लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३७१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३७० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३७१
[[लेखकः :|]]
अध्यायः ३७२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रिये! पत्नि! लोकानामुपकारकम् ।
यमप्रोक्तं च सावित्र्यै कुण्डमानादिकं तु यत् ।। १ ।।
पूर्णेन्दुमण्डलाकारं कुण्डं प्रत्येकमेव वै ।
गभीरं निम्नमत्युग्रकष्टदं न तु नश्वरम् ।। २ ।।
तत्राऽग्निकुण्डकाऽऽयामः शतहस्तमितोऽस्ति वै ।
कोटिशस्त्वग्निकुण्डानां वर्तुलानि भवन्ति हि ।। ३ ।।
प्रत्येककुण्डबाहुल्यं बोध्यं पापिबहुत्वतः ।
तप्तोदकप्रकुण्डं तु क्रोशार्धमानमेव च ।। ४ ।।
तप्तक्षारोदककुण्डं क्रोशमात्रं प्रकीर्तितम् ।
तप्तमूत्रद्रवकुण्डं गव्यूतिमानमेव ह ।। ५ ।।
श्लेष्मकुण्डं क्रोशमितं क्रोशार्धं गरकुण्डकम् ।
नेत्रमलप्रकुण्डं च क्रोशार्धं कीटपूरितम् ।। ६ ।।
वसाकुण्डं क्रोशतुर्यं शुक्रकुण्डं तथा मतम् ।
दुर्गन्धिरक्तकुण्डं च वापीतुल्यं धनुःशतम् ।। ७ ।।
नेत्राश्रुकुण्डं वाप्यर्धं मलकुण्डं तथैव हि ।
कर्णविट्कुण्डकं वापीतुर्यप्रमाणमेव च ।। ८ ।।
मज्जाकुण्डं वापीतुर्यं मांसकुण्डं धनुःशतम् ।
नखकुण्डं लोमकुण्डं चास्थिकुण्डं च दन्तकम् ।। ९ ।।
प्रत्येकं वापिकातुर्यमानं चातिभयानकम् ।
ताम्रकुण्डं तप्तताम्रप्रतिमाकोटिराजितम् ।। 1.371.१० ।।
गव्यूतिमानकं तप्तलोहकुण्डं तथाऽऽयतम् ।
घर्मकुण्डं सुराकुण्डं वाप्यर्धं लोहकुण्डकम् ।। ११ ।।
अधः शाल्मलिवृक्षस्य तीक्ष्णकण्टककुण्डकम् ।
लक्षपौरुषनिम्न च क्रोशमानं च वर्तुलम् ।। १ २।।
धनुर्मानाः कण्टकाश्च भित्तिषु परितः स्थिताः ।
विषकुंडं क्रोशमानं शस्त्रकुण्डं तथाऽऽयतम् ।। १ ३।।
प्रतप्ततैलकुण्डं च द्विगव्यूतिप्रमाणकम् ।
शस्त्रतल्पप्रकुण्डं च क्रोशतुर्यप्रमाणकम् ।। १४।।
क्रोशार्धं पूयकुण्डं च दन्तकुण्डं तथाऽऽयतम् ।
द्विगव्यूतिप्रमाणं च हिमतोयप्रकुण्डकम् ।। १५।।
मक्षिकादंशकुण्डे च क्रोशार्धं सम्मतं तथा ।
वज्रवृश्चिककुण्डेे च वाप्यर्धे समतायते ।। १६ ।।
शरकुण्डं च वाप्यर्थं नक्रकुण्डं तथाऽऽयतम् ।
काककुण्डं धनुर्लक्षं गृध्रकुण्ड तथाऽऽयतम् ।। १७।।
वाजकुण्डं तथा दीर्घं वज्रकुण्डं धनुःशतम् ।
तप्तपाषाणकुण्डं च वापीद्विगुणकायतम् ।। १८।।
लालाकुण्डं क्रोशमानं तप्ततोयं धनुःशतम् ।
चूर्णकुण्डं क्रोशमानं क्रोशतुर्यं तु चक्रकम् ।। १ ९।।
कुलालचक्रवद्घूर्ण्यमानं षोडशधारकम् ।
ज्वालाकुण्डं कच्छपादिकुण्डं च क्रोशमानकम् ।।1.371.२ ०।।
