लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३७०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३६९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३७०
[[लेखकः :|]]
अध्यायः ३७१ →

श्रीनारायण उवाच-
हरेर्भक्तेर्महिमानं श्रुत्वा सती यमं पुनः ।
पप्रच्छ केन विधिना भजनीयो हरिः स्वयम् ।। १ ।।
यमः श्रुत्वा तु सावित्रीं प्राह रीतिं सुमोक्षदाम् ।
शृणु लक्ष्मि! कथयामि यथा प्राह सतीं यमः ।। २ ।।
प्रातरुत्थाय तु कृष्णनारायणं हृदि स्मरेत् ।
मूर्तिं ध्यायेत् सौम्यरूपां चिन्तयेत्तु पुनः पुनः ।। ३ ।।
स्नाने शौचे क्रियायां च बाह्ये चान्तरकर्मणि ।
भोज्ये विहारे शयने गृहकार्ये हरिं स्मरेत् ।। ४ ।।
श्रद्धया परया तत्र हरौ सर्वेन्द्रियाणि वै ।
तथाऽन्तःकरणान्येवं योजयेच्छ्रीहरौ मुदा ।। ५ ।।
पाने निषदने स्वप्ने निद्रायां जाग्रति क्रमे ।
शुभेऽशुभे तथा कार्ये स्मरणीयो हरिः सदा ।। ६ ।।
जिह्वा तत्कीर्तनं कुर्यात्कर्णस्तच्छ्रवणं चरेत् ।
नेत्रं तद्दर्शनं कुर्याद् घ्राणं तद्गन्धमाप्नुयात् ।। ७ ।।
चर्म तत्स्पर्शनं कुर्यात्करस्तत्पादसेवनम् ।
पादस्तन्मन्दिरं गच्छेद् वाणी तद्भजनं चरेत् ।। ८ ।।
मलमूत्रेन्द्रियं विघ्ननाशार्थं गुणतां व्रजेत् ।
आनन्दं श्रीहरेर्लब्ध्वा श्रीहरेर्मननं चरेत् ।। ९ ।।
निर्णयं माननं चापि चिन्तनं श्रीहरेश्च तु ।
एवं सर्वं हरेरेव कुर्यान्नान्यस्य कस्यचित् ।। 1.370.१ ०।।
न स्वार्थं न परार्थं च कुर्याद्धर्यर्थमेव वै ।
तथा कृत्वा नचिरेण हरेर्धामगतिर्भवेत् ।। ११ ।।
इत्युक्ता सा तु सावित्री यमं भक्तवरं परम् ।
ज्ञात्वा यमाष्टकं प्राह शृणु लक्ष्मि! वदामि ते ।। १२।
सूर्यंनारायणस्तीर्थे पुष्करे तपसा पुरा ।
धर्माशं यं सुतं प्राप धर्मराजं नमाम्यहम् ।। १ ३।।
सर्वेषां प्राणिनां कर्मभोगान्तं संविधाय यः ।
शान्तिं करोति यो देवः शमनाय तु ते नमः ।। १४।।
कृतानां कर्मणां त्वन्तं न्यायरीत्या करोति यः ।
सर्वेषां देहिनां सोऽयं तं कृतान्तं नमाम्यहम् ।। १५।।
पापिनां दण्डकर्ता यो दण्डं बिभर्ति शुद्धिदम् ।
शास्त्रे तस्मै नीतियुजे दण्डिने ते नमो नमः ।। १६ ।।
सर्वेषां वस्तुकार्याणां परिच्छेदं करोति यः ।
सर्वायुःकलनं देवं कालरूपं नमाम्यहम् ।। १७।।
जीवान् दण्डप्रदानैर्यो यमयत्येव सर्वथा ।
कर्मानुरूपफलदस्तं यमं प्रणमामि वै ।। १८।।
यथा कर्म तथा दाता न रागान्न च रोषतः ।
तस्माच्छुद्धिकरं मित्रं सर्वमित्रं नमामि च ।। १ ९।।
कृष्णनारायणमूर्तेः समुत्पन्नस्तु यः पुरा ।
ब्रह्मणोंशस्ततो जातस्तं ब्राह्मं प्रणमामि च ।।1.370.२०।।
इत्युक्त्वा तं प्रणनाम यमस्तुष्टो बभूव ह ।
यमाष्टकं पठतस्तु भवेन्नैव यमाद्भयम् ।।२ १ ।।
कायव्यूहेन च शुद्धिः कर्मणां तस्य जायते ।
मुच्यते यमपाशाच्च सतीं प्राहेति धर्मराट् ।।२२।।
