लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३७३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३७२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३७३
[[लेखकः :|]]
अध्यायः ३७४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां तेऽपि पातिव्रत्यपरायणाम् ।
वैकुण्ठे समभूद् या वै गर्वनाशाय सर्वथा ।। १ ।।
वैकुण्ठाऽधिपतिः कृष्णनारायणो हरिः स्वयम् ।
राजते स्म सभामध्ये नैकपार्षदवेष्टितः ।। २ ।।
दासदासीवैष्णवैश्च सेवितः परमेश्वरः ।
अक्षराधिपतेर्वक्षः स्थलोत्पन्ना महासती ।। ३ ।।
सम्पत्कर्त्री महेच्छा श्रीहरेः संकल्परूपिणी ।
लक्ष्मीः स्वां मुक्तरूपेभ्यो विलोक्याऽन्तर्विलक्षणाम् ।। ४ ।।
प्रार्थयामास सर्वेशं लज्जया श्रीहरिं तदा ।
मम वासस्य योग्यं वै भवनं रचय प्रभो! ।। ।५ ।।
यथाहं पातिव्रत्येन सिषेवे त्वां परेश्वरम् ।
कृष्णनारायणः साक्षात् परात्मा परमेश्वरः ।। ६ ।।
श्रुत्वा योग्यां प्रार्थनां च ज्ञात्वा नारीं स्वसेविकाम् ।
वैकुण्ठं रचयामास युगलार्थं नवं शुभम् ।। ७ ।।
स्वयं चतुर्भुजो जातो महालक्ष्म्यभिलाषया ।
पतिरूपः परब्रह्म शंखचक्रगदादिमान् ।। ८ ।।
अष्टादशवयोवर्षः कमनीयोऽतिकान्तिमान् ।
सर्वांगवीर्यसम्पूर्णो लक्ष्मीः षोडशवत्सरा ।। ९ ।।
कमनीया पतिसेवायोग्या मुक्ताऽतिसुन्दरी ।
सुस्तनी स्वानना रम्या सुमध्या स्वर्णवर्णिका ।। 1.373.१० ।।
सर्वांगशोभासम्पूर्णा सर्वसिद्धिसमाश्रिता ।
सर्वैश्वर्यमहानन्दा संकल्परूपधारिणी ।। ११ ।।
कामिनी रतिकुशला नारायणपरायणा ।
सर्वाभरणशोभाढ्या दिव्यवस्त्रादिभूषिता ।। १ २।।
सर्वशृंगारसद्द्रव्यचूर्णकज्जलमण्डिता ।
अनंगश्चाऽभवत्तस्यां देहाऽभिन्न इव स्थितः ।। १३ ।।
तस्याः संकल्पपूर्त्त्यर्थं नारायणश्चतुर्भुजः ।
चतुर्भुजां स्वकां पत्नीं लक्ष्मीं नीत्वा ययौ हरिः ।। १४।।
वैकुण्ठं स्वकृतं धाम यत्र नाऽन्यद् द्वयं विना ।
तृतीयं व्यक्तिरूपं न युगलं तत्र मोदते ।। १५।।
संकल्पसिद्धयस्तत्र प्रोद्गता वै सहस्रशः ।
दासिकास्ता महालक्ष्म्याः सर्वाः पञ्चदशाब्दिकाः ।। १६।।
तासां कृते कृतास्तत्र सौधाश्चन्द्रसमाः सुखाः ।
स्वकृते भवनं दिव्यं मन्दिरं च कृतं नवम् ।। १७।।
प्राकारोऽतिविशालश्च पत्तनं दीर्घविस्तरम् ।
जलपुष्करिणीवृन्दं चकार तत्र श्रीहरिः ।। १८।।
नदान् नदीस्तडागानि वाटिकोद्यानभूमिकाः ।
विहाराणि विचित्राणि रसशालाश्च दीर्घिकाः ।। १ ९।।
भोज्यशालास्तथा प्रसन्नताशाला रतिस्थलीः ।
सभास्थले महद्दिव्यं सिंहासनं परात्परम् ।।1.373.२० ।।
उपकरणवस्त्वाढ्यभवनानां तु पंक्तिकाः ।
विनिर्माय स्वयं तत्र मोदते युगलं सदा ।।२१ ।।
नारायणो यदा लक्ष्म्या साकं संतिष्ठते गृहे ।
प्रेममग्नस्तदा दास्यः समागच्छन्ति भावतः ।। २२।।
