लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३५९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३५९
[[लेखकः :|]]
अध्यायः ३६० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! नाचिकेता दृष्टवान् यमयातनाः ।
जगाद् ब्राह्मणान् सर्वान् यथादृष्टा वदामि ते ।। १ ।।
नाचिकेता द्विजान्प्राह राजा प्रेतपुराधिपः ।
सभामध्ये मया दृष्टो बहुकार्यविचक्षणः ।। २ ।।
मे त्वेकमृषभं यमः सत्कारार्थं ददौ तथा ।
आसनं पाद्यमर्घ्यं च पूजां मे विधिना ददौ ।। ३ ।।
न्यषादयत् कांचनस्यासने मां पुष्पशोभिते ।
पूर्वं रौद्रमुखः किन्तु तदा सौम्याननोऽभवत् ।। ४ ।।
लोहिते तस्य नेत्रेऽपि जज्ञाते पद्मसदृशे ।
एवं दृष्ट्वा मया तत्र विश्वस्तं भावनान्विते ।। ५ ।।
अथ स्तुतिः कृता तस्य सुशान्तहृदयेन वै ।
त्वं वै कर्मफलदाता पितॄणां परमो महान् ।। ६ ।।
श्राद्धे धाता विधाता च धर्मराज! नमोऽस्तु ते ।
कालकाल! कर्मवेत्तृन्! प्रेतनाथ! नमोस्तु ते ।। ७ ।।
दण्डपाणे! पाशहस्त! धर्ममूर्ते! नमोऽस्तु ते ।
सूर्यवर्णं! कृष्णवर्णं! हव्यकव्याद्! ते नमः ।। ८ ।।
सुरूप! क्रूररूपाऽपि न्यायमूर्ते! च ते नमः ।
न त्वां चालयितुं शक्तास्तापसा ऋषयोऽपि वा ।। ९ ।।
इतिस्तोत्रं शुभं श्रुत्वा यमराज उवाच माम् ।
परितुष्टोऽस्मि भद्रं ते ब्रूहि किं करवाणि ते ।। 1.359.१ ०।।
अहं तदाऽवदद् तस्मै देशं ते दर्शय प्रभो! ।
पापानां च शुभानां च द्रष्टुमिच्छामि यातनाः ।। ११ ।।
चित्रगुप्तं प्रधानं ते द्रष्टुमिच्छामि दर्शय ।
यमराजः समाहूय दूतं मां चाप्यप्रेषयत् ।। १२।।
चित्रगुप्तं प्रति प्रीत्या मां दृष्ट्वा चित्रगुप्तकः ।
प्रत्युत्थाय चकारातिस्वागतं वै कृतांजलिः ।। १ ३।।
उवाचैनं दर्शयन्तु भृत्याः! प्रेतनिवासनम् ।
अस्य रक्षा च गुप्तिश्च भवद्भिः क्रियतामिति।। १४।।
सन्दिष्टा मां त्वरमाणा दूता निन्युः फलालयम् ।
द्वाराभ्याशे मया दृष्टं शृणुतैतद्भयावहम् ।। १५।।
यमदूता बन्धयन्ति निर्दहन्ति च देहिनः ।
पाटयन्ति प्रहारैश्च ताडयन्ति पुनः पुनः ।। १६।।
वेणुयष्टिप्रहारैश्च प्रहरन्ति च पापिनः ।
भग्ना भिन्नाः छिन्नगात्रा भग्नपृष्ठशिरोधराः ।। १७।।
रुदन्ति करुणं घोरं त्रातारं नाप्नुवन्ति ते ।
केचिन्नरके पच्यन्ते दह्यन्ते चोग्रपावके ।। १८।।
तैलपाके विपच्यन्ते क्षारे क्लिद्यन्त एव च ।
केचिद् यन्त्रे प्रपीड्यन्ते शोणितं स्रवते ततः ।। १९।।
