लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३६१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३६० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३६१
[[लेखकः :|]]
अध्यायः ३६२ →

श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! चित्रगुप्तनिदेशनम् ।
यत्त्वधिकं पुनश्चोक्तं नाचिकेता जगाद् तान् ।। १ ।।
दूता! गृह्णन्तु तं शीघ्रं यथा कालो न वै क्रमेत् ।
का कृपा क्रियते तत्र गृह्णन्तु घ्नन्तु मा चिरम् ।। २ ।।
माऽत्र व्रीडा प्रकर्तव्या मा तिष्ठन्तु पराङ्मुखाः ।
किं न गच्छथ वेगेन वा मा स्त दीर्घसूत्रिणः ।। ३ ।।
शीघ्रं गच्छत तत्रैव समानयत सत्वरम् ।
नाऽशक्तिर्दर्शयितव्या गणनीया न सत्क्रिया ।। ४ ।।
न विवाहो न वै तापसत्वं नैष्ठिकता तथा ।
न नवस्त्रीरमणं वा पातिव्रत्यं सतीत्वकम् ।। ५ ।।
साध्वीत्वं बालकत्वं वा दानस्थत्वं रतिस्थितिः ।
राज्यकार्यं सभास्थानं व्योमयानं प्रपूजनम् ।। ६ ।।
मा गणनीयं किमपि यथा कालोऽनतिक्रमेत् ।
शीघ्रमत्राऽऽनयध्वं वै यथाकर्म प्रशासनम् ।। ७ ।।
शीघ्रं त्वं भव सर्पश्च भव त्वं व्याघ्र इत्यपि ।
सरीसृपो जलग्राहो भव त्वं कृमिरल्पकः ।। ८ ।।
भव त्वं व्याधिरूपश्च भवातिसार इत्यपि ।
छर्दिः पुनर्भव त्वं च कर्णरोगो विषूचिका ।। ९ ।।
ज्वरो भवाऽनिलव्याधिस्त्वं च भव जलोदरः ।
अपस्मारस्त्वमुन्मादो विष्टंभो विभ्रमो भव ।। 1.361.१ ०।।
द्रुतं द्रवत वेगेन सर्वे गच्छत मा चिरम् ।
यथान्यायं यथाकर्म यथाकालं च देहिनः ।। १ १।।
धर्षयन्तु कर्षयन्तु समानयन्तु मा चिरम् ।
आयुष्यान्ते मारयन्तु यथा कालो न सम्पतेत् ।। १ २।।
जाग्रतं वा निद्रितं वा मूर्छितं वा सुषुप्तकम् ।
यथावाच्यं प्रकुरुत यथाकालो न गच्छति ।। १३ ।।
यथाऽऽज्ञापयति रुद्रो यथा संकर्षणः प्रभुः ।
यथा ब्रह्मा धर्मराजश्चित्रगुप्तस्तथा प्रभुः ।। १४।।
इत्याज्ञापयति चित्रगुप्तस्तथा प्रयान्ति च ।
यमदूता आनयन्ति देहिनस्तत्र सन्निधौ ।। १५।।
तेषां कर्माणि चालोक्य दण्डं दिशति तत्र वै ।
यमश्च चित्रगुप्तश्च वदामि यच्छ्रुतं मया ।। १६ ।।
अयं तु पुण्यवान् दाता यातु स्वर्गं महीक्षिताम् ।
अयं भवतु वृक्षो वै तीर्यगयं प्रजायताम् ।। १७।।
अयं नागो भवत्वेव यात्वयं परमां गतिम् ।
स्वपूर्वजाऽवमन्ताऽयं यातु नरकं दारुणम् ।। १८ ।।
दारत्यागकरं त्वेनं क्षपयन्तु हि रौरवे ।
मुच्यन्तां त इमे चान्ये मुच्यन्तां पापवर्जिताः ।। १ ९।।
