लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३५५
[[लेखकः :|]]
अध्यायः ३५६ →

श्रीलक्ष्मीरुवाच-
श्रुतमेतन्मया कृष्णनारायण! जगत्प्रभो! ।
माथुरक्षेत्रमाहात्म्यं सफलं स्वर्गमोक्षदम् ।। १ ।।
श्राद्धं श्राद्धफलं चापि श्रुतं ते कृपया हरे! ।
केन तूत्पादितं श्राद्धं विस्तरेण वदस्व मे ।। २ ।।
श्रीनारायण उवाच-
शृणु प्रिये! कथयामि श्राद्धोत्पत्तिविनिश्चयम् ।
सृष्ट्यारंभे मम नाभिपद्माद् ब्रह्मा व्यजायत ।। ३ ।।
स च पुत्रात्मकानुत्पादयामास सुरादिकान् ।
आदित्याँश्च वसून् रुद्रानश्विनौ च मरुद्गणान् ।। ४ ।।
तारणार्थं तु सर्वेषां ब्राह्मणान् भुवि सर्वशः ।
क्षत्रियान् वैश्यवर्णांश्च शूद्रवर्णांस्तथा पशून् ।। ५ ।।
पक्षिणः स्थावरांस्तिर्यक्कीटाद्यान् समपेक्षितान् ।
दितिद्वारा तथा दैत्यान्दनूद्वारा तु दानवान् ।। ६ ।।
एवं वैदिकविज्ञानानृषींश्चापि तपोधनान् ।
तेषां पुत्रास्तथा पौत्रा जाता यैः पूरितं जगत् ।। ७ ।।
वेधसो नेत्रतो जातो निमिम्तु मानसो नृपः ।
तस्यापि मानसः पुत्रः श्रीमान्नामा ह्यजायत ।। ८ ।।
जातिमात्रो युवा जातिस्मरो वेदस्मरस्तथा ।
तपश्चचार परमं समाधाय मनो हरौ ।। ९ ।।
पंचाग्निर्वायुभक्षश्च ह्येकपादोर्ध्वबाहुकः ।
शीर्णपर्णाम्बुभक्षश्च शिशिरे तु जलेशयः ।। 1.355.१ ०।।
कृच्छ्रं चान्द्रायणं कुर्वन् वर्षाणामयुतोत्तरम् ।
मृत्युकालमनुप्राप्तः पञ्चत्वं समुपागमत् ।। ११ ।।
निमिः शोकं परं प्राप्तश्चिन्तयामास तत्कृते ।
माघशुक्लद्वादश्यां स सृष्ट्वा विषयं मानसम् ।। १२।।
श्रद्धया कल्पयामास पुत्रार्थे किं करोमि वै ।
तावत्पुत्रो दिव्यदेहो दिवो विमानमार्गतः ।। १३।।
निमिमागत्य स प्राह देहि दानानि मत्कृते ।
जलं देहि फलं देहि मिष्टान्नं चाम्बराणि च ।। १४।।
भूषा यानानि पात्राणि पायसान्नानि देहि मे ।
यानि मे स्यात्प्रभोज्यानि मूलानि च रसास्तथा ।। १५।।
यानि मेऽतीव प्रेष्ठानि देहि मे शाकभाजिकाः ।
इति कृत्वोषितस्तत्र देवधूनीतटे हिमे ।। १६ ।।
निमिरामन्त्र्य सप्तर्षीन् शुचिर्भूत्वा समाहितः ।
दक्षिणावर्ततः सर्वमकुर्वन् ऋषिसत्तमाः ।। १७।।
सप्तकृत्वस्तत्र तत्र युगपत् समुपाविशन् ।
ददुस्त्वन्नानि शाकानि मूलानि च फलानि च ।। १८।।
निमिर्विप्रान् प्रसंपूज्य सप्तकृत्वश्च सुन्दरि! ।