यमस्तस्यै कृष्णनारायणमन्त्र प्रदाय च ।
'ओं श्रीकृष्णनारायणं प्रणमामि' त्रिवारकम् ।।२३ ।।
कर्माऽशुभविपाकं च तामुवाच यमः स्वयम् ।
कुकर्मणा जनो याति नरकान् बहुदारुणान् ।।।२४।।
नरकाणां तु कुण्डानि सन्ति नानाविधानि च ।
विस्तृतानि गभीराणि भयक्लेशकराणि हि ।।२५।।
षडशीतिश्च कुण्डानि घोराणि कुत्सितानि च ।
संयमन्यां प्रविद्यन्ते तानि निबोध नामतः ।।२६।।
वह्निकुण्डं तप्तकुण्डं क्षयकुण्डं भयानकम् ।
विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं तु दुःसहम् ।।२७।।
गरकुण्डं दाहकुण्डं वसाकुण्डं तथा महत् ।
शुक्रकुण्डमसृक्कुण्डमश्रुकुण्डं च कुत्सितम् ।।२८।।
मलकुण्डं वीर्यकुण्डं रजःकुण्डं विगन्धकृत् ।
कर्णविट्कुण्डमुग्रं च नखकुण्डं च दुःखरम् ।। २०३।।
मज्जाकुण्डं मांसकुण्डमस्थिकुण्डं च दुःखदम् ।
लोमकुण्डं क्लेशकुण्डं ताम्रलोहप्रकुण्डकम् । ।1.370.३ ० ।।
तीक्ष्णकण्टककुण्डं च विषकुण्डं च दाहकम् ।
घर्मकुण्डं तप्तसुराकुण्डं वृश्चिककुण्डकम् ।।३ १ ।।
तप्ततैलप्रकुण्डं च दन्तकुण्डं च विघ्नदम् ।
कृमिकुण्डं पूयकुण्डं सर्पकुण्डं भयावहम् । ।३ २।।
दंशमशककुण्डं च वज्रदंष्ट्राप्रकुण्डकम् ।
शरकुण्डं शूलकुण्डं खड्गकुण्डं तु वैशसम् ।।३३ ।।
गोधाकुण्डं नक्रकुण्डं काककुण्डं महाभयम् ।
घृष्टिकुण्डं चूर्णकुण्डं बन्धकुण्डं निराश्रयम् ।।३४।।
तप्तपाषाणकुण्डं च तीक्ष्णग्रावाग्रकुण्डकम् ।
लालाकुण्डमसिकुण्डं चूर्णकुण्डं च मर्दनम् ।।३५।।
चक्रकुण्डं वज्रकुण्डं कूर्मकुण्डं महोल्बणम् ।
ज्वालाकुण्डं भस्मकुण्डं पूतिकुण्डं भयावहम् । ।३६ ।।
तप्तसूर्मीमसिपत्रं क्षुरधारं सुचीमुखम् ।
कृकलासप्रकुण्डं च जगदंशं चिपीटकम् ।।३७।।
कुंभीपाकं कालसूत्रमधःकन्धरमुग्रकम् ।
पांशुभोज्यं पाशकण्ठं शूलप्रोतं सुकीलकम् ।।३८।।
उल्कामुखं त्वन्धकूपं वेधनं दण्डताडनम् ।
जालबन्धं देहचूर्णं दलनं शोषणंकरम् ।।३९।।
सर्पज्वालामयं क्ष्वेडधूम्रान्धं नागपाशनम् ।
द्वैधीभावप्रकुण्डं च लावणं कुण्डमित्यपि ।।1.370.४०।।
भगुप्रपातनं चापि वैतरणीप्रपातनम् ।
चर्मोत्कर्तनकुण्डं च भ्राष्ट्रकटाहमित्यपि ।।४१ ।।
कुण्डान्येतानि सावित्रि! पापानां शोधकानि वै ।
पापिनां दुःखदान्येव रक्षितानि यमानुगैः ।।४२।।
दण्डहस्तैः शूलपाशशक्तितोमरहस्तकैः ।
मदोन्मत्तैस्तामसैश्च निर्दयैस्ताम्रपिंगलैः ।।४३ ।।
नानारूपधरैः सर्वाऽधृष्यैर्दृश्यैस्तु पापिनाम् ।
पुण्यकृतामदृश्यैश्च धार्मिकाणां च योगिनाम् ।।४४।।
शृणु केषां कुत्र वासो दण्डरूपोऽस्ति कुण्डके ।
कटुवाण्या खलत्वेन दग्धान् करोति बान्धवान् ।।४५ ।।
गात्रलोमप्रमाणाब्दं वह्निकुण्डं प्रयाति सः ।
दग्ध्वा वह्नौ पातकानि लभेज्जन्मत्रयं पशोः ।।४६ ।।
गृहाऽऽगतातिथिं यो न भोजयेत् स्वाश्रितं तथा ।
लोममानसमास्तप्तकुण्डे स्थित्वा ततः स वै ।।४७।।
