लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३७७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३७६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३७७
[[लेखकः :|]]
अध्यायः ३७८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! स्वयं राधा गोलोकस्था हरिप्रिया ।
पुत्रीं लक्ष्मीं तथा गंगां सरस्वतीं च पद्मिकाम् ।। १ ।।
प्राह धर्मान् पातिव्रत्यपरान् प्रभां शिवां तथा ।
शृण्वन्तु च सुताः सर्वा धर्मान् वदामि शाश्वतान् ।। २ ।।
स्त्रीणां धर्माः पातिव्रत्यं नाऽस्मात्परोऽस्ति कश्चन ।
तत्र भुक्तिर्महामुक्तिरात्मानन्दश्च शाश्वतः ।। ३ ।।
वर्णानामाश्रमाणां च त्यागिनां गृहिणामपि ।
विधवानां वैष्णवानां सतां स्त्रीणां च सर्वथा ।। ४ ।।
पुत्राणां चापि कन्यानां शिष्याणां भृत्यशालिनाम् ।
पातिव्रत्यं परो धर्मः प्रजानां सर्वथा सुताः! ।। ५ ।।
ध्यानपूता सदा नारी कुरुते पतिसेवनम् ।
नित्यं भुंक्ते तत्प्रसादं कृष्णे निवेद्य सर्वथा ।। ६ ।।
विष्णुप्रसादभोक्त्री च जीवन्मुक्ता सती भवेत् ।
नित्यं तपस्यानिरता शुद्धा शान्ता धिया युता ।। ७ ।।
व्रततीर्थाश्रिता नारी सर्वदाऽस्ति पतिव्रता ।
विष्णुमन्त्रं गृहीत्वा च कृत्वा सद्गुरुसेवनम् ।। ८ ।।
प्राप्याऽऽशिषो गुरोः शिष्या सम्पद्यते पतिव्रता ।
गुर्वाज्ञा तु सदा पाल्या सर्वं तस्मै निवेदयेत् ।। ९ ।।
सर्वेषामपि वन्द्यानां पिता चास्ति महान् गुरुः ।
पितुः शतगुणा माता मातुः शतगुणः सुरः ।। 1.377.१० ।।
मन्त्रदः सद्गुरुस्तत्र सुराणां वै चतुर्गुणः ।
नारायणश्च भगवान् गुरुः प्रत्यक्ष ईश्वरः ।। ११ ।।
पतिरेव गुरुर्देवः कृष्णनारायणात्मकः ।
प्रत्यक्षभोक्ता स्वगुरुः स्वयं देही जनार्दनः ।। १ २।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुरेव स्वयं शिवः ।
गुरौ पत्यौ सर्वदेवास्तिष्ठन्ति सततं मुदा ।। १३ ।।
गुरौ तुष्टे हरिस्तुष्टस्तस्मिँस्तुष्टे च देवताः ।
गुरोः पादोदकं पीत्वा तीर्थस्नाता भवेत् सती ।। १४।।
मुच्यते सर्वपापेभ्यो विष्णुलोकाय कल्पते ।
सा स्नाता सर्वतीर्थेषु सर्वयज्ञेषु दीक्षिता ।। १५।।
पतिपादोदकैर्या स्त्री ह्यभिषेकं स्वयं चरेत् ।
गंगाजलाद् दशगुणं शालग्रामजलं शुभम् ।। १६।।
ततोऽपि दशधा श्रेष्ठं पतिपादोदकं मतम् ।
नित्यं या सेवते पत्नी जीवन्मुक्ता सुरोपमा ।। १७।।
साध्वीनां नित्यकृत्यं तु स्वामिप्रसादभोजनम् ।