वैतरणी नदी तत्र वहति दुस्तराऽघिनाम् ।
आरोप्यन्ते महाशूले बध्यन्ते पादयोस्तथा ।।1.359.२०।।
प्रक्षिप्यन्ते वैतरणीनद्यां दशन्ति दंष्ट्रिणः ।
अध ऊर्ध्वं जलावर्त्तभ्रमिता ऊर्मिदुःखिताः ।।२१ ।।
विलोक्यन्ते सहस्राणि शुष्यन्ति त्वपरेऽनिले ।
मञ्जन्तश्च वमन्तश्च मूर्छयन्तश्च देहिनः ।।२२।।
दृश्यन्ते बहवस्तत्र त्रातारं नाप्नुवन्ति ते ।
अथाऽन्ये बहुभिर्दूतैरारोप्य कूटशाल्मलिम् ।।२३।।
असिशक्तिप्रहारैश्च ताड्यन्ते लोहकण्टकैः ।
कूष्माण्डा यातुधानाश्च कांश्चित् संचूर्ण्य यान्ति च ।।२४।।
राक्षसा मांसभोक्तारः खादन्ति घ्नन्ति चापरान् ।
चूषयित्वाऽपरान् केचिद् विसृजन्ति क्षितौ तथा ।।२५।।
ततो जीवेन संयुक्ताश्चूषिता अपि वै पुनः ।
यथापूर्वाः प्रजायन्ते चूषयन्ति च तान्पुनः ।।२६।।
पापास्ते पाहि मुञ्चेति वदन्त्यपि यमानुगाः ।
पापप्रतिफलार्थं वै सूदयन्ति पुनः पुनः ।।२७।।
पाषाणवर्षैः केचित्तु पांशुवर्षैस्तथाऽपरे ।
मृद्यन्ते विद्रुताः प्रविशन्ति बिले ज्वलन्ति च ।।२८।।
दूतैर्हता महाग्नौ ते पच्यन्ते वंशताडिताः ।
जलं प्रदीयतां चेति ब्रुवते नः प्रसीदथ ।।२९।।
तप्तं जलं दीयते च पिबन्ति हृदये तदा ।
दह्यन्ति चान्तरैस्तापैः क्रोशन्ति च भयंकरम् ।।1.359.३०।।
अथ पुण्यवतां भूमिर्दृष्टा यत्र मया मुहुः ।
सुखिनोऽपि प्राणिनो वै दृष्टा मोदभरास्तथा ।।३१ ।।
येषामग्रेऽन्नमिष्टान्नभक्ष्याणां सन्ति राशयः ।
दधिक्षीररसाश्चापि कृसरान्नं च पायसम् ।।३२।।
फलानां राशयश्चापि पेयानां कलशा ह्रदाः ।
भोज्यचोश्यसुलेह्यानि बहूनि सन्ति सन्निधौ ।।३३।।
द्रव्याणि तैलपूगादिचर्वणानि विभान्ति च ।
तपोऽर्जितानि दिव्यानि तिष्ठन्ति सुकृतात्मनाम् ।।३४।।
माल्यानि धूपगन्धाश्च वस्त्रभूषापरिच्छदाः ।
मनोहरास्तथा कान्ता कान्तिमत्यो रमन्ति च ।।।३५।।
प्रमदाः सर्वविभूषा युवत्यो भोजनानि वै ।
कान्तान् स्वर्णासने परिवेषयन्ति विलोकिताः ।।३६।।
गृहीतकुंभमणिकाः पात्रहस्तास्तथाऽपराः ।
सुमनःपाद्यहस्ताश्च भोजयन्ति सहस्रशः ।।३७।।
नूपुरशृंखलाशोभिकिंकिणीजालसुस्वनाः ।
सन्निधाय सुभोग्यानि तिष्ठन्ति च मनोहराः ।।३८।।
सेवन्ते चातिविश्रान्तान् यूनो रूपगुणाकरान् ।
ब्रूवते मिष्टमधुरस्वरं काले च योषितः ।।३९।।
अथोपदेशकर्तारो दूताश्चाप्यवलोकिताः ।
निघ्नन्तश्च हसन्तश्च क्रूरा निष्ठुरवादिनः ।।1.359.४०।।
