सौम्ये! किमिच्छसि ।
नातिरूपं सुखदा तु नारीमत्त्वं च दुःखदम् ।। १०५ । ।
त्वं प्रिये! धर्ममूर्धन्यं पालयस्येव सर्वथा ।
अहं तप्तुमनाः शश्वत् द्वयोः साह्यं न सौख्यदम् ।। १०६ । ।
यदि त्यजामि वैराग्याद् दुःखिता त्वं भविष्यसि ।
यदि रक्षामि मत्पार्श्वे चिन्तेदृशी हि जायते ।। १०७ ।।
तस्माद् वद प्रिये! त्वां वै किं करोमि यथा पुनः ।
मम चिन्ता न ते धर्मविघ्नो मा च भवेत्पुनः ।। १०८ । ।
इति पत्युः सती श्रुत्वा पतिं प्राह पतिव्रता ।
निवसामि सदा स्वामिन्! स्थाल्यामत्राऽऽत्मपार्वती ।। १०९ । ।
तथा तवाऽऽसनरूपा ह्युपला संवसाम्यहम् ।
नित्यं तवाऽऽश्रिता स्वामिन्! त्वयाऽधिष्ठितभूमिका ।। 1.375.११ ० । ।
भवामि तेन ते चिन्ता न स्यान्न धर्मविघ्नता ।
पातिव्रत्यं सदा मे च रक्षितं संभविष्यति ।। १११ । ।
समुद्धारश्च वै स्वामिंस्तव योगाद्भविष्यति ।
इत्युक्त्वा सा पतिं नत्वाऽभिषिक्ता स्वामिना द्रुतम् ।। ११२ । ।
बभूव ह्युपला तत्र पतिपादाश्रया सदा ।
पतिः प्राह दयिता स्वां रामः श्रीभगवान् स्वयम् ।। ११३ । ।
आगमिष्यति चात्रैव विश्रान्तिं यास्यति त्वयि ।
तदा मया सह पत्नि! वैकुण्ठं यास्यसि ध्रुवम् ।। ११४ ।
तावत्तत्र मनोऽभीष्टं तपः करोम्यहं सदा ।
निराशिनो महाशान्तिर्मम ते च सदाऽत्र वै ।। ११५ । ।
आशावन्तः सदा दुःखसागराब्धौ निमज्जिताः ।
पारं यान्ति न संसारिवासनानां कदाचन ।। ११६ । ।
मुक्तिः पाषाणकल्पा च प्रिये! विघ्नादिवर्जिता ।
त्वया लब्धा पतिसेवा शिलासनमयी सदा ।। ११७ ।।
अहं स्थास्ये शिलामूर्ध्नि करिष्येऽत्र तपश्चिरम् ।
त्रेतायां रामयोगेन यास्यावः परमं पदम् ।। १ १८।।
दिव्यरूपेण तु साध्वि! द्वितीयेन सदा मम ।
सेवाया सुस्थिरा भूत्वा वर्तस्वेदं ममेप्सितम् ।। ११ ९। ।
इत्युक्तो साऽभवत्तत्रोपलाऽहल्या पतिव्रता ।
स्वामी तस्या उपलायां तेपे तु गौतमस्तपः ।। 1.375.१२० ।।
त्रेतायां रामयोगेन मतौ तौ परमं पदम् ।
इति ते कथितं लक्ष्मि! त्वहल्यैश्वर्यमद्भुतम् ।
पठनाच्छ्रवणाच्चास्य पातिव्रत्यं दृढं भवेत् ।। १२१ । ।
इति श्रीलक्ष्मीनारायाणीय संहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्येऽहल्यायाः पातिव्रत्यप्रतापेनाऽतिवृष्टौ काशीसम्प्लवे गंगाहिमाद्रिमेघेन्द्रवरुणरुद्रसंकर्षणयम-नारायणाद्यागमोऽतिवृष्टिशमनं मृतानां जीवन-मिन्द्रस्याऽहल्यास्पर्शमात्रे भगांगताऽहल्याया
उपलात्वं मोक्षणं चेत्यादिनिरूपणनामा पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः ।। ३७५।।