यत्नेन पूजनं तस्य तत्पादोदकसेवनम् ।। १८।।
पृथिव्यां यानि तीर्थानि पतिपादोदके प्रिये! ।
तिष्ठन्ति पत्निकासेवाफलसिद्ध्यै हि सर्वदा ।। १ ९।।
पतिपादोदकक्लिन्ना यावत् तिष्ठति मेदिनी ।
तावत्पत्नी महालक्ष्मीस्वरूपा पूज्यते सुरैः ।।1.377.२० ।।
स्वामिप्रसादभोक्त्री वै पवित्रां कुरुते महीम् ।
तीर्थानि च प्रजाश्चापि जीवन्मुक्ता यतो हि सा ।। २१ ।।
पतिं प्रति पदा गच्छेद् व्रतानां फलभागिनी ।
पदे पदेऽश्वमेधस्य लभते सा फलं सती ।। २२।।
वह्निवायुसमा पूता तेजसा भास्करोपमा ।
वैकुण्ठे मोदते पश्चात्पत्या च हरिणा समम् ।। २३ ।।
विष्णुमन्त्रोपासिका या वैष्णवी पतिसेविना ।
न हि तस्याः परा देवी पावनी विद्यते भुवि ।। २४।।
हरेर्भक्ता महासाध्वी स्वामिसेवापरायणा ।
वैष्णवी या भवेत्तस्या मुखान्नारायणेति वै ।। २५ ।।
निर्गलितं हरेर्नाम मन्त्ररूपं प्रजायते ।
यस्य कर्णं विशेत् सोऽपि महापूतः प्रजायते ।।२६ ।।
भित्त्वा ब्रह्माण्डमखिलं सोपि यायाद्धरेः पदम् ।
पूर्वान्सप्त परान्सप्त सप्त मातामहादिकान् ।।२७।।
सोदरानुद्धरेद्भक्ता तत्प्रसूँ तत्प्रसूप्रसूम् ।
ऐकान्तिकी वैष्णवी तु पुंसां लक्षं समुद्धरेत् ।।२८।।
वयोहीना ज्ञानहीना विद्याहीनाऽपि सर्वथा ।
जातिहीना क्रियाहीना पातिव्रत्यपरा यदि ।।२९।।
सर्वश्रेष्ठा रमातुल्या कोटिधर्मान्विता हि सा ।
उद्धारयति लोकाँश्च पातिव्रत्यबलात्सती ।।1.377.३ ०।।
वयोहिनस्तथाऽल्पायुर्ज्ञानहीनोऽप्यपण्डितः ।
विद्याहीनो जातिहीनो मूर्खान्मूर्खोऽतिपातकी ।।३ १ ।।
अनाश्रमी यशोहीनो रोगी व्याधिसमन्वितः ।
निर्वंशो वंशहीनश्च भार्याहीनो दरिद्रकः ।।३२।।
विष्णुभक्तिविहीनश्च धर्मकर्मादिवर्जितः ।
उदासीनो दुराचारो धनहीनोऽपि मानवः ।।३३ ।।
सत्याः पतिव्रतायाश्च साध्व्या आशीर्वयोबलैः ।
स्वर्गं स्वेष्टं सुखस्मृद्धिं भुक्तिं मुक्तिं प्रपद्यते ।।३४।।
सन्न्यासार्जनमात्रेण नरो नारायणो भवेत् ।
पतिसेवाप्रलाभेन नारी नारायणी भवेत् ।।३५।।
पूर्वकर्माणि दग्ध्वा च परकर्मनिकृन्तनम् ।
कुरुते सधवा साध्वी गच्छति हरिमन्दिरम् ।।३६।।
सन्न्यासिनां पदस्पर्शात् सद्यः पूता धरा यथा ।
सतीनां तु पदस्पर्शात्तथा पूता वसुन्धरा ।।३७।।
सद्यः पुनन्ति तीर्थानि वैष्णवी वै पतिव्रता ।
पतिव्रतानां वचनान्निष्पापा जायते प्रजा ।।३८।।
पतिव्रतां भोजयित्वा त्वश्वमेधफलं लभेत् ।
नत्वा तां भावतो दृष्ट्वा राजसूयफलं लभेत् ।।३९।।