क्रोशमानं तप्तभस्मकुण्डं ध्वान्तं च क्रोशकम् ।
दग्धकुण्डं क्रोशमात्रं तप्तक्षारं तथाऽऽयतम् ।।२१ ।।
तप्ततोयप्रकुण्डं द्विगव्यूतिमानमेव च ।
उत्तप्तसूर्मिकुण्डं च ह्यसिपत्रवनं तथा ।।२२।।
क्रोशार्धमानमेवेति रक्तकुण्डं तथाऽऽयतम् ।
क्षुरास्त्रकुण्डकं धनुःशतमानं भयंकरम् ।।२३ ।।
सूचिकुण्डं तु पञ्चाशद्धनुर्मानं विभेदकम् ।
गोधाकुण्डं कुपरूपं धनुर्विंशतिमानकम् ।। २४।।
कुण्डं नरमुखाकारं धनुःषोडशमानकम् ।
गजकुण्डं गजदन्तैर्घातकं वै धनुश्शतम् ।।२५।।
धनुस्त्रिंशत्प्रमाणं च स्मृतं गोमुखकुण्डकम् ।
कालचक्रं भ्रमिकुण्डं द्विगव्यूतिप्रमाणकम् ।। २६ ।।
लक्षमानवकुण्डं च तैललोहोपलान्वितम् ।
तप्तं च वह्निना चतुर्गव्यूतिमानकं हि तत् ।।२७।।
यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि! ।
चतुर्गुणास्ततः कुंभीपाके सन्ति महत्तमे ।।२८ ।।
सर्वकुण्डप्रधानं तु कुंभीपाकं प्रकीर्तितम् ।
कालसूत्रं तप्ततोयं कुण्डं कोदण्डविंशतिम् ।।२९।।
धनुश्शतमवटोदं व्याधिरोगप्रपूरितम् ।
तप्तपांसुप्रकुण्डं च धनुःशतं प्रदाहकम् ।।1.371.३ ० ।।
क्रोशार्तनादकुण्डं च धनुर्विंशतिमानकम् ।
शूलकुण्डं तथामानं क्रोशार्धं हिमतोयकम् ।।३ १ ।।
धनुर्विंशतिमानं तु चोल्काकुण्डं प्रकीर्तितम् ।
अन्धकारप्रकुण्डं च धनुश्शतं महत्तरम् ।।३२।।
धनुर्विंशतिमानं तु वेधनं शस्त्रकुण्डकम् ।
धनुःषोडशमानं तु दण्डताडनकुण्डकम् ।।३ ३ ।।
धनुस्त्रिंशत्प्रमाणं च जालकुण्डं प्रकीर्तितम् ।
लौहवेदिचूर्णकुण्डं कोटिमानवमानकम् ।।३४।।
मूर्छाकुण्डं ध्वान्तयुक्तं धनुर्विंशतिमानकम् ।
धनुःषोडशमानं च दलनं कुण्डमुच्यते ।।३५।।
तप्तवालुकिकाकुण्डं धनुस्त्रिंशत्प्रमाणकम् ।
चर्मकषायकुण्डं च दुर्गन्धं वै धनुःशतम् ।।३६ ।।
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम् ।
अग्निशिखं तथा कुण्डं धनुर्विंशतिमानकम् ।।३७।।
ज्वालामुखं जिह्मकुण्डं वाप्यर्धं परिकीर्तितम् ।
धूम्रकुण्डं धनुःशतं विषधूम्रादिसंभृतम् ।।३८।।
धनुश्शतं नागपूर्णं नागवेष्टनकुण्डकम् ।
षडशीतिश्च कुण्डानि तान्युक्तानि मया सति! ।।३९।।
सावित्रि! वद् चान्यद्वै यदि श्रोतुं समिच्छसि ।
सावित्री तु तदा प्राह सन्तुष्टा देहिदुर्लभाम् ।।1.371.४०।।
कृष्णनारायणभक्तिं भागवतवृषात्मिकाम् ।
तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिना कृता ।।४१ ।।
किं तज्ज्ञानं मया ग्राह्यं सारभूतं वदात्र मे ।
सर्वदानं ह्यनशनं तीर्थस्नानं व्रतं तपः ।।।४२।।
