लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३६४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३६३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३६४
[[लेखकः :|]]
अध्यायः ३६५ →

श्रीलक्ष्मीरुवाच-
पूर्वं श्रुतं मया कृष्ण! भवदाननपंकजात् ।
पतिव्रता त्वया सृष्टिप्रारंभे स्वात् प्रकाशिता ।। १ ।।
सा तु भूमौ च पाताले स्वर्गे सत्ये तथाऽऽवृतौ ।
वैराजे चाथ वैकुण्ठे चेश्वराणां विभूतिषु ।। २ ।।
जीवसृष्टावीशसृष्टौ सर्वत्र संस्थिताऽस्ति वै ।
व्यापिनी सा महाशक्तिस्तव सामर्थ्यरूपिणी ।। ३ ।।
आदौ सा कंभरानाम्नी महालक्ष्मीरजायत ।
भवान् साक्षात्परब्रहा गोपालः समजायत ।। ४ ।।
पत्नीव्रताभिधो विप्रः कृष्णनारायणो हरिः ।
स्वयं जातो महाराजः सर्वधर्मप्रवर्तकः ।। ५ ।।
तत्पत्नी कंभरालक्ष्मीर्यद्गृहे मानसः सुतः ।
लक्ष्मीनारायणो जज्ञे कृष्णनारायणः स्वयम् ।। ६ ।।
साऽह लक्ष्मीः स त्वं कृष्णः कृपया ते स्मरामि तत् ।
पतिव्रतात्मको धर्मः सतीधर्मो हि मोक्षदः ।। ७ ।।
सुखदः स्वर्गदश्चापि सर्वकामप्रपूरकः ।
त्वदात्मको मदात्मकः कथं न तारयेज्जनान् ।। ८ ।।
सतां सेवात्मको धर्मः सर्वोपरि प्रवर्तते ।
सत्यः पतिव्रताः साध्व्यस्तरन्ति साधुसेवया ।। ९ ।।
साधुरूपो भवानस्ति सतीरूपोऽस्ति वै भवान् ।
सतीधर्मः साधुधर्मः खड्गधाराऽतिदुस्तरः ।। 1.364.१० ।।
सतीं रूपवतीं श्रुत्वा जनकस्य तु भामिनीम् ।
सतीबलं विशेषेण श्रोतुकामाऽस्मि संवृता ।। ११ ।।
नार्यो भोग्याः कामधर्माः सतीसामर्थ्यसंश्रवात् ।
तरिष्यन्ति भवाम्भोधिं श्रुत्वा पतिव्रताबलम् ।। १२।।
तस्माच्छ्रावय मे विष्णो! कृष्णनारायण! प्रभो! ।
पतिव्रतानामैश्वर्यचमत्कारान् सुखप्रदान् ।। १३ ।।
भूतान्मध्यान्भूयमानान् श्रोतुमिच्छामि केशव! ।
भवच्छक्तिस्वरूपाणां सतीनां चरितानि वै ।। १४ ।।
श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! परं जिज्ञासितं शुभम् ।
कल्याणं योषितां कर्तुं मे विभासि दयावती ।। १५।।।
कथयामि चमत्कारान् सतीनां योषितां बहून् ।
कुमारीणां लग्नितानां नैष्ठिकीनां च योषिताम् ।। १६ ।।
सधवानामधवानां त्यागिनीनां सुयोषिताम् ।
योगिनीनां भागवतीस्थितिकानां सुरश्रियः ।। १७।।
आर्षीणां देवपत्नीनां ब्राह्मीणां कृष्णयोषिताम् ।
कथयिष्ये चमत्कारान् शृणु मद्वाङ्मना भव ।। १८ ।।
गोलोके राधिका याऽस्ति सावित्री या तदंशिका ।
निर्मिता वेधसोऽर्थं वै कृष्णनारायणेन सा ।।१९ ।।
सृष्ट्यारंभे कृते त्वाद्ये श्वेतद्वीपे स्थिताऽभवत् ।
तस्मिन्नेवाऽन्ववसरे बदरिकाश्रमे नृपः ।। 1.364.२० ।।
प्रियव्रतस्तपस्तेपे तत्रोपेयात्तु नारदः ।
राजा व्योम्नि ऋषिं वीक्ष्य समुत्तस्थौ सुहर्षितः ।।२१ ।।
तस्याऽऽसनं च पाद्यं च दत्वा पप्रच्छ सादरम् ।
भगवन्! किञ्चिदाश्चर्यमेतस्मिन् कृतसंज्ञिते ।।२२ ।।
युगे दृष्टं श्रुतं वापि तन्मे कथय नारद! ।
नारदस्तु यथादृष्टमेकमाश्चर्यमाह तम् ।। २३ ।।
ह्यस्तनेऽहनि राजेन्द्र! श्वेतद्वीपं गतस्त्वहम् ।
तत्र संदृष्टवान् दिव्यं सरः पंकजशोभितम् ।।२४।!