फलं सन्न्यासिनां तुल्यं यतीनां ब्रह्मचारिणाम् ।
पतिव्रतानां साध्वीनां वैष्णवीनां सदा सुताः ।।1.377.४०।।
ब्राह्मणी पतिहीनापि भवेन्निष्कामिनी सदा ।
एकभुक्ता दिनान्ते सा हविष्यान्नरता भवेत् ।।४१ ।।
न धत्ते दिव्यवस्त्रं च गन्धिद्रव्यं सुतैलकम् ।
स्रजं च चन्दनं चापि शंखसिन्दूरभूषणम् ।।४२।।
सदाऽराजसवस्त्रा स्यान्नित्यं नारायणं भजेत् ।
कृष्णनारायणसेवां कुर्यात्तु नित्यमेव सा ।।४३ ।।
तन्नामोच्चारणं पुत्र्यः! कुर्याच्च भक्तितः सदा ।
पुत्रतुल्यं च पुरुषं पश्येद् वैधव्यधर्मतः ।।४४।।
न तथाऽद्याच्च मिष्टान्नं कामवृद्धिकरं तु यत् ।
वैभवान्नोपयुञ्ज्याच्च पतिं नारायणमृते ।।४५।।
सापि पतिव्रतातुल्या पतिकृष्णपरायणा ।
शृणुयात्तु सतां धर्मान् गुरोः सेवां समाचरेत् ।।४६।।
पातिव्रत्यपरा साध्वी मुच्येत भवबन्धनात् ।
पुत्र्यः शृणुत साध्वीनां कर्तव्यं प्रवदामि वै ।।४७।।
नित्यं तु भर्तर्यौत्सुक्यात् हृदा स्थेयं तु योषिता ।
तस्य पादोदकं भक्त्या भोक्तव्यं तदनुज्ञया ।।४८।।
व्रतं तपस्यां देवार्चां कुर्यात्पतिकृताऽऽज्ञया ।
कुर्याच्चरणसेवां च स्तवनं परितोषणम् ।।४९।।
पत्याज्ञारहितं कार्यं कुर्यान्नैव पतिव्रता ।
नारायणादधिकं वै कान्तं ध्यायेत्तु वै सती ।।1.377.५०।।
परपुंसां रजोभावप्रसंगं नाऽऽचरेत् सती ।
यात्रोत्सवं नर्तनं च गायनं क्रीडनं तथा ।।५१ ।।
पत्यर्थमाचरेत् साध्वी नान्यार्थं वै कदाचन ।
यद्भक्ष्यं स्वामिनो नित्यं साध्वीनां तु तदेव वै ।।५२।।
न त्यजेत्पतिसंगं सा साध्वी सेवापरायणा ।
उत्तरे नोत्तरं दद्यात्स्वामिनस्तु पतिव्रता ।।५३।।
न कोपः कुरुते शुद्धा ताडिता चापि कोपतः ।
क्षुधितं भोजयेत्कान्तं दद्यात्पानं च भोजनम् ।।५४।।
निद्रास्थं तं बोधयेन्न प्रेरयेन्नैव कर्मसु ।
पुत्रस्नेहाच्छतगुणं स्नेहं कुर्यात् प्रिये सती ।।५५।।
पतिर्बन्धुर्गतिर्भर्ता दैवतं कुलयोषितः ।
सुधाधावल्यवदनं कान्तं साध्वी स्मितानना ।।५६।।
पश्येद्वै भक्तिभावेन सर्वसम्पत्करी भवेत् ।
पुरुषाणां सहस्रं च सती स्त्री वै समुद्धरेत् ।।५७।।
पतिः पतिव्रतानां च मुच्यते सर्वपातकात् ।
नास्ति तेषां कर्मभोगः पातिव्रत्यबलात् खलु ।।।५८।।
तया सार्धं कर्मशून्या मोदन्ते हरिमन्दिरे ।
पृथ्व्यां यानि तु तीर्थानि सतीपादेषु तान्यपि ।।५९।।
देवानां च मुनीनां च तेजः सतीषु विद्यते ।
