लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३६०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३६०
[[लेखकः :|]]
अध्यायः ३६१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! चित्रगुप्तगृहे तु नाचिकेतसा ।
यद् दृष्टं तत् कथयामि नाचिकेता जगाद तान् ।। १ ।।
शृण्वन्तु ब्राह्मणाः सर्वे चित्रगुप्तांगणे मया ।
यद् दृष्टं च ततश्चापि तत्सर्वं कथयामि वः ।। २ ।।
चित्रगुप्तेन चाऽऽदिष्टा मन्देहा नाम राक्षसाः ।
अन्ये दूताश्च विज्ञप्ताः कर्मिणां यातनाकृते ।। ३ ।।
नानारूपधरा घोराः सायुधाः पिशिताशनाः ।
भो भो मन्देहका वीरास्तथा दूताः सविक्रमाः ।। ४ ।।
जीवान् बध्नन्तु गृह्णन्तु पापकान् यातनाकृते ।
मारयन्तु खादयन्तु मर्दयन्तु यथा कृतम् ।। ५ ।।
इत्याज्ञप्ता राक्षसास्ते दूताश्च कामरूपिणः ।
सन्नद्धास्त्वरितं भीमा गजाश्च सिंहरूपिणः ।। ६ ।।
व्याघ्रशृगालमहिषव्यालवृश्चिकरूपिणः ।
गृध्रश्येनफणिऋक्षगर्दभादिस्वरूपिणः ।। ७ ।।
शूलशक्तिप्रहारास्ते यष्टितोमरपाणयः ।
पट्टिशासिखड्गयुक्ता दूता घोरपराक्रमाः ।। ८ ।।
भिन्धि छिन्धि च गृह्णीष्व वदन्ति रक्तलोचनाः ।
खादन्ति घ्नन्ति मन्देहाश्चित्रगुप्तप्रपेरिताः ।। ९ ।।
व्याधीनां तु सहस्राणि दूतानामयुतानि च ।
ज्वराश्च कालमुण्डाश्च केंकराक्षा सहस्रशः ।।1.360.१ ०।।
आरब्धा मर्दनं कर्तुं पापिनां पापकर्मिणाम् ।
धर्मराजेन सन्दिष्टचित्रगुप्तस्य शासनात् ।। ११ ।।
यथान्यायं दण्डयोग्या बद्धा बन्धैस्तु राक्षसैः ।
अग्निना तापिताः केचिद् दशनाभिश्च चर्विताः ।। १२।।
दुराचारान्पापरतान्निर्घृणान्पापचेतसः ।
श्वानः श्वापदपशवो भक्षयन्ति दुरात्मकान् ।। १३ ।।
चित्रगुप्तः स्थितस्तत्र न्याये श्रावयति ज्वरान् ।
दूताँश्च राक्षसाँस्तद्वै मया प्रत्यक्षतः श्रुतम् ।। १४।।
पितृघ्नं मातृगोघ्नं च समारोप्य तु शाल्मलीम् ।
सुतीक्ष्णैः कण्टकैर्दूता विपाटयन्तु मा चिरम् ।। १५।।
पाचके पक्षिणामेनं पाचयन्तु नराधमम् ।
पशूनां त्वन्यजन्तूनां तप्ततैलकटाहके ।। १६।।
ताम्रतप्तखले क्षिप्त्वा प्रदीप्ते हव्यवाहने ।
प्राणिनां भर्जकं चैनं भर्जयन्तु यथाकृतम् ।। १७।।
शयनासनहर्तारं वह्निदायिनमेव तु ।
वैतरण्यां प्रक्षिपन्तु वह्नौ पश्चात् क्षिपन्तु च ।। १८।।
तीर्थक्षेत्रधर्मक्षेत्रनाशकं पातयन्तु वै ।
विध्यन्तु तस्य मर्माणि कीलकैर्वह्नितापितैः ।।१ ९।।