उष्णभूमौ मरौ देशे पक्षी स्यात्सप्तजन्मसु ।
रविवाराऽर्कसंक्रान्त्याममायां श्राद्धवासरे ।।४८।।
व्रते क्षारेण वस्त्रस्थकीटानां नाशकस्तु यः ।
क्षारकुण्डं स वै याति सूत्रमानाब्दमेव ह ।।४९।।
व्रजेच्च राजकीं योनिं सप्तजन्मसु सुन्दरि! ।
स्वदत्तां परदत्तां च जीविकां तु हरेद्धि यः ।।1.370.५० ।।
षष्टिवर्षसहस्राणि विट्कुण्डं तु प्रयाति सः ।
षष्टिवर्षसहस्राणि विड्भोजी विट्कृमिस्ततः ।।५१ ।।
तडागं नाशयेद् यस्तु मूत्रकुण्डं प्रयाति सः ।
तद्रेणुमानवर्षं च मूत्रपायी ततो भुवि ।।५२।।
सप्तजन्मसु गोधा स्याद् भित्तिवासकरी गृहे ।
एकाकी मिष्टभुग् याति श्लेष्मकुण्डं समाशतम् ।।।५३ ।।
श्लेष्माभोजी भवेत् प्रेतो मूत्रपूयादिपानकृत् ।
पितरं मातरं पत्नीं गुरुं पुत्रीं सुतं सखीन् ।।५४।।
अनाथं च न पुष्णाति क्ष्वेणकुण्डं प्रयाति सः ।
अब्दसहस्रं तद्भोजी ततः प्रेतः शतं समाः ।।।५५।।
अतिथिं क्रूरभावेन द्रष्टुर्जलं च पिण्डकान् ।
पितृदेवा न गृह्णन्ति कुलनाशस्ततो भवेत् ।।५६।।
तेषां तु घातकानां च मलकुण्डे प्रपातनम् ।
शतं समा मलभोजी ततः स सप्तजन्मसु ।।५७।।
दरिद्रो जायते दुःखी पतितश्च पदे पदे ।
दत्वा दानं तु चैकस्मै त्वन्यस्मै दीयते तु तत् ।।५८।।
वसाकुण्डं प्रयात्येव शतवर्षं वसादनः ।
जन्मत्रयं स चाण्डालः कृकलासश्च सप्तकृत् ।।५९।।
दरिद्रश्च भवेदल्पजीवी च पापकृत्ततः ।
नरो नारी स्वकं शुक्रं रजो वापि परस्परम् ।।1.370.६०।।
पाययत्येव कामाद्वा शुक्रकुण्डं प्रयाति सः ।
शतवर्षं च तद्भोजी योनिकीटः शतं समाः ।।६ १ ।।
अथ पूज्यं ताडयित्वा गुरुं च पितरौ तथा ।
रक्तं प्रवाहयेद् यः स यात्यसृककुण्डमुल्बणम् ।।६२।।
शतवर्षं रक्तभोजी ततो व्याधः प्रजायते ।
सप्तजन्मसु पापानि कृत्वा पुनस्तथा व्रजेत् ।।६३ ।।
अश्रु स्रवन्तं गायन्तं नृत्यन्तं भक्तमेव यः ।
कृष्णाग्रे तु हसन् चाश्रुकुण्डं प्रयाति नर्मकृत् ।।६४।।
शतवर्षं त्वश्रुभोजी चाण्डालः स्यात् त्रिजन्मसु ।
खलो याति गात्रमलकुण्डं दशाब्दकं ततः ।।६५।।
त्रिजन्मसु खरो जम्बूकस्त्रिजन्मसु कष्टवान् ।
बधिरं यो हसत्येव निन्दत्यपि च नर्मकृत् ।।६६ ।।
स याति कर्णविट्कुण्डे तद्भोजी शतवत्सरान् ।
ततो बधिरः सप्तजन्मस्वंगहीनश्च सप्तसु ।।६७।।
जीविकादं तु यो हन्ति मज्जाकुण्डे स गच्छति ।
लक्षवर्षाणि तद्भोजी शशकः सप्तजन्मसु ।।६८।।
मीना एणाः सप्त सप्त ततः शुद्धः प्रजायते ।
कन्याविक्रयिणो यान्ति मांसकुण्डेऽतिदारुणे ।।६९।।
कन्यालोमप्रमाणाब्दं मांसादना हता यमैः ।
स्वमांसं रुधिरं मूर्ध्नस्ते खादन्ति क्षुधार्दिताः ।।1.370.७०।।
षष्टिवर्षसहस्राणि कन्याविट्सु कृमिस्ततः ।
सप्तजन्मसु व्याधः स वराहः कुक्कुरस्ततः ।।७१ ।।
सप्तजन्मसु मण्डूको जलौकाः काक इत्यपि ।
क्षौरं यत्र विधिनाऽऽप्तं न कारयेत्तु यो जनः ।।७२ ।।