कृत्वा तु दक्षिणाग्रांश्च कुशांश्च प्रयतस्तदा ।। १९।।
प्रददौ श्रीमते पिण्डान्नामगोत्रमुदाहरन् ।
जलं फलं दलं चान्नं पायसं चाम्बरादिकम् ।। 1.355.२० ।।
ददौ पुत्राय दिव्याय जग्राह स च सर्वथा ।
प्रत्यक्षं नीतवान्सर्वं प्रत्यक्षं बुभुजे पपौ ।।२ १ ।।
तथा सप्तर्षिषु पुनः प्रविश्य बुभुजे मुहुः ।
तृप्तोऽस्मि चातितृप्तोऽस्मीत्युच्चार्याऽऽसाद्य वस्तुकम् ।।२२।।
दिवं विमानमारुह्य जगाम श्राद्धतोषितः ।
अर्के त्वस्तं गते राजा भावसन्ध्यामसेवत ।।२३ ।।
रात्रौ चिन्तयितुं रब्धः पुत्रार्थं यत्समाचरत् ।
कृत्वा स पिण्डदानादि पश्चात्तापं चकार सः ।।२४।।
अकृतं मुनिभिः पूर्वं किं मया तदनुष्ठितम् ।
निवापकर्म त्वशुचि पुत्रार्थे विनियोजितम् ।।२५।।
अहो स्नेहप्रभावेण मया मृत्युत्तरं कृतम् ।
नैतत्कर्म शवकर्म गर्ह्यं कर्म कृतं मया ।।२६।।
किं वक्ष्यन्ति च मां सर्वे ये वै पितृपदे स्थिताः ।
सदेवासुरगन्धर्वपिशाचोरगराक्षसाः ।। २७।।
इत्येवं चिन्तयानस्य ब्राह्म प्रातरभूत्ततः ।
सन्ध्या चकार हुत्वाऽग्नीन् पुनश्चिन्तां समाचरत् ।। २८।।
अहो मे जीवितं व्यर्थं पुत्रो यत्र न दृश्यते ।
नरकं पूतिकाख्यं वै हृदि दुःखं समुच्यते ।। २९ ।।
पुत्रे सति न वै दुःखं स्वर्गं भवति सर्वथा ।
पुत्रेण लभते स्वर्गं पौत्रेण तु पितामहाः ।।1.355.३ ० ।।
अथ पुत्रस्य पौत्रेण मोदन्ते प्रपितामहाः ।
पुत्रेण श्रीमता हीनं नाऽहं जीवितुमुत्सहे ।।३ १ ।।
एतस्मिन्नन्तरे लक्ष्मि! नारदस्त्वाजगाम ह ।
तेजसा -भ्राजमानं तं दृष्ट्वा पुपूज वै नृपः ।।३२।।
सत्कृतश्चासने तूपविष्टो नारद आह तम् ।
निमे! शृणु महाप्राज्ञ! शोकं मा कुरु शोकहन्! ।।३३ ।।
अनित्यं गत्वरं देहं कथं प्राज्ञ! विशोचसि ।
मृतं नष्टं गतं यान्तं नानुशोचन्ति सद्धियः ।।३४।।
गतो निवर्तते नैव हसन्ति शोकिनं जनाः ।
अमरत्वं मर्त्यलोके पश्यामि न चराचरे ।।।३५।।।
सत्यात्पातालपर्यन्ताः सर्वे कालवशा जनाः ।
जातस्य सर्वभूतस्य मृत्युर्निर्णीत एव ह ।।३६ ।।
अवश्यमेव गन्तव्यं त्वया मया च वेधसा ।
तव पुत्रो महात्माऽभूच्छ्रीमान्नाम श्रियो निधिः ।।३७।।
पूर्णं तपो महत् कृत्वा ययौ स परमां गतिम् ।
एवं मुक्तस्य तु कृते नैव शोचितुमर्हसि ।।३८।।
इत्युक्तः स निमिः पादौ प्रणम्य शिरसा मुनेः ।
सव्रीडो निःश्वसन् भीतो दीनवत्प्राह नारदम् ।।३९।।