भो भोः कृतघ्ना लुब्धाश्च सर्वदानविवर्जिताः ।
परापवादनिरताः परात्मदुःखदा जनाः ।।४१ ।।
सुलभानि न दत्तानि विभवे सति लौकिके ।
पानीयमथ काष्ठानि मिष्टान्नं सुखमागतम् ।।४२।।
तेन वध्या भवन्तो वै जाता यमकरैरिह ।
कर्मणां तु क्षयं कृत्वा विमुक्ता यान्तु वै भुवम् ।।।४३ ।।
पुनः पापं न कर्तव्यं दरिद्रकुलजन्मिभिः ।
पुण्यं सम्यक् प्रकर्तव्यं पुण्याः स्वर्गं हि भुञ्जते ।।४४।।
ततः सत्यरता भूत्वा दयावन्तः सुधार्मिकाः ।
गच्छन्तु परमं स्थानं पृथिव्यां वा महत्कुले ।।४५।।
कृष्णाऽऽराधनया भक्त्या भविष्यति परागतिः ।
यद्वा सुन्दरनारीणां स्मृद्धं स्वर्गमवाप्स्यथ ।।४६ ।।
इति स्पष्टं मया तत्राऽऽकर्णितं सूपदेशनम् ।
अथाऽप्यग्रे नीतवन्तो भृत्या मां भूमिकान्तरम् ।।४७।।
अर्दनं ताडनं यत्र मर्दनं छेदनं तथा ।
चूर्णनं भेदनं यत्र दाहनं कच्चरादिवत् ।।४८।।
जीवानां वै मया दृष्टं पापिनां त्रासदायकम् ।
नोत्सहे वर्णनं कर्तुं दयार्द्रहृदयं यतः ।।४९।।
तथाप्याग्रहयुक्तत्वाद् ऋषयः! प्रवदाम्यहम् ।
यत्र क्षितितलं सर्वमायसैः कण्टकैश्चितम् ।।1.359.५०।।
विषमं विषसंलग्नं वह्निव्याप्तं तमोमयम् ।
अथात्र छिन्नपादाश्च छिन्नपाणिशिरोधराः ।।५१ ।।
पापाचारा वपुष्मन्तः पात्यन्ते यमभृत्यकैः ।
स्त्रियः कृत्यास्वरूपाश्च प्रतीक्षन्ते व्यवायिनः ।।५२।।
आगतान् वह्निसंतप्ते निक्षिपन्ति शिलातले ।
क्लिश्यन्ति बहवो दुष्टास्त्रातारं नाप्नुवन्ति ते ।।५३ ।।
अथाऽन्ये तु श्वभिर्घोरैरापादतलमस्तकम् ।
भक्ष्यमाणा मया दृष्टाः प्रक्रोशन्तो मुहुर्मुहुः ।।५४।।
अथाऽन्ये च मया दृष्टा महादंष्ट्राः कृशोदराः ।
क्षुधितास्तृषिताः सूचीमुखा पीड्यन्त एव ते ।।५५।।
अन्नानि भोज्यवस्तूनि मिलन्ति नैव वार्यपि ।
अयःसारमयी नारी वह्नितप्ता हि कृत्यका ।।।५६ ।।
आलिंगति नरं तत्र धावन्ते त्वनुधावति ।
वदत्यहं ते भगिनी ह्यहं भार्या सुतस्य ते ।।५७।।
मातृस्वसा पितृस्वसा मातुलानी च ते ह्ययम् ।
गुरुभार्या सुता तेऽस्मि पूर्वं प्रसह्य धर्षिता ।।५८।।
पुंस्त्वं पापफलं पाप! मोक्ष्यसे नहि दुष्कृतात् ।
ज्वालयिष्ये हनिष्येऽहं कथं धावसि दूरतः ।।५९।।
श्रावयन्ति बोधयन्ति चाभिद्रवन्ति पापिनाम् ।
अनुपीड्य दुरात्मानं धर्षयन्ति सुदारुणम् ।।1.359.६०।।
किं क्रन्दसि दुष्कर्मिन् त्वां परिष्वक्तो रतिं कुरु ।