नखकुण्डं प्रयात्येव नखभोजी नखाब्दकम् ।
रोमकुण्डे तथा याति रोमभोजी प्रताडितः ।।७३ ।।
सकेशं पार्थिवं लिंगं पूजयेद् यो जनस्तु सः ।
केशकुण्डे प्रयात्येव मृद्रेणुमानवर्षकम् ।।७४।।
ततो वै यवनो वर्षशतं प्रजायते भुवि ।
पितृपिण्डाऽप्रदाताऽस्थिकुण्डे पतति चोल्बणे ।।७५ ।।
ततः खञ्जः सप्तजन्मस्वतिनिर्धन एव च ।
यः सेवते पूर्णमासां गर्भिणीं प्रसवोन्मुखाम् ।।७६ ।।
प्रतप्तताम्रकुण्डे स शतवर्षाणि तिष्ठति ।
रजस्वलान्नं यो भुंक्ते शताब्दं लौहकुण्डके ।।७७।।
पतित्वा राजकीं योनिं चर्मकारी च सप्तसु ।
महाव्रणी दरिद्रश्च जायते तत्परं शुचिः ।।७८।।
यश्च घर्मस्वेदहस्तं देवद्रव्ये सुयोजयेत् ।
शतवर्षप्रमाणं स घर्मकुण्डे हि तिष्ठति ।।७९।।
सुरापश्च सुराकुण्डे चोष्णं याति शतं समाः ।
ततः शूद्रः सप्तजन्मस्वतिनिर्धन एव च ।।1.370.८०।।
कटुवाण्या पतिं वक्ति सा कुण्डे तीक्ष्णकण्टके ।
पतिता ताड्यते दूतैश्चतुर्युगं च तिष्ठति ।।८ १ ।।
अश्विनी जायते पश्चात् पृथिव्यां सप्तजन्मसु ।
विषदाता विषकुण्डे सहस्राब्दं हि तिष्ठति ।।८२।।
विषभोजी नृघाती च वृणी स्यात् सप्तजन्मसु ।
सप्तजन्मसु कुष्ठी च ततः शुद्धः प्रजायते ।।८३ ।।
वृषं भृत्यं ताडयेद् यो दण्डेन तन्नियामकः ।
प्रतप्ततैलकुण्डे स तिष्ठत्येव चतुर्युगम् ।।८४।।
ततो गोरोममानाब्दं वृषो भवति भूतले ।
बडिशेन च कुन्तेन दन्तेन कीलकेन च ।।८५।।
लौहेन हन्ति वृषभं देहिनं प्राणिनं च वा ।
कुन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं खलु ।।८६।।
ततो जलोदररोगी त्वेकजन्मनि जायते ।
अभक्ष्यभक्षी मनुजो कृमिकुण्डं प्रयाति वै ।।८७।।
स्वलोममानवर्षान्ते भुवि म्लेच्छस्त्रिजन्मसु ।
पापान्नभोजी व्रजति पूयकुण्डं शत समाः ।।८८।।
ततः शूद्रः सप्तजन्मस्वतिशूलधरो भवेत् ।
सर्पहा सर्पकुण्डं तु याति सर्पेण भक्षितः ।।८९।।
सर्पविड्भक्षणः पश्चात्सर्पो वै जायते भुवि ।
ततः स्वल्पाऽऽयुरेवाऽयं दद्रुरोगी भवेत्तथा ।।1.370.९०।।
सर्पेण तस्य मृत्युश्च सर्पेण भक्षणं मतम् ।
जीवान् हन्ति स दंशाख्ये कुण्डे पतति पापकृत् ।।९१ ।।
आयुर्दिनाब्दकं स्थित्वा क्षुद्रजन्तुसहस्रके ।
जायते च मुहुः पश्चादंगहीनो भवेद् ध्रुवम् ।।९२।।
मधुहा मक्षिकाघाती सगरे कुण्डके पतेत् ।
स्वायुर्दिनात्मकं स्थित्वा मक्षिकायोनिमाप्नुयात् ।।९३।।
अदण्ड्यदण्डकृत् कुण्डे वज्रकीटे पतेद्ध्रुवम् ।
तल्लोममानवर्षं च स्थित्वा कीटो भवेद् भुवि ।।९४।।
अन्यायधनलो राजा वृश्चिके कुण्डके पतेत् ।
रोमाब्दं दुःखमासाद्य वृश्चिकः सप्तजन्मसु ।।९५।।
ततोऽङ्गविकलो व्याधिग्रस्तो भुवि भवेज्जनः ।
विप्रो धर्मविहीनो वै शरकुण्डे पतत्यथ ।।९६।।
शरविद्धः स्वलोमाब्दं स्थित्वा शुद्धो भवेत्ततः ।
कारागारे बन्धयति जीवान्निर्दोषकान् जनः ।।९७।।
