लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३६६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३६५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३६६
[[लेखकः :|]]
अध्यायः ३६७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! महासत्याः सावित्र्याः परमोत्तमम् ।
पातिव्रत्यप्रभावं त्वं येन संजीवितः पतिः ।। १ ।।
या वेदजननी प्रोक्ता ब्रह्मणा पूजिता पुरा ।
देवव्रातैः पूजिता च पूजिता विदुषां गणैः ।। २ ।।
राज्ञाऽश्वपतिना त्वाद्ये सत्ययुगेऽर्चिता तथा ।
सर्वैस्तु मानवैः पश्चात्पूजिता सा पतिव्रता ।। ३ ।।
मद्रदेशे महाराजो बभूवाश्वपतिः शुभः ।
आसीत्तस्य महाराज्ञी मालती नाम नामतः ।। ४ ।।
चकाराऽऽराधनं साध्वी पत्युर्निर्देशकारिणी ।
सावित्र्याः परया भक्त्या वशिष्ठस्योपदेशतः ।। ५ ।।
आराधितवती ब्राह्मीं सावित्रीं बहुवत्सरान् ।
सा ददर्श न सावित्रीं फलं नाऽवाप वै मनाक् ।। ६ ।।
संभग्नहृदया जाता दुःखिता भोगवर्जिता ।
राजा तां सान्त्ववचनैर्धैर्यं प्रदर्श्य नीतियुक् ।। ७ ।।
राज्ञीं गृहे सन्नियुज्य राज्यभारं प्रदाय च ।
सावित्र्याः साधनार्थं सः पुष्करं तपसे ययौ ।। ८ ।।
तत्र समाहितो भूत्वा तपश्चक्रे शतं समाः ।
ततः शुश्राव दिव्यां स वाणीं व्योम्न्यशरीरिणीम् ।। ९ ।।
गायत्रीदशलक्षं त्वं जा। कुरु नृपेति वै ।
एतच्छ्रुत्वा त्वश्वपतिश्चिन्तयामास तद्विधिम् ।। 1.366.१ ०।।
तावत्तत्र समायातो दिव्यदेहः पराशरः ।
राजा नत्वा मुनिं तत्र पप्रच्छ कृतपूजनः ।। ११ ।।
विधिं जपस्य गायत्र्या मुनिर्नृपमुवाच ह ।
सकृज्जपस्तु गायत्र्याः पापं दिनकृतं हरेत् ।। १२।।
दशवारं जपः पापं दिनरात्रिकृतं हरेत् ।
शतवारं जपः पापं मासकृतं विनाशयेत् ।। १३ ।।
सहस्रधा जपः पापं वार्षिकं संविनाशयेत् ।
लक्षं जपो जन्मपापं शुष्कं चार्द्रं विनाशयेत् ।। १४।।
दशलक्षं जपः पापं विनाशयेत् त्रिजन्मनाम् ।
शतलक्षजपः सर्वजन्माद्यं नाशयेद् घ्रुवम् ।। १५।।
दशकोटिजपो मुक्तिं ददात्येव न संशयः ।
करं सर्पफणाकारं कृत्वा समूर्ध्वमुद्रितम् ।। १६ ।।
अनम्रमूर्धा ह्यचलः प्रजपेत् प्राङ्मुखो द्विजः ।
जपेत्सुरालये तीर्थे तुलसीकाष्ठमालया ।। १७।।
बीजानां वा स्फाटिकानां मालामष्टोत्तरं शतम् ।
मणिकाग्रथितां सौम्यामश्वत्थपत्रसप्तसु ।। १८।।
स्थापयित्वा स्नापयेच्च पञ्चगव्येन तां ततः ।
स्नापयेत्तीर्थतोयेन पुण्यगंगोदकेन वा ।। १ ९।।
गायत्रीशतकं जप्त्वा जपयोग्यां हि कारयेत् ।
अथ क्रमेण च ततो दशलक्षं जपं कुरु ।।1.366.२० ।।
साक्षाद् द्रक्ष्यसि सावित्रीं सर्वपातकसंक्षये ।
प्रगे मध्ये तथा सत्यं नित्यं त्रिसन्ध्यकृद् भव ।।२ १ ।।
सन्ध्याजापविहीनस्तु कर्मफलभाग् भवेत् ।
यावज्जीवं त्रिसन्ध्याकृद् भवेत्सूर्यसमोज्ज्वलः ।।।२२।।
जीवन्मुक्ताः स विज्ञेयोऽन्येषां पापविनाशकृत् ।
