लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३७४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३७३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३७४
[[लेखकः :|]]
अध्यायः ३७५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! तथा शच्याः पातिव्रत्यं दृढं यथा ।
चतुर्दशसु चेन्द्रेषु ह्यागतेषु गतेषु च ।। १ ।।
तेष्वेव पातिव्रत्यं वै त्विन्द्राण्या आस सर्वथा ।
एकदा तु समायातो बृहस्पतिर्हि संसदि ।। २ ।।
महेन्द्रस्य च देवानामाशीर्वादपरायणः ।
इन्द्रो दर्पात् सभायां तु रत्नसिंहासनद्वरात् ।। ३ ।।
नोत्तस्थौ स्वगुरुं दृष्ट्वा ब्रह्मिष्ठं वै बृहस्पतिम् ।
अन्ये सभासदाः सर्वे समुत्तस्थुर्ववन्दिरे ।। ४ ।।
तानाशिषः संप्रयुज्य महेन्द्रं समुपेक्ष्य च ।
गुरुर्जगामाऽतिरुष्टः स्वाऽपमाने समत्सरः ।।५ ।।
न शशाप महाज्ञानी धैर्यमालम्ब्य धार्मिकः ।
विना शापेनेन्द्रगर्वश्चूर्णीभूतो बभूव ह ।। ६ ।।
सकिल्बिषं सापराधं न शपेच्चेन्महाजनः ।
अपराधस्तं फलति धर्मो हन्त्यपराधिनम् ।। ७ ।।
यदि हिंस्रं सापराधे शपेत् कोपेन धार्मिकः ।
सापराधो विनश्येत्तु धार्मिकः क्रोधवान् भवेत् ।। ८ ।।
क्रोधितस्य कृतं सर्वं पुण्यं नश्यति मूलतः ।
तस्मात् क्रोधो न कर्तव्यः कुत्रचिच्छ्रेय इच्छता ।। ९ ।।
सापराधेऽपि वै जन्तौ क्षमा रक्ष्या सुपुण्यदा ।
क्षमाशीलस्य सद्धर्मः स्वयं करोति रक्षणम् ।। 1.374.१० ।।
अवमानाद् गुरोरेव ब्राह्मणस्य तपस्विनः ।
ब्रह्महत्यासमं पापं जायते त्वपराधिनः ।। ११ ।।
प्रतिष्ठितस्य हननं त्वपमानं प्रकीर्त्यते ।
तेनाऽधर्मेण शक्रस्य ब्रह्महत्या बभूव ह ।। १ २।।
सा तु पापात्मिका चेन्द्रं ववल्गे मस्तके तदा ।
प्रमत्त इव संजात उन्मत्त इव भान्तिमान् ।। १२ ।।
भीतश्चेन्द्रपदं त्यक्त्वा प्रययौ पुष्करं सरः ।
तत्र वै कामले सूत्रे चक्रे वासं निगूढवत् ।। १४।।
राज्यं रिक्तं तदा ज्ञात्वा देवाश्च मुनयोऽखिलाः ।
नहुषं नाम राजर्षिं चक्रुस्त्विन्द्रप्रधानकम् ।। १५।।
इन्द्रासनस्य पार्श्वस्थो नहुषो नाम भूपतिः ।
इन्द्रसत्ताप्रतिरूपां सत्तामासाद्य चेन्द्रवत् ।। १६।।
राज्यं संचालयत्येव चतुर्दशभुवां तदा ।
क्वचित्कदाचिदिन्द्रस्य त्वर्धासनेऽपि तिष्ठति ।। १७।।
इन्द्रस्य भवने चापि याने वाट्यां च वाहने ।
उद्याने याति नहुषो विहरप्यपि गर्वतः ।। १८।।
दृष्ट्वा शचीं वरारोहामनपत्यां च सुन्दरीम् ।
नवयौवनशोभाढ्यां बहुरूपसमन्विताम् ।। १ ९।।
सुकोमलां च सुदतीमनिन्द्रे शोकवासिताम् ।
महासतीं महाराज्ञीं पतिशून्यां मनोहराम् ।।1.374.२०।।
मूर्छा सम्प्राप नहुषः कामेन यौवनेन च ।
उवाच तां पुरः स्थित्वा विनयेन स्वकामिव ।।२ १ ।।
