लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३५८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३५८
[[लेखकः :|]]
अध्यायः ३५९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! नाचिकेताः स्वानुभूतं जगाद तान् ।
कथ्यमानं मया विप्राः शृण्वन्तु यमकौतुकम् ।। १ ।।
यममार्गे गच्छता तु मया दृष्टा हिं देहिनः ।
पुण्याः पुण्यविमानादिवाहनैः सहिताः सुखाः ।। २ ।।
पापाः साधनशून्याश्च यमदूतैः सुताडिताः ।
मार्गे तु विकटे यान्ति यमस्थानं सुदुःखिताः ।। ३ ।।
पापकृतान् कथयामि दृष्टा ये मार्गगा मया ।
असत्यवादिनः क्रूरा जन्तुस्त्रीबालघातकाः ।। ४ ।।
साधुब्रह्महणो दुःखकरा विश्वासघातकाः ।
शठाः कृतघ्ना लोलुभाः परदाराभिहारिणः ।। ५ ।।
कन्याघातकरा ये च धर्ममार्गविनाशकाः ।
प्रसह्य पापकर्तारो मद्यमांसादिसेविनः ।। ६ ।।
जिह्मा विनिन्दका मातृपितृगुरुप्रघातकाः ।
मातापित्रोस्त्याजकाश्च सतीसाध्वीसुदुःखदाः ।। ७ ।।
गुरुद्वेषकरा देवद्वेषिणो वंचकाः खलाः ।
गृहक्षेत्रहराः सेतुबन्धनाशकरास्तथा ।। ८ ।।
श्रद्धाहीना नास्तिकाश्च निर्दयाः शौचवर्जिताः ।
दारपुत्रविहीनाश्च व्रतभंगादिकारकाः ।। ९ ।।
द्विजा द्विजत्वहीनाश्च भ्रष्टाचारा विधर्मिणः ।
सर्वभक्षाः सर्वकार्याः सर्वमिथुनकारिणः ।। 1.358.१० ।।
आततायिजनाश्चापि पापिसंगकरास्तथा ।
पतिपत्नीक्लेशदाश्च पतिक्लेशप्रदाः स्त्रियः ।। ११ ।।
नारीक्लेशप्रदाश्चापि वित्तहारिण एव ये ।
कपटमानकर्तारो मिथ्यादोषकलंकदाः ।। १२।।
कूटौषधप्रदातारो वार्ताभिर्वञ्चकास्तथा ।
अग्निशस्त्रप्रहातारश्चक्रे तिलादिपीडकाः ।। १३।।
देवालयान्नसत्रादिभंजका वृक्षनाशकाः ।
कूटशासनका ये च सूचकाः कर्णभेदकाः ।। १४।।
तीर्थप्रदूषका ये च कलहेष्टातिनिष्ठुराः ।
नराः स्त्रियस्तथाकर्मकरा दृष्टा मया पथि ।। १५।।
गतास्ते यमसदनं चित्रगुप्ताद्यधिष्ठितम् ।
अहं द्रागेव गतवान् यमराजगृहांगणम् ।। १६।।
सत्यव्रताक्षराण्येव फालके मम ते भटाः ।
वाचयित्वा प्रणमन्ति दर्शयन्ति च मार्गकम् ।। १ ७।।
यमराजगृहं रम्यं महाप्राकारवेष्टितम् ।
दृष्टं मयाऽसनं तस्य गोपुरे दिवसत्रयम् ।। १८।।
कृतं पश्चाद् यमः साक्षादायातः स्वागताय मे ।