अज्ञाने ज्ञानदानस्य कलां नार्हन्ति षोडशीम् ।
पितुः शतगुणा माता मातुः शतगुणो गुरुः । ।४३ । ।
इति श्रुत्वा यमः प्राह भक्तिस्ते चास्तु केशवे ।
शेषः सहस्रवक्त्रैश्च नहि यां वक्तुमीश्वरः ।।४४।।
शंभुः पञ्चमुखैश्चापि ब्रह्मा चतुर्मुखैस्तथा ।
कार्तिकः षण्मुखैश्चापि नहि यां वक्तुमीश्वराः ।।४५।।
सरस्वती गणेशश्च सनत्कुमार इत्यपि ।
धर्मः सनकः सनन्दः कपिलश्च सनातनः ।।४६।।
सूर्यः पत्नीव्रतश्चापि नारदो ब्रह्मणः सुताः ।
न यां वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा ।।४७।।
के वाऽन्ये च वयं के च भगवद्भक्तिवर्णने ।
कश्चित् किञ्चिद् विजानाति भगवद्गुणकीर्तनम् ।।४८।।
ततः किञ्चिद् विजानाति ब्रह्मा लोकपितामहः ।
ततः किञ्चिद्विजानाति गणेशो ज्ञानिनां गुरुः ।।४९।।
सर्वातिरिक्तं जानाति सर्वज्ञः शंभुरेव तु ।
ततोऽप्यधिकं जानाति लक्ष्मीरेव न संशयः ।।1.371.५०।।
राधा प्रभा माणिकी च पार्वती च जयादयः ।
जानन्त्येव परां भक्तिं मुक्ता जानन्त्यसीमतः ।।५१ ।।
कृष्णनारायणेनैव पुरुषोत्तमरूपिणा ।
श्रीकृष्णे स्वस्वरूपे च ज्ञानं सर्वं सुरक्षितम् ।।५२।।
दत्तं तु शंभवे ज्ञानं कृष्णेन परमात्मना ।
अतीव निर्जने रम्ये गोलोके रासमण्डले ।।५३।।
धर्माय कथयामास शिवलोके शिवः स्वयम् ।
धर्मस्तत्कथयामास पुष्करे भास्कराय च ।।५४।।
सूर्यो मां कथयामास कृष्णभक्त्यादिकीर्तनम् ।
पूर्णं सोपि न जानाति तदन्यस्य तु का कथा ।।।५५।।
सर्वान्तरात्मा भगवान् कृष्णनारायणो हरिः ।
सर्वसाक्षी सर्वरूपी सर्वकारणकारणम् ।।।५६।।
रूपं विधत्ते युगलं भक्तानुग्रहहेतवे ।
कमनीयं सुन्दरं च किशोरं घनरूपकम् ।।५७।।
कोटिकन्दर्पलावण्यं शृंगाररससंभृतम् ।
पद्मपत्रप्रभानेत्रं पार्वणेन्दुसमाननम् ।।५८ ।।
भूषारत्नधरं पीताम्बरं राधादिसेवितम् ।
रासमध्ये रत्नसिंहासनस्थं वंशिकाधरम् ।।५९।।
वनमालाकौस्तुभादिशोभितं सस्मितं वरम् ।
कुंकुमागुरुकस्तूरीचन्दनादिसमर्चितम् ।।1.371.६० ।।
चारुचम्पकमालाब्जमालतीमाल्यमण्डितम् ।
चंचत्सूक्ष्मातितेजस्विचूडावक्त्रिमराजितम् ।।६ १ ।।
ब्रह्मविष्णुशिवा अनिरुद्धप्रद्युम्नकर्षणाः ।
सृष्टिं पुष्टिं संहृतिं च प्रकुर्वन्ति यदाज्ञया ।।६२।।
यत्प्रसादाद् वाति वातस्तपतः सूर्यचन्द्रकौ ।
वर्षतीन्द्रो महाकालः करोति कवलं तथा ।।६३।।
वह्निरुष्णो जलं शीतं यत्कृतं सर्वमेव तत् ।
दिशो रक्षन्ति दिक्पाला ग्रहा भ्रमन्ति यद्भयात् ।।६४।।
वृक्षाः फलन्ति पुष्प्यन्ति ऋतवः क्रमग्रामिनः ।
स्थले जले तथाऽऽकाशे जीवन्ति जन्तवस्तथा ।।६५।।