पिशुनस्य कूटसाक्षिप्रदस्याऽस्य तु कर्णयोः ।
जिह्वायां च निन्दकस्य दीयन्तां वह्निकीलकाः ।।1.360.२० ।।
कापट्ययाजकं धूर्तं शठं दांभिकमत्र हि ।
बद्ध्वा तु बन्धने कीले दीयतां तु न किंचन ।।२१ ।।
वाचा दुष्टस्याऽनृतस्य वक्तुर्जिह्वाऽस्य छिद्यताम् ।
प्रसह्य काममोहेन व्यवायिनोऽसिधारया ।।२२ ।।
छित्वा पापस्य लिंगं च क्षारमग्निश्च दीयताम् ।
अनेन कृत्वा षड्यन्त्रं दायादा बहवो जनाः ।।२३ ।।
विनाशिताः स्वार्थहेतोर्भेदयन्तु शरैर्हि तम् ।
सुवर्णस्तेयिनं त्वेनं कृतघ्नं पितृनाशकम् ।।२४।।
गोघ्नं मुद्गरैः संचूर्ण्य क्षारेऽग्नौ भर्जयन्तु वै ।
इमं कन्याहरं विप्रं खादन्तु कृत्यका द्रुतम् ।।२५।।
पिशुनं ब्राह्मणं व्याघ्राः खादन्तु तीक्ष्णदंष्ट्रकाः ।
इम पचन्तु पाकेषु बहुधा मर्मभेदिनम् ।।२६।।
देवाग्निपूजया हीनं वीरघ्नं देवनिन्दकम् ।
कर्कटेषु मोचयन्तु देवद्रव्यविनाशकम् ।।२७।।
क्षिपन्त्विमं ह्रदे तप्ते सर्वयाजनयाजकम् ।
अदानकारकं धर्मविक्रयिणं खलं द्विजम् ।।२८।।
तोयभोजनहर्तारं घ्नन्तु दण्डैः सुदारुणैः ।
वेणुदण्डकशाभिश्च लोहदण्डैश्चिपीटकैः ।।२९।।
जलमस्मै न दातव्यं भोजनं च कदाचन ।
हतं विश्वास्य हन्तारं पाचयन्तु महानले ।।1.360.३ ०।।
देवद्रव्यं हृतं येन तमेनं पाचयन्त्वपि ।
राज्ञस्तु मारके गुरोर्मारके बालमारके ।।३ १ ।।
योजयन्तु राजयक्ष्मरोगं क्षिपन्तु कन्दरे ।
कूटशाल्मलिवृक्षे स्त्रीघातकं घातयन्तु वै ।।३२।।
मांसादं तु वर्षशतं भक्षयन्तु यमानुगाः ।
ततः पाकेषु घोरेषु पच्यतां स नराधमः ।।३३।।
ततो मानुषतां प्राप्य गर्भस्थो म्रियतां मुहुः ।
दशगर्भमृतो भूत्वा क्लेशभागी प्रजायताम् ।।३४।।
बुभुक्षारुग्विकारैश्च सततं तत्र पीड्यताम् ।
यन्त्रेण पीड्यतां त्वेषो मित्रविश्वासघातकः ।।३५।।
दीप्यतां ज्वलने घोरे ततो वर्षशतद्वयम् ।
ततः श्वयोनिमापन्नो रोगी भवतु सर्वदा ।।३६।।
ततो रोगार्तदेहस्थो मानुषो जायतामयम् ।
रसहर्ता लवणादिहर्ताऽयं जायतां कृमिः ।।३७।।
वर्षाणां तु शतं पञ्च विष्ठाकृमिश्च जायताम् ।
ततः शकुन्तस्तत्पश्चाद् वृको भवतु नीरसे ।।३८।।
इममग्निप्रदं वह्नौ तापयन्तु मुहुर्मुहुः ।
पश्चान्मृगो वर्षशतं कीटो वर्षशतं ततः ।।३९।।
ततोऽतिदुःखयुक्तोऽसौ मानुषो जायतां घृणी ।
परद्रव्यापहाराँश्च रौरवे पातयन्त्विमान् ।।1.360.४०।।
कुम्भीपाकेषु संपच्य क्षिपन्तु रासभे कुले ।
