लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३७२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३७१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३७२
[[लेखकः :|]]
अध्यायः ३७३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! च पद्मायाश्चरित्रं पापनाशकम् ।
अनरण्यस्य पुत्र्यास्तद्धर्मशापात्मकं शुभम् ।। १ ।।
पातिव्रत्यं पालयन्त्या पित्राज्ञावर्तमानया ।
पद्मया युगभेदेन धर्मह्रासः कृतः पुरा ।। २ ।।
जातमात्रं यौवनं च तयैव विफलीकृतम् ।
बाल्यं कुमारता पश्चाद् यौवनं वृद्धता ततः ।। ३ ।।
इत्यादिकं तया लोके कृतं लक्ष्मि! क्रमागतम् ।
मनुवंशोद्भवो राजा सोऽनरण्यो महायशाः ।। ४ ।।
चिरंजीवी धर्मशीलो वैष्णवो विजितेन्द्रियः ।
मंगलाऽरण्यपुत्रः स इन्द्रसावर्णिवंशजः ।। ५ ।।
धरारण्यस्य पुत्रोऽभून्मंगलारण्य एव ह ।
अपुत्रको धरारण्यस्तपसे पुष्करं गतः ।। ६ ।।
सुचिरं च तपस्तप्त्वा वरं लब्ध्वा परेश्वरात् ।
सम्प्राप्तो वैष्णवं पुत्रमनरण्यं जितेन्द्रियम् ।। ७ ।।
दत्वा तस्मै स राज्यं स्वं जगाम तपसे वनम् ।
अनरण्यस्ततश्चक्रे भृगुणा तु पुरोधसा ।। ८ ।।
यज्ञानां शतकं श्रेष्ठं तस्थौ वैराग्यवृत्तिकः ।
तुच्छं मत्वा च शक्रत्वं न लेभे नश्वरं पदम् ।। ९ ।।
बभूवुः शतपुत्राश्च सर्वे पितृसमा गुणे ।
कन्यैका सुन्दरी रम्या पद्मा पद्मालयासमा ।। 1.372.१ ०।।
तस्या योग्यवराऽन्वेषणार्थं यत्नं चकार सः ।
तावत् तपोवने पिप्पलादर्षिस्तत्र निर्जने ।। ११ ।।
स्त्रीभिः रमन्तं गन्धर्वं दृष्ट्वा वै कामुकोऽभवत् ।
अथाऽयं पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।। १२।।
ददर्श पद्मां युवतीं पद्मावताररूपिणीम् ।
मनोरमां विलोक्यैव दारसंग्रहभावनः ।। १ ३।।
केयं कस्येति पप्रच्छ समीपस्थाँस्तपस्विनः ।
ते च निवेदनं चक्रुः पद्माऽनरण्यजा त्विति ।। १४।।
मुनिः स्नात्वाऽभीष्टदेवं सम्पूज्य पुरुषोत्तमम् ।
जगाम कामी भिक्षार्थमनरण्यसभाऽजिरे ।। १५।।
राजा दृष्ट्वा मुनिं शीघ्रं प्रणनामाऽतिभक्तितः ।
मधुपर्कादिकं दत्वा पूजयामास सादरम् ।। १६।।
मुनिर्विज्ञापितो राज्ञा यथेष्टं वरणाय वै ।
पिप्पलादस्तदा पद्मां ययाचे कन्यकां शुभाम् ।। १७।।
श्रुत्वा मौनी नृपो जातः किञ्चिन्निर्वक्तुमक्षमः ।
मुनिः प्राह तदा तं वै देहि कन्यां नृपोत्तम! ।। १८।।
अथवा भस्मसात् सर्वं करिष्यामि क्षणेन वै ।
सर्वे बभूवुराच्छन्ना भृत्याश्च मुनितेजसा ।। १ ९।।
शुशोच राजा राज्ञी च दृष्ट्वा वृद्धं ज्वरान्वितम् ।
महिष्यः शुशुचुः सर्वा इतिकर्तव्यताऽक्षमाः ।।1.372.२० ।।
