लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३६५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३६४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३६५
[[लेखकः :|]]
अध्यायः ३६६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! दिवि देवा गन्धर्वा मरुतस्तथा ।
ग्रहाश्च केतवो नक्षत्राणि दिक्पालकाश्च ये ।। १ ।।
वसवो निधयो रुद्राः ऋषयो रवयस्तथा ।
देव्योऽप्सरसो मुनयो दास्यः पर्यश्च दासकाः ।। २ ।।
ऐरावताद्याः करिणो दिग्गजा वाजिनस्तथा ।
उच्चैःश्रवःप्रभृतयो हंसाश्च गरुडाः शुकाः ।। ३ ।।
कामधेनवो गावश्च सरमाद्याः श्वजातयः ।
मेषाश्च महिषाश्चापि सिंहा ये देववाहनाः ।। ४ ।।
ते सर्वे कामगा दिव्याः कामरूपधरास्तथा ।
अष्टसिद्धियुताः सर्वे निरावरणदृष्टयः ।। ५ ।।
अप्रतिघातगतयः सर्वभाषाविदश्च ते ।
देवभाषाविदः सर्वे धर्मपुण्यावलम्बिनः ।। ६ ।।
नियमस्था भुंजते स्वःसुखं दीर्घप्रजीवनः ।
मयूरा मूषकाः सर्पा ये देवानां गृहे स्थिताः ।। ७ ।।
ते सर्वे कामरूपध्राः स्वस्वधर्मपरायणाः ।
वर्तन्ते तत्र या त्वेका शुनी त्विन्द्रस्य सेविका ।। ८ ।।
सरमा वर्तते नित्यं पत्यधीना पतिव्रता ।
सरमायाः पतिर्नाम्ना द्युमेयस्त्विन्द्रसेवकः ।। ९ ।।
तत्परा सरमा स्वाभिभक्ता पत्युः प्रियंकरी ।
पत्यादेशस्थिता पतिप्रदत्तभोगकारिणी ।। 1.365.१० ।।
द्युमेयमन्तरा क्वापि नादत्ते भोजनादिकम् ।
येभ्यः केभ्यश्च देवेभ्यो लब्धं समर्प्यं स्वामिने ।। ११ ।।
ततो गृह्णाति वै नित्यं स्वाम्यादेशं करोति च ।
एकदा दिवि विद्युत्सुविद्युन्नामकराक्षसौ ।। १२।।
अकस्मात्तु गतौ योद्धुं सहेन्द्रेण कृते युगे ।
बलिष्ठाभ्यां महेन्द्रस्तु निर्जितः सन् पलायितः ।। १३।।
दासा दास्यो वाहनाद्याः सरमाद्याः पलायिताः ।
मेरोररण्यदेशेषु चक्रुर्गुप्तं निवेशनम् ।। १४।।
राक्षसावपि माहेन्द्रं पद्ं संगृह्य गर्वितौ ।
मोदमानौ विहारार्थं मेरुं प्रति गतौ मुदा ।। १५।।
तत्रारण्ये गुहां दृष्ट्वा सुखदां कामदां शुभाम् ।
मनोहरां विशिष्टां च समध्यास्य प्रतिष्ठितः ।। १६।।
इन्द्रपुरीं समागत्य प्रतिगत्वा च तां गुहाम् ।
रमेतेस्म बहुदासीसंश्लिष्टावुभयाऽसुरौ ।। १७।।
देवास्तु दुःखमापन्नाः विना राजानमिन्द्रकम् ।
मन्त्रयांचक्रुरव्यग्रा ऐन्द्रं पदमभीप्सवः ।। १८ ।।
