लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३५७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३५७
[[लेखकः :|]]
अध्यायः ३५८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! यमराजः कार्तिके धवले दले ।
द्वितीयायां सूर्यपुत्र्या भोजितः पूजितोऽग्रजः ।। १ ।।
प्रसन्नश्च यमो यमीं प्रोवाच वरदानकम् ।
तीर्थे त्वयि जले यद्वा पार्श्वे भूमौ तु देहिनः ।। २ ।।
पापाः पुण्याश्च ये योनिचतुष्टयगता अपि ।
वसन्ति योगमापन्ना न ते दण्ड्या मया स्वसः! ।। ३ ।।
यमुनाऽऽह तदा ज्येष्ठं भ्रातरं यदि ते कृपा ।
अद्य यमपुरीवासान्निर्मोचय समन्ततः ।। ४ ।।
अहं स्नानफलं तद्वज्जलपानफलं बहु ।
वृन्दातुलसीपत्राणां दानस्य पुण्यमित्यपि ।।५ ।।
ददामि नारकेभ्यो वै कुरु निर्बन्धनान् हि तान् ।
स्वसुर्वाक्यं समगृह्य तथाऽस्त्वित्यभिधाय च ।। ६ ।।
यमः सर्वान्नारकान् वै पुण्यं दत्वा यमीकृतम् ।
प्रेषयामास वै स्वर्ग रिक्तां कृत्वा यमस्थलीम् ।।७।।
अथ काले पुनर्याते संभूता पापिभिस्तु सा ।
लोकालोकपरे पारे गाढतमसि निर्मिता ।। ८ ।।
जीवानां कर्मणां शुभाऽशुभफलप्रलब्धये ।
न्यायालयः कृष्णनारायणेन निर्मितः स हि ।। ९ ।।
पापिभ्यः पुण्यवद्भ्यश्च यथान्यायं यमाधिपः ।
धर्मराजः स्वयं क्रूरः सौम्यो वा ददते फलम् ।। 1.357.१ ०।।
प्रेता मृताः सर्वजीवाः पापाः पुण्याश्च कर्मिणः ।
तत्र गत्वैव गच्छन्ति परे लोकेऽपरेऽथवा ।। ११ ।।
बहुपापा अल्पपापा यथाकर्म यमगृहे ।
नारकेषु कर्मफलं भुक्त्वा यान्ति भवाय हि ।। १ २।।
नारकाणि त्वसंख्यानि स्थलानि मानसानि वै ।
धर्मराजेन तत्स्थल्यां निर्मितानि भवन्ति हि ।। १३ ।।
यथाकर्म तथा तस्मै दण्डाय प्रददाति तत् ।
श्रीलक्ष्मीरुवाच-
भगवन् श्रोतुमिच्छामि कर्मपाकफलस्थलम् ।। १४।।
कीदृशं किंप्रमाणं च किंरूपं केन दृश्यते ।।
कर्मपाकफलं कीदृङ् मानुषैरुपभुज्यते ।। १५।।
जनो गच्छेत् कथं नैव प्रेतराजनिवेशनम् ।
एतत्सर्वं समाख्याहि जनानामुपकारकम् ।। १६।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! पुरा वृत्तां कथां परमशोभनाम् ।
पावनीं सर्वपापानां प्रवृत्तौ शुभकारिणीम् ।। १७।।
समुद्रमथने जाता त्वलक्ष्मीर्देवतादिभिः ।
उद्दालकाय मुनये प्रदत्ता धर्मतः प्रिया ।। १८।।
तस्यां जातो मानसो वै सुतो वेदांगतत्त्ववित् ।
नचिकेत इति ख्यातः पित्राज्ञावर्तनः सदा ।। १ ९।।
अरण्ये गोधनं तस्य दशसाहस्रसंख्यकम् ।
आसीत् तस्मात् प्रगे नित्यं नचिकेतो महामुनिः ।।1.357.२०।।
प्रातः क्रतुं विधायैव शतं दानं ददाति वै ।
दाने तेन क्वचित्तत्र गावो दत्ता द्विजाय तु ।।२१ ।।
भुक्तभोगा गतावस्था भग्नदन्ता जरान्तिगाः ।