सरसस्तस्य तीरे तु कुमारीं पृथुलोचनाम् ।
दृष्ट्वाऽहं विस्मयापन्नस्तां कन्यामायतेक्षणाम् ।।२५ ।।
पृष्टवानस्मि राजेन्द्र! तां वै मधुरभाषिणीम् ।
काऽसि भद्रे! कथं वाऽसि किं वा कार्यमिह त्वया ।। २६ ।।
कर्तव्यं चारुसर्वाङ्गि! तन्ममाऽऽचक्ष्व शोभने! ।
एवमुक्ता मया सा हि मां दृष्ट्वाऽनिमिषेक्षणा ।।२७।।
स्मृत्वा तूष्णीं स्थिता यावत्तावन्मे ज्ञानमुत्तमम् ।
विस्मृतं सर्ववेदाश्च संहिताश्च फलादिकम् ।।२८।।।
सर्वं दृष्ट्वैव मे राजन् कुमार्याऽपहृतं क्षणात् ।
ततोऽहं विस्मयाविष्टश्चिन्ताशोकजडोऽभवम् ।।।२९।।
तामेव शरणं गत्वा यावत्पश्यामि तां पुनः ।
तावद् दिव्यः पुमाँस्तस्याः शरीरे समदृश्यत ।।।1.364.३ ०।।
तस्यापि पुंसो हृद्ये त्वपरस्तस्य चोरसि ।
अन्यो रक्तेक्षणः श्रीमान् द्वादशादित्यसन्निभः ।।३ १ ।।
एवं दृष्टाः पुमांसोऽत्र त्रयः कन्याशरीरगाः ।
क्षणेन ते त्रयो लीनाः कन्यां पश्यामि चैकलाम् ।।३२।।
ततः पृष्टा मया देवी सा कुमारी कथं मम ।
वेदा नष्टा ममाचक्ष्व भद्रे तन्नाशकारणम् ।।३ ३ ।।
कन्योवाच तु वेदानां सावित्रीं मातरं तु माम् ।
नैव जानासि येन त्वं ततो वेदा हतास्तव ।।३४।।
इति श्रुत्वा नारदेन पृष्टा के पुरुषा इति ।
कन्योवाच हृदि मेऽयं ऋग्वेदो यो नरायणः ।। ३५।।
विष्णुरूपोऽनलो नामोच्चारणात्पापदाहकः ।
तस्य हृदि द्वितीयस्तु यजुर्वेदः पितामहः ।।३६ ।।
तस्य हृदि तृतीयस्तु सामवेदो हि शंकरः ।
एतावादित्यवत्पापान्याशु दहत आस्मृतौ ।। ३७।।
एते त्रयो महावेदा ऋषे! देवास्त्रयस्तु ते ।
गृहाण विप्र! गायत्रीं वैदिकीं जप वैष्णवीम् ।।३८।।
ततो गृहाण वेदांश्च सर्वज्ञत्वं च नारद! ।
एतस्मिन् वेदसरसि स्नानं कुरु च पुत्रक! ।। ३९।।
कृते स्नानेऽन्यजन्मीयं येन स्मरसि पुत्रक! ।
अहं स्नात्वा लब्धवाँस्तज्ज्ञानं वर्षसहस्रजम् ।। 1.364.४०।।
पुष्करपत्तनस्याऽऽसं पुरा सारस्वतो द्विजः ।
सोऽहं वै वेधसः पुत्रो मानसोऽस्मि पुरस्तव ।।४१ ।।
सावित्री सा मम माता तिरोभावं गता ततः ।
मया सा दिव्यदृष्ट्या तु सत्यलोके विलोकिता ।।४२।।
वेधसो धर्मपत्नीति प्रतापाढ्या पतिव्रता ।
ब्रह्मा भूतानि संसृष्ट्वा तत्याज स्ववपुर्मुहुः ।।४३ । ।
सावित्री तच्छवात् पातिव्रत्यप्रतापतो मुहुः ।
ब्रह्माणं स्वकरस्पर्शात् सर्जयामास वै तदा ।।४४।।
बहुवारं मृतं चाऽजं बहुवारं ससर्ज सा ।
सृष्टिर्यथेष्टं संजाता न्यवर्तत तदा मृतेः ।।४५।।
ब्रह्माणं तं पतिं प्राप्य शाश्वतं सा पतिव्रता ।
पातिव्रत्यप्रभावेण वर्तिष्यते च वर्तते ।।४६ ।।
मृत्युं त्वामन्त्र्य दत्वा च ब्रह्माणं मृत्यवे मुहुः ।
पतिं सा जीवयामास पातिव्रत्यप्रभावतः ।।४७।।
वेदांस्त्रिपुरुषान् हुत्वा पुनर्दत्तवती तु सा ।
पातिव्रत्यप्रभावेण सावित्री जननी मम ।।४८।।
अहं राजन् कृतस्नानस्त्वां दिदृक्षुरिहाऽऽगतः ।
सत्यं गच्छामि सम्पूज्य नरनारायणं प्रभुम् ।।४९।।
इत्युक्त्वा च हरिं नत्वा सत्ये ययौ तु नारदः ।
इति ते कथितं लक्ष्मि! पातिव्रत्यबलं महत् ।।1.364.५०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये सावित्र्यां नारदस्य त्रिवेदात्मकत्रिदेवदर्शनं, वेधसः सावित्रीपातिव्रत्यबलेन मुहुः शरीरवत्त्वमित्यादिनिरूपणनामा चतुःषष्ट्यधिकत्रिशततमोऽध्यायः ।। ३६ ४।।