सम्मान्य निन्ये मां तस्य विशालभवनान्तरम् ।। १ ९।।
वरान् दत्वा ततो मह्यं धर्मराजपुरं महत् ।
दर्शितं तद्भटैस्तस्याज्ञया दृष्टं मयाऽभितः ।।1.358.२०।।
योजनानां सहस्रं तु विस्तराद् द्विगुणायतम् ।
द्विगुणं परिवेषेण परिखाभिः समावृतम् ।।२१ ।।
भवनैरावृतं दिव्यैर्जाम्बूनदमयैः शुभैः ।
हर्म्यैः शतोत्तरभूमिप्रासादैः शिखरान्वितैः ।।२२।।
अट्टालिकान्वितसौधैः कलशान्वितमन्दिरैः ।
सौवर्णेन च महता प्राकारेणाभिवेष्टितम् ।।२३।।
यत्र यमपुरीभृत्याः प्रधानाश्चाधिकारिणः ।
श्रवणा याम्याः कालाश्च भटाद्या वै निवासिनः ।।२४।।
तत्रमिष्टसलिलाश्च नद्यः सरांसि दीर्घिकाः ।
कूपास्तडागा नालिन्यो राजन्ते वल्लिकाद्रुमैः ।।२५।।
दास्यो दूत्यस्तथा पत्न्यः सेविका कन्यकाः सुताः ।
वसन्ति तत्कुटुम्बानि यमराजप्रजात्मकाः ।।२६ ।।
गजवाजिराजहंसोष्ट्रकगोवृषभादयः ।
नानाजातिपशवोऽपि विद्यन्ते तूपकारकाः ।।२७।।
शुकसारसमेनाद्याः पक्षिव्राता वसन्ति वै ।
सर्वजीवैः समाकीर्णं यमराजस्य सत्पुरम् । ।२८।।
पुष्पोदका नदी वृक्षवल्लीषण्डसुशोभिता ।
उद्यानादिलसत्तीरा स्वर्णसोपानवालुका ।।।२९।।
प्रतिसौधं गता यस्या नलिन्यो जलवाहिकाः ।
तत्र मिष्टशीतवारिह्रदेषु दिव्यवर्ष्मणः ।।1.358.३ ० ।।
गन्धर्वाः किन्नरा दूताः किन्नर्योऽपि सुशोभनाः ।
विशालजघना भूषाचंचद्गात्रा रतिप्रदाः ।।३ १ ।।
क्रीडन्ति स्नानकाले वै कामरूपधराः स्त्रियः ।
रामयन्ति नरस्तत्र यथाकामं यथासुखम् ।३२।।
तां नदीं क्षोभयन्त्यश्च गायन्ति स्वप्रियैः सह ।
दिव्यमौक्तिकरत्नादिकृतसोपानविस्तराम् ।।३३ ।।
वैवस्वतीं नामनदीं नगरमध्यगामिनीम् ।
दिव्यतोयां सदा पूर्णां कुन्दाभहंसराजिताम् ।।३४।।
पद्मवल्लीपुष्पषण्डवालखिल्यादिशोभिताम् ।
सुगन्ध्यमृतविमलसलिलां संनिनादिनीम् ।।।३५।।।
फलपुष्पतरुषण्डैः कन्दमूलादिभिर्युताम् ।
नार्यः स्वरूपा अवगाह्य क्रीडन्ति मदविह्वलाः ।।।३६।।।
तथा गायन्ति सहिता गीतवादित्रतालकैः ।
कन्यासमूहा यत्तीरोद्यानेष्वारामकेषु च ।।३७।।
अवतारेषु घट्टेषु नरा नार्यो मनोहराः ।
विहरन्ति प्रगायन्ति तन्त्रिमृदंगगीतिभिः ।।३८।।
गन्धः सुगन्धः पवनोऽगुरुचन्दनवासितः ।
शीतमन्दश्च हर्म्येषु चरत्यामोदकारकः ।।३९।।
विमानानि च यानानि वैहायसगमानि च ।