तप्ततोये गोलकुण्डे पतति रोमवत्सरान् ।
कीटैर्विद्धस्ततो नीचभृत्यो वै जायते भुवि ।। ९८।।
नक्रमीनप्रहन्ता च नक्रकुण्डे पतत्यथ ।
नक्रकण्टकमानाब्दं स्थित्वा नक्रस्ततो जले ।।९९।।
अन्यच्छिद्रान्वेषकस्तु काककुण्डे पतत्यथ ।
काकप्रक्षुण्णनेत्रश्च रोमाब्दं तत्र वर्तते ।। 1.370.१० ०।।
सप्तजन्मदरिद्रः स त्रिजन्माऽन्धश्च जायते ।
स्वर्णताम्रलौहचौरो वज्रकुण्डं प्रयाति वै । । १०१ ।।
देवद्रव्यप्रहर्ताऽपि रोमाब्दं वज्रकुण्डगः ।
वज्रैर्हतो भवेत्तत्र वज्रभुग् देहदाववान् ।। १०२ ।।
गवां शुकानां मूर्तीनां चौरस्तप्तोपलाभिधे ।
कुण्डे पतति स्वलोमाब्दं ततो बकस्त्रिजन्मसु ।। १०३ ।।
हंसस्ततः शंखचिल्लस्ततो रक्तादिरोगवान् ।
सप्तजन्मसु चाल्पायुः कूप्यचौरोऽपि तादृशः ।। १ ०४।।
रीतिकांस्यादिचौरश्च तीक्ष्णग्रावाग्रकुण्डके ।
स्वलोमाब्दं वसेत्पश्चादश्वः स्यात् सप्तजन्मसु । । १ ०५।।
ततोऽधिकांगकः कुब्जः पादे रुग्णश्च जायते ।
पुंश्चल्यन्नादतज्जीवी लालाकुण्डे पतेद् ध्रुवम् ।। १०६ ।।
तल्लोमाब्दं लालभोजी चक्षूरोगी च शूलवान् ।
म्लेच्छसेवी मषीसेवी मषीकुण्डेऽतितप्तके ।। १ ०७।।
स्वलोमाब्दं वसेत् पश्चात् कृष्णपशुस्त्रिजन्मसु ।
छागः सर्पस्तालवृक्षस्त्रिषु त्रिषु च जन्मसु ।। १ ०८।।
धान्यताम्बूलतल्पाऽर्घ्याऽऽसनसस्यादिचौरकः ।
शताब्दं चूर्णकुण्डे वै ततो मेषश्च कुक्कुटः ।। १ ०९।।
त्रिजन्मसु ततः कासव्याधिग्रस्तश्च मानवः ।
वंशहीनो दरिद्रश्चाप्यल्पायुर्दुःखवान् भवेत् ।। 1.370.११ ०।।
चक्रशस्त्रादिकर्ता तु शताब्दं चक्रकुण्डके ।
त्रिजन्मसु तैलकारो रोगी वंशहीनस्ततः ।। १११ ।।
प्रतिस्पर्धी मत्सरी च वज्रकुण्डे युगं पतेत् ।
सप्तजन्मसु वक्रांगो भार्यावंशविहीनकः ।। ११२।।
कूर्मादिमांसभुक् कूर्मकुण्डे पतेच्छतं समाः ।
स त्रिजन्मसु कूर्मश्च सूकरोऽपि मयूरकः ।। ११ ३।।
मार्जारश्चापि प्रत्येकं त्रिजन्मसु जायते ।
घृततैलादिचौरस्तु ज्वालाकुण्डे च भस्मनि ।। ११४।।
कुण्डे शताब्दं पतति तैलपः सप्तजन्मसु ।
मत्स्यश्च मूषकः सप्तजन्मस्वथ ततः शुचिः ।। १ १५।।
सुगन्धितैलधात्र्यादिद्रव्यचौरस्तु कुण्डके ।
दुर्गन्धे लोममानाब्दं दुर्गन्धी जायते ततः ।। १ १६।।
दुर्गन्धिकः सप्तजनौ मृगनाभिस्त्रिजन्मसु ।
सप्तजन्मसुगन्धश्च ततः शुद्धो हि मानवः ।। १ १७।।
भूमिहर्ता तप्तशूले तप्ततैले पतेत् ततः ।
सप्तमन्वन्तरं पश्चाद् विट्कृमिरयुतं तु षट् ।। १ १८।।
भूमिहीनो दरिद्रश्च ततो वै शुद्ध एव सः ।
नरघाती चासिपत्रे वसेत्कल्पं ततः पुनः ।। ११ ९।।
ब्रह्महा चेच्छतमन्वन्तरं खड्गवने वसेत् ।
छिन्नांगः खङ्गधारैश्च चाण्डालः शतजन्मसु ।। 1.370.१ २०।।
सूकरः कुक्कुरो गोमायूश्च व्याघ्रो वृकस्ततः ।
गण्डी महिषः प्रत्येकं सप्तजन्मसु जायते ।। १२१ ।।
ग्रामादिदाहकः क्षुरधारे युगत्रयं पतेत् ।