यत्र क्वापि धावसि त्वां न त्यक्ष्ये पारदारिकम् ।।६ १ ।।
एतत् कुतुहलं दृष्टं युवत्यस्तादृशान्नरान् ।
लोहयष्टिप्रहाराद्यैस्ताडयन्ति पुनः पुनः ।।६२।।
अथाऽन्ये दुःखिनो दृष्टास्ताडिता दण्डमुद्गरैः ।
व्याघ्रसिंहशृगालाद्यैः राक्षसैर्गर्दभैः श्वभिः ।।६३।।
भक्ष्यन्त श्वापदैः काकैर्गृध्रैश्च कृकलासकैः ।
अथान्ये च मया दृष्टा विदारिता विभेदिताः ।।६४।।।
असितालवने दूतैर्ज्वालावने प्रदाहिताः ।
छिन्ना दग्धा हन्यमाना विधृष्टाश्च नदन्ति ते ।।६५।।
तान् वयांस्यायसैस्तुण्डैर्दंष्ट्राभिः श्वादयस्तथा ।
क्रव्यादा हिंसका व्याघ्राः खादन्ति रुषितास्तदा ।।६६।।
ऋक्षद्वीपे मया दृष्टा यमऋक्षैर्विपाटिताः
केचिन्मुद्गरभग्नांगाः शूललग्नास्तथा परे ।।६७।।
अन्ये क्षिप्ता मया दृष्टा वापीह्रदनदीषु ते ।
रुधिरस्य तडागेषु कूपपुष्करिणीषु च ।।६८।।
पूतिमांसकृमिकीटाऽमेध्येषु च सरस्सु च ।
जिघ्रन्तः पापिनो गन्धं मज्जन्तश्चावलोकिताः ।।६९।।
अस्थिपाषाणरुधिरवर्षाभिश्चूर्णितास्तथा ।
धावन्तश्च प्लवन्तश्च हा हताः स्म प्रभाषिणः ।।1.359.७०।।
क्रन्दन्तः करुणस्तत्र रुद्धा विद्धाः श्रुता मया ।
स्थूलस्थाणुप्रबद्धाश्च केचिदुद्बन्धने धृताः ।।७१ ।।
शिलाभिरर्दिताश्चान्ये शस्त्रैश्च शकलीकृताः ।
मया वै दुःखिनो दृष्टाः क्रन्दनं दारुणं श्रुतम् ।।७२।।
दर्शिताश्च ततो दूतैरष्टौ नरका दारुणाः ।
तप्तं चापि महातप्तं महारौरवरौरवौ ।। ७३ ।।
सप्ततालः कालसूत्रं तामिस्रोऽन्धतामिस्रकः ।
प्रथमे प्रथमं दुःखं द्वितीयं द्विगुणं त्वकम् ।। ७४।।
तृतीये त्रिगुणं कष्टं चतुर्थे तु चतुर्गुणम् ।
पञ्चमे पञ्चगुणकं षष्ठे षड्गुणकष्टकम् । ।७५।।
सप्तमे सप्तगुणकमष्टमेऽष्टगुणं त्वकम् ।
दुःखितानां तत्र दुःखं दुःखाद् दुःखतरं ततः ।।७६।।
दुःखमेवाऽत्र न सुखं दुःखैर्दुःखं विवृध्यते ।
उपायस्तत्र नैवास्ति येन स्वल्पं सुखं भवेत् ।।७७।।
शब्दे स्पर्शे रसे रूपे गन्धे शारीरमानसैः ।
दुःखान्तगामिभिर्दुःखैः पीड्यन्ते पापकारिणः ।। ७८।।
आयसैः कण्टकैस्तीक्ष्णैस्तप्तैस्तप्ताऽऽवृता स्थली ।
अन्तरीक्षं खगानीकैरग्निजिह्वैः समावृतम् ।।७९।।
बुभुक्षाऽति पिपासाऽति उष्णमत्युष्णमित्यपि ।
शीतं चाप्यतिशीतं च वायुर्ज्वालाऽतिमिश्रितः ।।1.359.८० ।।
पातुकामो जलं दूतैर्नीयते सर उष्णकम् ।
प्रेक्षते धावति पातुं पिबत्यन्तः प्रदह्यति ।।८१ ।।
तस्य पक्वानि मांसानि राक्षसा मत्स्यकादयः ।