यदाज्ञया यमो न्यायप्रदाता धर्मदो वृषः ।
ज्वलदग्नौ पततश्च गभीरे च जलार्णवे ।।६६।।
वृक्षाग्रे तीक्ष्णखड्गाग्रे सर्पादीनां मुखेषु च ।
नानाशस्त्रास्त्रसंग्रामे रणेषु विषमेषु च ।।६७।।
यत्प्रसादाद्भवेद्रक्षा यत्कोपान्नाशनं तथा ।
धत्ते वायुरनलाग्निमनलो वारिसागरान् ।।६८।।
वारि कूर्मं महाकूर्मोऽनन्तं सर्पं स मेदिनीम् ।
सा समुद्रान्पर्वताँश्च यत्कृपया स गीयताम् ।।६९।।
इन्द्रायुश्चापि दिव्यानां युगानामेकसप्ततिः ।
अष्टाविंशच्छक्रपाते ब्रह्मणः स्यादहर्निशम् ।।1.371.७०।।
एवं त्रिंशद्रात्रिदिनैर्मासो द्वाभ्यामृतुस्तथा ।
ऋतुभिः षड्भिरेवाब्दं शताब्दं ब्रह्मणो वयः ।।७१।।
ब्रह्मणस्तु निपाते वै वैराजस्य दिनं भवेत् ।
वैराजशतवर्षाणि महाविष्णोर्दिनं भवेत् ।।७२।।
महाविष्णोः शतवर्षं दिनं प्राधानपौरुषम् ।
तस्य वर्षशतं स्यात्तु दिनं प्राकृतपौरुषम् ।।७३।।
तस्य वर्षशते चक्षुःपक्ष्मोन्मेलो हरेर्भवेत् ।
सोऽयं हरिः स्वयं श्रीशः कृष्णनारायणः प्रभुः ।।७४।।
विष्णुर्ब्रह्मा हरः सर्वे कृष्णात्मका न संशयः ।
चक्षुर्निमीलने तस्य लयः प्राकृतिको भवेत् ।।७५।।
प्राकृताकृतयः कृष्णे लीयन्ते नाभिपंकजे ।
विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः ।।७६।।
लीयन्ते वामपार्श्वे ते कृष्णस्य परमात्मनः ।
शिवो ज्ञाने हरेर्लीनो दुर्गा बुद्धौ लयं व्रजेत् ।।७७।।
स्कन्दो लीनो वक्षसि श्रीकृष्णबाहौ गणेश्वरः ।
पद्मा राधा च गोप्यश्च कृष्णप्राणे लयं गताः ।।७८।।
सावित्री तु सरस्वत्यां सा जिव्हायां परात्मनः ।
कृष्णलोमसु गोपाश्च प्राणेषु पवनादयः ।।७९।।
हुताशनो जठराग्नौ जलं तद्रसनाग्रके ।
वैष्णवाश्चरणाम्भोजे भक्तिधर्मौ हृदन्तरे ।।1.371.८०।।
ईश्वरा यस्य वै मूर्तेरैश्वर्याणि भवन्ति हि ।
यस्यैव लोमकूपेषु विश्वानि निखिलान्यपि ।।८ १ ।।
यस्य चक्षुर्निमेषेण भावकार्यलयो भवेत् ।
चक्षुरुन्मीलने सृष्टिर्यस्यैव परमात्मनः ।।८२।।
एवं सृष्टिलयानां तु संख्या नास्त्येव सुव्रते! ।
तद्गणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु तु कः क्षमः ।।८३ ।।
प्रधाना तु हरेर्भक्तिर्मुक्तेरपि गरीयसी ।
कर्तव्या सा लयपारं गन्तुमिच्छसि चेत् सुते! ।।८४।।
सालोक्यदा हरेरेका चाऽन्या सारूप्यदा हरेः ।
सामीप्यदा ततोऽन्या च सार्ष्टिदा च ततोऽपरा ।।८५।।
एकत्वप्रापिका त्वन्या भक्ता वात्र्च्छन्ति नैव ताः ।
सेवनं तु परित्यज्य वाञ्च्छनीयं न वै क्वचित् ।।८६ ।।
मुक्तिस्तु सेवारहिता भक्तिः सेवाविवर्धिनी ।
भक्तियुक्त्योरयं भेदो भक्तिः कार्या ततः सदा ।।८७।।