सर्वे संहत्य सैन्यानि चक्रुस्तयोः सुदंशिताः ।
अब्रवीत्तत्र देवानां गुरुर्बृहस्पतिश्च तान् ।। १ ९।।
गोमेधेन यजध्वं वै प्रथमं विप्णुमीश्वरम् ।
गवां मेध्यानि दुग्धानि घृतानि वह्निमूर्तये ।।1.365.२० ।।
भोजयित्वा बलं प्राप्य यष्टव्य क्रतुभिः पुनः ।
एवंकृते विजयो वो भविष्यति तु नान्यथा ।।२ १ ।।
उपदेशो मया दत्तः क्रियतां शीघ्रमित्ययम् ।
एवमुक्तास्तदा देवाः पायसाद्यर्थमेव गाः ।।२२।।
कामधेनूः समानीय मेर्वरण्ये क्रतुस्थले ।
ररक्षुर्यज्ञकार्यं त्वारेभिरे गुरुयन्त्रिताः ।।२३।।
दुग्धं दधि घृतं सर्पिः प्राज्यं गवां प्रगे च ते ।
क्रत्वग्नौ विष्णवे नित्यं देवेभ्यश्च ददत्यपि ।।२४।।।
दिवा ता धेनवः सर्वा यान्ति शाद्वलभूमिषु ।
आहाराय तृणाद्यर्थ निर्भयासु स्थलीषु च ।।२५।।
इन्द्रस्तत्र तदा देवैशकारितश्च देशितः ।
गवां संरक्षणार्थाय दूतान्प्रेषय नित्यदा ।। २६ ।।
इन्द्रेण सरमा दत्ता शुनी पतिव्रता तदा ।
पातिव्रत्यप्रभावेण सर्वरक्षाकरी सती ।।२७।।
मुमुचुर्गाश्चारणार्थं रक्षार्थं सरमां ददुः ।
देवा हवनं कुर्वन्ति निश्चिन्ता बललब्धये ।। २८।।
तास्तु गावो देवशून्या रक्ष्यमाणास्तृणस्थले ।
तत्र जग्मुस्तदा गावश्चरन्त्यो यत्र तेऽसुराः ।। २९।।
ते तु धेनुकुलं दृष्ट्वा शुक्रमूकः पुरोहितम् ।
पश्य त्वं देवगा ब्रह्मँश्चार्यन्ते रक्षमाणया ।।1.365.३ ० ।।
इन्द्रशून्या सरमया वद विघ्नं यथा भवेत् ।
देवकृते क्रतौ शीघ्रं शाधि कुर्मो वयं तथा ।।३ १ ।।
एवमुक्तस्तदा शुक्रः प्रत्युवाचाऽसुराँस्तदा ।
गा हियन्तां शीवमसुरा मा विलम्बथ क्षणम् ।।३२।।
गावो मूलं हि यज्ञस्य देवानां पुष्टिदास्तु ताः ।
तद्रोधे यज्ञरोधः स्याद् देवा दुःखमवाप्नुयुः ।।३३।।
एवमुक्तास्तदा दैत्या जहस्ता गा यदृच्छया ।
हृतासु तासु सरमा मार्गान्वेषणतत्पराः ।।३४।।
अपश्यत्सा दितेः पुत्रैर्नीता गावः क्रतोर्धराः ।
दैत्यैरपि शुनी दृष्टा दृष्टमार्गा सुरक्षिका ।। ३५।।
दृष्ट्वा ते सरमां प्राहुः सामपूर्वमिदं वचः ।
सरमे त्वं सुरेभ्यस्तु मा निवेद्य सर्वथा ।।३६।।
दैत्यैर्गावो हृताश्चेति मा ब्रूहि ते शुभं भवेत् ।
आसां गवां चातिभिष्ट क्षीरं त्व सरमे शुभे ।।३७।।
पिब स्वैरमिति प्रोक्त्वा तस्यै दुग्धं ददुस्तदा ।
दत्वा तु क्षीरमतुलं तस्यै ते दैत्यनायकाः ।।३८।।
मा भद्रे देवराजाय यास्त्विमा विनिवेदय ।