अवधृत्य समुत्पाट्य खादन्ति च हसन्ति च ।।८२।।
अथ क्षारोदके तैश्च क्षिप्यते वै महाह्रदे ।
क्षारहूता भक्षयन्ति समांसो जायते पुनः ।।८३ ।।
करीषगर्ते सन्तप्ते कुंभीपाके भयंकरे ।
पेशीं पेशीं सुपक्वां च समुत्पाट्य तु देहिनः ।।८४।।
खादन्ति यमगाः पिष्ट्वा दशनैः स्वादवेदिनः ।
इति दृष्टा मया पापाः क्रोशन्तोऽदूरवर्तिनः ।।८५।।
अथ शृंगाटकस्थल्यां दृष्टाः सुतप्तवालुके ।
स्थले दह्यन्ते छिद्यन्ते विध्यन्ते कण्टकैश्च ये ।।८६ ।।
भिद्यन्ते चापि पात्यन्ते पीड्यन्ते यमदूतकैः ।
कृष्यन्ते च विशस्यन्ते ह्युत्कोच्यन्ते च पापिनः ।।८७।।
श्यामाः शबलाः श्वपदाः खादन्ति सर्पवृश्चिकाः ।
अथान्यश्च मया दृष्टो नरकः कूटशाल्मलिः ।।८८।।
कृष्यन्ते पापिनस्तत्र यावदस्थ्यवशेषिताः ।
कुट्यन्ते प्राणिनस्तत्र दूतैश्चूर्ण्यन्त उग्रकैः ।।८९।।
छिन्नंगाः सर्वगात्रेषु विन्दन्ति दुःखमुल्बणम् ।
अथान्या च मया दृष्टा नदी कर्दमवालुका ।।1.359.९० ।।
अग्निज्वालाप्रवाहा च वह्नेयव्यालनक्रका ।
आग्नेयझषसंव्याप्ता ह्युत्तार्यन्ते तु तां मराः ।।९१ ।।
तथा सरिद् वैतरणी दृष्टा लवणकर्दमा ।
चर्ममांसाऽस्थिपंका च समज्जालाललोहिता ।।९२।।
वज्रदंष्ट्रा कर्कटका वज्रजिह्वाश्च जन्तवः ।
महाविषाश्च मकरा झषाश्चाप्यस्थिभेदनाः ।।९३।।
यत्र पापान् भक्षयन्ति गिलन्ति चोत्किरन्ति च ।
पुनर्वै मांसलाः प्राग्वद् भवन्त्येव च पापिनः ।।९४।।
अथाग्रे भूतले शून्यागारं दृष्टं सगह्वरम् ।
मूषका वज्रदन्ताश्च सविषा भक्षयन्ति तान् ।।९५।।
मूषकैर्जग्धगात्राश्च ह्यस्थिमात्रावशेषिताः ।
पुनर्वै वायुना स्पृष्टा भवन्ति मांसलास्तु ते ।। ९६ ।।
अथाग्रे रुक्षकवनं दृष्टं रौद्रपतत्रियुक् ।
मांसादैः पक्षिभिर्यत्र वृक्षारूढोऽपि भक्ष्यते ।।९७।।
निर्मांसो निस्त्वगस्थी च निःशिराजालकस्तथा ।
निरक्षिश्रावणः पापः क्रियते तीक्ष्णचञ्चुभिः ।। ९८।।
अथाग्रे तु मया दृष्टो वटवृक्षो महारुणः ।
वज्रकाष्ठो ह्यप्रदाह्यो दोलासहस्रसंयुतः ।।९९।।
यदधो यमचुल्ली वै दशयोजनविस्तृता ।
त्रियोजनसुगम्भीरा नित्यं प्रज्वालिता हि सा ।। 1.359.१०० ।।
प्रेतानां तु सहस्राणि प्रयुतान्यर्बुदानि च ।
प्रक्षिप्यन्तेऽत्र सततं राक्षसैर्यमकिकरैः ।। १०१ ।।
वटशाखावद्धरज्ज्वा पापिनं त्वन्तरालके ।
अधःशिरसं त बध्वा भर्जयन्ति त्वदन्ति च ।। १ ०२।।