सान्वितोऽस्मि त्वया विप्र! किन्तु वक्ष्यामि तच्छृणु ।
गतः स तु गत एव न चाऽऽयाति गतः पुनः ।।1.355.४० ।।
परं मया शवपश्चात् कल्पयित्वा च यत् कृतम् ।
न तु श्रुतं मया पूर्वं न देवैः पूर्वजैः कृतम् ।।४१ ।।
शोकस्यैव प्रभावेण शवमुद्दिश्य यत्कृतम् ।
तर्पयित्वा द्विजान् सप्त त्वन्नाद्यैश्च फलैरपि ।।४२।।
पश्चाद् विसर्जितं पिण्डं दर्भानास्तीर्य भूतले ।
उदकानयनं चैव ह्यपसव्येन वासितम् ।।४३ ।।
एतद्वै नूतनं सर्वं कृतं बिभेमि तेन वै ।
श्रुत्वा तन्नारदः प्राह न भेतव्यं त्वया नृप! ।।४४।।
अधर्मं नात्र पश्यामि पितरं शरणं व्रज ।
इत्युक्तः स निमिर्ध्यात्वा पितरं शरणं गतः ।।४५।।
तावत्पुत्रस्तपोधनः श्रीमान्नामा समागतः ।
उवाच निमे! त्वत्कृतं कल्पितं पितृयज्ञकम् ।।४६ ।।
पितृयज्ञात्मको धर्मो ब्रह्मणा कल्पितोऽस्ति वै ।
स च कर्मात्मकस्त्वया मन्मिषेण प्रकाशितः ।।४७।।
श्राद्धधर्मः पितृयज्ञः क्रतुस्त्वया प्रतिष्ठितः ।
पूर्वपूर्वसृष्टिधर्मः श्राद्धधर्मश्चिरन्तनः ।।४८।।
कृतः स्वयंभुवा पूर्वं श्राद्धात्मा विधिरेव सः ।
प्रेतकर्म श्राद्धधर्मः कर्तव्यः सर्वथा जनैः ।।४९।।
जातस्य वै मृतेः पश्चादवश्यं क्वापि संस्थितिः ।
तत्र प्राप्त्यर्थमैवात्र कर्तव्यं श्रद्धयाऽर्पणम् ।।1.355.५० ।।
अमोक्षस्य भवेत् तृप्तिर्मुक्तौ तृप्तिस्तु शाश्वती ।
मोक्षः कर्मविशेषेण प्रायश्चित्तेन च ध्रुवम् ।।५१ ।।
दीर्घायुषो ह्यपि यान्ति किं पुनः स्वल्पकाऽऽयुषः ।
अल्पायुषो जनाः पश्चाद् भविष्यन्ति युगान्तरे ।।५२।।
तामसा राजसाश्चापि भविष्यन्ति विशेषतः ।
तेषां तु कुगतौ श्राद्धं गतिदं संभविष्यति ।।।५३ ।।
तामसं नरकं विद्यात् तिर्यग्योनिं च राक्षसीम् ।
क्रौर्यं भयं विषादश्च हिंसा निर्लज्जता तमः ।।५४।।
अज्ञानित्वं च पैशाचं तामसानां स्वभावजाः ।
तामसं तं विजानीयादुच्यमानो न बुद्ध्यति ।।।५५।।
दुर्मदाऽश्रद्धधानं च पराऽपकरणोद्यतम् ।
राजसः प्रबलो वाण्यां स्वधृताऽत्मजनः सदा ।।।५६।।
शूरः सर्वत्र व्यक्तश्च विषयेहाप्रपूरितः ।
एतेषां परलोके वै तृप्त्यर्थं श्राद्धमर्थितम् ।।५७।।
सात्त्विको मोक्षभागी स्यात् क्षान्तो दान्तो विशुद्धहृत् ।
श्रद्धालुस्तपसा युक्तो स्वाध्यायादिसमन्वितः ।।५८।।
एतेष्वपि यदि पुत्रेषणा लोकेषणा तथा ।
धनेषणा तथा दारेषणा कामेषणा च वा ।।५९।।