कन्यामाता विललाप कन्यादुःखं विचिन्त्य वै ।
तद्विलोक्य पिप्पलादो बोधयामास भूमिपम् ।।२ १ ।।
महिषीं नृपपुत्राँश्च भृत्याँश्च कन्यकां तथा ।
अद्य वाऽन्यदिवसे वा दातव्या कन्यका भवेत् ।।२२।।
यस्मै कस्मै प्रदातव्या देहि विप्राय मे नृप! ।
सत्पात्रं ब्राह्मणादन्यन्न पश्यामि जगत्त्रये ।।२३।।
पराय विप्रादन्यस्मै नैव त्वं दातुमर्हसि ।
सुतां दत्वा च मे राजन् रक्षस्व सर्वसम्पदः ।।२४।।
कन्यानिमित्तं सर्वस्वं मा ते भस्मगतं भवेत् ।
इत्येतद्वाक्यमत्युग्रं श्रुत्वा कन्यापि शोभना ।।।२५।।।
पितुर्हितं चिन्तयाना गौरवं तपसामृषेः ।
सर्वसम्पदविघ्नत्वं प्राह राज्ञे प्रदेहि माम् ।।२६।।
ततः सालंकृतां पद्मां राजा राज्ञी ददौ मुदा ।
कान्तां प्राप्य पिप्पलादो मुदितस्तपसा ज्वलन् ।।२७।।
दर्शयामास रूपं स्वं यौवनं योगकृद्बलात् ।
अष्टादशसमायोग्यं कन्यायोग्यं हि कामदम् ।।२८।।
राजादयोऽतिसंहृष्टाः कन्या तुतोष चान्तरे ।
यौतकं च तथा कान्तां गृहीत्वा मुनिराड् ययौ ।।२९।।
अनरण्यः पूर्णमना जगाम तपसे ततः ।
मनो मोक्षे दधौ तत्र चिन्तयन् राधिकेश्वरम् ।।1.372.३ ० ।।
कृष्णनारायणं प्राप्य गोलोकं संजगाम ह ।
कीर्त्यरण्यो ज्येष्ठपुत्रो राज्यं तस्य चकार वै ।।३ १ ।।
अथाऽनरण्यस्य कन्या सिषेवे भक्तितः ऋषिम् ।
कर्मणा मनसा वाचा लक्ष्मीनारायणं यथा ।।३२।।
पातिव्रत्यपरा नित्यं सेवते श्रीहरिं यथा ।
अंगसंमर्दनं मुनेः पादसंवाहनं मुहुः ।।३ ३ ।।
कामेच्छापूरणं शश्वच्चक्रेऽनुवृत्तिमाश्रिता ।
स्नात्वा स्नापयति भुंक्ते भोजयित्वा द्विजं पतिम् ।। ३४
स्वापयित्वा स्वपित्येव चानुतिष्ठति कर्मसु ।
यथा वै तापसो वृद्धो राजसोऽथ युवा मुनिः ।।।३५
प्रसन्नः स्यात्तथा सेवां करोत्यहर्निशं सती ।
मन्यमाना स्वकं भाग्यं श्रेष्ठाच्छ्रेष्ठतमं सदा ।।।३६
यदहं ब्राह्मणं प्राप्तास्तत्रापि मुनितापसम् ।
पवित्रं पुण्यरूपं च नारायणस्वरूपिणम् ।।।३ ७
योगिनं चात्मवेत्तारं काऽन्या धन्या मया समा ।
पवित्राऽहं सदा जाता ह्यर्थिता ऋषिणा स्वयम् ।। ३८
मम भाग्यस्य पारं न पुण्यपारं न विद्यते ।
अनेकजन्मपुण्यैश्च प्राप्यते भगवान्पतिः ।।।३९
सोऽयं साक्षात् कृष्णनारायणो लब्धः पतिर्मया ।
तस्यैव सेवया मुक्तिस्तस्य तोषेऽक्षरं पदम् ।।1.372.४०
तस्यैव हृदये ब्रह्म ब्रह्म लब्धं मया ततः ।
नाऽत्र मे मोक्षणे त्वन्यत्साधनं परिशिष्यते ।।।४१ ।
मम पित्रा शुभं दत्ता स्वस्त्यस्तु जनकस्य मे ।
स्वस्त्यस्तु मम मानुश्च याऽहं जाता सुखाऽन्विता ।।४२।
सर्वं लब्धं मया त्वत्र पिप्पलादे ऋषीश्वरे ।