चुल्ल्यां क्षिपन्ति कश्चिच्च भर्जितानप्यदन्ति च ।
यमभृत्यास्तथा प्रेता आस्वादयन्ति हर्षिताः ।। १ ०३।।
चुल्लीकुक्षेः शकुनिकाऽभिधा नदी तु वेगिनी ।
वसामेदोवहा याति तत्र क्षिपन्ति पापिनः ।। १ ०४।।
तत्राऽथ दृष्टमत्युग्रं यातनासप्तकं ततः ।
एकैकं दुस्तरं घोरं भुंक्ते पापी यथाक्रमात् ।। १ ०५।।
दश तत्र महाशूलाः कुंभीपाकास्त्रयोदश ।
वह्नितप्तेषु शूलेषु प्रोताः पच्यन्त एव ते ।। १०६ ।।
शुष्कोदपाने सधूम्रे ह्यधःशीर्षोऽवलम्बते ।
तप्ततैलकटाहे च ज्वाल्यते पच्यते तथा ।। १ ०७।।
करीषगर्ते निक्षिप्तः पच्यते मेदवह्निना ।
एवं दृष्टा मया जीवाः पच्यमानाः प्रदाहिताः ।। १ ०८।।
अथो यमनदी दृष्टा तप्तत्रपुप्रवाहिका ।
तत्र निमज्ज्य जीवा वै पच्यन्ते पापकारिणः ।।१ ०९।।
अथ शीतजला दृष्टा दीर्घिका शीतकानना ।
यत्र शीतजलं पीत्वा क्षणं विश्रान्तिराप्यते ।।1.359.१ १ ०।।
भक्ष्यं भोज्यं यमस्वसा यमी ददाति तत्र वै ।
ततः शूलत्रहो नाम पाषाणः शतयोजनः ।। १११ ।।
पर्वतो हि मया दृष्टो जीमूतस्तत्र वर्षति ।
जीवास्तत्र निमज्जन्ति त्वग्रे गच्छन्ति वै ततः ।। १ १२।।
ततः शृंगारकवन दृष्टं सदंशमक्षिकम् ।
दृष्टः पापी च वा स्पृष्टः कृमिरूपो हि जायते ।। ११ ३।।
अथान्या भूमिका दृष्टा यत्र पश्यति बान्धवान् ।
मातरं पितरं पुत्रान् दाराँस्तथा प्रियान् जनान् ।। १ १४।।
तेषामग्रे वध्यमानः क्रन्दते त्रासदं तदा ।
लगुडैर्मुद्गरैर्दण्डैर्जानुभिर्वेणुभिस्तथा ।। १ १५।।
मुष्टिभिश्च यष्टिभिश्च कशाभिः शृंखलादिभिः ।
अथान्या भूमिका दृष्टा प्रेतस्थावरताप्रदा ।। ११६ ।।
तत्र यातो व्रजेद् प्रेतः स्थावरं भावमेव यत् ।
षष्टिवर्षसहस्राणि पशुभावे तु विन्दति ।। १ १७।।
स्वेदजो जायते पश्चात् ततः पक्षी प्रजायते ।
गोयोनौ तु ततो गत्वा पुनर्भवति मानवः ।। १ १८।।
यादृक् संसारचक्रं वै तद्भावे त्वस्ति रेखितम् ।
तथा ता यातना भुक्त्वा विप्रादिषु प्रजायते ।। ११ ९।।
इत्यन्तं वै मया दृष्टं यमदूतैः प्रदर्शितम् ।
श्रान्ता मत्सहिता दूता ययुस्ते चित्रगुप्तकम् ।। 1.359.१ २०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने याम्यचक्रे नाचिकेतःकृतयमराजस्तुतिः, विविधनरकावलोकनाय यमराजाऽऽज्ञा, दुःखदनिरययातनावलोकनम्, यातनावर्णनम्, नाचिकेतसा सहितानां दूतानां चित्रगुप्तं प्रत्यागमनमित्यादिनिरूपणनामैकोनषष्ट्यधिकत्रिशततमोऽध्यायः ।।३५९।।