लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३५६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३५६
[[लेखकः :|]]
अध्यायः ३५७ →

श्रीलक्ष्मीरुवाच-
श्रुतं श्राद्धं प्रेतभोज्यं कृपया तव केशव! ।
ननु विप्राः प्रेतभागं दानं गृह्णन्ति भोजनम् ।। १ ।।
अनिष्टं गर्हितं चापि प्रेताऽऽवेशेन भोजनम् ।
भुक्त्वा प्रेतस्य विप्रस्तु मुच्यते केन कर्मणा ।। २ ।।
कथं स तारयेद् गर्ह्यो दातारं पुरुषोत्तम! ।
इति मे संशयं छिन्धि कृष्णनारायण प्रभो! ।। ३ ।।
श्रीनारायण उवाच-
सम्यक् पृष्टं त्वया लक्ष्मि! संशयं नाशयामि ते ।
यस्तु यतिर्भवेद् विप्रो महाभागवतस्तु यः ।। ४ ।।
महायोगी महाज्ञानी सिद्ध्यैश्वर्यादिभूषितः ।
महत्तपोधनो यश्च वेदशास्त्रविशारदः ।। ५ ।।
ध्यानं च धारणा यस्य समाधिश्चापि विद्यते ।
त्रिकालज्ञो यमनियमादिसद्गुमण्डितः ।। ६ ।।
षट्कर्मनिरतो नित्यं हर्याराधनतत्परः ।
प्रेतो यत्पद्रजःस्पर्शाद् दिवि देवोऽभिजायते ।। ७ ।।
साधुशीलः सदा शुद्धो वह्निवच्छोधको भवेत् ।
स वै प्रेतान्नमाभुक्त्वा गृहीत्वा दानमित्यपि ।। ८ ।।
कृत्वा कर्माणि प्रेतस्य न तद्दोषेण लिप्यते ।
पुंप्रकृत्योर्विवेकज्ञो ब्रह्मात्मैक्यपरायणः ।। ९ ।।
पापक्षालनसामर्थ्यो न तद्दोषेण लिप्यते ।
न शर्वरीकृतं ध्वान्तं सूर्यं क्वचिद् विलुम्पति ।। 1.356.१० ।।
ध्वान्तं प्रकाशतां याति सूर्यकिरणसन्निधौ ।
प्रेतस्य प्रेतता तादृग्योगेन देवता भवेत् ।।१ १ ।।
प्रेतत्वं ब्रह्मयोगेन देवत्वे परिवर्तते ।
पापं पुण्यतमं स्याच्च समर्थे नास्ति दूषणम् ।।१२।।
यस्तु नात्मबलाढ्यो वा नापि ब्रह्मपरायणः ।
नापि ब्रह्मव्रतं पुष्टो न षट्कर्मादियोगवान् ।। १ ३।।
नाऽऽत्मज्ञो न विवेकज्ञः स विप्रो लिप्यते ह्यघैः ।
प्रेतभोजी प्रेत एव मलिनो जायते भुजेः ।। १४।।
स स्वदेहस्य शुद्ध्यर्थं कुर्यादेकमुपोषणम् ।
सन्ध्यां प्रातः स निर्वर्त्य कृत्वा चैवाग्नितर्पणम् ।। १५।।
तिलहोमं प्रकुर्वीत शान्तिमन्त्रान् पठन् द्विजः ।
प्राक्स्रोतसं नदं गत्वा स्नात्वा च पञ्चगव्यकम् ।।१६।।
मधुपर्कयुतं पीत्वा गृहं सम्मार्ज्य प्रोक्षयेत् ।
अग्निमुखान् सुराँस्तर्पयित्वा भूतबलिं चरेत् ।। १७।।
विप्रेभ्यो भोजनं दद्याद् गोदानं प्रसमाचरेत् ।
एवं यः कुरुते विप्रः स शुद्धो जायते ध्रुवम् ।। १८।।
एवं कृते ततो मृत्यौ स याति परमां गतिम् ।