भगवत्प्रेमसम्पन्ना रजोरतिसमाहुताः ।
विलासार्थं समागत्याऽऽश्लिष्यन्ति परमेश्वरम् ।।२३ ।।
हरिस्तु बहुरूपाणि धृत्वा रमते तास्वपि ।
महालक्ष्मीश्चापि तत्र रमते भवने स्वके ।।२४।।
सहस्रायुतसंख्यासु समकाले हरिः स्वयम् ।
रमते बहुभावेन कोटिरूपधरः प्रभुः ।।२५।।
एवं वैकुण्ठभवने वैकुण्ठे पूर्णधामनि ।
नारायणं विना नान्यो नरः कश्चित्प्रवर्तते ।।२६ ।।
कोटिकोट्यस्तु दास्यश्च वर्तन्ते सेविकाः सदा ।
तत्रैकदा हि सर्वासु सर्वरूपधरो हरिः ।।२७।।
चक्रे वै रमणं दासीकोटितृप्तिकरं प्रभुः ।
महालक्ष्मीः स्वभवने नारायणे प्रवल्गिता ।।२८।।
महाऽऽनन्देऽतिमग्नाऽऽसीत् तल्लीनेव तदाऽभवत् ।
तत्रैवाऽवसरे नित्या मुक्ताः सनत्कुमारकाः ।।२९।।
ज्ञात्वा योगबलेनापि वैकुण्ठं नूतनं कृतम् ।
नारायणस्वरूपं च लक्ष्मीस्वरूपमित्यपि ।।1.373.३ ० ।।
दासीकोटिस्वरूपाणि भवनानि नवानि च ।
साक्षाद् द्रष्टुं कृतहृदो मुक्ता बालस्वरूपिणः ।।३ १ ।।
रतिभावेऽकृतयोगा अजानन्त इव स्त्रियम् ।
स्त्रीयोगं चाऽप्यजानन्तो विघ्नं जानन्ति चैव न ।।३२।।
दर्शनार्थं कृतयत्ना व्योममार्गादवातरन् ।
प्राकारान्तःस्थलीं गत्वा संविविशू रतिगृहम् ।।३३।।
नारायणं समाश्लिष्टां लक्ष्मीं विलोक्य ते तदा ।
गत्वा पार्श्वे द्वयोर्देहौ वाहयामासुरादरात् ।। ३४।।
पादसंमर्दनं चक्रुः सेवयामासुरीश्वरौ ।
अशंकमानसाः सर्वे पंचवर्षाः कुमारकाः ।।३५।।
लक्ष्मीरानन्दमासाद्य सेवयित्वा नरायणम् ।
शुद्धा भूत्वा तु तान्बालान् भोजनादि ददौ सती ।।३६।।
भोजिताः पूजिता दृष्टाः स्पृष्टा नताश्च संययुः ।
ततः कृष्णं महालक्ष्मीः प्राह नारायणं प्रभुम् ।।३७।।
भगवन् सर्वदा नैवमुचितं दर्शनं तव ।
बालास्तु दोषरहितास्तथा भानविवर्जिताः ।।३८।।
किन्तु चान्ये महात्मानः ऋषयश्च सुरादयः ।
इत आरभ्य बालेभ्यो विज्ञाय दर्शनोत्सुकाः ।।३९।।
आयास्यन्ति सदा तेऽत्र दर्शनार्थं मुहुर्मुहुः ।
अकालदर्शने नौ वै विघ्नं तु सततं भवेत् ।।1.373.४०।।
दास्यस्तत्र नियोक्तव्या गोपुरादौ तु पालिकाः ।
यद्वा यथेष्टं भगवन् यथेच्छसि तथा कुरु ।।४१ ।।
श्रुत्वा नारायणो योग्यं युयोज द्वारपालिकाः ।
नियुक्ता अपि ताः क्वापि क्वचित् प्रेमातिरेकतः ।।।४२।।
त्यक्त्वा द्वारं हरिं यान्ति द्वारं शून्यं भवत्यपि ।
ऋषयो मुनयो ज्ञात्वा समायान्ति तु भावुकाः ।।।४३।।
वैकुण्ठस्य विलोकार्थं दर्शनार्थं हरेस्तथा ।
तदा लक्ष्म्या पुनः कृष्णनारायणः समर्थितः ।।४४।।
भगवन् द्वारपालत्वं दृढं भक्ताय दीयताम् ।
सख्यस्तु ताः स्नेहमग्ना द्वारे तिष्ठन्ति नैव यत् ।।।४५।।।
ये तु स्युर्द्वारपालत्वे कृतयत्ना भवन्तु ते ।
इति श्रुत्वा हरिस्तत्र सस्मारैश्वर्यसद्गुणान् ।। ४६।।
ऐश्वर्याणि गुणाश्चापि पार्षदा रूपसुन्दराः ।.