एवं प्राहुर्मुहुस्तस्यै सा श्रुत्वा प्राह दानवान् ।। ३९।।
यस्याऽन्नं भुंजते भृत्यास्तस्यार्थे भृत्यवर्तनम् ।
तदर्थे प्राणदानं च श्रेयःकृन्न तु चान्यथा ।।1.365.४० ।।
यो भृत्यो वेतनं लब्ध्वा स्वामिनोऽर्थं करोति न ।
स याति रौरवं तर्हि विपरीतस्तु किं लभेत् ।।४१ ।।
नाऽहं देवशुनी देवविपरीता भवामि वै ।
रक्षार्थं विहिता साहं कथं यामि विनाशने ।।४२।।
कथयिष्ये सुरान् दैत्या! वः कृत्यं धेनुलोपनम् ।
रक्षिका भक्षिका नाहं भविष्यामि कदाचन ।।४३ ।।
यस्यान्नकणिका भुक्ता तदर्थं शिरसोऽर्पणम् ।
शूनां जातिस्वभावोऽस्ति भयादपि न मुच्यते ।।४४।।
यदन्नमुदरे जीर्णं तस्याऽहितकर जनः ।
स्वामिघ्नो धर्महन्ता च हन्यते सर्वदैवतैः ।।४५।।
न निष्कृतिर्भवेत्त् तस्य स्वामिविश्वासघातिनः ।
यत्प्राप्यते प्रभुञ्जामः स्वामिनोऽङ्गनरक्षकाः ।।४६ ।।
तिरस्कारे प्रहारेऽपि सन्तुष्टा गुणदर्शिनः ।
स्वामिसेवापरा नित्यं तन्वा वाचा क्रियादिभिः ।।४७।।
एतादृशान् सत्यभूत्यान् स्वामिधर्मपरायणान् ।
रक्षत्येव हरिः साक्षात् कृष्णनारायणः प्रभुः ।।४८।।
नाऽहं पास्यामि गोदुग्धं त्वाज्ञा वै स्वामिनो विना ।
नाऽहं रक्ष्यामि गुप्तं च प्रकाशयिष्ये सत्वरम् ।।४९।।
इत्युक्त्वा सा ततः स्थानादपाससार वेगतः ।
तावद् दैत्या विहन्तुं तां दुद्रुवुर्हेतिभिः सह ।।1.365.५०।।
सरमा प्राह दैतेया! न मां हन्तुं समर्हथ ।
यत्र क्वापि त्रिलोक्यां वै स्त्रियं हन्ति न बुद्धिमान् ।।५१ ।।
इत्युक्ता अपि दैतेयाः श्वानो भूत्वाऽतिकामिनः ।
परिरब्धुं शुनीं तत्र दद्रुवुरतिगर्विताः ।।५२।।
त्रस्ता सस्मार सा देवान् पतिं श्वानं द्युमेयकम् ।
तावत्तत्र समायातो द्युमेयो देवसेवकः ।।५३ ।।
सरमा स्वपतिं नत्वा पीत्वा पतिमुखाम्बुजम् ।
प्राह दैत्यान् पराभावयितुं धर्मपरायणा ।।।५४।।।
यद्यहं स्वामिनो भोज्यं गृह्णामि तत्प्रसादकम् ।
तेन पुण्येन दैतेया दह्यन्तु वह्निनाऽत्र वै ।।५५।।
यद्यहं वचने नित्यं द्युमेयस्याऽस्मि संस्थिता ।
तेन पुण्येन दैतेया दह्यन्तु वह्निनाऽत्र वै ।।५६।।
यद्यहं स्वपतिं हित्वा नान्यं गच्छामि कर्हिचित् ।
तेन पुण्येन दैतेया दह्यन्तु वह्निनाऽत्र वै ।।५७।।
यद्यहं स्वपतितुष्टा नान्यतुष्टा भवामि चेत् ।
तेन पुण्येन दैतेया दह्यन्तु वह्निनाऽत्र वै ।।५८।।
यद्यहं स्वामिकार्येऽपि पतिप्रसन्नतां सदा ।