अन्यथा कालधर्मं तु याते प्रेतान्नकोदरे ।। १ ९।।
प्रेत एव भवेत् सोऽपि निरये वासमाप्नुयात् ।
प्राप्नुयाद्राक्षसभावं ततो मुच्येत किल्बिषात् ।।1.356.२०।।
प्रायश्चित्तमनः कार्यं दातृभोक्तृसुखावहम् ।
गोहस्त्यश्वधनरत्नक्षेत्रदासीविभूषणम् ।। २१ ।।
प्रतिगृह्णन् समन्त्रं च प्रायश्चित्तं चरेत्तु यः ।
स शुद्धोत्तारयेच्चापि दातारं नात्र संशयः ।।२२।।
दैवे च जन्मनक्षत्रे श्राद्धकाले प्रपर्वसु ।
प्रेतकार्येषु सर्वत्र विप्रं षट्कर्मशालिनम् ।।२३ ।।
वेदविद्याव्रतस्नातं धर्मिष्ठं च तपस्विनम् ।
शीलसन्तोषसत्यादिगुणयुक्तं क्षमायुतम् ।।२४।।
अहिंसादियमयुक्तं भगवत्सुपरायणम् ।
पात्रं प्राप्य प्रकुर्याद्वै श्राद्धं दानं प्रपूजनम् ।।२५।।
स शुद्धस्तारयेत् सर्वानात्मानं चापि तारयेत् ।
न हि शिला शिला क्वापि तारयेत् तारकं विना ।।२६ ।।
न ह्यशुद्धः क्वचित्त्वन्यान् तारयेत्पापसंभृतः ।
शुद्धो वै तारयेच्चान्याँस्तस्मात् पात्रे प्रयोजयेत् ।।२७।।
शृणु लक्ष्मि! नृपः पूर्वं मेधातिथिरभून्महान् ।
अवन्त्यां त्वभवच्चन्द्रशर्मा तस्य पुरोहितः ।।२८।।
राजा गवां शतं दानं दत्वा भुंक्ते दिने दिने ।
राज्ञः पितुर्दिनं प्राप्तं वैशाखे श्राद्धकर्मणः ।।२९।।
आहूतान् ब्राह्मणान्नत्वा श्राद्धं कृत्वा विधानतः ।
पिण्डान्निर्वाप्य च श्राद्धे कल्पितान्नं ददौ बहु ।।1.356.३ ०।।
दानं वस्त्रविभूषाणां ब्राह्मणेभ्यो ददौ तथा ।
तन्मध्ये ब्राह्मणः कश्चिद्बलहीनोऽतिपापवान् ।।३ १ ।।
व्यभिचारसमुत्पन्नः शूद्रबीजादिमिश्रितः ।
श्राद्धान्नं जगृहे तत्र तेन दोषेण भूभृतः ।।३२।।
पितरः पतिताः स्वर्गाद् भ्रष्टा वने सकण्टके ।
क्षुत्पिपासार्दिता नित्यं क्रन्दन्ति वै पुनः पुनः ।।३३।।
मेधातिथिर्दैवयोगाद् भ्रमणार्थं वनं गतः ।
तान्भ्रमतः स पप्रच्छ के भवन्तः सुदुःखिताः ।।३४।।
पितरस्तं तदा प्राहुरस्मद्वंशे हि विद्यते ।
नृपो मेधातिथिस्तस्य वयं स्मः पितरो वने ।।३५।।
पतिताः स्म दिवो भ्रष्टाः श्राद्धदोषेण भूभृतः ।
श्राद्धान्नं त्वर्थितं तेन पापिष्ठब्रह्मबन्धवे ।।३६।।
कर्मभ्रष्टव्यवायोत्थनाममात्रद्विजाय वै ।
तेनैव कर्मदोषेण नरकं गन्तुमिप्सवः ।। ३७ । ।
तत्र दुःखं महद्भुक्त्ता पुनर्गच्छामहे दिवम् ।
विप्रेभ्यस्तु गवां दानात् तत्पुण्येन पुनर्दिवम् ।। ३८ ।।
गमिष्यामः किन्तु तत्र नास्त्यन्न तृप्तिदायकम् ।
इति श्रुत्वा नृपः प्राह मेधातिथिरहं हि सः । । ३९ ।।