पश्चान्मलादवाराहे ततश्चौरकुले नरे ।।४१ ।।
यत्र दुःखपरीताश्च कृतं वै भुंजते ग्रः ।
परोपघातिनं त्वेनं बद्ध्वाऽधोमस्तकं द्रुमे ।।४२।।
अग्निना पाचयन्त्वेनं क्षिपन्तु लुब्धजन्मसु ।
ततो वर्षशते पूर्णे मुञ्चन्त्वेनं यमानुगाः ।।४३ ।।
पिशुनं वज्रतीरेण प्रविद्ध्य वहने ततः ।
क्षिपन्तु सूकरयोनौ ततो नकुलजन्मसु ।।४४।।
इममानृतिकं क्षेत्रहारकं कूटसाक्षिणम् ।
प्रक्षिपन्त्वन्धतामिस्रे ततस्तिर्यक्पशुद्रुमे ।।४५।।
यथाकर्म जनुं लब्ध्वा बधिरोऽन्धश्च मानुषे ।
मूकः काणो व्याधियुक्तो जायतां वै पुनः पुनः ।।४६ ।।
भूमिहरं क्षेत्रहरं बद्ध्वा वै पाचयन्त्विमम् ।
पश्चात्स जायतां पापो मार्जारः क्षुधयाऽर्दितः ।।४७।।
इमं शाकुनिकं पापं श्वभिर्गृध्रैश्च दारुणैः ।
घातयन्तु ततश्चैनं क्षिपन्तु कुक्कुटे कुले ।।४८।।
दंशयोनौ मशकेषु क्षिपन्तु पापकर्मिणम् ।
इमं सौकरिकं पापं महिषा घातयन्तु वै ।।४९।।
ततः सूकरयोनौ च महिषे कुक्कुटे शशे ।
जम्बूके क्रमशो गत्वा भक्ष्यो भवतु तत्र सः ।।1.360.५०।।
ततो व्याधो भवत्वेषः पापात्माऽरण्यवासवान् ।
अथोच्छिष्टान्नदातारं पचन्त्वंगारकैर्मुहुः ।।५१ ।।
भिन्नचारित्रदुःशीलां भर्तुर्व्यलीककारिणीम् ।
आयसान्पुरुषान्सप्ताऽऽलिंगयन्तु समन्ततः ।।५२।।
शूनी भवतु संकष्टा सूकरो दुःखिता त्वनु ।
पश्चाद्दासीजन्म लब्ध्वा बहुभोग्या भवत्वियम् ।।५३।।
अनेन भृत्या बहवो वञ्चितो दुःखिताः कृताः ।
रौरवे नरके त्वेनं निक्षिपन्तु दुरासदे ।।५४।।
पश्चादयं क्रूरजातौ सर्पादौ जायतां ततः ।
सूकरे च शृगाले च बके मेषे च वाजिनि ।।५५।।
भूत्वा भूत्वा गर्दभादौ श्वजातौ वृषजातिके ।
ततो वै जायतां दासवर्गे दुःखतरे ह्ययम् ।।५६ ।।
एतत्सर्वं श्रुतं दृष्टं विप्राः प्रत्यक्षमेव ह ।
अन्यान्यपि च पापानि चित्रगुप्तो दिदेश तान् ।।५७।।
धर्मव्रतादिहीनानां पापपक्षानुगामिनाम् ।
यमकाराग्रहे वर्षसाहस्रं वासमेव च ।।५८।।
कारयन्तु यमदूता हिंसाविहारिणा तथा ।
सूचकानां च कार्यप्रदूषकाणां गुरुद्रुहाम् ।।५९।।
दावाग्निसंप्रदातॄणां पाचनं पावके भटाः ।
कुर्वन्तु च ततो गर्भे प्रेरयन्तु च मानुषे ।।1.360.६ ०।।
अल्पायुषो व्याधिग्रस्ता भविष्यन्ति स्वपापतः ।
गर्भे एव मरिष्यन्ति यद्वा नश्यन्ति बालकाः ।।६ १ ।।
अप्राप्तयौवनाः केचिद् मरिष्यन्ति प्रहिंसकाः ।
काष्ठपाशे शस्त्रपाशे वायौ वह्नौ जलेऽथवा ।।६ २ ।।
पतनेन तथा नाशं ते यास्यन्ति विषेण वा ।