गृहीत्वैव नियुक्तास्मि दैत्या दह्यन्तु वह्निना ।।।।५९।।।
पत्यौ सुप्ते प्रसुप्ताऽहं भुक्ते भुक्तवती तथा ।
तत्सुखे सुखमापन्ना दुःखे दुःखातिवर्तिनी ।।1.365.६ ०।।
पतिव्रता यथाजाति चेद् भवामि निरन्तरम् ।
तेन पुण्येन दैतेया दह्यन्तु वह्निनाऽत्र वै ।।६१ ।।
इत्युक्तवत्यां दैतेयाः श्वस्वरूपास्तदन्तिके ।
परितो वर्तिकां कृत्वा यावत् स्पृशन्ति तां शुनीम् ।।६२।।
तावदग्निः समुद्भूतो दावाऽनलोऽतिदारुणः ।
दैतेयान्तमभिव्याप्य भस्मीचकार सर्वथा ।।६३।।
शुनी स्वपतिना सार्धमिन्द्रादिदेवताः प्रति ।
समागम्याऽकथयत् तद्वृत्तान्तमखिलं क्रतौ ।।६४।।
देवाः श्रुत्वा गतास्तत्र नीत्वा गा आगमत् क्रतुम् ।
शुक्रः सञ्जीवनीपत्रैर्मन्त्रैरुत्थाप्य चासुरान् ।।६५।।
नीत्वा ययौ तु युद्धार्थं यज्ञभूमौ प्रदर्पितः ।
सरमा पतिमापृच्छ्य शुक्रं जग्राह मस्तके ।।६६।।
महेन्द्राद्यास्तु यज्ञस्य बलेन पुष्टतां गताः ।
दैत्यनाशाय सैन्यानि रचयामासुरादरात् ।।६७।।
क्रियमाणेन यज्ञेन ववृधे देवताबलम् ।
वर्धितेन बलेनेन्द्रो देवसैन्यान्युवाच यत् ।।६८।।
सन्नह्यन्तां सुराः शीघ्रं दैत्यानां वधकर्मणि ।
एवमुक्तास्तदा देवाः सन्नद्धास्तत्क्षणेऽभवन् ।।६९।।
असुराणां विनाशाय दुद्रुवुरुद्यतायुधाः ।
ते देवा युयुधुस्तूर्णं विजिग्युस्त्वासुरीं चमूम् ।।1.365.७०।।
जितास्तु देवैरसुरा हतशेषा विचेतसः ।
जिजीविषवः संत्रस्ता ममज्जुः सागरेषु ते ।।७१ ।।
त्रिदिवं देवराजोऽपि लोकपालैश्च धेनुभिः ।
ग्रहनक्षत्रताराभिर्देवीभिः ऋषिभिस्तथा ।। ७२।।
सर्वदेवैः समेतश्च स्वर्गं प्राप्य पुनः स्वकम् ।
परमारुह्य बुभुजे यथापूर्वं यथासुखम् ।।७३।।
एवं लक्ष्मि! सरमाया देवशून्याः स्वधर्मजा ।
पातिव्रत्यकृता सिद्धिः प्रजज्वालाऽसुरान्बहून् ।।७४।।
य इट्ं शृणुयाल्लोके सरमाधर्मसद्बलम् ।
स गोमेधस्य यज्ञस्य फलं प्राप्नोति वै जनः ।। ७५।।
भ्रष्टराज्यश्च यो राजा शृणोतीदं समाहितः ।
स देवेन्द्र इव स्वर्गं राज्यं स्वं लभते जनः ।।७६।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये विद्युदादिराक्षसैर्देवराज्ये हृते देवकृते यज्ञे मेरौ गोरक्षार्थं नियुक्तया सरमया
देवशुन्या पातिव्रत्यधर्मेण दैत्याः प्रज्वालिता गावश्च रक्षिता देवराज्यं च देवैर्लब्धमित्यादिनिरूपणनामा पञ्चषष्ट्यधिकत्रिशततमोऽध्यायः ।।३६५।।