भवतां तारणार्थं किं पुनः कार्यं वदन्तु मे ।
पितरः प्राहुरेनं ते यथा तृप्तिर्भवेद्धि नः । ।1.356.४० । ।
तथा श्राद्धं पुनः कार्यं भोजनीया द्विजोत्तमाः ।
तेषां तद्वचनं श्रुत्वा मेधातिथिरगाद् गृहम् ।।४१ ।।
आहूतवान् द्विजान् साधून् वेदपाठकृतश्रमान् ।
पुण्यान् धर्मपरान् क्षान्तान् सुशीलान् सुतपस्विनः ।।४२ ।।
यमैश्च नियमैर्युक्तान्महाभागवतान्सतः ।
राजा श्राद्धं चकाराथ पिण्डान्निर्वाप्य सर्वथा ।।४३ ।।
ब्राह्मणान् भोजयामास दक्षिणाभिः प्रपूज्य च ।
नत्वा विसर्जयामास ततः स बुभुजे नृपः ।।४४ ।।
ततो वनं स्वयं यातो दृष्टवाँश्च स्वकान् पितॄन् ।
हृष्टान्पुष्टान् बलैर्युक्तान् दिवं गन्तुं समुद्यतान् । ।४५ ।।
दृष्ट्वाऽतिमुमुदे भूभृत् प्राहुश्च पितरो नृपम् ।
स्वस्ति तेऽस्तु गमिष्यामः स्वर्गलोकं प्रति नृप! । ।४६ ।।
कदापि नैव प्रदातव्यं कुपात्रायाऽतिपापिने ।
दैवं पित्र्यं च वा तत्र दत्तं निष्फलमेव यत् ।।४७ ।।
दैवे पित्र्ये सुपात्रं चेद् ब्राह्मणो नैव लभ्यते ।
संकल्पितं तदन्नं तु गोभ्यो देयं यथाविधि । ।४८ ।।
गवामभावे नद्यां वा क्षिपेदन्न प्रयत्नतः ।
अपात्राय न दातव्यं नास्तिकाय गुरुद्रुहे । ।४९ । ।
गोलकाय न दातव्यं कुण्डाय संकराय च ।
इत्युक्त्वा पितरः सर्वे गताः स्वर्गं विमानकैः । ।।1.356.५ ० । ।
मेधातिथिर्गृहं प्रायाद् ज्ञात्वा पात्रबलाबले ।
तस्माल्लक्ष्मि! धर्मनिष्ठे! एकोऽपि ब्राह्मणोत्तमः ।।५ १ ।।
सन्तारयति दुर्गेभ्यो विषयेभ्यो न संशयः ।
तस्माच्छ्राद्धे भोजनीयाः सन्तो भागवता द्विजाः ।।५ २ । ।
मासे मासेऽथवा पितृपक्षे पात्रतपोधनाः ।
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।।५३ । ।
तारका भोजनीया वै ब्रह्मबोधपरा जनाः ।
साध्व्यः सत्यो भोजनीया ब्रह्मचर्यपरास्तथा ।।।५४। ।
इति ते कथितं लक्ष्मि! सत्पात्रं तारयेत् पितॄन् ।
असत्पात्र भ्रंशयेद्वै प्रायश्चित्तं ततश्चरेत् ।।५५ ।।
श्रीलक्ष्मीः प्राह तच्छ्रुत्वा कृष्णनारायणं हरिम् ।
प्रेताः स्वकर्मभिर्यान्ति योन्यन्तरं शरीरिणः ।।५६।।
पशुपक्षिमनुष्याद्याः कथमागत्य भुंजते ।
क एते पितरः कृष्ण! श्राद्धं भोक्ष्यन्त्युपस्थिताः ।।५७।।
मृताः केचित्तु नरके यमपाशवशंगताः ।
केचित्तु देववर्गे वै कुटुम्बिसुवशंगताः ।।५८।।
केचित् कर्मवशाल्लोके चतुरशीतियोनिषु ।
देहिनो वशगास्तत्र बन्धने पतिताः सदाः ।।५९।।