जग्धतृणाः शुष्कदुग्धा लुप्तदौर्हृदलक्षणाः ।।२२।।
एतादृशीस्तु गाः प्रायो दातन्तं नचिकेतसम् ।
पितरं प्राह पुत्रस्तु नाचिकेता दयावशः ।।२३।।
पितर्गावो दानयोग्या दोग्ध्र्यो भवन्ति सर्वथा ।
नैतादृश्यो जर्जरिता गर्भशक्तिक्षयान्विताः ।।२४।।
इति श्रुत्वा पिता प्राह शिष्यन्ते वृद्धधेनवः ।
युवत्यो दानसंदत्ता न सन्त्यस्मद्गृहेऽधुना ।।।२५ ।।
श्रुत्वा पुत्रो विरराम ततो वै दिवसान्तरे ।
धेन्वर्थं तु समायातः कश्चिद् विप्रो हि भिक्षुकः ।।२६ ।।
ययाचे धेनुभिक्षां स नचिकेतोऽपि गोधनम् ।
अवशिष्टं चातिवृद्धं ददाति तद् द्विजाय वै ।।२७।।
तदा पुत्रो नाचिकेता मुहुर्जनकमाह यत् ।
न दातव्याः पितर्गावो या न दुग्धाय कर्हिचित् ।।२८।।
भाररूपास्तु ता गावो मृत्युमात्राऽवशेषिताः ।
पिता किञ्चिद् व्यग्रमना भूत्वा पुत्रमुवाच तम् ।।।२९।।
किं तर्हि प्रददाम्यत्र त्वां ददामि गवां स्थले ।
इतिश्रुत्वा पुनः पुत्रो मां ददस्वेत्युवाच ह ।।1.357.३ ०।।
तदा पिता तु रोषेण प्राह पुत्रं भयकरम् ।
पुनः पुनर्यतः पुत्र! मां निरोधयसि द्रुतम् ।।३ १ ।।
मां ददस्वेति वदसि दत्तस्त्वं मृत्यवे मया ।
इत्युक्तमात्रे पितरि मृत्युस्तत्राऽऽजगाम ह ।।३२।।
पुत्रस्तथास्तु ओं प्राह क्षणेनाऽन्तर्हितोऽभवत् ।
माभूद् वाक्यः पितुर्मिंथ्या गमिष्यामि यमालयम् ।।।३ ३ ।।
श्रुत्वा पुत्रवचः प्राह पिता वै दीनमानसः ।
एकस्त्वमसि वत्सश्च नान्यो बन्धुर्हि विद्यते ।।३४।।
याचितस्त्वं मया पुत्र! गन्तुं वै तत्र नाऽर्हसि ।
रोषेण हि मयोक्तं यद् धर्मतत्त्वं न तन्मतम् ।।।३५।।।
पितृवाक्यं तु तन्मान्यं यत्राऽधर्मो न वै स्पृशेत् ।
यदि वैवस्वतो राजा त्वां पुनर्विसृजेन्नहि ।।३६।।
विनश्येयमहं पश्य कुलसेतुविनाशनः ।
नरकस्य पुदित्याख्या दुःखं वै नरकं विदुः ।।।३७।।।
पुतित्राणं भवेत् पुत्रादत्र परत्र सर्वथा ।
हुतं दत्तं तपस्तप्तं पितरश्चापि पोषिताः ।।३८।।
अपुत्रस्य हि तत्सर्वं मोघं भवति निश्चयात् ।
तपो वा विपुलं तप्त्वा दत्वा दानानि धर्मतः ।।३९।।
कृत्वा वह्नौ हवनानि जप्त्वा च मन्त्रमालिकाः ।
अपुत्रो नाऽऽप्नुयात् स्वर्गं मया देवत्रयात् श्रुतम् ।।1.357.४०।।
पुत्रेण गण्यते पिता पौत्रेण तु पितामहः ।
पुत्रस्य तु प्रपौत्रेण मोदते प्रपितामहः ।।४१ ।।
न हास्यामीति वत्स! त्वां मम वंशविवर्धनम् ।
याच्यमानः प्रयत्ने न तत्र गन्तुं न चार्हसि ।।४२।।
श्रुत्वा तं पितरं प्राह नाचिकेता विनीतकः ।
न विषादः पितः कार्यो द्रक्ष्यसे मामिहाऽऽगतम् ।।४३।।।
यमराजमहं दृष्ट्वा तथ्यं कृत्वा भवद्वचः ।
आगमिष्ये पुनस्त्वत्र नास्ति तस्माद् भयं मम ।। ४४।।
सत्यं स्वर्गस्य सोपानं सत्ये तिष्ठतु वै भवान् ।