धातुर्गतिर्विचित्राऽहो न बोध्या सा सतामपि ।
पारमेष्ठ्यं क्षणं चैन्द्रं क्षणं सर्वत्र बुद्ध्यते ।। २२।।
यौवनं च क्षणं राज्ञि! भज मामिन्द्रसन्निभम् ।
त्वादृशीं स्त्रीं परित्यज्य कथमिन्द्रो महेश्वरः ।। २३ ।।
नराणां योषिति गन्ताऽहल्यायां चेटिकास्त्रियाम् ।
ईदृशी सुन्दरी यस्य परभार्यासु तन्मनः ।।२४।।
नैतदाश्चर्यमत्राऽस्ति कामो वाञ्च्छति नूतनाम् ।
अस्या अग्रे तु का रंभा कोर्वशी का तिलोत्तमा ।।२५।।
का वा मेना घृताची वा रत्नमाला कलावती ।
एताश्चाप्सरसश्चान्या नैतत्तुल्या भवन्ति वै ।।२६ ।।
इति प्रशंस्य नहुषो मां भजस्वाऽऽह भावतः ।
अहमिन्द्रपदं प्राप्तः पूर्वेन्द्रोऽदृश्यतां गतः ।। २७।।
ततो भव त्वं सौभाग्या मे वक्षसि सुखालया ।
लीलया च सहस्रेन्द्रान् जेतुं शक्तोऽहमीश्वरः ।।२८।।
मां गृहीत्वा कुरु रतिं पुष्पचन्दनचर्चितम् ।
ब्रह्मणस्तु वरैर्देवि! जरामृत्युविवर्जितम् ।।२९।।
मां कुरुष्व पतिं भद्रे नित्यसुस्थिरयौवनम् ।
न मे स्पृहा परस्त्रीषु त्वां दृष्ट्वा लोलुपं मनः ।। 1.374.३०।।
तत्रापीन्द्रो भवाम्यद्य त्वं च पत्नी निसर्गतः ।
भाविनी मे भव चाद्य प्रार्थिता न प्रसह्य वै ।।३ १ ।।
इत्येवमुक्त्वा नहुषो जिज्ञासति तदुत्तरम् ।
उवाच तं शची साध्वी दासं नृपं तु मानवम् ।।३२।।
शृणु राजन्! न्याययुक्तं पातिव्रत्यं सदा मम ।
ब्रह्मणा निर्मिता चाहं यावदिन्द्राश्चतुर्दश ।।३३।।
चतुर्दशानामिन्द्राणां पत्नी भवामि वै क्रमात् ।
चतुर्दशसु मध्ये त्वं नाऽसि वै गणितः खलु ।। ३४।।
तस्मान्न त्वं पतित्वे मे योग्यश्चासि कथंचन ।
मानवोऽसि महाराज! देव्यहं च ततोऽपि वै ।।३५ ।।
नाऽहं योग्या तव पत्नी न देवी मानुषं भजेत् ।
शृणु त्वन्यन्महाराज! महेन्द्रपदमेव यत् ।।।३६।।
भवते नाऽर्पितं देवैः कार्यमात्रं समर्पितम् ।
न त्विन्द्रत्वं चार्पितं ते भृत्यत्वं ते समर्पितम् ।।३७।।
इन्द्रानुपस्थितौ कार्यमिन्द्रस्य कुरु तद्यथा ।
प्रधानसत्तया कार्यमात्रं तुभ्यं समर्पितम् ।।३८।।
नेन्द्राणी नाऽऽसनं नैव भवनं नेन्द्रता तथा ।
मुनिभिस्त्वर्पिता तुभ्यं मा वृथा गर्वमावह ।।३९।।
शृणु त्वन्यन्महाराज! प्रजापालनधर्मवान् ।
गण्यते तु पितातुल्यस्त्वं यातः पितृतुल्यताम् ।।1.374.४० ।।
देवानां पितृता त्विन्द्रे राजत्वेन विराजते ।
तथा त्वयि समापन्ना पितृता मादृशीं प्रति ।।४१ ।।
नाऽहं विवाहिता तेऽस्मि न त्वदर्थं प्रकल्पिता ।
न हि तस्मात् तव भोग्या वृथा मां माऽऽग्रहं कुरु ।।४२।।
किं च राजन्! शृणु तत्त्वं पूर्वेन्द्रे विगते सति ।
पूर्वं देहं सतीरूपं दग्ध्वा दधामि नूतनम् ।।४३।।
एवं त्रयोदशकृत्वः करोमि नूतनां तनूम् ।