ज्ञानतृप्ती रतितृप्तिर्भोगतृप्तिश्च लभ्यते ।।।४३ ।
यशस्तृप्तिः ख्यातितृप्तिः पूजातृप्तिश्च लभ्यते ।
राज्यभारो दुःखदोऽति महिषीत्वं ततोऽधिकम् ।।४४।
महिषीणां न वै शान्तिः पञ्जरपक्षिणां यथा ।
धर्मोऽर्थः कामनाऽत्रैव भुज्यते सुखतो मया ।।४५ ।
न तथा तप्तचित्ताभिर्महिषीभिः प्रभुज्यते ।
शुभं जातं तु यज्जातं सर्वं दैवं मयाऽर्जितम् ।।४६ ।
मद्यमांसादनृपतिकरे न पतिताऽस्म्यहम् ।
तदेव पुण्यं मे चात्र प्रहृष्टं रक्षकं मम ।।४७।।
कुमारिका न जानन्ति राजस्यो राजपीडनम् ।
पश्चात् पतित्वा शोचन्ति वयं क्व निरये गताः ।।४८।।
साधुशीलो देवगुणः पतिः सर्वत्र दुर्लभः ।
भोगको मारकः श्वेव पतिः सर्वत्र चाप्यते ।।४९ ।।
भोगैर्देहं क्षपयति पुण्यं नाशयति त्वघैः ।
यमलोकं प्रापयति सुलभस्तादृशः पतिः ।।1.372.५ ० ।।
स्वार्थमात्रपरो यश्च परलोकाऽसहायकृत् ।
न पतिः स यथार्थोऽस्ति यद्योगान्नरकं ध्रुवम् ।।५ १ ।।
तस्मादत्र परत्रैव चाऽर्धांगमिव रक्षति ।
सृष्टौ मोक्षे सुखे दुःखे सहगामी पतिः पतिः ।।५२।।
एतादृशं पतिं प्राप्य या न प्रसेवते तु तम् ।
कर्मणा मनसा वाचा सा भवेद् वञ्चिता सदा ।।५३।।
कुलस्य गुणजालस्य रूपस्य बुद्धिधर्मयोः ।
मानं न सर्वथा रक्ष्यं पत्यग्रे कुलयोषिता ।।५४।।
देहं पतिर्मनः स्वामी त्वभिमानं पतिर्मम ।
कार्यकारणसंघातं सुखं दुःखं पतिर्मम ।।।५५।।
भोज्यं भोगोभोक्तृवृत्तिर्भोग्यं सर्वं पतिर्मम ।
विश्वासो वरदानं च न्यासश्चापि पतिर्मम ।।५६।।
दीनता श्रेष्ठिता स्थैर्यं चानुकूल्यं पतिर्मम ।
व्रतं धर्मस्तथा पुण्यं तीर्थं दानं पतिर्मम ।।५७।।
स्वाध्यायपाठपूजाश्च सन्ध्याधर्मः पतिर्मम ।
उत्सवश्च समाजश्च प्रदर्शनं पतिर्मम ।।५८।।
यानं च नाटकं रम्यं नृत्यं गानं पतिर्मम ।
भवनं राज्यसमृद्धिर्गजवाजं पतिर्मम ।।५९।।
गुरुर्ब्रह्मा हरो विष्णुः सर्वे देवाः पतिर्मम ।
वैश्वदेवोऽतिथेः पूजा प्राघूर्णिकः पतिर्मम ।।1.372.६ ० ।।
गर्भः पुत्रो रतिः प्रीतिर्नैःश्रेयसं पतिर्मम ।
धाम क्षेत्रं धरा राज्यं यत्सर्वस्वं पतिर्मम ।।६ १ ।।
निषेधश्च विधिश्चापि स्वैरिणीत्वं पतिर्मम ।
इति तृप्तिं परां मत्वा सेवां करोमि वै ऋषेः ।।६२।।
एवं नित्यानन्दतृप्ता लक्ष्मि! सा राजकन्यका ।
सिषेवे तमृषिश्रेष्ठं साक्षान्नारायणं यथा ।।६ ३ ।।
तस्या धर्मपरीक्षार्थं धर्मदेवो ह्यचिन्तयत् ।।
कीदृशीयं पातिव्रत्यपरा वर्तत एव नु? ।।६४।।
एकदा स्वर्णदीं स्नातुं प्रयातां सस्मितां सतीम् ।
ददर्श पथि धर्मस्तु मायया नृपलिंगकः ।।६५।।
स्वर्णरत्नरथारूढः स्वर्णरत्नादिभूषितः ।