प्रचरन्ति जले व्योम्नि सकान्तप्रमदानि च ।।1.358.४०।।
राजमार्गा वसतय आनन्दानन्दसंप्लुताः ।
यावद्विधस्मृद्धियुक्ता आपणादिविराजिताः ।।४१ ।।
सभागृहाणि दिव्यानि दिव्यप्रदर्शनानि च ।
दिव्यनाटकनृत्यादिगीतिगृहाणि सन्ति च ।।४२।।
एवं दृष्टं यमपुरं विस्तृतं सुखसंभृतम् ।
पुण्यवतां तु द्वितीयं वैकुण्ठमिव भाषते ।।४३।।
अथ तद्गोपुरं रम्यं स्वर्णभूमिविराजितम् ।
दशयोजनविस्तारं ततो द्विगुणमायतम् ।।४४।।
प्राकारोभयपार्श्वं च प्रासादशतशोभितम् ।
समालिखदिवाऽऽकाशं नानायन्त्रप्रजालकम् ।।४५।।
स्वर्गमिव प्रकाशाढ्यं धर्मदर्शिप्रवेशनम् ।
देवर्षिपुण्यसत्कर्मकारिणां सुप्रवेशनम् ।।४६।।
तत्रैव विहितं द्वारं शारद्राभ्रचयप्रभम् ।
मनुष्याणां सुकृतीनां प्रवेशस्तत्र निर्मितः ।।४७।।
अथ धूम्रसमवर्णं बहुदोषसमन्वितम् ।
आयसं गोपुरं तत्र दक्षिणं भीमदर्शनम् ।।४८।।
रौद्रं तप्तं दावकरं प्रवेशो यत्र पापिनाम् ।
नृशंसानां घातकानां क्रव्यादानां दुरात्मनाम् ।।४९।।
पापानां खलु सर्वेषां जीवदुःखप्रदायिनाम् ।
गोपुरं पश्चिमं तत्र बहुशस्त्रादिनिर्मितम् ।।1.358.५०।।
औदुम्बरवह्निजालसमालिप्तं विदाहकम् ।
दुष्कृतीनां प्रवेशार्थं यमेन कारितं स्वयम् ।।५ १ ।।
तत्र पुरे सर्वरत्नमयी दिव्या सभाऽऽयता ।
यमेन योजिता सा च धर्मितपस्विमानवैः ।।५२।।
सत्यवादिजितक्रोधाऽलुब्धाऽरागैः सुशोभिता ।
सा सभा धर्मयुक्तानां सा सभा पापकारिणाम् ।।५३।।
सा सभा सर्वलोकस्य शुभस्यैवाऽशुभस्य च ।
कर्मणां न्यायदात्री सा सर्वोषां धर्मसंहिता ।।५४।।
यत्र मध्यस्थरूपा निरपेक्षा धर्मपाठकाः ।
चिन्तयन्ति फलान्येव सर्वलोकहिताय वै ।।५५।।
यथान्यायं यथालेखं यथाकालनिवेदकाः ।
मनुर्व्यासोऽत्रिरापस्तम्बश्च शुक्रो बृहस्पतिः ।।५६।।
नाचिकेता गौतमश्च शंखो लिखित इत्यपि ।
पुलस्त्यो भृगुरंगिरा वह्निर्वायुर्युगास्तथा ।।५७।।
पत्नीव्रतश्च पुलहस्तथाऽन्ये धर्मपाठकाः ।
यमेन सहिताः सर्वे चिन्तयन्ति प्रतिक्रियाम् ।।५८।।
सर्वे कार्यप्रचूरास्ते कुण्डलांगदभूषिताः ।
ब्रह्मदत्तमुकुटादितेजोभिर्दुर्निरीक्षणाः ।।५९।।
अथ तत्पार्श्वयोर्दिव्याः ऋषयो ब्रह्मवादिनः ।
वेदतदंगमर्मज्ञाः सत्यधर्मपुरस्कृताः ।।1.358.६०।।