भवेत्तेन प्रवाहेण परत्र प्रेततां व्रजेत् ।
तस्य तृप्तिकृतेश्राद्धदानहवनकर्मणाम् ।।1.355.६०।।
कल्पना वेधसा पूर्वं कृता त्वया प्रसारिता ।
एवं संचिन्तयानस्तु न शोकं कर्तुमर्हसि ।।६ १ ।।
त्यज शोकं महाप्राज्ञ! शोकः सर्वविनाशनः ।
शोको दहति गात्राणि बुद्धिः शोकेन नश्यति ।।६२।।
लज्जा धृतिश्च धर्मश्च श्रीः कीर्तिश्च स्मृतिर्नयः ।
त्यजन्ति सर्वधर्माश्च शोकेनोपहतं नरम् ।।६३।।
एवं शोकं परित्यज्य विशोको भव भूपते! ।
मूढः स्नेहप्रभावेण याति संसारबन्धनम् ।।६४।।
तस्मात् स्नेहं प्रसंयम्य बुद्धिं धर्मे नियोजयेत् ।
धर्मो लोकहितार्थाय स श्राद्धं दानमर्चनम् ।।६५ ।।
सत्कारो हवनं चेति पञ्चधा प्रायशो मतः ।
मृतानां तृप्तिदं श्राद्धं दानं तु जीवतां सुखम् ।।६६ ।।
प्रतिमाया अर्चनं शं सत्कारः प्राणिनां सुखम् ।
हवनं द्युगताना शं दाताऽपि फलभाग् भवेत् ।।६७।।
मृत्युकाले यदिच्छा स्यात् पूरणीया विशेषतः ।
म्रियमाणस्य सन्तोषः परलोकगतिप्रदः ।।६८।।
कण्ठस्थानं गते जीवे शीघ्रं निःसारयेद् गृहात् ।
कुशास्तरणशय्यास्थं स्नेहभावेन वाचयेत् ।।६९।।
सुवर्णं तन्मुखे दद्याज्जलं दद्याद् व्रतादिकम् ।
पुण्यं दद्याच्च गां दद्यात्परलोकहितावहाम् ।।1.355.७० ।।
दोग्ध्रीणां तु गवां दानाच्छीघ्रं मुच्येत किल्बिषात् ।
तस्य कर्णे हरेर्नाम श्रावयेन्मुक्तिसाधनम् ।।७१ ।।
मधुपर्कं मधु सर्पिर्दधि दद्यात्तदोष्ठयोः ।
एवं विनिःसृते प्राणे संसारं नाधिगच्छति ।।७२।।
ततोऽस्थ घृतगन्धाद्यैः कृत्वा वै देहशोधनम् ।
दक्षिणायां शिरः कृत्वा तीर्थस्नानं प्रकारयेत् ।।७३।।
श्रेष्ठवनस्पतिकाष्ठैश्चितां कृत्वा विधानतः ।
दक्षिणशिरसा स्थाप्य कृत्वा हस्ते हुताशनम् ।।७४।।
दह त्वेतस्य गात्राणीत्युक्त्वा कृत्वा प्रदक्षिणम् ।
प्रदापयेच्छिरःस्थाने भस्मीभावोत्तरं ततः ।।७५।।
गात्राणि वाससी चैव प्रक्षाल्य विनिवर्तयेत् ।
मृतं नाम तदोद्दिश्य दद्यात् पिण्डं महीतले ।।७६।।
गतायुषस्तृतीयेऽह्नि स्नानं कुर्यान्नदीजले ।
पिण्डं सचूरणं दद्यात् त्रींश्च दद्याज्जलांजलीन् ।।७७।।
चतुर्थे पञ्चमे षष्ठे पिण्डमेकं जलांजलिम् ।
सप्तमेऽष्टमनवमदशमेषु तथैव ह ।।७८।।
दशमे वस्त्रसंशुद्धिर्गात्रशुद्धिश्च सर्वथा ।
कर्तव्या गोत्रजैस्तिलाऽऽमलकस्नेहतस्ततः ।।७९।।