तत्पादरजसा पृथ्वी सद्यः पूता भवत्यपि ।।२३।।
तीर्थान्यपि पवित्राणि भवन्ति तस्य संस्पृशेः ।
वैष्णवत्वविहीनस्य त्रिसन्ध्यारहितस्य च ।।२४।।
एकादशीविहीनस्य गृह्णन्ति नार्चनं सुराः ।
न गृह्णन्त्यपि पितरः श्राद्धपिण्डादितर्पणम् ।।२५।।
हर्यतर्पितभोजी च शवस्पर्शादिकारकः ।
शूद्रयाजनकर्ता च राजस्वल्यगमस्तथा ।।२६ ।।
असिजीवी मषीजीवी कृषिजीवी च मत्स्यभुक् ।
भगजीवी सुताविद्याविक्रयी नोच्यते द्विजः ।।२७।।
वैष्णवो भव राजर्षे! मध्याह्ने च जपं कुरु ।
ज्येष्ठे कृष्णत्रयोदश्यां शुद्धो भूत्वा व्रती जनः ।।२८।।
व्रतं कुर्याच्चतुर्दश्यां सावित्रीं संजगन्मुहुः ।
निराहारं व्रतं कुर्याच्चतुर्दशसमात्मकम् ।।२९।।
चतुर्दशफलैर्युक्तं नैवेद्यं च द्विसप्तकम् ।
पुष्पाम्बरोपवीतं च धूपं दीपं प्रसंददेत् ।।1.366.३ ०।।
संस्थाप्य मंगलघटं फलरत्नादिसंयुतम् ।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।।३ १ ।।
संपूज्य पूजयेन्मुख्यं घटे त्वावाहिते व्रती ।
मुख्यां देवीं तु सावित्रीं ध्यायेन्मूर्तौ स्थिरो व्रती ।।३२।।
माध्यन्दिने तु सावित्र्या ध्यानं शृणु तथा नृप! ।
स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम् ।।३३।।
तप्तकांचनसद्वर्णां ज्वलन्तीं ब्रह्मतेजसा ।
ईषद्धास्यप्रसन्नास्यां स्वर्णरत्नविभूषिताम् ।।३४।।
स्वर्णांशुकां दयाशान्तिसुखमुक्तिप्रदां सतीम् ।
सर्वसम्पत्प्रदात्रीं च कान्तां श्रीपरमेष्ठिनः ।।३५।।
वेदाधिष्ठातृदेवीं च बीजरूपां तु मातरम् ।
सर्वसंकल्पदात्रीं च भजे विद्याप्रदायिनीम् ।।३६।।
एवं ध्यात्वा ध्यानधार्य पुष्पं दत्वा स्वमूर्धनि ।
घटे त्वावाहयेद् देवीं पूजयेत् षोडशार्पणैः ।।३७।।
आसनं पाद्यमर्घ्यं चाऽऽचमनीयं तथा जलैः ।
पञ्चामृतैश्च स्नानीयं सुगन्धाद्यनुलेपनम् ।।३८ ।।
अभिषेकं तथा वस्त्रैः संमार्जनं तथाऽम्बरम् ।
भूषा पुष्पाणि शृंगारद्रव्याणि त्वर्पयेत्तथा ।।३ ९।।
धूपं यज्ञोपवीतादि सौभाग्यार्थं द्रवाणि च ।
दीपं नैवेद्यकं वारि ताम्बूलं चन्दनादिकम् ।।1.366.४० ।।
आरार्त्रिकं फलं पत्रं सुतल्पं नमनादिकम् ।
पादसंवाहनं दिव्यमनसा च क्षमापनम् ।।४१ ।।
ततः पुष्पाञ्जलिं दत्वा मातरं तां विसर्जयेत् ।
उपस्थिताय विप्राय दद्याद् व्रती तु दक्षिणाम् ।।४२।।
जपेत् श्रीं ह्रीं क्लीं सावित्र्यै स्वाहे-त्यष्टोत्तरं शतम् ।
सकृज्जपाद् दशकोटिजपपर्यन्तमेव हि ।।४३ ।।
यथाशक्ति जपेन्मध्यंदिने स्तोत्रं ततः परम् ।
कृष्णेन दत्ता सावित्री गोलोके ब्रह्मणे पुरा ।।४४।।
ब्रह्मा राधास्वरूपां तां पर्यष्टौद् वेदमातरम् ।
कृष्णशक्तिस्वरूपे! श्रीस्वरूपे! परमेश्वरि! ।।४५।।
नारायणस्वरूपे! त्वं नारायणि! महेश्वरि! ।
तेजोमयि! परानन्दमयि! द्विजातिवर्धिनि! ।।४६।।
नित्ये! सनातनि! लक्ष्मि! सर्वमंगलरूपिणि!