सत्येन लभ्यते सर्वं हितं तत्र प्रतिष्ठितम् ।।४५।।
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ।।४६ ।।
स्थितः सत्ये महाविन्ध्यो वर्धमानो न वर्धते ।
पालयन् स्वव्रतं सत्यं बद्धो वैरोचनो बलिः ।।४७।।
सत्यधर्मो रक्षितः सन् रक्षति स्वप्ररक्षकम् ।
तस्मात् सत्यं कुरुष्वाऽद्य रक्ष त्वात्मानमात्मना ।।४८।।
एवमुक्त्वा गतो मृत्युं नाचिकेताः प्रसन्नधीः ।
प्राप्तो यमगृहं यत्र यमो नासीत्तदा गृहे ।।४९।।
लोकपालकृते यज्ञे गतस्त्वासीन्महोत्सवे ।
अतिथिर्ब्राह्मणो नाचिकेतोऽतिष्ठद् गृहांगणे ।।1.357.५०।।
क्षुधया तृषया युक्तो विना स्वागतमेव च ।
एकं दिनं द्वितीयं च गतं तत्स्वागतं विना ।।५१ ।।
तृतीयेऽह्नि यमस्याऽऽसीत् क्ष्मायां मुकुटपातनम् ।
तदा ज्ञातं महज्जातं पातकं विद्यते क्वचित् ।।५२ ।।
विज्ञातं कारणं त्वेतद् दूतैस्तत्परिमार्गितम् ।
अतिथेरस्वागतं वै विज्ञाय पुण्यनाशकम् ।।५३।।
दूतान्प्राह यमस्तत्र ह्यः समागतवानहम् ।
केनापि दूतवर्येणाऽतिथिर्विज्ञापितो न हि ।।५४।।
स्वागतं तस्य कुर्वन्तु विप्रस्य सत्यशालिनः ।
यस्यांऽगनेतिथिस्त्वास्ते जलाऽन्नाऽऽसनवर्जितः ।।५५।।
सुकृतं तद्गृहस्थस्य भस्मीभवति सर्वथा ।
आदेयं भोजनं तस्मै पादौ प्रक्षाल्य मस्तके ।।।५६।।
जलं धार्यं गृहस्थेन तेन पुण्यं विवर्धते ।
स्वल्पं वा बहु वा देयं शक्तिपूर्वं सुश्रद्धया ।।।।५७।।
यद्यतिथिस्तु भग्नाशो यस्माद् गृहान्निवर्तते ।
गृहिणः पुण्यमादाय पापं दत्वा प्रयाति सः ।।।५८।।
विप्रः साधुः सती साध्वी यतिश्च प्रथमाश्रमी ।
एते धर्मातिथयो वै तेभ्यो दत्तमनन्तकम् ।।५९।।
प्रेता वृद्धाश्च पितरः स्वाश्रिता वा निराश्रयाः ।
दीना बाला जडा अन्धा निमित्ताऽतिथयस्त्विमे ।।1.357.६ ०।।
पादावनेजनं कार्यमतिथेर्गात्रमर्दनम् ।
स्नपनं भोजनं वारिपानं निवेदनं शुभम् ।।६१ ।।
इत्युपादिश्य भृत्यान् स यमोऽपि नाचिकेतसम् ।
प्रति द्वारं समायातो नेमे पप्रच्छ तत्सुखम् ।।६२।।
सत्यायुष्ये समायातो विप्रो मे भाग्यमुत्तमम् ।
गृहाण साधो मिष्टान्नं भोजनं जलपानकम् ।।६३।।
प्रविशाऽत्र गृहान्तर्मे पाद्यमर्घ्यं गृहाण च ।
आसनं विविधं वस्त्रं विभूषाश्च गृहाण मे ।।६४।।
कथं किमर्थमायातो वद विप्र! ददाम्यहम् ।
नाचिकेता यमं प्राह कृपया तव वै मया ।।६५।।
वस्त्रभूषादिकं प्राप्तं वदाऽऽत्मज्ञानमेव मे ।
यमो योगी हरिश्चैते प्रत्यक्षाऽऽत्मप्रदर्शिनः ।।६६।।
तदात्मदर्शनं याचे देहि मे सुकृपा यदि ।
यमः प्राह गृहाणेदं सुवर्णं रत्नसञ्चयम् ।।६७।।
कल्पवृक्षं सोमवल्लीं चिन्तामणिं तनुं पुनः ।
सुवर्णभवनं रम्यं दासान् दासीः शतोत्तरान् ।।६८।।
यानानि गजवाज्यादिवाहनानि सुवाटिकाः ।