गृह्णामि त्वपरं चेन्द्रं तेनाऽस्मि संपतिव्रता ।।४४।।
त्वं राजँश्चेत् समर्थोऽसि त्यज देहं हि मानुषम् ।
गृहाण नूतनं दैवं ततश्चैन्द्रपदं पुनः ।।४५।।
चतुर्दशसु गणनां लभ देवर्षिसंसदि ।
पश्चाद् ब्रह्मादिभिर्दत्ता स्यां भवामि तव प्रिया ।।४६।।
नान्यथा भामिनी तेऽस्मि नाऽस्मि भोग्या कथंचन ।
यावदिन्द्रः सासुरस्ति प्रोषितः पुष्करेऽब्जके ।।४७।।
त्वं चासि कर्मभूमेर्वै राजा न तु दिवः पुनः ।
भयत्राता भवेद् राजा सर्वोषां पालकः पिता ।।४८।।
भ्रष्टश्रीश्च महेन्द्रोऽद्य गुरोः कोपाद् भुवं गतः ।
त्वं तु कार्ये योजितोऽसि प्रजानां हि पिता यथा ।।४९।।
कार्यभारे योजितोऽसि नेन्द्राणी योजिता त्वयि ।
पूर्वराज्ञः पृथिव्यां वै योऽन्यः राजाऽभिषिच्यते ।।1.374.५ ०।।
स तत्पुत्रस्तस्य शिष्य इति पृथ्व्यां प्रसिद्ध्यति ।
पूर्वभूपस्य या पत्नी राजमाता हि गण्यते ।।५१ ।।
नूतनस्य तु राज्ञश्च पत्नी राज्ञीति गण्यते ।
इति रीत्या महाराज! राजमाता भवामि ते ।।५२।।
न राज्ञी ते भवाम्येवं ज्ञात्वा मा लालसां कुरु ।
गुरुपत्नी राजपत्नी देवपत्नी तथा वधूः ।।५३।।
पित्रोः स्वसा शिष्यपत्नी भृत्यपत्नी च मातुली ।
पितृपत्नी भ्रातृपत्नी श्वश्रूश्च भगिनी सुता ।।५४।।
गर्भधात्रीष्टदेवी च पुंसः षोडशमातरः ।
त्वं नरो देवभार्याऽहं माता ते सर्वथाऽस्मि वै ।।५५।।
गच्छ वत्साऽदितिं रन्तुं यदि चेच्छसि मातरम् ।
सर्वोषां निष्कृतिस्त्वस्ति न वत्स मातृगामिनाम् ।।५६।।
कुंभीपाके प्रपच्यन्ते यावत्ते ब्रह्मणो वयः ।
ततो भवन्ति कृमयः कल्पाः सप्त ततः परम् ।।५७।।
कुष्ठिम्लेच्छाः सप्तजनौ ततः पाप प्रणश्यति ।
किं राजँस्ते मनो याति मातृयोनौ वदाऽत्र मे ।।।५८।।।
सन्त्येहाऽप्सरसो बह्व्यो यदि देवीः प्रवाञ्छसि ।
क्लेदेषु च मलाढ्येषु दुर्गन्धिनिलयेषु च ।।५९।।
सुबहुष्वनुभूतेषु तथापि हृदि वासना ।
सदृशेषु कथं तेऽस्ति स्त्रीभगेष्वत्र मां वद ।।1.374.६ ०।।
कुलप्रदीपे स्वर्गेशे त्वयि जाते सुधर्मिणि ।
कथमिच्छसि राजेन्द्र! मूत्रगूह्यं परस्त्रियाः ।।।६ १ ।।
स्वर्गं प्राप्तं तथाऽप्यत्र तृष्णा किं न निवर्तते ।
साधूनां किं सुखं साधो! स्त्रीणां योनिषु मां वद् ।।६२।।
व्रतं पतिव्रतानां च पत्युः सेवापरं तपः ।
यथा पुत्रः परपतिरेष धर्मश्च योषिताम् ।।६३ ।।
पालयन्ति यथा भूपाः प्रजाः पुत्रानिवौरसान् ।
प्रजास्त्रियं च पश्यन्ति राजानो मातरं यथा ।।६४।।
यज्ञं कुर्वन्ति राजानो देवब्राह्मणरक्षकाः ।
निवारणं च दुष्टानां शिष्टानां परिपालनम् ।।६५।।
सतीनां रक्षणं चापि कुर्वन्ति भूभृतः खलु ।
विपरीतं कथं राजन्! गृह्णासि वर्तनं त्विह ।।६६।।
इत्युक्त्वा तु महेन्द्राणी विरराम पतिव्रता ।