नराकाराश्चतुःकराः भूत्वाऽन्तिकमुपाययुः ।।४७।।
स्तुत्वा नारायणं लक्ष्मीं नत्वा प्राहुश्च देशनम् ।
दर्शयाऽत्र महाराज! कर्तुं जाताः स्म ते धिया ।।४८।
तत्र जयं विजयाख्यमैश्वर्यं प्राह केशवः ।
द्वारपालत्वमेवाऽत्र कर्तव्यं मम देशनम् ।।४९।
एवं नन्दसुनन्दौ च पुष्पदन्तं च सात्त्वतम् ।
कुमुदं कुमुदाक्षं च नियुयुजेऽपि गोपुरे ।।1.373.५०।।
अष्टैश्वर्यात्मकपार्षदास्ते रक्षन्ति गोपुरान् ।
लक्ष्मीदासीकोटियुक्ता निःशंका सेवते पतिम् ।।५१ । ।
पातिव्रत्येन धर्मेण यथा छाया स्वदेहिनम् ।
नान्यं नरं विजानाति नारायणात्परं समम् ।।५२। ।
नान्यं पश्यति पुंवर्गं द्वारपालमपि क्वचित् ।
नान्यैः सा भाषते लक्ष्मीर्नान्यं स्पृशति वै क्वचित् ।।५३ । ।
नान्यां रतिं प्रजानाति हरेर्वैकुण्ठवासिनः ।
नान्यसत्तां विजानाति चतुर्भुजनरायणात् ।।।५४।।
नान्यगुणान् कथयति नारायणगुणान् ऋते ।
नान्यं ध्यायति स्मरति मनुते निश्चिनोति न ।।।५५।।
नारायणः परब्रह्म नारायणः परेश्वरः ।
नारायणः सर्वद्रष्टा नान्यस्तस्मात्परः प्रभुः ।।५६ । ।
इति सर्वात्मना तत्र लीना भवति विद्यते ।
पतिवाक्यकरी स्वामिसुखदा पतिवर्तिनी ।।५७। ।
स्वापे च रमणे स्नाने शयने भोजनेऽर्हणे ।
विहरणं प्रकार्यं च लक्ष्मीः पतिपरायणा ।।५८ ।।
सेवते श्रीहरिं तत्र शय्यायां वै नरायणी ।
तावत्तत्र पुनर्याता दर्शनाय कुमारकाः ।।५९।।
सनकाद्या ब्रह्मपुत्रा नित्यसिद्धा हि बालकाः ।
एवमेव हरेस्ते च दर्शनार्थं समागताः ।।1.373.६ ० ।।
प्राकारं चाथ च द्वाराण्यपहाय महाऽम्बरात् ।
अवतरुर्ब्रह्मरूपा ययुर्नारायणान्तिकम् ।।६१ ।।
पूर्ववत् सेवनं कृत्वा कृत्वा च दर्शनं मुहुः ।
प्रसन्नाः पञ्चवर्षीया ययुस्ते तृप्तमानसाः ।।६२।।
इति जाते प्रसंगे च महालक्ष्म्या तु वै ततः ।
आज्ञप्ता द्वारपालाद्या निरोधाय गतिकृताम् ।।६३ ।।
आगच्छेयुर्विनाऽऽज्ञां न प्रविशेयुर्न वै च ते ।
ये केऽपि स्युस्तथा द्वारपालत्वं कार्यमेव हि ।।६४।।
इत्याज्ञप्ता महालक्ष्म्या सर्वदिक्षु प्रपालिनः ।
विनाऽऽज्ञां तु महालक्ष्म्यास्तथा हरेरपि क्वचित् ।।६५।।
प्रवेशं न ददत्येव यद्यपि स्युर्हरादयः ।
एवं सेवापरा नित्यं लक्ष्मीः कृष्णं प्रसेवते ।।६६।।
अशंका चातिसम्मुग्धा दासीकोटिभिरर्चिता ।
पातिव्रत्यपरा नित्यं सेवते श्रीनरायणम् ।।६७।।