उद्यानानि सुवर्णानां शेवधिं च गृहाण भोः ।।६९।।।
न तु प्रत्यक्षात्मनो वै ज्ञानं दास्ये कदाचन ।
तथाऽस्तु त्वत्कृपयैव प्राप्तं सर्वं मया प्रभो ।।1.357.७०।
इत्युक्त्वा नाचिकेतास्तं त्वात्मज्ञानाय चार्थयत् ।
यमः प्राह भुवो राज्यं सार्वभौमं गृहाण मे ।।७१ ।।
स्वर्गं यद्वा च पातालं सत्यराज्यं च वेधसः ।
ऐश्वर्याणि समग्राणि सिद्धीस्त्वणिमप्रभृतीः ।।७२।।
परकायप्रवेशाद्यं सामर्थ्यं च गृहाण भो! ।
मा त्वर्थयाऽऽत्मविज्ञानं योगिनामपि दुर्लभम् ।।७३।।
तथाऽस्तु त्वत्कृपयैव प्राप्तं सर्वं मया प्रभो ।
इत्युक्त्वा नाचिकेतास्तं त्वात्मज्ञानमयाचत ।।७४।।
यमः प्राह वृणु त्वन्यद् यत्ते मनसि वर्तते ।
न तु त्वात्मप्रविज्ञानं दुष्करं तत् कुयोगिनाम् ।।७५।।
नाचिकेतास्तथाप्येवमात्मज्ञानमयाचत ।
यमः प्राह शृणु त्वात्मा दिव्यदृष्ट्या विलोक्यते ।।७६।।
ददामि दिव्यचक्षुस्ते पश्यात्मानं हृदि स्थितम् ।
इत्युक्त्वा धर्मराजस्तं ददौ वारि सुपुण्यवत् ।।७७।।
नेत्रांजनेन वै नाचिकेता ददर्श चेतनम् ।
भास्वरं सच्चिदानन्दं सूक्ष्मं मूर्तं गुणाकरम् ।।७८।।
सर्वसिद्ध्याश्रयं भान्तमन्तःस्थितान्तरात्मकम् ।
दृष्ट्वा जहर्ष चात्यन्तं नाचिकेताः सुदिव्यदृक् ।।७९।।
यमस्तस्याऽऽत्मविज्ञाने दृष्ट्वा दृढाग्रहं ततः ।
प्रसन्नः प्राह विप्राय वृणु त्वन्यद् यथेप्सितम् ।।1.357.८०।।
नाचिकेतास्तदा प्राह शवं मे त्वक्षतं भवेत्। ।
यत्र मे जीवनं शश्वद् भवेद् दिव्यं विना क्षयम् ।।८१ ।।
पितुर्मे त्वपराधो माऽस्त्विति पश्यामि शान्तिदम् ।
नाचिकेताइतिनाम्ना सटा वह्निर्भवाम्यहम् ।।८२ ।।
कीर्तिराब्रह्मभवनं सर्वत्राऽस्तु सदा मम ।
एतान्वरान् प्रयाचेऽहं पूर्वोक्तांश्च त्वयाऽर्पितान् ।।।८३ ।।
तथाऽस्त्विति यमः प्राहाऽतिथये सर्वमार्पयत् ।
स्वसौधं कर्मचाराणां भवनानि शुभानि च ।।८४।।
दर्शयामास पापानां कारागाराणि चाप्यथ ।
नारकाणां दण्डवासान् पुण्यानां स्वर्गभूमिकाः ।।।८५।।
दर्शयामास पूज्यायाऽतिथये यमराट् स्वयम् ।
सर्वं दृष्ट्वा धनं स्मृद्धिं नीत्वैश्वर्यं वरात्मकम् ।।८६।।
नाचिकेता ययौ नैजं गृहं यत्रास्ति तत्पिता ।
शवं चेतनयुक्तं वै समुत्तस्थौ सुदिव्यकम् ।।८७।।
ततो हृष्टमना लक्ष्मि! पुत्रं दृष्ट्वा तपोनिधिः ।
परिष्वज्य च बाहुभ्यां मूर्धन्याघ्राय चाह तम् ।।८८।।
कच्चित् त्वं न हतो वत्स! नैव बद्धो यमालये ।
कच्चित्ते सशिवः पन्था गच्छतस्तव पुत्रक! ।।८९।।
कच्चित्ते यमसदने व्याधयो नाऽभवन् सुत! ।
किं तत्र कृतवान् गत्वा दृष्टवाँश्च किमु गृहम् ।।1.357.९०।।
कच्चिद् यमस्त्वया दृष्टः परुषो वा सुकोमलः ।
तुष्टो वा क्रोधसम्पन्नो विसृष्टोऽसि कथं द्रुतम् ।।९१ ।।