नवयौवनरूपाढ्यः कामदेव इवाऽपरः ।।६६।।
सुरूपां सुन्दरीं दृष्ट्वा पद्मामुवाच मायया ।
अहो सुरूपा कान्तेयं क्व च क्व जर्जरो मुनिः ।।६७।।
अयि! सुन्दरि! लक्ष्मीव राजयोग्येऽति सूज्ज्वले! ।
प्रकृष्टयौवनस्थे! च कामगर्वहरे! शुभे! ।।६८।।
जरादग्धस्य वृद्धस्य समीपे किं विराजसे? ।
काष्ठपाषाणतुल्यस्याऽस्थिमात्रशेषितस्य च ।।६९।।
राजयोग्याऽसि राजेन्द्रि! राजसे राजवक्षसि ।
चन्दनागुरुलिप्तांगा स्वर्णरत्नादिभूषिता ।।1.372.७०।।
दासदासीशतैर्युक्ता सुखिनी भव सुन्दरि! ।
विप्रं तपःकृशं शुष्कं ब्रह्मोन्मुखं क्षिणायुषम् ।।७१ ।।
विहाय पश्य राजेन्द्रं रतौ शूरं भुवां पतिम् ।
स्वर्गसुखस्मृद्धं समावस्थं च मादृशम् ।।७२।।
किं पर्णकुट्यां सुखमस्ति किंचित्,
किं कंधरे पक्षिजटेऽस्ति सौख्यम् ।
किं चाऽस्थिभस्त्रामवलम्बसे त्वम्,
आयाहि चिन्तामणिरच्युतेऽत्र ।।७३।।
प्राप्नुहि चिन्मणिमच्युते मयि,
त्वं कल्पवल्ली भवसीति संवृणे ।
रत्नं पिनद्धं कनके प्रशोभते,
न शंखयोग्ये खलु पाशवे गले ।।७४।।
प्राप्नोति सुन्दरं पुण्यात् सौन्दर्यं पूर्वजन्मतः ।
सफलं तद्भवेत् सर्वं रसिकाऽऽलिंगनेन तु ।।७५।।
यथा कान्ता तथा कान्तं कामकार्यविशारदम् ।
किंकरं कुरु मां कान्ते! सर्वं दास्यामि तेऽनघे ।।७६।।
सजलो निर्जने रम्ये वनेऽरण्ये च पर्वते ।
नद्यां नदे समुद्याने पुष्पिते गन्धशालिनि ।।७७।।
याने विमाने साम्राज्ये मलये रैवते गिरौ ।
अन्ये चन्दनवृक्षाढ्ये विहरिष्यामि वै त्वया ।।७८।।
कामज्वरप्रदग्धायाः शान्तिं कर्तुमहं क्षमः ।
विहरस्व मया सार्धं जन्मेदं सफलं कुरु ।।७९।।
इत्युक्तवन्तं राजानं करे गृहीतुमुत्सुकम् ।
निकटं तु समायान्तं धर्मं प्राह पतिव्रता ।।1.372.८०।।
दूरं गच्छ गच्छ दूरं पापचिन्तापरो ह्यसि ।
मां चेत् स्पृशसि कामेन सद्यो भस्म भविष्यसि ।।८ १ ।।
अहं विवाहिता नारी पिप्पलादर्षिभामिनी ।
पतिव्रता न पश्यामि हृदाऽपि वै नरान्तरम् ।।८२।।।
कथं स्पृशामि पापांशं स्त्रीजितं लम्पटं नृपम् ।
अधर्मिस्पर्शमात्रेण सर्वं पुण्यं विनश्यति ।।८३।।
परनारीं प्रसह्यात्र धर्षितुं त्वं समुद्यतः ।
न भूमौ पातकी त्वादृगन्यो भवति भूपतिः ।।८४।।
अहं ब्राह्मणपत्न्यस्मि तत्र वृद्धतपस्विनः ।
तां मातरं स्त्रीभावं कृत्वा येन ब्रवीषि माम् ।।८५।।
भविष्यति क्षयस्तेऽत्र धर्षितुर्मम शापतः ।
क्षयं याहि ध्रुवं राजन् हृदा पापेन कर्मणा ।।८६।।
श्रुत्वा धर्मः सतीशापं नृपरूपं विहाय तु ।
धर्मदेवः स्वयं भूत्वाऽदृश्यत प्राह तां च सः ।।८७।।