श्राद्धे शक्ता न चाऽऽगन्तुं कथं श्राद्धं प्रभुंजते ।
इति मे संशयं नाथ! सम्मार्जय विरोधिनम् ।।1.356.६ ० ।।
वंशपरम्परां श्राद्धं कर्तव्यं येन रक्ष्यते ।
युगे युगान्तरे चापि कर्तव्यं येन रक्ष्यते ।।६ १ ।।
इति श्रुत्वा महालक्ष्मीवाक्यं कृष्णनरायणः ।
संशयं मार्जयन् लक्ष्म्याः प्रोवाच परमेश्वरः ।।६२।।
शृणु लक्ष्मि! प्रभोक्तारः पितृयज्ञेषु सर्वदा ।
पिता पितामहश्चैव तथैव प्रपितामहः ।।६३ ।।
त्रय एते भवन्त्येव श्राद्धभोक्तार ईश्वराः ।
पिता तु ब्रह्मदैवत्यो वेधोगात्राद्विनिर्मितः ।।६४।।
पितामहो विष्णुदेवो विष्णुगात्राद्विनिर्मितः ।
प्रपितामहो रुद्रेशो रुद्रगात्राद्विनिर्मितः ।।६५।।
श्राद्धे नियोजितास्तेऽत्र ब्रह्मविष्णुमहेश्वराः ।
प्रथमं ब्रह्मणोंऽशाय दद्याच्छ्राद्धं सपिण्डकम् ।।६६।।
द्वितीयं विष्णोरंशाय दद्याच्छ्राद्धं सपिण्डकम् ।
तृतीयं रुद्रस्यांशाय ददेच्छ्राद्धं सपिण्डकम् ।।६७।।
पित्रे पितामहायाऽथ हि प्रपितामहाय च ।
त्रिदेवरूपतापन्नः स्वयं नारायणो विभुः ।।६८।।
यत्र मृता जनुं प्राप्तास्तत्रान्तर्यामिभावतः ।
व्यापकः संस्थितः कृष्णस्तृप्तिं तान्प्रापयत्यपि ।।६९।।
एवं विप्रेषु स कृष्णोऽन्तर्यामी सत्सु वर्तते ।
श्राद्धकाले यदुद्देशस्तद्रूपो भवति प्रभुः ।।1.356.७० ।।
श्राद्धं पिण्डं गृहीत्वा च प्रेतो यत्र गतो भवेत् ।
तत्र प्रापयति तस्मै कृष्नारायणो हरिः ।।७१ ।।
इति विद्धि महालक्ष्मि! योन्यन्तरगतार्थदः ।
अहमेव भवाम्यत्र श्राद्धे पित्रादिरूपकः ।।।७२।।
अथान्यच्च शृणु लक्ष्मि! विस्तरात्प्रवदामि ते ।
केचिद् यजन्ति वै ब्रह्मयज्ञं मूर्तौ सतां मुखे ।।७३ ।।
केचिद् यजन्ति वै देवयज्ञं कुण्डे हुताशने ।
केचिद् यजन्ति वै भूतयज्ञं पशौ गवां मुखे ।।७४।।
केचिद् यजन्ति मनुजक्रतु नरे द्विजानने ।
केचिद् यजन्ति वै पितॄन् जलेऽग्नौ भ्वां द्विजानने ।।७५।।
सर्वे ते मयि वर्तन्ते सत्यमेतद् ब्रवीमि ते ।
किञ्च सर्वविधे यागे वह्निर्मुख्यो मुखात्मकः ।।७६।।
वह्निमुखेन चाश्नन्ति प्रेतपितॄषिदेवताः ।
अहं च भगवान् कृष्णश्चाद्मि वह्निमुखेन वै ।।७७।।
कुण्डस्थाऽग्निरहं चास्मि दक्षिणाग्निरहं तथा ।
अहं चाहवनीयाग्निः पावनः पावकस्तथा ।। ७८।।
वैश्वदेवाग्निरहं वै गार्हपत्योऽप्यहं तथा ।
बार्हस्पत्योऽप्यहं चैवाऽऽवसथ्योऽप्यहमेव च ।।७९।।
तन्मुखोऽहं त्रिदेवात्मा भुजे सर्वक्रतुष्वपि ।