तपस्विनां तपः सर्वं व्रतिनां विद्यते व्रतम् ।।1.377.६०।।
दातॄणां च फलं दाने तत्फलं तासु विद्यते ।
स्वयं नारायणः शंभुर्विधाता देवतादयः ।।६१ ।।
ऋषयो मुनयश्चापि साध्वीतो बिभ्यति ध्रुवम् ।
पतिव्रतां नमस्कृत्य मुच्यते पापबन्धनात् ।।६२।।
त्रैलोक्यं भस्मसात् कर्तुं क्षणेनैव पतिव्रता ।
स्वतेजसा समर्था वै महापुण्यवती सती ।।६३।।
सतीनां च पतिः साधुः पुत्रश्चापि शुचिः सदा ।
नहि तस्य भयं किञ्चिद् देवेभ्यश्च यमादपि ।।६४।।
शतजन्मपुण्यवतां गेहे जाता पतिव्रता ।
पतिव्रताप्रसूः पूता जीवन्मुक्तः पिता तथा ।।६९।।
सती स्त्री प्रातरुत्थाय सन्त्यक्त्वा रात्रिवाससम् ।
भर्तारं च नमस्कृत्य करोति स्तवनं मुदा ।।।।६६।।।
गृहकार्यं ततः कृत्वा स्नात्वा धौते च वाससी ।
गृहीत्वा शुक्लपुष्पं च भक्तितः पूजयेत् पतिम् ।।६७।।।
स्नापयित्वा सुगन्धाढ्यजलेन निर्मलेन वै ।
तस्मै दत्वा धौतवस्त्रे तत्पादौ क्षालयेन्मुदा ।।६८।।
आसने वासयित्वा च दत्त्वा भालेऽस्य चन्दनम् ।
सर्वांगगन्धलेपं च दत्वा मालां गलेऽपि च ।।६९।।
उपचारैः पतिं स्तुत्वा प्रपूज्य प्रणमेत् सती ।
धूपं दीपं जलं भोज्यं दत्वा ताम्बूलीमित्यथ ।।1.377.७०।।
नीराजयेत्पतिं प्रीत्या कृष्णनारायणात्मकम् ।
प्रदक्षिणं नमस्कारं कृत्वा च स्तवनं चरेत् ।। ७१ ।।
 नमः कान्ताय सद्भर्त्रे शिरश्छत्रस्वरूपिणे ।
नमो यावत्सौख्यदाय सर्वदेवमयाय च ।।७२।।
नमो ब्रह्मस्वरूपाय सतीसत्योद्भवाय इव ।
नमस्याय प्रपूज्याय हृदाधाराय ते नमः ।।७३।।
सतीप्राणस्वरूपाय सौभाग्यश्रीप्रदाय च ।
पत्नीनां परमानन्दस्वरूपिणे च ते नमः ।।७४।।
पतिर्ब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः ।
पतिर्वंशधरो देवो ब्रह्मात्मने च ते नमः ।।७५।।
क्षमस्व भगवन् दोषान् ज्ञानाऽज्ञानविधापितान् ।
पत्नीबन्धो दयासिन्धो दासीदोषान् क्षमस्व वै ।।७६।।
राधा प्राह ततः पुत्रीः स्वस्वपतिं प्रति ध्रुवम् ।
स्तवनं चेदृशं कार्यं सर्वेप्सितप्रदं तु वः ।।७७।।
ततः स्तोत्रमिदं पुण्यं सृष्ट्यादौ पद्मया कृतम् ।
सरस्वत्या च धरया गंगया रमया कृतम् ।।७८।।
सावित्र्याऽथ च पार्वत्या मुनिपत्नीभिरित्यपि ।
गीतं स्वस्वपतिं प्राप्य सर्वसामर्थ्यदं ततः ।।७९।।
पतिव्रतानां सर्वासां स्तोत्रमेतच्छुभावहम् ।
प्रसादरूपं चैतद्वै कंभरया कृते युगे ।।1.377.८०।।
महालक्ष्म्या तथा गीतं प्रभया जयया तथा ।
माणिक्यया ललितया मोहिन्या कीर्तितं पुरा ।।८१ ।।