स्वर्गं प्रयान्तु धर्मिष्ठा उषित्वा बहुकल्पकान् ।
सर्वस्मृद्धिमये भूमौ मानुषे यान्तु सज्जनुम् ।।1.361.२० ।।
ब्राह्मणार्थे गवार्थे वा राष्ट्रार्थे निधनं गतम् ।
शक्रस्य त्वमरावत्यां प्रेषयन्तु च मा चिरम् ।।२ १ ।।
कल्पमेकं तत्र वासो भवत्वस्य सुखावहः ।
बहुदानरतं चैनं सर्वजीवानुकम्पकम् ।। २२ ।।
गन्धमाल्यैः पूजयन्तु समर्पयन्तु चोपदाः ।
विज्यतां चामेरैरेषो यानमस्मै प्रदीयताम् ।। २३ ।।
वैहायसेन यानेन यात्वयं त्विन्द्रपत्तनम् ।
शंखतूर्याऽभिघोषेण सत्कृतो लभतां सुखम् ।। २४।।
अयं गच्छतु सल्लोकं कीर्तिमतां शुभास्पदम् ।
गुणैः सेवादिभिरिन्द्रायुष्योऽस्तु वै त्रिविष्टपे ।। २५ ।।
रत्नस्वर्णप्रदाताऽयमश्विनोर्लोकमेतु वै ।
बह्वन्नदानकर्ताऽयं शिवलोकं प्रयातु वै ।।२६।।
मिष्टान्नस्य च दुग्धस्य दोग्धा गोर्दानकार्ययम् ।
हेमवस्त्रस्य सन्दाता तिस्रः कोट्यस्त्रिविष्टपे ।। २७।।
तिष्ठतु च्युत एवात्र ऋषिवर्यो भवेत् क्षितौ ।
पितृतर्पयिता चायं सत्यलोकं प्रयातु वै ।। २८।।
सर्वकामप्रदश्चायं सर्वभूतहिते रतः ।
क्षितेर्दातां प्रयात्वेव बहुकालं त्रिविष्टपम् ।।२९।।
एवं पुण्यकृतो यान्तु स्वर्गान्यथेष्टभोगदान्।
पापकृतो ह्यधो यान्तु निरयान् क्लेशसंचयान् ।। 1.361.३० ।।
एवं श्रुतं मया विप्राः! श्रुतश्चापि फलोदयः ।
कथयामि च तत्सर्वं शृणुध्वं वै समाहिताः ।।३ १ ।।
अयं चातिथ्यसत्कर्ता सर्वभूतानुकम्पनः ।
समान्नदानकर्ता च शेषभोजनभागयम् ।।३२।।।
वैराजस्य पदं यातु सर्वभाग्यसुखान्वितः ।
एनं गास्यन्ति गन्धर्वा गमनेऽप्सरसस्तथा ।।३३ ।।
दीयतामासनं दिव्यं दीयतां व्योमवाहनम् ।
यान्यान्कामान्कामयते दीयतां मम शासनात् ।। ३४।।
स्वर्गकामान्पितृकामान्सत्यकामान्विराजगान् ।
समर्पयन्तु वै त्वस्मै दासदासीपरिच्छदान् ।।३५।।
दत्तान्यनेन दानानि रत्नस्वर्णगवादयः ।
महिषीगजतुरगाः क्षेत्रं चोद्यानवाटिकाः ।।३६।।
कन्यादानानि बहूनि चान्नदानान्यपीह यत् ।
प्रेक्ष्यतां स महाभागो भोक्तुं दिवि सहानुगः ।। ३७।।
यावत् स्वर्गाद् विमानानि समागच्छन्ति कृत्स्नशः ।
ततः स प्रवरैर्यानैः सानुगः सपरिच्छदः ।।३८।।
देवानां भवनं यातु देवताभिः सुपूजितः ।
तत्रैव रमतां पुण्यो यावत्स्वर्गं हि तिष्ठति ।।३९।।
अथैनं यज्ञकर्तारं नैककन्याप्रदायकम् ।
पूजयन्तु सर्वकामैः पदं यातु स वैष्णवम् ।।1.361.४०।।
तत्रैष रमतां पुण्यः सहस्रमयुतं समाः ।
भूतानुकम्पको ह्येष क्रियतामस्य पूजनम् ।।४१ ।।