कच्चिद् दौवारिकैस्तत्र रुद्धो वाऽन्तर्निवेशितः ।
कच्चित्ते पुण्यपापानां फलं नाऽभूत्तु बाधकृत् ।।९२।।
कच्चित्पन्थास्त्वया प्राप्तो निर्बाधो वा सुसत्कृतः ।
इत्युक्त्वा नचिकेतास्तं स्वपुत्रं नाचिकेतसम् ।।९३।।
हृष्टमनाः परिरेमे प्राहाऽऽगनाँस्तपस्विनः ।
पश्यन्तु मम पुत्रस्य प्रभावं विजयप्रदम् ।।९४।।
यमस्य भवनं दृष्ट्वा पुनर्देहं समागतः ।
पितृसेवाप्रतापेन गुरुशुश्रूषयापि च ।।९५।।
सत्येन दैवदृष्टेन जीवत्पुत्रो विलोकितः ।
अहो भाग्यं मम श्रेष्ठं मृत्युं तीर्त्वाऽऽगतः सुतः ।।९६।।
प्रसन्ना देवता मे वै ऋषयः सन्त ईश्वराः ।
कृष्णनारायणो हृष्टो यन्मे वत्सः समागतः ।।९७।।
इति त्वाभाषमाणे च कर्णाकर्णितया जनाः ।
श्रुत्वा वनौकसस्त्त्यक्त्वा व्रतं जपं तथाऽर्चनम् ।।९८।।
तपो होमं परित्यज्य द्रष्टुं सर्वे समागताः ।
उदूर्ध्वबाहवः केचित् केचिदेकपदस्थिताः ।।९९।।।
केचित् सूर्याभिनेत्राश्च केचिद्भूगतमस्तकाः ।
केचिद्दिगम्बराश्चान्ये दन्तोलूखलिनस्तथा ।। 1.357.१० ०।।
अश्मकूटाश्च मौनाश्च शीर्णपत्रतृणादनाः ।
धूम्रपाना वाष्पपाना जलपानास्तथाऽपरे ।। १०१ ।।
परिवार्य तु ते सर्वे पप्रच्छुर्नाचिकेतसम् ।
भोर्भोः सत्यव्रताचार! गुरुशुश्रूषणप्रिय ।। १ ०२।।
नाचिकेतर्ब्रूहि सत्यं किं दृष्टं च श्रुतं त्वया ।
यद्यद् यमस्य चरितं गुप्तं प्रकाशमित्यथ ।। १ ०३।।
सर्वं त्वया प्रवक्तव्यं त्वत्कृते चापि यत्कृतम् ।
दुःखं भर्त्सनमाक्रोशं गोप्यं प्रकाश्यमित्यपि ।। १ ०४।।
ब्रूहि सर्वं लोकशिक्षामयं यद्वै भविष्यति ।
इह चैव कृतं यत्तु तत्परत्रोपयुज्यते ।। १०५।।
कृतस्याऽन्तं न पश्यन्ति जन्तवः पारचिन्तकाः ।
चित्रगुप्तस्त्वया दृष्टो न वा कच्चित् करोति किम् ।।१ ०६।।
धर्मराजस्य किं रूपं कालरूपं च कीदृशम् ।
मृत्युरूपं तथा कीदृग् व्याधयः किंस्वरूपिणः ।। १ ०७।।
कर्मफलविपाकश्च कीदृशश्चानुभूयते ।
जितात्मानः कथं यान्ति पुण्याचारास्तथाविधाः ।।१ ०८।।
पापिनश्च कथं यान्ति कथं यान्ति ह्युदासिनाः ।
यथादृष्टं यथाजातं यथानुभूतमित्यपि ।। १ ००।।
त्वया भुक्तं यथा यच्च तथाऽन्यत् त्वत्स्मृतौ स्थितम् ।
वद् सर्व नाचिकेतर्याथातथ्येन विस्तरात् ।।1.357.१ १ ०।।
इत्युक्त्वा चातिसन्तृष्णाः श्रोतुं त्वलौकिकं हि तत् ।
अभवन् दत्तहृदया नाचिकेता उवाच तान् ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने माथुरक्षेत्रमाहात्म्ये यमुनाप्रतापेन यमपुरीरिक्तता, पुनः सा कर्मिभिः प्रपूरिता, नाचिकेतसः स्वपितुः शापेन यमसदनगमनं, यमाशीर्वादाऽऽत्मदर्शनयमपूरावलोकनोत्तरं स्वदेहे पुनरागमनं, तत्र किं किं दृष्टं श्रुतमितिऋषिप्रश्ना
इत्यादिनिरूपणनामा सप्तपंचाशदधिकत्रिशततमोऽध्यायः ।।३५७।।