तत्र चैवं मया दृष्ट्वा ऋषयः पितरः खलु ।
भवने धर्मराजस्य प्रगायन्तः पुरा कथाः ।।६ १ ।।
तेषां पार्श्वे मया दृष्टः कृष्णवर्णो महाहनुः ।
ऊर्ध्वाकृतिरूर्ध्वरोमा महादंष्ट्रो भयानकः ।।६२।।
क्रुद्धो वामकरे धृत्वा महोग्रं दण्डमेव च ।
दर्शयन् स्वमुखे शश्वद् दुर्दृश्यां विकरालताम् ।।६३ ।।
शिक्षार्थं धर्मराजेन सन्दिष्टोऽनेकरूपधृक ।
शृणोति निर्णयान् कालो युनक्ति देहिनस्तथा ।।६४।।
तथाऽन्ये कालसदृशाः किंकरा गणनापराः ।
फलयोक्तार एवात्र कोटिशः शासनंकराः ।।६५।।
यमेन सत्कृता सम्यग् दिव्यगन्धानुलेपनैः ।
संहर्त्री सर्वलोकानां घोरा वै यातनामयी ।।६६।।
बिभ्यति ह्यसुरास्तस्याः ऋषयश्च तपोधनाः ।
असुराश्च सुराश्चैव योगिनोऽपि महौजसः ।।६७।।
तस्या देहात् समुद्भूता व्याधयः कालनिर्मिताः ।
महाघोरा महाक्लेशा दण्डदानेऽतितत्पराः ।।६८।।
मया दृष्टास्तथा दृष्टो महाक्रोधः सुदारुणः ।
प्रकृत्या दुर्विनीतश्च जरामरणवर्जितः ।।६९।।
महासत्त्वो विकरालो मृत्युर्नामा पुमाँस्तथा ।
दिव्यतेजोमयो दृष्टो सर्वपाशसमन्वितः ।।1.358.७०।।
गायका हासकाश्चापि सर्वजीवप्रबोधकाः ।
कालज्ञाश्च मया दृष्टास्तेजोभूषाम्बरान्विताः ।।७१ ।।
अनेकाश्च ज्वरा दृष्टा रोगाश्च वेदनास्तथा ।
नारीनरस्वरूपाश्च जीवभक्षकरा हि ते ।।७२।।
क्रोधदावानलदात्र्यो नानाकृत्या विलोकिताः ।
तीव्ररोषा नाशयित्र्यो नानारूपधराः स्त्रियः । ।७३।।
तत्र हलहलाशब्दः प्राणिशोषणहेतवे ।
श्रुतो ह्यविरतं क्रूरो धर्मराजसमीपतः । ।७४।।
कूष्माण्डा यातुधानाश्च राक्षसा मांसभोजिनः ।
एकपादा द्विपादाश्च त्रिपादा बहुपादकाः ।।।७५।।
एकबाहुर्द्विबाहुश्च त्रिबाहुर्बहुबाहवः ।
शंकुकर्णाः शूर्पकर्णा नलकर्णास्तथाऽपरे ।।७६ । ।
कृकलासमुखास्त्वन्ये तथान्ये मकराननाः ।
अन्ये व्याघ्रबिडालास्या विकरालप्रनेत्रकाः ।।७७।।
सकुठाराः सकुद्दालाः सचक्राः शूलहस्तकाः ।
शक्तितोमरभूशुण्डीधनुर्मुद्गरपाणयः ।।७८।।
असिकुन्तधरास्त्वन्ये विचित्रभक्ष्यहस्तकाः ।
अथान्ये पुरुषा दृष्टाः सर्वशोभावशोभिताः ।।७९।।
केयूरशृंखलाचित्रमुकुटकटकान्विताः ।
स्रग्विणो वस्त्रशोभाढ्या सुगन्धगन्धमोदिताः ।।1.358.८० ।।
वाजिकुंजरहंसादियुक्तास्त्वन्ये तु यानगाः ।
शरभर्षभसारसचक्रमयूरसंस्थिताः ।।८१ ।।