सर्वदेवीस्वरूपे! मोक्षदे! सुखदे! सुन्दरि! ।।४७।।
ब्रह्मतेजःप्रदे! भक्तदुरीतनाशकारिणि!
कायेन मनसा वाचा जाताघानां विनाशिनि! ।।४८।।
ब्रह्मणा संस्तुता या त्वं सत्यलोकं गता सह ।
सुखदे मोक्षदे कन्ये प्रसन्ना भव सुन्दरि! ।।४९।।
इति स्तोत्रं वद त्वश्वपते! प्राप्स्यसि दर्शनम् ।
स्तोत्रं चेद्ं त्रिसन्ध्यायां यः पठेन्मातरं स्मरन् ।।1.366.५ ० ।।
चतुर्वेदादिपाठानां सम्पूर्णं लभते फलम् ।
प्रभा च पार्वती लक्ष्मीर्माणिक्या कमला सती ।।५१ ।।
सावित्री वेदमाता सा ददाति दर्शनं स्वकम् ।
इत्युक्त्वा स ऋषिश्रेष्ठो ययौ स्वर्गं पराशरः ।।५२।।
राजा त्वश्वपतिश्चक्रे सतपोजपनार्चनम् ।
ददर्श तां स सावित्रीं सहस्रार्कसमप्रभाम् ।।५३।।
ततो लक्ष्मि! नृपतिः सोऽपूजयद् ध्येयदेवताम् ।
प्राह तं सा प्रसन्नास्मि ते जानामि मनोगतम् ।।५४।।
साध्वी कन्याभिलाषं ते करोति महिषी यतः ।
वाञ्छितं तव पत्न्यास्तत् सर्वं दास्यामि निश्चितम् ।।५५।।
त्वं तु प्रार्थयसि पुत्र भविष्यति क्रमात् सुतः ।
इत्युक्त्वा सा महादेवी ब्रह्मलोकं ययौ तिरः ।।५६।।
राजा तु तां दिशं नत्वा जगाम स्वालयं ततः ।
नातिचिरेण कालेन सा कन्याऽऽदावजायत ।।५७।।
सवितृसदृशी रूपे सावित्रीवरदानजा ।
सूयमाना सुखं सा वै सावित्रीनामतः कृता ।।५८।।
तज्जन्मसमये ब्रह्मा देवैः सहाऽऽजगाम ह ।
पुष्पवृष्टिं तदा कृत्वा ययौ धाम स्वकं ततः ।।५९।।
नित्यं तस्यास्तु बालाया दर्शनार्थं सुरादयः ।
समायान्त्यदृश्यरूपा मुदा त्वश्वपतिगृहे ।।1.366.६०।।
वैकुण्ठसदृशं राज्ञो भवनं समशोभत ।
कालेन यौवनं प्राप्ता दिव्या देवी व्यराजत ।।६ १ ।।
ब्रह्मांश समभूत् काले द्युमत्सेनात्मजो बली ।
सत्यवानिति नाम्ना सः कुमारो गुणवारिधिः ।।६२।।
सा वरं वरयामास सत्यवन्तं स्वयंवरे ।
राजा तस्मै ददौ तां च रत्नाभूषणभूषिताम् ।।६३।।
विवाहविधिना तां स नीत्वा वरो गृहं ययौ ।
गार्हस्थ्यपातिव्रत्यादिधर्माश्चरति सा सती ।।६४।।
संवत्सरे व्यतीते च सत्यवान् पितुराज्ञया ।
जगाम फलकाष्ठार्थमरण्यं घातके दिने ।।६५।।
सावित्री पातिव्रताख्यधर्मबलेन तन्मृतेः ।
कालं ज्ञात्वा तत्पश्चाद् ययौ यत्र गतः पतिः ।।६६ ।।
शुष्ककाष्ठानि चादातुं यतते सत्यवान् भुवि ।
शिरोवेदनया प्राणाँस्तत्याज तं तदा यमः ।।६७।।
बद्ध्वा सूक्ष्मशरीरेण युक्तं ययौ यमालयम् ।
तद्देहं वृक्षपत्रेषु रक्षित्वाऽनुययौ सती ।।६८ ।।
सतीं दृष्ट्वा यमस्तां वै प्रोवाच न्याययुग्वचः ।
अहो क्व यासि सावित्रि! मानुषी सशरीरिणि ।। ६९ । ।