ततः प्रेतो वह्निमुखोऽमेध्यभोजी ततः पुनः ।। १ २२।।
खद्योतश्च सप्तजनौ महाशूली च तावता ।
सप्तजन्मगलत्कुष्ठी ततः शुद्ध्यति वह्निदः ।। १ २३।।
कलंकदो निन्दकश्च सूचिमुखे युगत्रयम् ।
ततो भवेद् वृश्चिकश्च सर्पश्च सप्तजन्मसु ।। १२४।।
वज्रकीटः सप्तजनो भस्मकीटस्ततो नरः ।
गृहभेदी स्तेनकर्ता गोगोधामेषछागकान् ।। १२५।।
प्रत्येकं सप्तजन्मानि ततो रोगी नरोऽधुरः ।
द्रव्यचौरो नक्रमुखो युगं पश्चाच्च रोगवान् ।। १ २६।।
गोगजाश्वनरहन्ता गजदंशे युगत्रयम् ।
ततस्तत्तज्जातिजन्मत्रयं म्लेच्छस्ततो भवेत् ।। १ २७।।
गोजातिदुःखदो याति गोमुखे नरके ध्रुवम् ।
कृमितप्तोदके मन्वन्तरं स्थित्वा च गोवृषः ।। १ २८।।
सप्तजनौ ततो रोगी दरिद्रोऽन्त्यजजातिकः ।
गोब्रह्मसाधुहत्याकृत् स्त्रीमित्रभ्रूणहा तथा ।। १ २९।।
कुंभीपाके पतेत् कल्पं चूर्ण्यते यमदूतकैः ।
वह्नौ क्षणं कुण्डके च तप्ते तैले जले तथा ।। 1.370.१३० ।।
पाषाणे तप्तलौहे च दुःखानि पश्यति ध्रुवम् ।
गृध्रकोटिसहस्राणि शतजन्मानि सूकरः ।। १३१ ।।
काकश्च सप्तजन्मानि सर्पः स्यात्सप्तजन्मसु ।
विट्कृमिश्च वृषलश्च गलत्कुष्ठी ततो भवेत् ।। १ ३२।।
यक्ष्मग्रस्तो वंशहीनो भार्याहीनस्ततः शुचिः ।
श्रीहरौ च श्रीकृष्णे च नारायणे च भूमनि ।। १ ३३।।
वासुदेवे शिवे विष्णौ ब्रह्मणि भेदबुद्धिकृत् ।
ब्रह्महत्याकरो बोध्यो भेदो हत्यासमो मतः ।। १ ३४।।
अक्षरे राधिकायां च लक्ष्म्यां श्रियां रमातनौ ।
पार्वत्यां च प्रभायां च माणिक्यायां च भेदकृत् ।। १ ३५।।
ब्रह्महत्यासमदोषी ललिताजययोरपि ।
भेदकृत् स्वे गुरौ स्वेष्टदेवे पितरि मातरि ।। १३६ ।।
हर्यर्चायां भेदबुद्धिर्ब्रह्महत्यामदूषणम् ।
विष्णोर्नैवेद्यसलिलवर्जितोऽपि तथा मतः ।। १ ३७।।
पितृदेवगुरुपूजानिन्दकोऽपि तथा मतः ।
शिवं विष्णुं शिवां लक्ष्मीं निन्दन्ति ब्रह्मघातिनः ।। १३८ ।।
हरेर्जन्मतिथीन् शैवीं तिथिं चैकादशीं तथा ।
व्रताहानि च निन्दन्ति ब्रह्महत्याकरा हि ते ।। १३९। ।
गुरुं च मातरं तातं साध्वीं भार्यां सुतं सुताम् ।
आश्रितान् यो न पुष्णाति ब्रह्महत्याकरो हि सः । । 1.370.१४० । ।
अपूजकश्च देवानां गोवृषादेश्च ताडकः ।
गोचरादिप्रहर्ता च ब्रह्महत्याकरो हि सः ।। १४१ ।।
गवां दुःखकरः पापं गोहत्याजं लभेत्तथा ।
गवां वृत्तिहरो गाश्च पदा संताडयेत्तु यः ।। १४२।।
योनिजीवी त्रिसन्ध्यादिविहीनो धर्मनाशकः ।
देवपित्रतिथिसेवाहीनो गोघातको मतः ।। १४३ ।।
स्वभर्तरि च कृष्णे च भेदबुद्धिकरी तु या ।
कटूक्त्या ताडयेत् कान्तं सा गोहत्याकरी मता ।। १४४।।
गवां वृत्तिं जीविकां च जलं गृहं तथाऽऽश्रयम् ।
हन्याद् यः स भवेच्चापि गोहत्यापातकी ध्रुवम् ।। १४५। ।
देवपूजाकृते यानि जलान्नकुसुमानि तु ।
तानि यो लंघयेत्पादैर्गोहत्यापापकृद्धि सः ।। १४६ ।।