उवाच नहुषो राजा शचीं गर्विष्ठवाक्यवान् ।।६७।।
शृणु शचि! न्याययुक्तं ग्राह्यं ते यदि रोचते ।
भूमौ शुभाऽशुभं कर्म कृत्वा त्वादाय तत्फलम् ।।६८।।
अन्यत्र मानवो भुंक्ते स्वर्गादौ वेदबोधितम् ।
भूमौ कृत्वा महत्पुण्यं स्वर्गं गच्छति पुण्यवान् ।।६९।।
गृहीत्वा सर्वकन्याश्च चिरं स्वर्गे प्रमोदते ।
स्वर्गमायाति मनुजो विहाय मानवीं तनुम् ।।1.374.७० ।।
स्वशरीरेणाऽऽगातोऽहं मत्पुण्यं पश्य सुन्दरि! ।
अनेकजन्मपुण्येन त्वागतः स्वर्गमीप्सितम् ।।७१ ।।
ततोऽप्यधिकपुण्येन महेन्द्रपदमाप्तवान् ।
तदिदं मे महत्पुण्यं दर्शनं मे त्वया सह ।।७२।।
नहि कर्मस्थलं चेदं स्वर्भोगस्थलमेव यत् ।
भोगस्थले भोग्यवस्तु नहि त्यक्तुं प्रशक्यते ।।७३।।
त्वं तु भोग्या महेन्द्रस्य स्थितोऽस्म्यहं तदासने ।
अस्वामिकाऽधुना त्वं च मम भोग्या प्रजायसे ।।७४।।
निर्मिता त्वं मम भोग्ये येनाऽहमैन्द्रमास्थितः ।
तव भाग्ये लिखितोऽहं यतश्चैन्द्रपदे स्थितः ।।७५।।
त्वं च कान्ते! मम योग्या यावदिन्द्रो भवाम्यहम् ।
त्यक्ते त्विन्द्रपदे त्वां न लोकयिष्यामि वै पुनः ।।७६ ।।
एहि कान्ते! भवनाऽन्तर्गृहे रंस्ये त्वया सह ।
त्यज द्वैधं तु मनसो मोदस्व मानवे सुरे ।।७७।।
इत्युक्त्वा विररामाऽसौ शची श्रुत्वा शुशोच ह ।
अचेतनस्य मूढस्य कार्याऽकार्यमजानतः ।।७८।।
श्रोष्याम्यद्य कथां कतिविधां कामातुरस्य च ।
वायुमत्तः सुरामत्तः काममत्तो विचेतनः ।।७९।।
मृत्युं न गणयेत् कामी कामेन हृतमानसः ।
प्राह वै नहुषं तत्र न्याय्यं प्रत्युत्तरं पुनः ।।1.374.८०।।
स्वर्गं भोगस्थलं त्वस्ति कर्मफलं हि भुज्यते ।
त्वया नास्ति कृतं तादृग् भोग्या भवामि येन ते ।।८ १ ।।
पृच्छ वै धर्मराजाय पृच्छाऽन्यगुरवे तथा ।
तिष्ठन्तीन्द्रासने रिक्ते मक्षिका जन्तवोऽपि च ।।८२।।
न ते भवन्ति चेन्द्रा वै भोग्या तेषां भवामि न ।
इन्द्र एव पतिर्मेऽस्ति मक्षिका जन्तवो नहि ।।८३।।
त्वं तु राजँस्तथाभूतो माऽऽग्रहं कुरु वै मृषा ।
शृणु राजँस्तथा गोप्यं यदस्म्यद्य रजस्वला ।।८४।।
ऋतोः प्रथमो दिवसो ह्यद्य मे वर्तते नृप! ।
प्रथमे दिवसे नारी चाण्डालीवत् त्वशुद्धिगा ।।८५।।
द्वितीये दिवसे म्लेच्छासमाऽतो रजकीसमा ।
तृतीयेऽथ चतुर्थे सा शुद्धा भर्त्रर्थमेव वै ।।८६ ।।
ततः सा दैवपैत्र्यादिकार्ययोग्या भवत्यपि ।
आद्ये रजस्वलागन्ता ब्रह्महत्यांशपापवान् ।।८७।।
द्वितीये दिवसे भोक्ता गोहत्यापापको भवेत् ।
तृतीये दिवसे भोक्ता भ्रूणहत्याघवान् भवेत् ।।८८।।
चतुर्थे पतियोग्या सा स्नात्वा संजायते सती ।
ऋतुदानं पतिर्दद्याद् विधिर्वेदैर्निरूपितः ।।८९।।
अयुगलासु रात्रिषु दाने कन्या प्रजायते ।