वर्षाणामयुतं दिव्यं तिष्ठतु दिविं देववत् ।
अथाऽनेन प्रदत्तानि छत्रं पात्रं तथाऽम्बरम् ।।४२।।
उपानहौ च भोज्यानि तस्मै पूजां प्रयच्छथ ।
हस्तपद्मचमत्कारो विद्याधरो भवत्वयम् ।।४३।।
महापद्मानि चत्वारि स्वर्गे तिष्ठतु सर्वदा ।
अनेनाऽनाथदीनेषु दत्तं क्षीरं दधिं घृतम् ।।४४।।
नीयतां रसवत्स्वर्गं पूजां त्वस्मै प्रयच्छथ ।
गोरसस्य च पूर्णानि भाजनानि प्रयच्छथ ।।४५।।
दत्वा स्वबान्धवेभ्यः स पीत्वा स्वजनबान्धवैः ।
यात्वनसूयके स्वर्गे रमतां वर्षकोटयः ।।४६ ।।
बहुसुन्दरनारीभिः सेव्यमानोऽमरः सदा ।
गोलोकेषु सदा चायं वसतु भोग्यसंभृतः ।।४७।।
इक्षुसारप्रदाताऽयं दुग्धसाराऽर्पको ह्ययम् ।
अन्नसारप्रदाता च वस्त्रभूषाऽर्पकस्तथा ।।४८।।
गृहक्षेत्रप्रदाता च सर्वोपस्करणाऽर्पकः ।
गोलोकेषु नीयतां च वृषवाहनसंयुतः ।।४९।।
सर्वदेवात्मिका देव्यो यत्र तिष्ठन्ति सेविकाः ।
अमृतं धारयन्त्यश्च सेवन्तेऽहर्निशं शुभाः ।।1.361.५०।।
दधि दुग्धं घृतं पुष्टिः पवित्रं तीर्थममृतम् ।
दध्ना तृप्यन्ति देवाद्याः क्षीरेण तु महेश्वरः ।।।५१ ।।
घृतेन पावको नित्यं पायसेन पितामहः ।
सकृद् दत्तेन प्रीयन्ते वर्षाणां तु त्रयोदश ।।।५२। ।
पञ्चगव्येन पीतेन वाजिमेधफलं लभेत् ।
गव्यं तु परमं मेध्यं गावो मेध्या हि देवताः।।५३ ।।
दान्तेषु मरुतो देवा जिह्वायां तु सरस्वती ।
खुरमध्ये तु गन्धर्वाः खुराग्रेषु तु पन्नगाः ।।५४।।
सर्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने ।
ककुदे च नक्षत्राणि लांगूले धर्म आस्थितः ।।५५।।।
अपाने सर्वतीर्थानि लक्ष्मीस्तिष्ठति शकृति ।
प्रस्रावे जाह्नवी देवी स्तनेष्वस्यास्तु सागराः ।।५६।।
ऋषयो रोमकूपेषु विद्याधरास्तु रोमसु ।
त्वचि वैकुण्ठमेवाऽस्ति पार्श्वयोरयनद्वयम् ।।५७।।
क्षमा धृतिश्च शान्तिश्च पुष्टिर्वृद्धिः स्मृतिर्मतिः ।
मेधा लज्जा वपुःकीर्तिर्विद्या शान्तिश्च सन्ततिः ।।।५८।।
क्रियोन्नत्यादिका धर्मपत्न्यो गोषु व्यवस्थिताः ।
यत्र गावस्तत्र देवा लक्ष्मीर्धर्मश्च रक्षकाः ।।५९।।
गोदाता लभते सर्वं प्रासादान् भवनानि च ।
स्त्रीर्युवतीर्दासदासीः शयनासनपानकम् ।।1.361.६०।।
भोग्यभोगान् पानगृहभक्ष्यभोजनसंचयान् ।
वाजिनो वारणान् यानवाहनानि च वाटिकाः ।।६ १ ।।
ददत गोप्रदातारं चित्रगुप्ताज्ञयाऽनुगाः ।
इमं त्वाम्रप्रदातारं तथोद्यानसमर्पकम् ।। ६२।।
ददताऽऽम्रवणं रम्यं दिव्यकन्यां परीं शुभाम् ।