मातर्जानीहि मां धर्मं धर्मज्ञानां गुरोर्गुरुम् ।
परस्त्रीमातृबुद्धिं च कुर्वन्तं लोकरक्षकम् ।।८८।।
अहं तवाऽन्तर्विज्ञातुं समागतोऽस्मि पद्मिके! ।
परीक्षितुं राजरूपं धृतवानस्मि धार्मिके! ।।८९।।
तथापि स्वकृतं किञ्चिदकर्मं भुंजते जनाः ।
मया कृतं चाऽवमानं तव वाक्यैस्तु निष्ठुरैः ।।1.372.९०।।
तत्फलं संप्रभोक्तव्यं मया नास्त्यत्र संशयः ।
कृतं मे दमनं त्वत्र न विरुद्धं यथोचितम् ।।९१ ।।
सर्वथा मे मृतिर्मास्तु सति! तत्प्रार्थये सदा ।
शास्तिः समुत्पथस्यानामीश्वरेण विनिर्मिता ।।९२।।
शासनं त्वत्कृतं चास्तु यथासह्यं तु मे सति! ।
पद्मोवाच तदा धर्म साक्षी त्वमेव देहिनाम् ।।९३ ।।
कथं परीक्षितुं त्वेतद्राजरूप धृतं त्वया ।
यन्निमित्तं मया शप्तश्चापराधोऽभवन्नु मे ।।९४।।
साध्वीशापो न वै मिथ्या जायते तु कदाचन ।
तव नाशे सृष्टिनाशो भवेदेव न संशयः ।।९५ ।।
तस्माद् यथा जीवनं ते शापश्च सार्थको भवेत् ।
तथा वदामि धर्मेन्द्र! शृणु मानवभेदतः ।।९६ ।।
सत्ये जने चतुष्पादो भव त्वं धर्म! सर्वथा ।
त्रेताव्याप्तजने त्वं त्रिपाद् भव वृष सर्वथा ।।९७।।
द्वापरव्याप्तमनुजे द्विपादो धर्म! संभव ।
कलिव्याप्तजने त्वेकपादः शेषेऽस्तु ते लयः ।।९८।।
पशुप्राये जडे धर्म! त्वमाच्छन्नो भविष्यसि ।
सात्त्विके पूर्णता तेऽस्तु राजसादावपूर्णता ।।९ ९ ।।
यद्यत् स्थलं तवाधारं श्रूयतां वृष! वच्मि तत् ।
हरिभक्तेषु सर्वेषु वैष्णवेषु विशेषतः ।। 1.372.१० ०।।
साध्वीषु साधुषु यतिमुनिषु ब्रह्मचारिषु ।
पतिव्रतासु प्राज्ञेषु वानप्रस्थेषु भिक्षुषु ।। १०१ ।।
धर्मशीलेषु सर्वेषु वैश्यक्षत्रियजातिषु ।
द्विजसेविषु शूद्रेषु सतां संगे स्थितेषु च ।। १ ०२।।
अश्वःवटबिल्वेषु तुलसीचन्दनेषु च ।
दीक्षापरीक्षाशपथगोष्ठगोपदभूमिषु ।। १०३ ।।
विवाहेषु च सर्वत्र पुष्पेषु वृक्षजातिषु ।
देवालयेषु तीर्थेषु सतां गेहेषु सर्वदा ।।१ ०४।।
वेदाऽऽम्नायविचारेषु कृष्णकीर्तनकारिषु ।
व्रतपूजातथोन्याययज्ञसाक्षिस्थलेषु च ।। १०५ ।।
गोप्राणिष्वथ हंसेषु गरुडेषु सतीषु च ।
कृशता तेन भविता सत्यस्थलेषु सर्वथा ।। १०६ ।।
कृशता तु तदन्येषु स्थलेषु भविता शृणु ।
पुंश्चलीषु तु सर्वासु नरघातिगृहेषु च ।। १ ०७।।
नीचमूर्खखलनिन्दापरेषु च शठेषु च ।
देवतागुरुविप्रेष्टपाल्यानां धनहारिषु ।। १ ०८।
धूर्तेष्वसत्सु दुष्टेषु चौरेषु व्यवायिषु ।
दुरोदरसुरामांसकलहाऽतिक्रमेषु च ।। १ ०९।।
शालग्रामसाधुतीर्थक्षेत्रसेवाप्रघातिषु ।
दस्युकर्मणि गर्विष्टे मषीजीव्यसिजीविषु ।।1.372.११० ।।
भर्तृनिन्दितनारीषु जीवहिंसोपजीविषु ।