शरीरेणेन्द्रियैः सर्वैरन्तःकरणैः सर्वथा ।
क्रिया बुद्ध्यर्पणं कृष्णनारायणे हि मोक्षकृत् ।।८८।।
नार्या पुंसा समर्प्यैव कार्या सेवा हरेः सदा ।
स्नेहेन सर्वथा देवि! ज्ञानं सारतरं त्विदम् ।।८९।।
गच्छ सावित्रि! पतिना साकं च सुखिनी भव ।
इत्युक्त्वा सूर्यपुत्रश्च ह्यर्पयित्वा च तत्पतिम् ।।1.371.९०।।
तस्यै शुभाशिषं दत्वा गमनं कर्तुमुद्यतः ।
दृष्ट्वा यमं तु गच्छन्तं सावित्री तं प्रणम्य च ।।९१ ।।
आविले चक्षुषी कृत्वा धृत्वा शिरः सुपादयोः ।
वियोगशोकं प्राप्ताऽभूत् सद्विच्छेदो हि दुःखकृत् ।।९२।।
कृपालुस्तु यमः प्राह मा शोकं कुरु भामिनि! ।
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च सर्वथा ।।९३ ।।
नरनारायणखण्डे गोलोकं यास्यसि ध्रुवम् ।
गत्वा गृहं व्रतं भद्रे! सावित्र्यास्त्वं तथा कुरु ।।९४।।
द्विसप्तवर्षपर्यन्तं नारीणां मोक्षदं हि तत् ।
ज्येष्ठे शुक्लचतुर्दश्यां सावित्र्या हि व्रतं कुरु ।।९५।।
शुक्लाष्टम्यां भाद्रपदे महालक्ष्म्या व्रतं कुरु ।
द्व्यष्टवर्षव्रतं चेदं प्रत्यब्दं पक्षमेव हि ।।९६ ।।
कार्तिककृष्णकाऽष्टम्यां कृष्णनारायणव्रतम् ।
कुरु भक्त्या परया त्वं यास्यस्यन्ते हरेः पदम् ।।।९७।।
प्रतिमंगलवारे च देवीं मंगलचण्डिकाम् ।
प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मंगलदायिनीम् ।।९८।।
राधां चाषाढसंक्रान्त्यां पूर्णायां कार्तिकेऽपि ताम् ।
प्रतिमासं सिताष्टम्यां दुर्गां दुर्गातिनाशिनीम् ।।।९५।।
या नारी पूजयेद् भक्त्या कंभरां सुखदां सतीम् ।
शुक्लाष्टम्यां तथा प्रीत्या सा याति परमां गतिम् ।। 1.371.१०० ।।
धनसन्तानलब्ध्यर्थं पतिपुत्रवतीं सतीम् ।
पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च ।। १०१ ।।
पूजयमाना सुखिनी भूत्वाऽन्तेऽक्षरमाप्नुयात् ।
इत्युक्त्वा तां सतीं नत्वा यमराजो ययौ गृहम् ।। १ ०२।।
गृहीत्वा स्वामिनं सूक्ष्मं सावित्री स्वालये ययौ ।
सत्यवानुत्थितो द्राग्वै जीवितोऽभूत् सुषुप्तितः ।। १०३ ।।
आनन्दः सर्वथा तत्र समभूत्। पत्तने गृहे ।
सावित्री सत्यवन्तं च वृत्तान्तं तु यथाक्रमम् ।। १ ०४।।
अन्याँश्च कथयामास श्रुत्वाऽऽश्चर्य ययुश्च ते ।
सावित्रीजनकः पुत्रशतं प्राप यथाक्रमम् ।। १ ०५६।।
श्वशुरश्चाक्षुषी राज्यं प्रापदारिद्रथनाशकम् ।
सा च सत्यवतः पुत्रशतं प्राप क्रमेण च ।। १०६ ।।
एवं लक्ष्मि! पातिव्रत्यप्रभावेण सतीवरा ।
मृत्युपराजयं चक्रे प्रत्युत प्राप सम्पदम् ।। १ ०७।।
पातिव्रत्यं पालितं चेत् कामधेनुसमं हि तत् ।