यदि वाञ्छति चागन्तुं कान्तेन सह धर्मिणी ।
देहं त्यक्त्वा समायाहि सदेहा न गतिः खलु ।। 1.366.७० । ।
तव भर्तुः समायातः पूर्णः कालोऽत्र मानवे ।
स कर्मफलभोगार्थं सत्यवान् याति मद्गृहम् ।। ७१ ।।
कर्मणा जन्म जन्तूनां मृत्युश्चापि तु कर्मणा ।
सुखं दुःखं भयं शोकः प्रपद्यन्ते हि कर्मभिः ।। ७२ ।।
कर्मणा तु दिवं याति सत्यलोकं प्रयाति च ।
कर्मणा त्वीशतां याति हरेर्दास्यं च कर्मणा ।। ७३ । ।
शुभेन कर्मणा यायात् सालोक्यादि चतुष्टयम् ।
इन्द्रत्वं वैधसत्वं च मुनित्वं विप्रजातिताम् ।। ७४।।
मुक्ततां राजतां राजेन्द्रतां गुर्वी तपस्विताम् ।
क्षत्रियतां वैश्यतां च शूद्रतां चान्त्यजातिताम् ।।७५ ।।
म्लेच्छतां जंगमतां च स्थावरात्मकतां तथा ।
शैलतां वृक्षतां चापि पशुतां पक्षितां तथा ।।७६ ।।
कृमितां जन्तुतां चापि गन्धर्वतां च नागताम् ।
राक्षसतां किन्नरतां कूष्माण्डतां च यक्षताम् ।। ७७।।
वेतालतां भूततां च प्रेततां च पिशाचताम् ।
डाकिनीत्वं च दैत्यत्वं दानवत्वं सुरारिताम् ।।७८ ।।
प्राप्नोति कर्मभिर्जन्तुर्लोकान्तराणि कर्मभिः ।
कर्मभिः पुण्यवान् जीवो पापवाँश्चापि कर्मभिः ।।७९ ।।
सुन्दरश्च सुरूपश्च नीरोगी कर्मणा तथा ।
अन्धः काणः कुत्सितश्च महारोगी च कर्मणा । ।1.366.८ ० ।।
सत्यं च निरयं स्वर्गं कर्मणा प्राप्यते तथा ।
शक्रलोकं सूर्यलोकं चन्द्रलोकं तथा परम् ।।८ १ ।।
वह्निलोकं वायुलोकं वरुणालयमित्यपि ।
ध्रुवलोकं च कौबेरं पदं शिवगृहं तथा ।।८२ । ।
नक्षत्रलोकं च जनलोकं तपो महस्तथा ।
पातालानि च वैकुण्ठं गोलोकं चापि कर्मभिः ।।८ ३ ।।
क्षणजीवित्वमथ च चिरजीवित्वमित्यपि ।
कोटिकल्पादिजीवित्वं क्षीणायुष्ट्वं च कर्मभिः । ।८४।।
जीवसञ्चारमात्रायुर्गर्भे मृत्युः स्वकर्मणा ।
तव भर्तुस्तथा मृत्युः कर्मणा समुपस्थितः ।।८५।।
तस्मात् सावित्रि! मन्मार्गात् परावृत्य यथासुखम् ।
त्यक्त्वा भर्तुरभिलाषां प्रयाहि स्वगृहं प्रति ।।८६।।
इत्युक्त्वा विररामाऽसौ यमो नत्वा सतीं ततः ।
सावित्री न परावृत्ता पातिव्रत्यपरायणा ।। ८७।।
किन्तु पप्रच्छ विज्ञेयं कर्माऽकर्मादि सादरम् ।
शुभं तथाऽप्यशुभादि लक्ष्मि! कर्मफलं तथा ।।८८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये मद्रदेशाधिपतिनाऽश्वपतिना सावित्र्याराधनेन सावित्री सुता लब्धा, सा च सत्यवते दत्ता, सत्यवतो मरणे सावित्री पातिव्रत्यबलेन प्रेतमनुययौ, यमराजस्य संवादश्चेत्यादिनिरूपणनामा षट्-षष्ट्यधिकत्रिशततमोऽध्यायः ।। ३६६ ।।