योगनिद्रोत्तरं योगनिद्रां गृह्णाति पद्मजा ।
स्वपने शयने नित्यं करोति त्वंगमर्दनम् ।।६८।।
योगनिद्रां हरेः पूर्वं विहायैव जलामृतम् ।
ददात्याननशुद्ध्यर्थं दन्तशुद्ध्यर्थचूर्णकम् ।।६९।।
स्नानाद्यर्थं जलं चोष्णं सुगन्धिचन्दनान्वितम् ।
वस्त्रं चाभूषणाद्यं च कुसुमादि ददाति च ।।1.373.७०।।
शृंगाररसपुष्ट्यर्थं करोत्याभूषितं हरिम् ।
भोज्यं मिष्टं दुग्धपानं कारयत्येव सर्वदा ।।७१ ।।
शीतलेष्टजलपानं फलं मुखप्रशोधनम् ।
ताम्बूलाद्यं ददात्येवाऽम्बरक्षालनमित्यपि ।।।७२।।
कृष्णभोज्यादिपात्राणां मञ्जनं स्वकरेण वै ।
आसनादिप्रदानं च केशवेशादिसाधनम् ।।७३।।
कस्तूरीकज्जलकुंकुमाक्षतादिसमर्पणम् ।
व्यजनेनाऽनिलदानं शय्यास्तरणमित्यपि ।।७४।।
एवं तदंगकार्याणि करोत्येषा पतिव्रता ।
व्रतं पूजा जपो होमः पठनं स्तोत्रमित्यपि ।।७५।।
कृष्णाज्ञयैतत्सर्वं वै करोत्येषा पतिव्रता ।
नारायणस्य सेवायां नारायणी प्रवर्तते ।।७६।।
अथैकदा महालक्ष्मीर्दासीसहस्रवारिता ।
ययावुद्यानके रम्ये मनोरञ्जनकाम्यया ।।७७।।
तत्र विभिन्नशाखाढ्यवृक्षराजिविराजिते ।
शाद्वले पुष्पगन्धाढ्ये मृदुले सुभगे स्थले ।।७८।।
संरेमे सखाभिः सार्धं प्रशशंस स्वकं सुखम् ।
बहुमान्यं प्रशशंस गर्वमवाप सुन्दरी ।।७९।।
सख्यो नारायणो देवः सर्वेश्वरोऽपि सर्वदा ।
ममाऽभिप्रायमासाद्य करोत्येव क्रियां सदा ।।1.373.८०।।
मया तु सेवया नाथो वशीकृतोऽस्ति माधवः ।
मामन्तरा न वै स्थातुं क्षणं सौधे प्रवर्तते ।।८१ ।।
हिक्कान्विता प्रपश्यन्तु मां हि स्मरति केशव ।
आयास्यति क्षणेनात्र यद्वा गच्छाम एव तम् ।।८२।।
मद्वाक्यं नर्मयुक्तं वा यथार्थं वा न लुम्पति ।
यथा वच्मि कृष्णनारायणः करोति तत्तथा ।।८३।।
मयैव गृहवानस्ति मयैव शोभते सदा ।
मयैव च भवत्योऽपि दत्तास्तस्मै परात्मने ।।८४।।
नान्यो मत्सदृशी मान्या धन्या चात्र सहेलिकाः ।
एवं गर्वं समापन्ना ज्ञाता नारायणेन सा ।।८५।।
पातिव्रत्यपरा चेयं स्मयमाप्ताऽतिभावतः ।
दर्पयुक्ता महालक्ष्मीः सखीभिः सह तत्स्थलात् ।। ८६।।
गृहं प्रतिनिवृत्ता च समायाता तु गोपुरम् ।
हरिर्जये विजये च विवेश गर्वगञ्जनः ।।८७।।
विशमाना विभोर्द्वारं विशालं सा सखीवृता ।
निवारिता सा द्वारात्तु जयेन विजयेन च ।।८८।।
पराभूता महालक्ष्मीस्तेन द्वयेन सा ततः ।