मिथ्यावादी गुरुद्वेषी देवद्वेषी च पितृद्विट् ।
गोहत्यापापवान् सोपि विज्ञेयो नात्र संशयः ।। १४७। ।
पितुः शतगुणा माता मातुः शतगुणो गुरुः ।
विद्यामन्त्रप्रदाता च गुरुः पूज्यः सदा मतः ।। १४८।।
गुरुतो गुरुपत्नी च गौरवे च गरीयसी ।
यथेष्टदेवपत्नी च पूज्या चाभीष्टदेवता ।। १४९। ।
ब्राह्मणस्तु सुरापाणी विड्भोजी वृषलीपतिः ।
हरिवासरभोजी च कुभीपाकं व्रजेत् सति! ।। 1.370.१५० ।।
गुरुपत्नीं राजपत्नीं सपत्नीमातरं प्रसूम् ।
सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं प्रियाम् ।। १५१ ।।
सोदरभ्रातृजायां च मातुलानीं पितृप्रसूम् ।
मातुः प्रसूं तत्स्वसारं भगिनीं भ्रातृकन्यकाम् ।। १५२।।
शिष्यां च शिष्यपत्नीं च भागिनेयस्य कामिनीम् ।
भ्रातुः पुत्रप्रियां चैवाऽप्यगम्यामाह पद्मजः ।। १५३ ।।
एतासु गमकः कामी ब्रह्महत्याशतं लभेत् ।
स याति कुंभीपाकं तु महापापी सुदुस्तरम् ।। १५४।।
हरेः सेवां विना साध्वि! न लभेत् कर्मखण्डनम् ।
सर्वान्नभोगी संयाति कालसूत्रं शतं समाः ।। १५५।।
ततः शूद्रोऽतिरुग्णः स्याद् दरिद्रो निर्धनस्तथा ।
प्रकोपवदना कोपात् स्वामिनं या तु पश्यति ।। १५६ ।।
कटूक्तिं तं च वदति याति चोल्कामुखं हि सा ।
उल्कां ददाति वक्त्रे च सततं यमकिंकरः ।। १५७।।
दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् ।
ततो भवेन्मानवी च विधवा सप्तजन्मसु ।। १५८।।
या ब्राह्मणी सर्वभोग्या साऽन्धकूपं प्रयाति वै ।
तप्तशौचोदके तप्त्वा कल्पमानं ततः परम् ।। १५९।।
काकी सूकरी कुक्कुटी शृगाली च पारावती ।
वानरी सप्तजन्मानि चाण्डाली च ततो भवेत् ।।1.370.१६० ।।
रजकी तैलकारी च ततः शुद्ध्यति सा सति! ।
वेश्या वसेद् वेधकुण्डे गणिका दण्डताडने ।। १६१ ।।
जालबन्धे पुंश्चली च कुलटा देहचूर्णके ।
स्वैरिणी दलने कुण्डे यावन्मन्वन्तरं वसेत् ।। १६२।।
करे धृत्वा तु तुलसीं प्रतिज्ञां यो न पालयेत् ।
मिथ्या वा शपथं कुर्यात् स तु ज्वालामुखे पतेत् ।। १६३।।
दत्वा तु दक्षिणं हस्तं प्रतिज्ञां यो न पालयेत् ।
स्पृष्ट्वा गां ब्राह्मणं देवं वह्निं साधुं सतीं जलम् ।। १६४।।
न पालयेत्प्रतिज्ञां तु स वै ज्वालामुखे पतेत् ।
मित्रद्रोही कृतघ्नश्च तथा विश्वासघातकः ।। १६५।।
मिथ्यासाक्ष्यप्रदश्चापि स वै ज्वालामुखं व्रजेत् ।
कल्पे वसेत् ततो मूको बधिरश्च त्रिजन्मसु ।। १६६।।
मित्रद्रोही नकुलः स्यात् कृतघ्नश्चापि षण्ढकः ।
विश्वासघाती व्याघ्रश्च मिथ्यासाक्षी तु भल्लुकः ।। १६७।।
व्रतोपवासहीनश्च सद्वाक्यपरिनिन्दकः ।
जिह्मो वसेत्तु हैमे वै नरके तु शतं समाः ।। १६८।।
जलजन्तुः शतजन्मक्रमेण मत्स्यको भवेत् ।
देवादिद्रव्यहारी च धूम्रान्धे पतितो भवेत् ।। १६९।।
चतुर्युगं वसेत्तत्र मूषकः सप्तजन्मसु ।
पशौ पतत्रिणि कृमौ वृक्षजातिषु जायते ।। 1.370.१७०।।