पितृयज्ञे ब्रह्ममुखे भुंजेऽहं तत्त्रयात्मकः ।।1.356.८०।।
श्रोत्रियं धर्मशीलं च महाभागवतं द्विजम् ।
श्राद्धे संभोजयेज्जीतेन्द्रियं सन्तुष्टमेव च ।।८१ ।।
दत्वा हुताशनायाऽऽदौ देवतीर्थस्वरूपिणे ।
पश्चाद् विप्रमुखे दद्यात् पित्रे पितामहाय च ।।।८२।।
वै प्रपितामहायापि स्मृत्वा दद्यात्पुनः पुनः ।
प्रच्छन्नं भोजयेद् विप्रं तत्र पितॄन् समाह्वयेत् । ।८३।।
पिण्डास्त्रयः प्रदातव्याः सह व्यञ्जनसंयुताः ।
अपसव्येन दातव्यं मासि मासि तिलोदकम् ।।८४।।
परमात्मा शरीरस्थो देवतानां वहाम्यहम् ।
एवं दत्तेन प्रीयन्ते पितरश्च न संशयः ।।८५।।
त्रयो देवास्त्रय एव पितरो हरिनिःसृताः ।
पितृदेवा भविष्यन्ति भोक्तारश्च युगे युगे ।।८६ ।।
आयुः कीर्तिं बल तेजो धनं पुत्रान् पशून् स्त्रियः ।
ददते पितरस्तस्य त्वारोग्यं पिण्डदायिनः ।।८७।।
विप्रे संभोजिते तृप्ते तिर्यङ्नारकमानुषाः ।
यत्र क्वापि स्थिताश्चान्ये तृप्यन्ति श्राद्धतर्पिताः ।।८८।।
ते सात्त्विकं शुक्लमार्गं तृप्ता यान्ति दिवं परम् ।
पुनरन्यत् प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ।।८९।।
अज्ञानतमसा व्याप्ताः पापा भ्रष्टा मृता जनाः ।
स्नेहपाशशतैर्बद्धाः पच्यन्ते नरकेऽशुचौ ।।1.356.९० ।।
तेषां पुत्राश्च पौत्राश्च कदाचिदपि वंशजाः ।
मुञ्चन्ति जलबिन्दूँश्च अमां प्राप्य जलाशये ।।९१ ।।
तेनैव भाविता तृप्तिस्तेषां निरयगामिनाम् ।
तर्पणं श्राद्धमेवापि पिण्डान् तिलोदकं तथा ।। ९२।।
समर्प्यं तारयेत् पितॄन् द्विजातिर्भक्तिभावतः ।
देयो नीलो वृषश्चापि नरकार्तिविनाशनः ।।९३।।
नीलषण्डस्य लांगूले तोयमप्युद्धरेद् यदि ।
षष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः ।।९४।।
उद्धृतो यदि पंकस्य पिण्डः शृंगेण तेन वै ।
उद्धृताः पितरस्तेन सोमलोकं समापिताः ।।९५।।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
सोमलोकेषु मोदन्ते क्षुत्तृड्भ्यां तु विवर्जिताः ।।९६।।
एवं गृहस्थधर्मोऽयं पुत्रपौत्रादिभिः कृतः ।
श्राद्धात्मकः सतृष्णानामुद्धाराय विनिर्मितः ।।९७।।
पिपीलिकादिभूतानि जंगमाश्च विहंगमाः ।
स्थावराश्चोपजीवन्ति गृहस्थेषु न संशयः ।।९८।।
मासि मासि तु ये श्राद्धं प्रकुर्वन्ति गृहाश्रमे ।
तिथौ पर्वणि सद्वारे स्वपितॄँस्तारयन्ति ते ।।९९।।
पितरो निर्गतास्ते वै ब्रह्मविष्णुशरीरगाः ।
पिता पितामहश्चैव तथैव प्रपितामहः ।। 1.356.१०० ।।