नरो नारीं शृणुयाच्चेल्लभते सर्ववाञ्च्छितम् ।
अपुत्रा लभते पुत्रं निर्धना लभते धनम् ।।८२।।
रोगिणी रोगमुक्ता स्यात् पतिहीना पतिं लभेत् ।
पतिव्रता पतिं स्तुत्वा तीर्थस्नानफलं लभेत् ।।८३।।
फलं च सर्वतपसां व्रतानां च फलं लभेत् ।
स्वर्गं मोक्षं च लभते पतिसन्तोषणात् सती ।।८४।।
यस्य माता गृहे नास्ति नास्ति भार्या पतिव्रता ।
अरण्यो तेन गन्तव्यं नरकान्मुक्तिरेव सा ।।८५।।
पतिं द्वेष्टि सदा दुष्टा विषतुल्यं च पश्यति ।
ददाति तस्मै नाऽऽहारं भर्त्सनं कुरुते सदा ।।८६।।
पूजनीयं मुनितुल्यं पापीयसी तु मानिनी ।
सततं तृणवन्मत्वा न्यक्कारं कुरुते पतिम् ।।८७।।
दुर्वाक्यवह्निना दग्धो मृततुल्यस्तु जीवति ।
यावज्जीवनपर्यन्तं संप्राप्य कुलटां स्त्रियम् ।।८८।।
तादृशी न गृहिण्युक्ता निरया कथिता तु सा ।
गृहिणी तु पतिभक्ता देवदैवतपूजिता ।।८९।।
सा शुद्धा प्रातरुत्थाय नमस्कृत्य पतिं सुरान् ।
प्रांगणे मंगलं दद्याद् गोमयेन जलेन च ।।1.377.९० ।।
गृहकृत्ये च निर्वर्त्य स्नात्वाऽऽगत्य गृहं सती ।
सुरं गुरुं पतिं नत्वा पूजयेद् गृहदेवताम् ।।९१ । ।
पतिं संभोजयित्वा साऽतिथिं सत्कृत्य भावतः ।
पुत्रपौत्रादिसहिता स्वयं भुंक्ते सुखं सती ।।।९२।।
गुरौ पितरि पत्यौ च मातरि श्वशुरेऽपि च ।
श्वश्र्वा कुर्यान्नरबुद्धिं न कदापि पतिव्रता ।।९३।।
पिता माता गुरुर्भार्या शिष्यः पुत्रः सदाऽऽश्रितः ।
अनाथा भगिनी कन्या श्वश्रूः श्वशुर इत्यपि ।।९४।।
पतिस्तद्भ्रातरश्चैते सेव्याः पत्याज्ञया सदा ।
स्त्रीजातिर्वास्तवी शुद्धा ताश्च सर्वाः पतिव्रताः ।।९५।।
सर्वा जातिस्त्वेकरूपा त्वादौ सृष्टा स्वयंभुवा ।
ताः सर्वाः प्रकृतेरंशाः पवित्राः सुखदाः सदा ।।९६।।
उत्तमा पतिभक्ता सा पतिधर्मसमन्विता ।
मध्यमा पतिभक्ता सा स्वार्थसंसाधिकाऽपि या ।।९७।।
कनिष्ठा पतिभक्ताऽपि पत्नी भक्तं पतिं श्रिता ।
तदन्या तु काममात्रपरा परेऽपि संगता ।।९८।।
तिस्रस्तत्र तु धर्माय चतुर्थी धर्महानये ।
बोद्धव्या देहिना शश्वज्ज्ञात्वा योग्यां समुद्वहेत् ।।९९।।
इति ते कथितं लक्ष्मि! यद् राधोक्तं सुताः प्रति ।
ताश्च धर्मान्पातिव्रत्यपरान् श्रुत्वा मुदं ययुः ।। 1.377.१०० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये गोलोके राधिकया स्वपुत्रीभ्यः कथितपतिव्रताचारधर्मपालनमाहात्म्यादिनिरूपणनामा सप्तसप्तत्यधिकत्रिशततमोऽध्यायः ।।।३७७।।