इत्येवं बहुधा तत्राऽऽकर्णितं दृष्टमित्यपि ।।६३ ।।
गृहाद् गृहान्तरं स्थलात् स्थलान्तरं तु गच्छता ।
कष्टात्कष्टतरं सौम्यात् सुखात्सुखतरं तथा ।।६४।।
कर्महानिः कर्ममहोदयोऽऽप्यालोकितो मया ।
ततोऽहं भगवान् धर्मराजस्य संसदि त्वयम् ।।६५।।
तावत्तत्र समायातो नारदो द्योतितप्रभः ।
यमराजः पूजयित्वा तं न्यषादयदासने ।।६६।।
प्राह पूता वयं सर्वे देशः पूतस्तवाऽऽगमात् ।
यत्कार्यं येन वा कार्यं प्रब्रूहि भगवन्निति ।।६७।।
श्रुत्वा तु नारदः प्राह संशयं छिन्धि मे परम् ।
अमरत्वं कथं यान्ति दानेन नियमेन वा ।।६८।।
व्रतेन तपसा वापि जपेनोपासनेन वा ।
केनाऽतुलां श्रियं यान्ति कीर्तिं स्थानं च शाश्वतम् ।।६९।।
केन गच्छन्ति नरकं पापिष्ठं लोकगर्हणम् ।
सर्वमाख्याहि तत्त्वेन भविष्यति हितं परम् ।।1.361.७०।।
यमराजस्तमुवाच शृण्वतां तत्र वर्तिनाम् ।
धर्मेण तु जना यान्ति स्वर्गं पुण्यसमर्जितम् ।।७१ ।।
अधर्मेण तु निरयान् बन्धाँश्च बहुजातिकान् ।
अग्निचिन्नरकं नैव याति कदापि नारद! ।।७२।।
पुत्रवान् भूमिदः शूरो वेदशास्त्रविशारदः ।
ज्ञानवान् सत्यवर्त्मा च पत्नीव्रतः पतिव्रता ।।७३ ।।
शाठ्यकापट्यहीनाश्च स्वामिभक्तास्तु देहिनः ।
अहिंसका अकृतघ्ना ब्रह्मचर्यादिनिष्ठिताः ।।७४।।
दानिनो द्विजभक्ताश्च पितृभक्तश्च साधवः ।
सता दासा पारदार्यरहिताश्च दयालवः ।।७५।।
सर्वभूतात्मवेत्तारो न यान्ति निरयान् क्वचित् ।
यातनापूर्णकान्दुःखान्पापिष्ठाँस्तमसावृतान् ।।७६।।
ये जना ज्ञानवन्तोऽत्र ये च विद्यां परां गताः ।
उदासीना न गच्छन्ति स्वाम्यर्थे च हता जनाः ।।७७।।
सर्वहिते रताः शुश्रूषका दातार एव ये ।
तिलगोपृथिवीस्वर्णकन्यादानकरास्तथा ।।७८।।
अन्नदा जलदाश्चापि सत्रसंचालकास्तथा ।
याजिनः कृतिनश्चातुर्मास्यव्रतार्थिनश्च ये ।।७९।।
कार्तिकादिव्रतवन्तो गुर्वाज्ञावर्तनास्तु ये ।
मौनादिगुणवन्तोऽपि नित्यं स्वाध्यायकारकाः ।।1.361.८ ०।।
दान्ताः सौम्याः स्वात्मभावाः पर्वेन्द्रियजयास्तथा ।
निवृत्ताः सर्वकामेभ्यो निराशा निर्जितेन्द्रियाः ।।८ १ ।।
न गच्छन्ति निरयाँस्तेऽमरत्वं प्राप्नुवन्ति च ।
भक्त्याऽमरत्वं संयान्ति कृष्णनारायणस्य वै ।।८२।।
ज्ञानाऽभयप्रदानेन नैष्ठिकनियमेन च ।
ब्रह्मव्रतेन ज्ञानात्मतपसा ओं हरिर्जपात् ।।८३।।
कृष्णनारायणोपास्त्या ह्यमरत्वं तु शाश्वतम् ।
कृष्णनारायणसेवा श्रियं लक्ष्मीं ददाति हि ।।८४।।
सतां सेवा गवां सेवा कीर्तिं स्थानं ददाति हि ।