एवं क्रमेण ते पश्चात् काश्यपा देवता इति ।
समभवँस्ततस्ते वै श्राद्धेषु विनियोजिताः ।। १०१ ।।
पितृयज्ञे विप्रमुखे दत्तं वै केवलं तदा ।
तदा त्वजीर्णतां प्राप्ताः पितरोऽजीर्णपीडिताः ।। १ ०२।।
सोमेन सहिता जग्मुः प्रणम्य च पितामहम् ।
प्रोचुर्वयं ह्यजीर्णेन पीडिता वारणं कुरु ।। १ ०३।।
येन नश्यत्यजीर्णं च पितॄणां च सुखं भवेत् ।
ब्रह्मा प्राह तदा योऽस्ति शाण्डिल्यस्य सुपुत्रकः ।। १ ०४।।
धूम्रकेतुर्विभावसुस्तेजस्वी जीर्णताकरः ।
श्राद्धे तु प्रथमं तस्य दातव्यं मानुषेषु वा ।। १ ०५।।
सह तेनैव भोक्तव्यं पितृपिण्डविसर्जितम् ।
तावत्स्मृतो हव्यवाहः सर्वभक्षो हुताशनः ।। १ ०६।।
योजितः पञ्चयज्ञेषु ब्रह्मणा सर्वकर्मसु ।
भोक्तव्यं प्रथमं वह्ने! पितृपिण्डविसर्जितम् ।। १ ०७।।
त्वया भुंक्ते प्रभोक्ष्यन्ति देवताः पितरस्त्विमे ।
श्राद्धं द्वितीयं भोक्तव्यं सहैव वह्निपितृभिः ।। १ ०८।।
तृतीयं पिण्डदानं तु सोमपितृहुताशनैः ।
मिलित्वैव प्रभोक्तव्यं ह्यजीर्णं न भविष्यति ।। १ ०९।।
इत्युक्ताः पितृयज्ञे ते भुंजते सहिता सदा ।
वह्निः पिता पितामहः प्रपितामह एव च ।। 1.356.११ ०।।
सोमश्चेति भुंजते वै पितृदेवहुताशनाः ।
अपांक्तेयास्तदा विप्रा भोजनीया न वै क्वचित् ।। १११ ।।
अपांक्तेयान् प्रवक्ष्यामि कर्मतो हीनतां गतान् ।
नपुंसकाश्चित्रकाराः पशुपाला विनिन्दकाः ।। ११२।।
स्वर्णचौरास्तथा काणाः कुष्ठिनो नास्तिकास्तथा ।
नर्तका गायकाश्चापि तथा नाटकजीविनः ।। ११३ ।।
वेदविक्रयिणश्चापि सर्वयाजकयाजकाः ।
भृत्यकर्मकरा राज्यकिंकराः सकरास्तथा ।। १ १४।।
संस्कारहीनाः पतिता शूद्रकर्मोपजीविनः ।
गणका ग्राम्ययाजिनो लेखका दांभिकास्तथा ।। ११५।।
सर्वकर्मकरा भ्रष्टा मद्यमांसव्यवायिनः ।
अन्ये ये दूषितास्ते वै द्विजरूपैस्तु राक्षसाः । । ११६ । ।
तान् भुंजतः प्रपश्यन्तः पितरो दुःखमाप्नुयुः ।
प्रायश्चित्तं ततः शीघ्रं कुर्याच्छ्राद्धं पुनश्चरेत् । । ११७ । ।
घृतं तु जुहुयादग्नावादित्यं त्ववलोकयेत् ।
पुनरावपनं कृत्वा पितरं च पितामहान् । । ११८ ।।
दद्याद् गन्धं तथा धूपं दीपमर्घ्यं तिलोदकम् ।
विप्राय भोजयेच्चापि तेन पितृप्रतोषणम् । । ११९ । ।
यस्तु विप्रो मृतान्नं न भुनक्ति शुद्धिमान् सदा ।
तस्मै दानं प्रदातव्यं वैश्वदेवेषु तण्डुलाः । । 1.356.१२० । ।
गोधूमा घृतमित्यादि शर्करा शाकमित्यपि ।