युगलासु तु रात्रिषु दाने पुत्रः प्रजायते ।।1.374.९०।।
आषोडशरात्र्यन्तँ शक्तिर्गर्भधृतेर्भवेत् ।
तदुत्तरं प्रशान्तिस्तु गर्भधृतिर्न वै भवेत् ।।९ १ ।।
तत्र पत्नी न गन्तव्या बीजहत्याऽभिदूषणात ।
एवं धर्मः रचितोऽस्ति त्वं तु धर्मं विहाय वै ।।९५।।।
कामातुरो भवत्यद्य गच्छ राज्ञीं निजां भुवि ।
शान्तिं लभ महाराज! व्रतं दीर्घं चराम्यहम् ।।९३।।
शच्यास्तद्वचनं श्रुत्वा प्रहस्य नहुषस्तदा ।
उवाच धर्मविधुरं कल्पितं भोगकांक्षया ।।९४।।
देवपत्नी सदा शुद्धा राजस्वल्यं न विद्यते ।
रजस्वलाकृतं पापं भूलोके नात्र वै दिवि ।।९५।।
चन्द्रवंश्यो भवाम्यत्र महेन्द्रो देवपंक्तिगः ।
राजस्वल्येन मे नास्ति बाधस्त्वायाहि सुन्दरि! ।।९६।।
ऋतुपापं मयि स्याच्चेत्! तव किं रम शोभने! ।
रमणार्थं कुरु शय्यां भवत्वद्य समागमः ।।९७।।
इत्युक्त्वा विररामाऽसौ राजा कुर्वन् प्रतीक्षणम् ।
शची प्राह शृणु राजन्! बुद्धिस्ते विलयं गता ।।९८।।
पातिव्रत्यमप्रधृष्यं धृष्ये धृष्टुर्विनाशकम् ।
इतिज्ञात्वा वद चाग्रे प्रवृत्तोऽभूर्विचार्य वै ।।९९।।
त्वां शपामि चेत् त्वत्र रक्षकः कोऽपि नास्ति ते ।
पातिव्रत्यं महान् धर्मो नारायणस्वरूपवान् ।। 1.374.१०० ।।
नारायणो हरो ब्रह्मा विष्णुर्वैराज ईश्वराः ।
बिभ्यत्येव पराद्धर्मात् पातिव्रत्याद्धि कंपिताः ।। १०१ ।।
सूर्यश्चन्द्रो वरुणश्च यमो मृत्युर्जरादयः ।
कालः संकर्षणो रुद्रो बिभ्यत्येव पतिव्रतात् ।। १ ०२।।
मेघः शनिश्चरो राहुर्दानवा राक्षसा अपि ।
दैत्या देवा वह्नयश्च वार्धयः पर्वतास्तथा ।। १०३ ।।
कम्पन्ते पातिव्रत्याद् वै विचारं कुरु मानसे ।
पतिव्रता सुभार्या वै पतिं जीवयति मृतम् ।। १ ०४।।
जलानां प्रलयं सैव शमयत्येव साध्विका ।
अग्नीनामुष्णतां शीतां करोत्येव पतिव्रता ।। १ ०५।।
महाकालं परावृत्य जीवत्येव पतिव्रता ।
सूर्यचन्द्रगतिरोधौ करोत्येव पतिव्रता ।। १०६ ।।
वृक्षपुष्पफलस्मृद्धिं करोत्येव पतिव्रता ।
विष्णोः सुदर्शनं शस्त्रं ब्रह्मास्त्रं लोकनाशकम् ।
शमयत्येव संकल्पाद् द्रागेव तु पतिव्रता ।। १ ०७।।
सापराधस्य पुण्यानां नाशं करोति साध्विका ।
ब्रह्माण्डप्रलयं चापि कर्तुं शक्ता पतिव्रता ।।१ ०८।।
जले स्थलं स्थले वारि व्योम्नि भूमिं भुवोऽम्बरम् ।
नारीं नरं नरं नारीं कर्तुं शक्ता पतिव्रता । । १०९ । ।
किं न जानासि राजेन्द्र! का ते बुद्धिरूपस्थिता ।
यमपाशान् सुविच्छेतुं शक्ता नारी पतिव्रता । । 1.374.११० । ।
तस्माद् राजन् भुवं याहि मा मनः कलुषं कुरु ।
इति जाते विवादेऽत्र वृहस्पतिरुपागतः । । १११ ।।
राजात्विन्द्रस्वरूपत्वात् सत्कारं सुसमाचरत् ।