नत्वाऽऽत्मनस्तिरस्कारं साभिमाना महासती ।।८९।।
स्मृत्या हरेः पादपद्मे देहं त्यक्तु समुद्यता ।
अथ तत्र दर्शनार्थमायाताः सर्वदेवताः ।।1.373.९०।।
पितामहो महेशश्व विष्णुधर्मश्च भास्करः ।
चन्द्रश्च कामदेवश्च वैश्वानरो धनाधिपः ।।९१ ।।
ऋषयो मुनयश्चापि मनवो विघ्ननायकाः ।
महेन्द्रो वरुणश्चापि जगत्प्राणो हुताशनः ।।९२।।
गोपुरे संस्थिताः सर्वे महालक्ष्मीं प्रतुष्टुवुः ।
क्षमस्व भगवत्यम्बे! क्षमाशीले! परात्परे! ।।९३।।
शुद्धसत्त्वस्वरूपे च साध्वीदेवीप्रपूजिते ।
त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ।।९४।।
सर्वसम्पत्स्वरूपा त्वं त्वत्कलाः सर्वयोषितः ।
त्वां जना ये पूजयन्ति सर्वसृष्टिप्रपूजिताम् ।।९५।।
अभार्यो लभते भार्यां विनीतां च सुतां सतीम् ।
सुशीलां सुंदरीं रम्यामतिप्रियसुवादिनीम् ।। ९६।।
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् ।
पौत्रं च गुणसम्पन्नं विद्यावन्तं यशस्विनम् ।। ९७।।
भ्रष्टराज्यो लभेद् राज्यं भ्रष्टश्रीर्लभते श्रियम् ।
कीर्तिहीनो लभेद् कीर्तिं धनभ्रष्टो धनं लभेत् ।।९८।।
तादृशी त्वं महायोगैश्वर्यवती हि वर्तते ।
मा देवि! निधने हार्दं कृथा भव कृपावती ।। ९९।।
इति श्रुत्वा तु देवानां महालक्ष्मीरुवाच तान् ।
त्यजामि देहं न क्रोधान्न वैराग्येण साम्प्रतम् ।। 1.373.१ ००।।
इदं हृदि समालोच्य देवास्तच्छ्रूयतां शुभम् ।
यत्र पत्यौ सदीशे वै समता तृणशैलयोः ।। १०१ ।।
भृत्ये पत्न्यां मत्समता किं कार्यं जीवनेन वै ।
कृष्णपत्नीप्रधानाऽहं निरस्ता द्वारिणाऽमुना ।। १ ०२।।
या स्त्रीर्भर्तुरसोभाग्या साऽसौभाग्या च सर्वतः ।
शयने भोजने तस्या न सुखं जीवनं वृथा ।। १०३ ।।
यस्या नास्ति प्रियप्रेम तस्या जन्म निरर्थकम् ।
तत्किं पुत्रे धने रूपे सम्पत्तौ यौवनेऽपि वा ।। १ ०४।।
यस्या भक्तिर्न वै कान्ते साऽसौभाग्या तु स्वामिनि ।
साऽशुचिर्धर्महीना च सर्वकर्मविवर्जिता ।। १ ०५।।
पतिर्बन्धुर्गतिर्भर्ता दैवतं गुरुरेव सः ।
सर्वस्मान्न परः स्वामी न गुरुः स्वामिनः परः ।। १०६ ।।
पिता माता सुतो भ्राता स्वल्पं ददाति वै धनम् ।
सर्वस्वदाता स्वामी तु पत्नीनां योषितां पतिः ।। १ ०७।।
काचिदेव विजानाति स्वामिमाहात्म्यमुत्तमम् ।
अतिसद्वंशसञ्जाता महासाध्वी तपस्विनी ।। १ ०८।।