दुग्धं दधि तथा वस्त्रं श्राद्धेषु तं न योजयेत् । । १२१ ।।
प्रेतान्नं भुंजमानानां प्रायश्चित्तं विधीयते ।
माघमासे द्वादश्यां तु सर्पियुक्तं सुपायसम् । । १ २२।।
लिहेद्वै मधुना सार्धं देहशुद्ध्यर्थमित्यथ ।
सवत्सां कपिलां दद्यादात्मनः शुद्धये तथा । । १२३ । ।
तीर्थे स्नायाच्च गायत्रीसहस्रं प्रजपेत्तथा ।
यद्वा देहात्मनोः शुद्धिकामः स श्राद्धमाचरेत् । । १ २४। ।
स्नात्वा भूमिं प्रविलिप्य मन्त्रयेद् ब्राह्मणोत्तमम् ।
अमायां वै महालक्ष्मि! दन्तकाष्ठं न घर्षयेत् । । १२५।।
हिंसितो यद्भवेत् सोमो देवताः पितरस्तथा ।
प्रभाते तेन विप्रेण श्मश्रुनखादिछेदनम् । । १२६ । ।
कारणीयं स्नानमभ्यञ्जनं पक्वान्नमित्यपि ।
मध्याह्ने समये प्राप्ते विप्राय पाद्यमर्पयेत् । । १ २७। ।
गृहान्तरं नयेद् दद्यादासनं चार्घ्यमुत्तमम् ।
गन्धमाल्यैर्धूपदीपैः सम्पूज्य सलिलं तिलान् । । १२८ । ।
दत्वा पात्रं भोजनार्थं विप्राग्रे स्थापयेच्छुभम् ।
भस्मना मण्डलं कुर्यात् पंक्तिदोषनिवारकम् । । १ २९।।
अग्नौ हुत्वा ब्राह्मणाय मिष्टान्नं परिवेषयेत् ।
यथासुखेन भोक्तव्यमिति ब्रूयाद् द्विजं प्रति । । 1.356.१३० । ।
तृप्तं ब्राह्मणं कृत्वा दद्याद्वै विकिरं ततः ।
उत्तरीयासनं दत्वा पिण्डप्रश्नं तु कारयेत् । । १३१ ।।
टक्षिणाभिमुखो भूत्वा दर्भानास्तीर्य भूतले ।
पिण्डदानं प्रकुर्वीत पित्रादित्रितये तथा । । १३ २।।
पिण्डानां पूजनं कुर्यात् तन्तुवृद्ध्यै यथाविधि ।
ब्राह्मणस्य च हस्ते तु दद्यादक्षयमात्मवान् ।। १३३ ।।
दक्षिणाभिः प्रतुष्यापि स्वस्तिवाच्यं विसर्जयेत् ।
पिण्डास्त्रयस्तु तत्रैव यावत्तिष्ठन्ति भूतले । ।१३४।।
आप्यायमानाः पितरस्तावत् तिष्ठन्ति वै गृहे ।
उपस्पृश्य शुचिर्भूत्वा दद्याच्छान्त्युदकानि च । । १३५ । ।
प्रणम्य वैष्णवीं भूमिं काश्यपीमक्षयां ततः ।
भक्षयेत्प्रथमं पिण्डं पत्न्यै देयं तु मध्यमम् । । १३६।।
तृतीयमुदके दद्याद् विसृजेत् पितृदेवताः ।
प्रणमेदेवं विधिना तुष्यन्ति पितृदेवताः । । १३ ७।।
दीर्घायुष्यं प्रयच्छन्ति पुत्रपौत्रधनानि च ।
शृणु लक्ष्मि! मधुपर्कं दद्यात्प्राणप्रयाणके । । १३८ । ।
मधुपर्कः पुरुषो वै मे दक्षांगाद् विनिःसृतः ।
मया स सर्वकार्येषु भवमोक्षाय योजितः । । १३९ । ।
मधुपर्को भवेद्यत्र यस्य वा तत्र मोक्षणम् ।
यत्र नास्ति मधुपर्कस्तत्र मुक्तिर्न विद्यते ।। 1.356.१४० । ।