कल्पवृक्षसमं चापि चिन्तामण्यधिकं तथा ।। १ ०८।।
योगिनां योगसम्पत्तेः पातिव्रत्यं विशिष्यते ।
न चौरहार्यं न क्लेश्यं न वियोजनधर्मकम् ।। १ ०९।।
सदात्मनि दृढे धर्मे स्थितं निगूढमेव तत् ।
सा तु भुक्त्वा सुखं लक्षवर्षं भूमौ महासती ।। 1.371.११ ०।।
जगाम स्वामिना सार्धं गोलोकं दिव्यरूपिणी ।
वैहायसा विमानेन ययौ देवैः सुवन्दिता ।। १११ ।।
द्वितीयेन स्वरूपेण सवितुश्चाधिदेविका ।
वेदानां चापि सावित्री मन्त्राधिष्ठातृदेवता ।। १ १२।।
सैव जाताऽनन्तरूपा पुरुषोत्तमभक्तितः ।
इति ते कथित लक्ष्मि! सावित्र्याख्यानमुत्तमम् ।। ११ ३।।
या चेदं शृणुयान्नारी सतीत्वं त्वाप्नुयाद् ध्रुवम् ।
पातिव्रत्यं विना त्वन्यं धर्मं मुख्यं न वै चरेत् ।। १ १४।।
सर्वं पतिप्रतिमायां मुक्तिर्भक्तिश्च विद्यते ।
सर्वाश्च सिद्धयः पत्युर्भक्तौ तिष्ठन्ति दासिकाः ।। १ १५।।
ऐश्वर्याणि समग्राणि धनधान्याम्बराणि च ।
स्वर्णरौप्यमणिरत्नाभरणानि च सर्वथा ।। १ १६।।
पत्युः पादजले सन्ति पत्यंगुष्ठे समृद्धयः ।
पत्यानने महद्ब्रह्म पत्यंगेषु सुखानि वै ।। १ १७।।
पत्युस्तोषे महातोषं आनन्दः पतिखेलने ।
पत्युर्हस्ते महालक्ष्मीः पत्युदरे स्वरव्ययम् ।। १ १८।।
पत्युर्नाड्यां च तीर्थानि पतिप्राणे हि मोक्षणम् ।
धर्मार्थकाममोक्षाश्च पत्युर्देहे व्यवस्थिताः ।। ११ ९।।
तस्माल्लक्ष्मि! परब्रह्म पतिरेव सतीकृते ।
पतिः कृष्णः पतिः कृष्णनारायणः परेश्वरः ।। 1.371.१ २०।।
पतिर्विष्णुर्वासुदेवः पतिः श्रीपुरुषोत्तमः ।
सर्वे देवास्तथा वेदा यज्ञा जपाश्च मालिकाः ।। १२१ ।।
दक्षिणादानरीतयो ज्ञानानि विविधानि च ।
योगाः परोपकाराश्च तथाऽहिंसादयः शुभाः ।। १२२।।
शुभकर्माणि कार्याणि पूजा व्रतानि सर्वथा ।
स्नानानि चोपरागाश्च संक्रान्तयश्च सर्वथा ।। १२३ ।।
पुण्याहानि च सर्वाणि तथोत्सवाः शुभानि च ।
वैवाहिकानि कार्याणि दैवानि चेतराण्यपि ।। १ २४।।
यात्राश्च देवयानानि सन्ति लक्ष्मि! पतिप्रभौ ।
पतिरेव परंब्रह्म ज्ञात्वा भजेत्पतिव्रता ।।१२५।।
एतस्य पठनाच्चापि श्रवणात् कीर्तनाच्च वा ।
स्मरणान्माननाच्चापि भुक्तिर्मुक्तिः करे स्थिता ।। १२६ ।।
पत्युर्धर्मान्नान्यधर्मः सत्याश्चात्र विशिष्यते ।
सतीधर्मः परोधर्मो हरेः सेवात्मको हि सः ।। १२७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये षडशीतिनरककुण्डपरिमाणानि, सावित्र्यै यमप्रोक्तं ज्ञानभक्त्यादिकं, सत्यवतो जीवनं, पतिधर्मश्रैष्ठ्यं चेत्यादिनिरूपणनामैकसप्तत्यधिकत्रिशततमोऽध्यायः ।।।३७१ । ।