शची ययौ सलज्जा स्वभवनान्तरमेव यत् । । ११२ ।।
नहुषात् सत्कृतिं लब्ध्वा दत्त्वाऽऽशीर्वादमित्यथ ।
ययौ शचीगृहं तत्र शच्या दत्ते शुभासने ।। ११३ । ।
निषसाद गुरुः शच्या विवादार्थो निवेदितः ।
प्रार्थितोऽपि गुरुः सम्यक् शच्या तु दीनया तदा ।। ११४ ।।
रक्ष रक्ष महाभाग! निमग्नां शोकसागरे ।
दूरीकृतो मम पतिस्त्वया शिष्यः स्वराज्यतः ।। ११५ ।।
सम्पच्छून्यमाश्रमं मे नहुषश्चेन्द्रतां वहन् ।
स्वपत्नीं मां विधातुं स करोत्याग्रहमुल्बणम् । । ११६ ।।
अहं पतिव्रता नारी नेच्छाम्यन्यं पतिं गुरो! ।
पातिव्रत्यं परं धर्ममुत्स्रष्टुं नोत्सहे गुरो ।। ११७ ।।
राजा तथा गुरुश्चोभौ मान्यौ पूज्यौ सदा मतौ ।
साम्ना यावद्विरोधस्य शान्तिः स्यात्तावदेव तु ।। ११८ ।।
साध्व्या शापो न वै देयः सर्वथाऽपि समर्थया ।
इति विचार्य च मया शप्तो न .नहुषो नृपः ।। ११९ । ।
पत्युर्विप्रकरस्त्वं च शप्तो नाऽसि तु गौरवात् ।
यदि चोक्तं मया सम्यङ् न भविष्यति वै गुरो । । 1.374.१२० । ।
शपामि त्वां च नहुषं सर्वनाशो भविष्यति ।
तथापि महतां नाशे मास्तु मे मानसे त्वरा । । १२१ ।।
इति कृत्वाऽऽवेदयामि शान्तिं कुरु गुरो! सुखम् ।
यथा पतिर्महेन्द्रो मे समायात् स्वगृहं प्रति ।। १२२ । ।
नहुषस्तु भवेद् भ्रष्टस्तथा कार्यं विधीयताम् ।
दत्वा चरणरेणूँ स्तं महेन्द्रं देहि चाशिषः ।। १२३ ।।
सर्वेषां तु गुरूणां च जन्मदाता परो गुरुः ।
पितुः शतगुणा माता पूज्या वन्द्या गरीयसी ।। १ २४। ।
विद्यादाता मन्त्रदाता ज्ञानदो हरिभक्तिदः ।
पूज्यो वन्द्यश्च सेव्यश्च मातुः शतगुणो गुरुः । । १२५ ।।
अज्ञानतिमिरान्धस्य ज्ञानांऽजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ।। १२६ । ।
जन्मदाताऽन्नदाता च तथाऽन्ये गुरुवो मताः ।
आरोपिताश्च गुरवः प्रसह्य गुरुवस्तथा ।। १ २७।।
तथोपगुरवः सन्ति शिक्षका गुरुवोऽपि च ।
पारं कर्तुं न शक्तास्ते घोरसंसारसागरे । । १२८ ।।
विद्यामन्त्रज्ञातदाता निपुणः पारकर्मणि ।
स शक्तः शिष्यमुद्धर्तुमीश्वरश्चेश्वरेश्वरः ।। १२९ । ।
गुरुर्विष्णुर्गुरुर्ब्रह्मा गुरुर्देवो महेश्वरः ।
गुरुर्धर्मो गुरुः शेषः सर्वात्मा केशवो गुरुः ।। 1.374.१३० ।।
सर्वतीर्थाधिवासश्च सर्वदेवाधिवासितः ।
सर्वदेवात्मको दिव्यो गुरुरूपी हरिः स्वयम् ।। १३१ । ।
अभीष्टदेवे वै रुष्टे गुरुः शक्तो हि रक्षितुम् ।
गुरौ रुष्टेऽभीष्टदेवो न वै शक्तश्च रक्षितुम् ।। १३२ । ।
गुरौ रुष्टे ग्रहा रुष्टा रुष्टा देवाश्च सर्वथा ।
भाग्यान्यपि च रुष्टानि गुरुं रुष्टं न कारयेत् ।। १३३ । ।
न गुरोरधिकश्चात्मा प्रियः पुत्रः प्रियोऽपि न ।
धनं पत्नी तपो धर्मः पुण्यं सत्यं न वै प्रियम् ।। १३४ । ।