ततो भार्यावंशहीनः शबरो व्याधिमान् भवेत् ।
स्वर्णकारो वणिग् वैद्यो व्यापारी रसविक्रयी ।। १७१ ।।
कूटमानो नागवेष्टं कुण्डं यात्येव दारुणम् ।
ततो गोपो भवेच्चेति ततः शुद्ध्यति वै सति! ।। १७२।।
प्रसिद्धानि तु कुण्डानि कथितानि पतिव्रते! ।
अन्यान्यप्यप्रसिद्धानि यथाकर्म भवन्ति वे ।। १७३ ।।
सन्ति पापप्रकर्तारः कुण्डेषु फलभोगिनः ।
ततो भ्रमन्ति संसारे किंचित्तुभ्यं निवेदितम् ।। १७४।।
सर्वेष्टं सारभूतं तु मंगलं कृष्णसेवनम् ।
जन्ममृत्युजरारोगशोकसन्तापतारणम् ।। १७५।।
भक्तिवृक्षांकुरकरं कर्मवृक्षनिकृन्तनम् ।
सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभे! ।। १७६।।
कुण्डानि यमदूतं च यमं च यमकिंकरान् ।
स्वप्नेऽपि नहि पश्यन्ति सति! श्रीकृष्णसेवकाः ।। १७७।।
हरिव्रतप्रकर्तारो गृहिणस्त्यागिनस्त्रियः ।
ये स्नान्ति हरितीर्थे च नाश्नन्ति हरिवासरे ।। १७८।।
संस्मरन्ति कृष्णनारायणं संपूजयन्ति च ।
न यान्ति ते मम घोरां दुःखां संयमनीं पुरीम् ।। १७९।।
आम्नायन्यायमार्गस्थास्त्यागिनो गृहिणश्च ते ।
शुद्धा धर्मपरा यान्ति कृष्णमन्दिरमक्षरम् ।। 1.370.१८०।।
स्वदूतान्पाशहस्ताँश्च गच्छतस्तान् वदाम्यहम् ।
यास्यथेति तु सर्वत्र हरिभक्ताश्रमं विना ।। १८१ ।।
हरेर्भक्तांश्चित्रगुप्तः पुष्पांजलिं करोति हि ।
मधुपर्कादिकं ब्रह्मा तेषां तु कुरुते सदा ।। १८२।।
मम लोकं सत्यलोकं विलंघ्य गच्छतां सताम् ।
स्पर्शमात्रेण पापानि नश्यन्ति याम्यदेहिनाम् ।। १८३।।
पावनास्ते भागवताः पञ्चभूततनुं विना ।
सूक्ष्मेणैव शरीरेण प्रयान्ति चोर्ध्ववेगिनः ।। १८४।।
ब्रह्मधामसमीपे तु स्नात्वा ब्रह्महृदे च ते ।
सूक्ष्मं विमुच्य मायायां ब्राह्म्या तन्वा तु धामनि ।।१८५।।
आत्माऽऽत्मिकया मोदन्ते बहुशक्तिन्द्रियेन्द्रकाः ।
यमलोकं गता ये तु कर्मफलाय देहिनः ।। १८६।।
बिभ्रति सूक्ष्मदेहं ते नाशो यस्य न जायते ।
स देहो न भवेद् भस्म ज्वलदग्नौ यमालये ।। १८७।।
जले नष्टोभवेन्नैव प्रहारे नापि नश्यति ।
शस्त्रे शास्त्रे कण्टके च शूले तप्तद्रवे तथा ।। १८८।।
तप्ते लोहे च पाषाणे प्रतिकृतौ न नश्यति ।
कर्मफलं तथा भुंक्ते सुखमात्रा न विद्यते ।। १८९।।
कृष्णनारायणधाम्नि दुःखमात्रा न विद्यते ।
तमेव भज सावित्रि! गच्छ कान्तेन मन्दिरम् ।। 1.370.१९०।।
इत्युक्त्वा सा यमेनापि न ययौ मन्दिरं स्वकम् ।
सत्यवन्तं सूक्ष्मदेहं स्वायत्तीकृत्य स्वे हृदि ।।१९१ ।।
जिज्ञासमाना पप्रच्छ कुण्डमानादिकं तदा ।
शृणु लक्ष्मि! कथयिष्ये यमेन यत्तु भाषितम् ।। १९२।।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये सावित्रीकृतयमाष्टकस्तोत्रं, षडशीतिनिरयकुण्डानि, यथाकर्म तत्पातः, ब्रह्महत्यागोहत्याप्रख्यपापानि, भक्तानां यमपराभवो चेत्यादिनिरूपणनामा सप्तत्यधिकत्रिशततमोऽध्यायः ।।३७० ।।