दीक्षासन्ध्याधर्मभक्तिहीनेषु च कलंकिषु ।। १११ ।।
कन्यायोषित्सुरग्रन्थविद्याविक्रयिषु नृषु ।
मित्रद्रोहिकृतघ्नेषु सत्यविश्वासघातिषु ।। ११२।
शरणागतदीनाऽन्धाश्रितघ्नेषु मृषोक्तिषु ।
शश्वन्मिथ्योक्तिशीलेषु तथा सीमापहारिषु ।। ११३ ।।
मिथ्यासाक्षिषु च मिथ्यान्यायदेषु च राजसु ।
पुण्यरोधिषु सर्वेषु न स्थातुं शक्यते त्वया ।। १ १४।।
शुद्धसात्त्विकशान्तेषु चतुष्पात् त्वं सदा वस ।
सत्त्वमिश्ररजोवृद्धौ त्रिपात् त्वं त्रितको वस ।। १ १५ ।।
रजोमिश्रतमोवृद्धौ द्विपात् त्वं द्वापरो वस ।
तमोमात्रहृदयेषु त्वेकपात् त्वं कलिर्वस ।। ११६ ।।
सत्यंं मखस्तपो दानं चतुष्पादाः पुरा तव ।
अहिंसादमनाऽऽस्तिक्यदानान्यद्य पदानि ते ।। ११ ७।।
भाविकाले भविष्यन्ति शीलं शौचं च सेवनम् ।
कीर्तनं चेति पादास्ते क्रमात् ह्रासे तथा वस ।। ११८ ।।
इत्युक्त्वा विररामैनां धर्म आशिष आददौ ।
धन्यासि पतिभक्तासि स्वस्ति तेऽस्तु हि सन्ततम् ।। ११९।।
युवा भवतु भर्ता ते रूपवान् स्थिरयौवनः ।
चिरजीवी भवत्वेव मार्कण्डेयादतोऽधिकम् ।। 1.372.१२० ।।
धनैश्वर्यवती त्वं च संभव स्थिरयौवना ।
माता त्वं दशपुत्राणां भव संचिरजीविनाम् ।। १२१ ।।
श्रुत्वा पद्मा वृषं प्रदक्षिणं कृत्वा प्रणम्य च ।
ययौ स्वं मन्दिरं साध्वी धर्मोऽपि स्वस्थलं ययौ ।। १ २२।।
प्रतिव्रतां प्रशशंस प्रतिसंसदि संसदि ।
पतिव्रतापि सा पद्मा पातिव्रत्यबलात् खलु ।। १२३ ।।
शतपुत्रवती जाता सर्वसौभाग्यसंभृता ।
एवं पतिव्रता नारी धर्मं हन्तुं च रक्षितुम् ।। १ २४।।
स्वयमेव समर्थाऽस्ति कोऽन्यस्तां धर्षयेज्जनः ।
इति ते कथितं लक्ष्मि! पद्माया वै कथानकम् ।। १ २५।।
धर्मपुष्टिकरं शश्वत्पातिव्रत्यबलप्रदम् ।
स्वर्गमोक्षप्रदं चापि सर्वधर्मप्रदं तथा ।। १२६ ।।
पतिसेवाप्रदं चैतत्संसारशमनं परम् ।
भक्त्या शृणुयान्नारी पातिव्रत्ये दृढा भवेत् ।। १ २७।।
श्रोतुर्वक्तुस्तथा रक्षां ध्रुवं धर्मो विधास्यति ।
पातिव्रत्यं प्रपत्तिश्च समानो द्वौ वृषौ सदा ।। १ २८।।
एकेनैवाऽऽप्नुयात्सर्वं द्वितीयाऽपेक्षणं नहि ।
यत्रोभौ तत्र वै लक्ष्मि! किमु वक्तव्यमात्मना ।। १ २९।।
पातिव्रत्यं दासधर्मः प्रपत्तिः स्नेहधर्मिणी ।
दास्यं स्नैह्यं परं लब्ध्वा भुक्तिं मुक्तिमवाप्नुयात् ।। 1.372.१३ ०।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्येऽनरण्यपुत्र्याः पतिव्रतायाः पद्मायाः पिप्पलादेन लग्नं, धर्मकृतपरीक्षायां धर्मस्य शापश्चतुष्पादानां कालक्रमेण ह्रास इत्यादिनिरूपणनामा द्वासप्तत्यधिकत्रिशततमोऽध्यायः ।। ३७२ ।।