लोकगर्हितकार्येण याति स्थानं तु गर्हितम् ।।८५।।
तपसा प्राप्यते स्वर्गं तपसा प्राप्यते यशः ।
आयुःप्रकर्षो भोगाश्च तपसैव भवन्ति हि ।।८६ ।।
ज्ञानं विज्ञानमारोग्यं रूपसौभाग्यसम्पदः ।
धनपत्नीसुतदासाः तपसा सर्वमाप्यते ।।८७।।
एवं मौनेन वाक्सिद्धिः सन्तोषात्सुखमुत्तमम् ।
उपभोगाश्च दानेन ब्रह्मचर्येण जीवितम् ।।८८।।
अहिंसया त्वनुद्वेगो दीक्षया कुलजन्म च ।
फलमूलाशिनो राज्यं स्वर्गः पर्णाशिनो भवेत् ।।८९।।
पयोभक्षा दिवं यान्ति द्रव्यदा यान्ति चाढ्यताम् ।
गुरुशुश्रूषया श्राद्धदानेन शुभसन्ततिम् ।।1.361.९०।।
रसदाना गवाद्याश्च भवन्ति तृणशायिनाम् ।
स्वयं त्रिषवणाद् ब्रह्म जलपातेष्टलोकभाग् ।।९१ ।।
यज्ञकर्ता स्वः प्रयाति सौभाग्येन प्रमोदते ।
अन्नदानेन च प्राप्नोत्यन्नं मेधां स्मृतिं दिवम् ।।९२।।
छत्रदानेन साम्राज्यं गृहदानाद् गृहादिकम् ।
रथयानप्रदानेन यानवाहनवान् भवेत् ।। ९३ ।।
वस्त्रदाता सुशृंगारान् धनपुत्राँश्च संलभेत् ।
पानीयदाता तृप्तिं वै शाश्वतीं लभते दिवि ।।९४।।
अन्नपानादिदानेन कामभोगैः सुतृप्यते ।
पुष्पगन्धफलवृक्षदाता स्त्रीरत्नवद्गृहम् ।।९५।।
शयनान्यनुलेपाँश्च गन्धकज्जलधूपकान् ।
स्रजो ददाति यः शय्यामारामं फलिपादपम् ।।९६ ।।
सः स्त्रीस्मृद्धं गजवाजिपूर्णं गृहं प्रपद्यते ।
धूपदीपप्रदाता च प्राप्नोति वसुसाम्यताम् ।।९७।।
गजगोवृषदानेन स्वर्गं शाश्वतमाप्यते ।
घृतदानेन तेजस्वी सुकुमारो हि जायते ।।९८।।
तैलदानेन वै स्निग्धश्चमत्कारकरो भवेत् ।
मधुमिष्टशर्करादिदाता तृप्तगृहो भवेत् ।।९९।।
दीपदानाद् द्युतिमान् स्यात् पायसेन वपुर्दृढम् ।
कृसरान्नात् स्निग्धसौम्यभावं लभते सुरूपिताम् ।। 1.361.१०० ।।
फलैस्तु लभते पुत्रं पुष्पैः सौभाग्यमित्यपि ।
रथैर्दिव्यं विमानन्तु यानं वाहनमित्यपि ।। १०१ ।।
अभयस्य प्रदानेन प्राणदानेन चाऽप्यथ ।
सर्वकामप्रदानेन सर्वान्कामानवाप्नुयात् ।। १ ०२।।
इति ते कथितं लक्ष्मि! फलं यमेन भाषितम् ।
नारदाय तु तत्सर्वं विप्रेभ्यो नाचिकेतसा ।। १०३ ।।
श्रुत्वा तु नारदो नत्वा यमराजं पुनः पुनः ।
ययौ पूजां गृहीत्वा च सत्यलोके विहायसा ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कुतयुगसन्ताने याम्यचक्रे चित्रगुप्ताज्ञया पापिनामानयनाय दूतानां प्रवृत्तिः, दत्तदानानां फलोदयाः, नारदाय धर्भराजोक्तः फलोदयः, प्राप्तिश्चेत्यादिनिरूपणनामैकषष्टयधिकत्रिशततमोऽध्यायः ।।३६ १ ।।