पिण्डदानं विनिर्वर्त्य क्षौरकर्म तु कारयेत् ।
स्नानं कृत्वा ज्ञातिभिश्च तत एकादशे दिने ।।1.355.८०।।
स्नात्वा प्रेतं ब्राह्मणेषु योजयेत्कारयेत्तथा ।
एकोद्दिष्टं विप्रमेकं सुद्रव्येण हि भोजयेत् ।।८१।।
पुनः स्नात्वा च तं प्रेतं प्रेतेषु संनियोजयेत् ।
एकोद्दिष्टं त्रिवर्णेषु कर्तव्यं पाकभोजनम् ।।।८२।।।
अपाकद्रव्यं संग्राह्यं चतुर्थवर्णकस्य तु ।
त्रयोदशे दिने पक्वैर्भोजयेद् ब्राह्मणान् सतः ।।८३।।
मनसा वायुभूतस्त्वं विप्रान् साधून् समाश्रय ।
विप्रसतां कृता सेवा प्रेताय सुखदा भवेत् ।।८४।।
प्रेतभोगशरीरं वै विप्रसतोः प्रकल्पितम् ।
प्रभातायां तु शर्वर्यामुदिते तु दिवाकरे ।।८५।।
श्मश्रुकर्म प्रकर्तव्यं विप्रस्य तु यथाविधि ।
स्नापनाऽभ्यंजने कार्ये प्रेतसन्तोषदायके ।।८६ ।।
स्थण्डिलं कारयेद् भूमौ प्रेतकार्यं समाचरेत् ।
यं देशं तु न पश्यन्ति कुक्कुटश्वानसूकराः ।।८७।।
श्वा चापोहति रावेण गर्जितेन तु सूकरः ।
कुक्कुटः पक्षवातेन चाण्डालो दर्शनेन च ।।८८।।
तत्र कुर्वन्ति यच्छ्राद्धं पितॄणां बन्धनप्रदम् ।
स्थण्डिले प्रेतभागं तु दद्यात् पूर्वाह्णिकं तु तत् ।।८९।।
कुर्याच्च पिण्डसंकल्पं नामगोत्रमुदाहरन् ।
ततश्चाश्नन्ति गोत्राणि कुलजाश्चैकभोजनाः ।।1.355.९०।।
एवं दत्तेन प्रीयन्ते प्रेतलोकगता जनाः ।
छत्रं दद्यादग्निभस्मशिलावृष्ट्यादिवारणम् ।।९१ ।।
दद्याच्चोपानहौ मार्गकण्टकादिनिवारकौ ।
धूपं दद्यात् प्रदीपं च वस्त्राण्याभरणानि च ।।।९२।।
फलान्यपि सुपक्वानि प्रेतभोग्यानि वै ददेत्। ।
एवं सर्वं विनिर्वर्त्य पक्वान्नं भोजयेद् द्विजम् ।।९३।।
प्रथमं ब्राह्मणस्तत्र प्रेतभागं प्रकल्पयेत् ।
हस्तशौचं ततः कृत्वा विप्रो मिष्टं हि भक्षयेत् ।।९४।।
ज्ञातिबान्धवमित्रैश्च ब्राह्मणाय पुनः पुनः ।
प्रेतभागः प्रदातव्यो वारणीयो न केनचित् ।।९५ ।।
निवारणे कृते तत्र गृह्णन्ति पितरो न वै ।
एवं विलुप्यते धर्मः प्रेतस्तत्र न तुष्यति ।। ९६।।
तृप्ते विप्रे सलिलं च दातव्यं शीतलं शुभम् ।
उच्छिष्टं तु सरिदादौ मत्स्येभ्यो देयमेव हि ।।९७।।
दद्याच्छय्यासनं चापि तथैवाऽञ्जनकंकणम् ।
निवापस्थानमागत्य दद्यात्तिलोदकं ततः ।।९८।।
गवां लांगूलमुद्धृत्य दद्याद् ब्राह्मणहस्तके ।
पात्रेणोदुम्बरस्थेन कृत्वा कृष्णतिलोदकम् ।।९९।।
मन्त्रपूतं जलं दद्यात् तोयेनाऽभ्युक्ष्य वै ततः ।