मातापितृवधकष्टं प्राणातिपतनं तथा ।।६ ३ ।।
प्राप्स्यन्ते स्वजनाद्दुःखं हिंसका घातकास्तथा ।
लोहकाः कारुका गर्तकारकाः प्राणिहिंसकाः ।।६४।।
मूत्राण्डनाशका ये च गरदाः पुरदाहकाः ।
ये तु पञ्जरकर्तारः शूलाद्यैस्तु प्रघातकाः ।।६५।।
पिशुनाः कलहाश्चापि मिथ्यादूषणकारिणः ।
पशुनाशकरा जीवोद्वेजका ये च घातकाः ।।६६ ।।
पश्यन्तां नरके घोरे यातनासु पुनः पुनः ।
कर्मक्षये जनुं प्राप्ता हीनांगाः संभवन्तु ते ।।६७।।
दरिद्राः कर्मभिस्तत्र कर्णयोः छेदनं तथा ।
नासाप्रच्छेदनं हस्तपादप्रच्छेदनं तथा ।।६ ८।।
प्राप्नुवन्तु मानसं शारीरं दुःखं तु सर्वदा ।
गलदुःखाः शिरोदुःखाः कुक्ष्यामया भवन्तु ते ।।६ ९।।
जडाऽन्धबधिरा मूकाः पंगवः करसर्पिणः ।
एकपक्षहताः काणाः कुनखाश्चामयाविनः ।।1.360.७०।।
कुब्जाः खञ्जा विकलाश्च फुल्लपादा घटोदराः ।
गलत्कुष्ठाः श्वित्रकुष्ठा वाताऽण्डाश्चाण्डवर्जिताः ।।७१ ।।
प्रमेहमधुमेहार्ता योनिशूलाऽक्षिशूलकाः ।
श्वासहृद्गुह्यशूलाश्च प्लीहगुल्मादिरोगिणः ।।७२।।
भवन्तु मानुषे भावे स्वकर्मफलभोगिनः ।
मिथ्याप्रलापिनः क्रूरान् पाचयन्तु यमानुगाः ।।७३ ।।
कर्कशान्निन्दकान् दूताः! पिशुभान्कटुकाँस्तथा ।
स्नेहक्षयकरान् रूक्षान्मर्मघ्नान् वाक्प्रदूषकान् ।।७४।।
गालीदान्निष्ठुराँस्त्यक्तलज्जान् शठाँश्च निर्दयान् ।
समत्सरान् सेर्ष्याश्चण्डान् बन्धयन्तु नराधमान् ।।७५।।
ततस्तिर्यक्कीटपक्षिपशुष्वेतान क्षिपन्तु वै ।
ततो मनुष्यभावे ते भवन्तु लोकनाशकाः ।।७६ ।।
परिभूता अविज्ञाना नष्टचित्ता अकीर्तयः ।
अनर्च्याश्चाप्यनर्हाश्च स्वजनैरवमानिताः ।।७७।।
लोकद्वेषकरा द्वेष्या मित्रज्ञातिनिराकृताः ।
मिथ्याकलंकभोक्तारो वज्रशस्त्रविषादिभिः ।।७८।।
नाशं प्राप्ता भवन्त्वेते मिथ्याकलंकदूषणाः ।
अथाऽन्यत्तु श्रुतं तत्र चित्रगुप्तोदितं बहु ।।७९।।
स्तेयहारं प्रहारं च नीतिहारं करोति यः ।
स्तेयकर्माणि कुर्वन्ति प्रसह्य हरणानि च ।।1.360.८०।।
करचण्डाशिनो ये च राजच्छायोपजीविनः ।
पीडयन्ति प्रजाः सर्वास्तान्नराऽधमपापिनः ।।८१ ।।
सुवर्णमणिमुक्तादिकूटक्रयानुकारकान् ।
समये च कृतघ्नाँश्च स्वार्थमात्रपरायणान् ।।८२।।
भूतप्रेताभिचारघ्नान् धातुभेदकराँस्तथा ।
न्यासार्थहारकान्मन्त्रमोहनादिकराँस्तथा ।।८३ ।।
क्षुद्रोपाधिकरान् दीर्घं पाचयन्तु प्रपापिनः ।
दीननिर्धनकृपणपराश्रितादिकष्टदान् ।।८४।।