गुरोः परो न वै शास्ता राजा बन्धुर्न वै परः ।
मन्त्रो विद्यागुरुर्देवः पूर्वलब्धः पतिस्तथा ।। १३५ । ।
परात्परः स विज्ञेयः सर्वेषामुपरि स्थितः ।
माता वन्द्या पिता वन्द्यो वन्द्यश्च त्वादृशो गुरुः ।। १३६ ।।
विप्राणां त्वं वरिष्ठोऽसि गरिष्ठश्च तपस्विनाम् ।
ब्रह्मिष्ठोऽसि ब्रह्मवित्सु धर्मिष्ठः सर्वधर्मिणाम् ।। १३७ । ।
देवानां सर्वथा पूज्य इति जानामि सर्वदा ।
ततः क्षमां ययाचेऽहं शपामि नैव मद्गुरुम् । । १३८ । ।
तुष्टो भव मुनिश्रेष्ठ! शक्रमानय मा चिरम् ।
नहुषं त्विन्द्रभवनाच्छीघ्रं प्रक्षिप भूतले ।। १३९ । ।
इत्युक्त्वा त्वान्तरे तृप्ता बहिः सौम्या शची तदा ।
मौनमालम्ब्य धैर्येण फलं चेयेष सत्त्वरम् । । 1.374.१४० । ।
वृहस्पतिस्तदा प्राह धन्याऽसि त्वं पतिव्रते! ।
शप्तुं त्वं वै समर्थाऽसि रक्षितोऽहं नृपोऽपि च । । १४१ ।।
नार्यो भवन्तु तादृश्यो यथा रक्षाकरी शची ।
इत्युक्त्वा प्राह चेन्द्राण्यै सर्वं भद्रं भविष्यति ।। १४२ । ।
सद्यः प्राप्स्यसि भर्तारं महेन्द्रं त्वं ममाशिषा ।
यथा कचस्य पत्नी मे तथा त्वमपि शोभने! ।। १४३ । ।
यथा पुत्रस्तथा शिष्या न भेदः पुत्रशिष्ययोः ।
तर्पणे पिण्डदाने च पालने परितोषणे । । १ ४४।।
यथाऽग्निदाता पुत्रश्च तथा शिष्योऽपि निश्चितः ।
पिता माता गुरुर्भार्या शिशुश्चऽनाथबान्धवाः ।।१ ४५।।
एते पुंसां नित्यपोष्या एष धर्मः सनातनः ।
कुरुते मानवीं बुद्धिं मातापित्रोस्तथा गुरौ ।। १४६ । ।
अयशस्तस्य सर्वत्र विघ्न एव पदे पदे ।
करोति सम्पन्मत्तो यः स्वगुरोस्तु पराभवम् ।। १४७।।
अचिरात्सर्वनाशोऽस्य भवेत् स्वस्यापि निश्चितम् ।
मां तु दृष्ट्वा सभामध्ये नोत्तस्थौ पाकशासनः ।। १४८।।
भुनक्ति तत्फलं त्विन्द्रः पश्य साध्वि तु साम्प्रतम् ।
अहं करोमि मोक्षं च समर्थोऽस्मि पतिव्रते! ।। १४९ ।।
पातिव्रत्यबलात्ते च नहुषोऽपि विनंक्ष्यति ।
इन्द्रस्त्वायास्यति शीघ्रं सर्वं युक्तं भविष्यति ।। 1.374.१५०।।
भविष्यति प्रभावस्ते दुर्गायाश्च समः सति! ।
लक्ष्मीसमा प्रतिष्ठा च यशस्तद्यशसा समम् ।। १५१ ।।
सौभाग्यं राधिकातुल्यं तत्समं प्रेम भर्तरि ।
तत्तुल्यं गौरवं मान्यं प्रीतिप्राधान्यमुच्यते ।। १५ २।।
रोहिण्यास्तु समा हृद्या पूज्या सरस्वतीसमा ।
शुद्धा भविष्यसि शश्वत्सावित्रीसदृशी सदा ।। १५३ ।।
इत्युक्त्वा तां गुरुस्तत्र शिक्षयामास रक्षणम् ।
वद् साध्वि! नहुषं तं शचीं चेद् भोक्तुमिच्छति ।। १५४।।
अपूर्वं यानमारुह्य निशायामागमिष्यसि ।
सप्तर्षीणां यदि स्कन्धे दत्त्वा स्वशिबिकां शुभाम् ।। १५५ ।।
तामारुह्य समायाहि शचीं भोक्तुं तदाऽर्हसि ।
शच्यावाक्यानि तान्येवाऽऽवेदितानि तु भूभृते ।। १५६ ।।