प्रेतं विसर्जयेद् विप्राद् दद्याद् दानं द्विजातये ।। 1.355.१ ००।।
पिपीलिकादिभूतेभ्यः प्रेतभागं प्रकल्पयेत् ।
दीनानाथेषु भक्तेषु प्रेतो भवति तृप्तिमान् ।। १०१ ।।
एवं श्राद्धात्मकः सर्वैः प्रेतभावविशोधनः ।
कर्त्तव्य एव संस्कारो निमे! त्वया तु स कृतः ।। १ ०२।।
अयं श्राद्धक्रियाकल्पः क्रतुरेकः प्रकीर्तितः ।
इत आरम्य लोकेषु पितृयज्ञो भविष्यति ।। १०३ ।।
यज्ञकर्ता भवान् निमे! ब्रह्मलोकं गमिष्यति ।
एवं सर्वैः प्रदातव्यः प्रेतभागस्तृतीयके ।। १ ०४।।
मासे तु सप्तमे नवमे चाप्येकादशे तथा ।
ततः सांवत्सरीं कुर्यात् क्रियां प्रेतस्य मुक्तये ।। १ ०५।।
पूर्णे सम्वत्सरे याते प्रेतकार्यं कृते ततः ।
प्रयान्ति जन्तवो मुक्तिं केचिद् भ्रमन्ति चाऽम्बरे ।। १०६ ।।
पितामहः स्नुषा भार्या ज्ञातिसम्बन्धिबान्धवाः ।
एवमेते बहवोऽत्र सन्ति स्वप्नोपमास्तु ते ।। १ ०७।।
रुदित्वा तु क्षणं सर्वे यान्ति पराङ्मुखा हि ते ।
स्नेहपाशेन बद्धास्ते मुच्यन्ते च क्षणान्तरे ।। १०८ ।।
कस्य माता पिता कस्य कस्य भार्या सुतास्तथा ।
दिने दिने विवर्तन्ते मोहपाशप्रबन्धनाः ।। १ ०९।।
मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूयन्ते कस्य ते कस्य वा वयम् ।। 1.355.११० ।।
स्वयं भुवा विधिः प्रोक्तः प्रेतसंस्कारलक्षणः ।
स्नेहभावेन कर्त्तव्यः संस्कारोऽयं मृतस्य वै ।। १११ ।।
प्रेतकार्ये निवृत्ते तु पितृत्वमुपजायते ।
मासि मासि ह्यमायां वै कर्त्तव्यं पितृतर्पणम् ।। १ १२।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
ब्राह्मणस्य मुखे होमात् तृप्यन्ति साधुभोजनात् ।। ११३ ।।
एवमुक्त्वा मुनिश्रेष्ठो नारदस्तु दिवं ययौ ।
इत्येवं निमिना राज्ञा कृतं श्राद्धं पुरा युगे ।। १ १४।।
ततः प्रभृति श्राद्धं च पिण्डं कुर्वन्ति भूसुराः ।
इति ते कथितं लक्ष्मि! श्राद्धपिण्डोद्भवादिकम् ।। १ १५।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने माथुरक्षेत्रमाहात्म्ये निमिनृपतिना श्रीमान्नाम्नो मृतपुत्रस्यार्थे श्राद्धं कृतम्, पश्चात् कल्पितकर्माऽप्रतिष्ठितमिति ज्ञात्वा शोकं कुर्वते निमये नारदेन श्राद्धं पुरातनो धर्म इत्युपदिष्टम्, श्राद्धक्रियाक्रमश्चोक्त इत्यादि निरूपणनामा पञ्चपञ्चाशदधिकत्रिशततमोऽध्यायः ।। ३५५ ।।