असद्वंशप्रसूता या दुःशीला धर्मवर्जिता ।
स्वार्थमात्रपरा दुष्टा पतिं निन्दति कोपतः ।। १ ०९।।
या स्त्री स्वस्वामिनं द्वेष्टि पतिं विष्णुसमं गुरुम् ।
कुंभीपाके पतेत् सा तु ब्रह्मणो दिनमानकम् ।। 1.373.११० ।।
व्रतं चानशनं दानं सत्यं पुण्यं तपश्चिरम् ।
पतिभक्तिविहीनाया भस्मीभूतं निरर्थकम् ।। १११ ।।
अतः किंचिन्न वक्ष्यामि निष्ठुरं मत्पतिं प्रति ।
हरेर्भृत्यतिरस्कारैः प्राणाँस्त्यक्ष्यामि निश्चितम् ।। ११ २।।
पतिदोषे महासाध्वी पतिं न निष्ठुरं वदेत् ।
यदि सोढुमशक्ता स्यात् प्राणाँस्त्यजति धर्मतः ।। ११३ ।।
पतिसेवा व्रतं स्त्रीणां पतिसेवा परं तपः ।
पतिसेवा परो धर्मः पतिसेवा सुरार्चनम् ।। ११४।।
पतिसेवा परं सत्यं दानतीर्थानुकीर्तनम् ।
सर्वदेवमयः स्वामी शुचिः पुण्यस्वरूपकः ।। १ १५।।
या सती भर्तुरुच्छिष्टं भुंक्ते पादोदकं सदा ।
तस्या दर्शमुपस्पर्शं नित्यं वाञ्च्छन्ति देवताः ।। ११६ ।।
सत्याः सर्वाणि तीर्थानि पुनन्ति पापिनो ह्यघात् ।
इति श्रुत्वा स्वयं ब्रह्मा सतीमुवाच भक्तिमान् ।। १ १७।।
भविष्यति न भद्रं च जयस्य विजयस्य च ।
त्वया न शप्तौ तौ भृत्यौ स्वाम्यपराधभीतया ।। १ १८।।
सापराधं तु धर्मिष्ठः क्षमया न शपेद् यदि ।
सर्वनाशो भवेत्तस्य निश्चितं मा चिरं सति! ।। ११ ९।।
यदि शप्तुं न शक्तश्च न दण्डं कर्तुमीश्वरः ।
सापराधे तु पुरुषे धर्मो दण्डं करोति हि ।। 1.373.१२० ।।
सर्वं क्षमस्व हे मातर्गच्छ गच्छ प्रियाऽन्तिकम् ।
अस्माकमपि लाभः स्याद्दर्शनस्य हरेरिह ।। १२१ ।।
प्राह लक्ष्मीस्तदा देवा! यदि चास्मि पतिव्रता ।
पतिधर्मे यदि लुब्धा पत्यर्थं प्राणदायिनी ।। १२२ ।।
पातिव्रत्यपरा नित्यमचला यदि स्वामिनि ।
मदुक्तेषु तु धर्मेषु वर्तमाना सदा यदि ।। १२३ ।।
पातिव्रत्यबलेनाऽत्र समायातु नरायणः ।
गोपुरे दर्शनं दातुं समायातु पतिर्मम ।। १ २४।।
यद्यहं प्राणतः पत्नी हरेः स्नेहास्पदा सदा ।
त्यक्तसर्वस्वहर्यर्था समायातु हरिस्तदा ।। १ २५।।
यद्यहं जीवतः पत्नी तदात्मिका पतिव्रता ।
तदा नारायणस्त्वत्र समायात्वन्यथा म्रिये ।। १२६ ।।
इत्युक्त्वा तु महालक्ष्मीरग्निरुत्पाद्य पादतः ।
यावद् दग्धुं मनश्चक्रे तावत् कृष्णः समागतः ।। १२७।।
धृत्वा वक्षसि तां लक्ष्मीं चुचुम्बाऽऽश्लिष्टवानपि ।