प्रहस्य नहुषश्चापि किंकरं प्राह सत्वरम् ।
गच्छ गच्छ त्वरन् गच्छ सप्तर्षीन् शीघ्रमानय ।। १५७।।
इत्युक्तः प्रययौ दूतः सप्तर्षींस्त्वानयद् द्रुतम् ।
राजा दृष्ट्वा तु तान्सर्वान्ननामोवाच सादरम् ।।१५८।।
यूयं तु ब्रह्मणः पुत्राः परोपकरणे रताः ।
मोहमात्सर्यहीनाश्च दर्पाऽहंकारवर्जिताः ।। १५९ ।।
नारायणसमाः सर्वे ज्वलन्तो ब्रह्मतेजसा ।
मम कार्यकरणार्थं कृपावन्तो भवन्तु वै ।। 1.374.१६० ।।
प्राहुस्तं मुनयः श्रुत्वा वृणीष्व मनसि स्थितम् ।
सर्वे दातुं वयं शक्तास्त्वदर्थं मा चिरं कुरु ।। १६१ ।।
नहुषः प्राह ताँस्तत्र यूयं वै भक्तवत्सलाः ।
अधुना दत्त मे तूर्णं शचीदानमभीप्सितम् ।। १६ २।।
सप्तर्षिवाहनं कान्तं शचीच्छति महासती ।
एनमेव वरं मेऽद्य निष्पन्नं कुरुताऽचिरम् ।। १६३ ।।
इति श्रुत्वा तु मुनयो जहसुर्मोहितं नृपम् ।
चक्रुः स्कन्धेऽस्य शिबिकां ययौ राजा शचीं प्रति ।। १६४।।
जर्जरितास्तु मुनयः शनैर्यान्ति तदा नृपः ।
शीघ्रं सर्पन्तु मुनयः समाः प्राह मुनीन् मुहुः ।। १६५ ।।
श्रुत्वा क्रोधं समापन्नो दुर्वासास्त्वग्रगोऽवदत् ।
सर्पन्त्विति प्रवक्ता त्वं सर्पस्त्वजगरो भव ।। १६६।।
एवमुक्तो द्रुतं राजा महानजगरोऽभवत् ।
पतितः शिबिकातश्च स्तुतिं चक्रे तपस्विनाम् ।। १६७।।
ऋषयस्तु नृपं प्राहुर्धर्मपुत्रस्य दर्शनात् ।
मोक्षो भविष्यति सर्पाद् वैकुण्ठं च गमिष्यसि ।। १६८।।
इत्युक्त्वा प्रययुः सत्यं ऋषयस्तु दयालवः ।
शची जगाम तच्छ्रत्वा गुरुं नमाम चादरात् ।। १६९।।
ययौ ब्रहस्पतिः शीघ्रं पुष्करे पद्मतन्तुषु ।
यत्र वै राजते त्विन्द्रश्चाजुहाव सुरेश्वरम् ।। 1.374.१७०।।
अयि वत्स त्वमागच्छ गुरुस्तेऽहं बृहस्पतिः ।
श्रुत्वा गुरुस्वरं सौक्ष्म्यं हित्वा त्विन्द्रः समाययौ ।। १७१ ।।
पपात दण्डवत् तं च मुदोरसि चकार सः ।
नीत्वा यज्ञं कारयित्वा सोमं तं त्वमरावतीम् ।। १७२।।
प्रददौ परमैश्वर्यं पूर्वस्मात्तु चतुर्गुणम् ।
शची सम्प्राप भर्तारं पातिव्रत्यप्रभावतः ।। १७३।।
इत्येवं कथितं लक्ष्मि! शच्याः सतीत्वमत्र ते ।
ब्रह्महत्याप्रशमनं सोमयागफलप्रदम् ।। १७४।।
वर्षं सोमलतापानं यजमानश्चकार सन् ।
वर्षमेकं फलाहारं जलपानं तु वत्सरम् ।। १७५।।
त्रैवार्षिकं व्रतं चेन्द्रश्चकाराऽऽस पुनः प्रभुः ।
सर्वसाध्यो न यज्ञोऽयं बह्वन्नो बहुदक्षिणः ।। १७६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये बृहस्पत्यवमानेन भ्रष्टेन्द्रस्यपुष्करनालवासे नहुषेणेन्द्रप्रतिनिधिनाऽर्थितायां शच्यां सप्तर्षियानमारुह्य गच्छता सर्पता प्राप्तेत्यादिगर्भकपातिव्रत्यबलकथननामा चतुःसप्तत्यधिकत्रिशततमोऽध्यायः ।। ३७४।।