तथा सौम्या मया दृष्टा दृष्टास्त्वन्ये भयानकाः ।
उज्ज्वलाश्चाऽपरे तत्र मलिना अपि सर्वथा ।।८२।।
नवोज्ज्वलाम्बराः केचित् केचिज्जीर्णांशुकास्तथा ।
सात्त्विकाः सुमनसश्च तथाऽन्ये क्रूरमानसाः ।।८३ ।।
मृष्टवचनमाधुर्यास्तथाऽन्ये शतमारकाः ।
कलिः कृष्णा महाकृत्या कालिश्चाप्यवलोकिताः । ।८४।।
धर्महस्ता यशोहस्ताः कीर्तिहस्तास्तथाऽपरे ।
एते कृतान्तसान्निध्ये वर्तन्ते तद्वचःपराः ।।८५। ।
पशुभक्ष्या नरभक्ष्या नारीभक्ष्यास्तथाऽपरे ।
शवभक्ष्या बालभक्ष्याः पक्षिभक्ष्या ह्यनेकशः ।।८६।।
आमभक्ष्याः पक्षिभक्ष्याः पद्महस्ता यमानुगाः ।
महादंष्ट्रा विकराला वह्निवार्यपराभवाः ।।८७।।
अग्निदेहा जलदेहा लोष्ठवर्ष्माण इत्यमी ।
शस्त्राऽघात्या मया दृष्टा वाय्वस्पृश्यास्तथाऽपरे ।।८८।।
यमराजभटा ह्येते सिद्धिमन्तोऽवलोकिताः ।
सकुभकाः सपक्षाश्च व्योमादिसर्वगामिनः ।।८९।।
अप्राणरोधवशगा यमभृत्या विलोकिताः ।
सर्वग्राह्या सर्वस्पृश्याः सर्वदृश्या विलोकिताः ।।1.358.९०।।
यावन्तश्चात्र वै ब्रह्माण्डे जना भुवनेषु च ।
देहिनां च स्वभावा वै यादृग्गुणास्तु चेतनाः ।।९१ ।।
जडा यादृग्गुणाः सन्ति मूर्ताऽमूर्तानि यानि च ।
स्थावरा जंगमाश्चापि यया भवन्ति यादृशाः ।।।९२।।।
तेषां सर्वविधानां वै दण्डदानाय ते भटाः ।
सर्वशक्तियुताः सर्वसिद्धियुक्ता नियामकाः ।।९३।।
अलेपाश्चाऽपराभूतास्तेषामविषयास्तथा ।
भवन्ति किं वर्णयामि पारस्तेषां न विद्यते ।।९४।।
इष्टरूपधरा इष्टसिद्धिसामर्थ्ययोगिनः ।
इष्टतर्ककरा दण्डदानेऽप्रधृष्यशक्तयः ।।९५।।
केचित् सूक्ष्मशरीरा वै केचित्पर्वतरूपिणः ।
केचिद्ब्रह्माण्डतुल्यत्वं गृह्णन्ति कार्यसंगमे ।।९६ ।।
केचिन्नदनदीरूपाः केचिज्ज्वालास्वरूपिणः ।
केचित्सूर्यसमा उष्णाः केचिच्छीतहिमालयाः ।।९७।।
यादृशं दण्डतत्त्वं वै तादृशास्ते भवन्ति हि ।
मया दृष्टा बहुरूपा आश्चर्यं प्राप्तवानहम् ।।९८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने याम्यचक्रे मार्गे दृष्टाः पापिनः, यमराजस्य पुरं गृह प्राकारो गोपुराणि, कृतान्तकालमृत्युकिंकरकृत्यादीनां रूपाद्या- कृतिनिर्दशादिसामर्थ्यादिनिरूपणनामाऽष्टपंचाश- दधिकत्रिशततमोऽध्यायः ।। ३५८ ।।