मध्वेवं दधि सर्पिश्च कुर्यात्त्वेवं समं त्रिकम् ।
दद्याद् विप्राय पुण्यार्थं शवाय मोक्षणाय च । । १४१ । ।
श्राद्धादेः कर्मणश्चान्ते शान्तिपाठं प्रकारयेत् ।
राधेशाय रमेशाय लक्ष्मीशाय च ते नमः । । १ ४२। ।
माणिकीशाय पार्वतीश्वराय व्यापिने नमः ।
प्रभेशायाऽनादिकृष्णनारायणाय ते नमः । । १४३ । ।
दिशः पश्य त्वधः पश्य व्याधिभ्यो रक्ष नित्यशः ।
प्रसीद स्वस्य राष्ट्रस्य राज्ञः सर्वबलस्य च । । १ ४४। ।
गर्भिणीनां च वृद्धानां व्रीहीणां च गवां तथा ।
ब्राह्मणानां च साधूनां शान्तिं कुरु शुभं कुरु । । १४१।।
अन्नं कुरु सुवृष्टिं च सुभिक्षमभयं कुरु ।
विभो! प्रवर्धतां राष्ट्रं शान्तिर्भवतु नित्यशः । । १४६ । ।
देवानां मनुजानां च भक्तानां कन्यकासु च ।
पशूनां सर्वभूतानां शान्तिर्भवतु नित्यशः । । १४७।।
एवं शान्तिं पठित्वा तु मधुपर्कं प्रयोजयेत् ।
सर्पिर्मधुदधीन्येव समे पात्रे ह्युदुम्बरे । । १४८ ।।
अलाभे मधुनश्चात्र गुडेन सह मिश्रयेत् ।
घृताऽलाभे महालक्ष्मि! लाजैः सह विमिश्रयेत् । । १४९। ।
अलाभे चापि दध्नस्तु क्षीरेण सह मिश्रयेत् ।
दधिं क्षौद्रं घृतं चैव कारयेत् तत्समं च वा । । 1.356.१५० । ।
समर्पयामि देवेश कृष्ण! सर्पिर्घृतं मधु ।
सर्वेषामप्यलाभे तु जलमेव ददेन्मुखे । । १५१ ।।
यो वै प्राणान्प्रमुञ्चेत्तु मधुपर्कं ददेन्मुखे ।
अयं पवित्रो विमलः सर्वकामप्रपूरकः ।। १५२।।
शृणोति मधुपर्कादेराख्यानमेतदुत्तमम् ।
याति दिव्यां परां मुक्तिं ममानुग्रहकारणात् ।।।१५३।।
राजद्वारे श्मशाने वा भये च व्यसने तथा ।
ये पठन्ति त्विमां शान्तिं शीघ्रं स्वेष्टं भविष्यति ।। १५४।।
अपुत्रो लभते पुत्रमभार्यस्तु प्रियां लभेत् ।
लभेताऽपतिका कान्तं बद्धो निर्बन्धनो भवेत् ।। १५५।।
अस्य संस्मरणाच्चापि श्राद्धादिफलभाग् भवेत् ।
इति ते कथितं लक्ष्मि! श्राद्धादिहार्दमुत्तमम् ।। १५६।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुरातीर्थमाहात्म्ये श्राद्धभोक्तुः प्रायश्चित्तेन पावित्र्यम्, अवन्तीनगर्या मेधातिथिराज्ञः कुपात्रब्राह्मणभोजने पितॄणां पातित्यं सुपात्रे श्राद्धकरणे पुनः पितॄणां स्वर्गामित्वम्, पितुः पितामहस्य प्रपितामहस्य ब्रह्मविष्णुमहेशगात्रोत्पन्नता, सोमपितृहुताशनाः साधौ विप्रे च सहभोजिनः, नीलवृषदानम्, मधुपर्कदानम्, शान्तिपाठश्चेत्यादिनिरूपणनामा षट्पंचाशदधिकत्रिशततमोऽध्यायः ।।३५६।।