निक्षिपन्तु महागर्तेऽन्धकारे वृश्चिकान्विते ।
कर्मक्षये तु ताँस्तत्र योजयन्तु जनौ जने ।।८५।।
यत्र चौरभयं वारिक्षुद्भयं राजतो भयम् ।
आपद्भयं महदीतिभयं व्याधिभयं तथा ।।८६ ।।
धूर्तप्रजाजनो यत्र नगरं शठवासितम् ।
उपसर्गाः क्षणं यत्र न त्यजन्ति कदाचन ।।८७।।
अथ श्रुतं मया चान्यच्छृणुतात्र द्विजाः! पुनः ।
त एते पापकर्माणो जायन्तां यत्र पीडनम् ।।८८।।
बहुदुःखपरिक्लिष्टां गर्भवासेऽपि पीडिताः ।
एकहस्ता द्विहस्ता वा वृक्णाश्च विकृतोदराः ।।८९।।
रुग्णनाडीकृतदुःखा हीनांगा वायुरोगिणः ।
सदा रोरूयमाणाश्च दारहीना व्यवायिनः ।।1.360.९०।।
अपत्यहीना कृपणा भैरवस्वनवालकाः ।
उच्छिष्टभोजकाश्चातिवेदनाभिः सुसंवृताः ।।९१ ।।
रूपतो गुणतो हीना बलतः शीलतस्तथा ।
भृत्यानामपि भृत्यास्ते तृणीभूता भवन्तु ते ।।९२।।
नित्यं यत्र नृपदण्डो वधो वा कृच्छ्रमेव वा ।
वृष्टिशीतकृतोद्वेगाः सर्वकार्ये क्षयाऽऽगमाः ।।९३ ।।
अकीर्तिभागिनश्चापि शुभेऽप्यशुभभागिनः ।
सुवृष्ट्यामपि येषां वै क्षेत्रं वृष्टिर्विवर्जयेत् ।।९४।।
अशनिर्वा पतेद् यत्र क्षेत्रं तद्वा विनश्यति ।
न सुखं नापि मरणं क्लेशो येषां तु भालके ।।९५।।
तत्र भवन्तु ते पापाः स्तेनाद्या लोककष्टदाः ।
अथ प्रसह्य दारादिप्रसक्तानां तु यातनाम् ।।९६।।
शृणुताऽत्र भटा यत्र निक्षेप्तव्या हि पापिनः ।
तिर्यङ्मानुषदेहेषु प्रसह्य कामिनस्तु ये ।।९७।।
कामुक्यो वा विहरन्ति धर्मचारित्रदूषिकाः ।
प्रसह्य वा भयं दत्वा ये चरन्ति कुलांगनाः ।।९८।।
वर्णसंकरकर्तारस्तान् क्षिपन्त्वनले मुहुः ।
बहुवर्षसहस्राणि पाचयन्तु ततश्च तान् ।।९९।।
क्षिपन्तु मानुषे भावे यत्र संकीर्णयोनिजाः ।
वेश्यालंघटकूटाश्च नैकमैथुनकुक्षिजाः ।। 1.360.१० ०।।
स्त्रीबन्धकाः स्त्रीविनाशाः स्त्रीवेषाः स्त्रीविहारिणः ।
स्त्रीदासाः स्त्रीभोगभोग्याः स्त्रीभावाः स्त्रीप्रकर्मिणः ।। १०१ ।।
बीभत्सदर्शना यत्र तत्र क्षिपन्तु तान् जनान् ।
नार्योऽपि तत्स्वभावाश्च तद्वद् भवन्तु दुःखगाः ।। १ ०२।।
इति श्रुतं मया सर्वं नाचिकेता जगाद तान् ।
इति ते कथितं लक्ष्मि! चित्रगुप्तनिदेशनम् ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्ताने याम्यचक्रे पापिनां दण्डदानाय चित्रगुप्तकृताज्ञया विविधयातनासु मन्देहादिराक्षसैः कृतनारकि-
पीडनादिप्रदर्शननामा षष्ट्यधिकत्रिशततमोऽध्यायः ।। ३६ ० ।।