क्षमस्व देवि! क्रौर्यं मे इत्युक्त्वाऽभूद् गलद्रवः ।। १२८ ।।
साश्रुनेत्रो जगादैनां सत्याऽसि त्वं पतिव्रता ।
पातिव्रत्यप्रभावेण त्वागतोऽहं हि गोपुरे ।। १ २९।।
आयाहि सति! मा रुष्टा भव साध्वि! मया त्विदम् ।
परीक्षार्थं गर्वशान्त्यै प्रविश्य भृत्यकारितम् ।। 1.373.१३० ।।
भक्ते कलत्रे बन्धौ च सर्वत्र समता मम ।
विशेषतोऽपि मद्भक्तः कलत्रात्पर एव च ।। १३१ ।।
मद्भक्तौ तव पुजौ च द्वारपालौ कथार्थकौ ।
क्षम मामपराधं च तयोश्च भक्तिपूर्णयोः ।। १३२.।।
इत्युक्त्वा जगतां नाथः सुरेभ्यो निजदर्शनम् ।
रत्वा लक्ष्मीं हृदि कृत्वा यया स्वभवनान्तरम् ।। १३३ ।।
द्वारपालं समाहूय हरिः प्राह तदा सुखम् ।
मा भैर्वत्स सुखं तिष्ठ भयं किं ते मयि स्थिते ।। १३४ ।।
मद्भक्तानां तु कः शास्ता गच्छ वत्साऽऽसन स्वकम् ।
मया वै चिन्तितं बीजं लोकेषु गमनाय यत् ।। १३५ ।।
तदर्थे कारितं चैतद् गास्यन्ति मानवा हि तत् ।
चरित्रं मे च भक्तानां मोक्षं यास्यन्ति तेन वै ।। १३६ ।।
देवान्प्राह हरिस्तत्र शृण्वन्तु सर्वथाऽमलम् ।
पातिव्रत्यं परो धर्मस्तेनाऽनया वशीकृतः ।। १३७।।
सिंहासनं परित्यज्य गोपुरं च समागतः ।
पातिव्रत्यबलेनैव सर्वाधारोऽपि देवताः ।। १३८ ।।
तस्मान्नैतत्समो धर्मो भुक्तिमुक्तिप्रदोऽस्ति वै ।
नरो नारी च वा भक्तः पातिव्रत्येन सेवते ।। १३९ ।।
स मत्पदमवाप्नोति गच्छामि प्रति तं सुराः ।
निवसामि गृहे तेषां तदधीनोऽस्मि सर्वथा ।। 1.373.१४० ।।
इत्युक्तास्तु सुरा नत्वा संपूज्य स्वगृह ययुः ।
सती सेवापरा जाता श्रोतुर्वक्तुश्च तत्फलम् ।। १४१ ।।
जयश्च विजयः पूर्वे हरेरैश्वर्यरूपिणौ ।
पूर्वसृष्टौ वेदनिधेः पुत्रौ व्रतेन पार्षदौ ।। १४२ ।।
जातौ तौ राधिकाशापात् तृणबिन्दोः सुतावुभौ ।
मरुत्तयज्ञकर्तारौ धनार्थे शापतो मिथः ।। १४३ ।।
गजग्राहौ तु सञ्जातौ तौ वैकुण्ठात्प्रहापितौ ।
हरिणा स्वेच्छया निःसारितौ तौ पार्षदौ पुनः ।। १४४।।
जातावत्रेति विज्ञेयौ शापाद् दैत्यौ पुनः पुनः ।
पुनश्च पार्षदावन्ते त्वैश्वर्याख्यौ भविष्यतः ।। १४५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये वैकुण्ठमहालक्ष्म्या गर्वनाशार्थं गोपुरे रुद्धायास्तस्याः पातिव्रत्यप्रलापेन नारायणस्य गोपुरं प्रत्याकर्षणमित्यादिनिरूपणनामा त्रिसप्तत्यधिकत्रिशततमोऽध्यायः ।। ३७३ ।।