लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३५४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३५४
[[लेखकः :|]]
अध्यायः ३५५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! मथुरायां ध्रुवतीर्थं सुमुक्तिदम् ।
तर्पणादन्नदानाच्च पितॄणां तृप्तिकारकम् ।। १
मथुरायां चन्द्रसेनो राजासीद् धर्मकार्यकृत् ।
तस्य पत्नी चन्द्रप्रभा वीरसूर्वीरपुत्रका ।। २
तस्या दासीशतस्यैका दासी त्वासीत् प्रभावती ।
प्रभावत्याः पूर्वजा वै पितरः शतसंख्यया ।। ३
स्वदोषैः पतिताः सर्वे नरकं प्रति भामिनि।
करोति तर्पणं नापि कारयति प्रभावती ।। ४ । ।
श्राद्धं दानं च वा किञ्चित् पितॄणां तृप्तिहेतवे ।
तस्याः कुटुम्बिनश्चापि कुर्वन्त्येव न तर्पणम् ।। ५ ।।
तस्याः पितृगणो भ्रष्टः कदाचिद् यमुनातटे ।
सूक्ष्मः प्राणिसमूहो वै ध्रुवतीर्थे समापतन् ।। ६ ।।
कृष्णवर्णाश्चंक्रमन्तो मशकाकारसन्निभाः ।
पितरः ऋषिणा दृष्टास्त्रिकालज्ञाऽभिधायिना ।। ७ ।।
त्रिकलज्ञः सदा यम्यां पितॄन् दत्वा जलाञ्जलीन् ।
तर्पयत्येव पितरस्तृप्ता यान्ति महःस्थलम् ।। ८ ।।
स ऋषिः षष्ठकालाशी पयोव्रती सदास्ति वै ।
सूर्यकिरणपानाशी सूर्यगत्या गतिस्थितः ।। ९ ।।
आगतं पितृसमूहं दृष्ट्वा दृष्ट्वैव मोहितः ।
कृपया तान्निरीक्षैश्च न चक्रे व्रतजापनम् ।। 1.354.१० । ।
चतुर्थांशावशेषश्च दिवसः पर्यवर्तत ।
एके तत्र समायान्ति पितरो नभसोऽवनिम् ।। ११ ।।
अन्ये पूर्वादुत्तराच्च दक्षिणात्पश्चिमात्तथा ।
लक्षशः पितरस्तत्र ध्रुवतीर्थे समागताः ।। १२ ।।
आयान्ति प्रतियान्ति ये तान्पश्यन् विस्मयं गतः ।
तत्रैकः समूहो दृष्टो हृष्टपुष्टांगतुष्टिमान् ।। १३ । ।
पुत्रैः कृतस्वधाप्राप्तो जलं पीत्वा दिवं ययौ ।
अन्यः समूहो दृष्टोपि तपस्वी क्षामदेहवान् ।। १ ४।।
रूक्षः स्नानरतो पीत्वा जलं भुवर्ययौ स च ।
अथ संघोऽपरो दृष्टो वस्त्रालंकारशोभितः ।। १ ५ । ।
हृष्टपुष्टांग एवाऽसौ जलं पीत्वा दिवं ययौ ।
अथेतरः समुदायो दृष्टो नग्नशरीरकः ।। १६ ।।
सुपुष्टः सुखसम्पन्नो जलं पीत्वाऽम्बरं ययौ ।
अथाऽन्ते बहवो दृष्टा विमानवरमास्थिताः ।। १७ ।।
बहुभोजनपूर्णानि यानान्युच्चावचानि च ।
गृहीत्वा व्योममार्गेण गच्छन्ति महरादिकम् ।। १८ ।।
अथ परे लोकिताश्च त्वीरयन्तः शुभाशिषः ।
तृप्ता हंसगरुडादिपृष्ठस्था गजवाजिगाः ।। १९ ।।
तदन्ये विकृता दृष्टाः क्रुद्धाः क्षुधातिपीडिताः ।
पृष्ठलग्नोदरा मानहीनाः शापप्रदायिनः ।। 1.354.२० ।।
ततोऽन्ये च तथा दृष्टाः पुष्पहाराऽभिपूजिताः ।
श्राद्धे भुंक्त्वा महोत्साहा यथा देवास्तथोज्ज्वलाः ।। २१ ।।
केचित् पिण्डान् करे धृत्वा केचिदत्त्वा फलानि च ।
केचित् षोडशवस्त्वाद्यैर्युक्ता यान्ति जनादिकम् ।। २२ ।।
केचिच्छय्यासमायुक्ता भोगभोग्यसमन्विताः ।
तुष्टाः प्रसन्नमनसो दृष्टास्तपोऽभियायिनः ।।२३ ।।
केचित् समुकुटा राज्यच्छत्रचामरवीजिताः ।
दृष्टा मानयुता याताः सत्यलोकं विमानकैः ।।२४।।
यमुनायां नववस्त्रैर्युता भूषादिशोभिताः ।
परिभ्रमन्ति पितरश्चान्ये दृष्टास्तथाविधाः ।।२५।।
कालिन्द्यां ध्रुवतीर्थे वै मध्याह्नोत्तरमेव ह ।
आसायं पितरश्चैवं त्रिकालज्ञर्षिणेक्षिताः ।।२६ ।।
गते पितृगणे पुत्राः सकलत्राः कुटुम्बिनः ।
श्राद्धकर्तार एवैते सायं स्वस्वगृहान् ययुः ।। २७।।
निर्जनं ध्रुवतीर्थं च जनहीनं तदाऽभवत् ।
त्रिकालज्ञोऽपि मुनिराड् विस्मितस्तत उत्थितः ।।२८।।
ददर्शैकं कृशांगं च क्षुत्क्षामं गतिविह्वलम् ।
प्रतीक्षन्तं कम्पमानं पृष्ठलग्नलघूदरम् ।।२९।।
ऊरुचर्मास्थिरुक्त्रस्तं जृम्भमाणं पुनः पुनः ।
कोटराक्षं म्लानवक्त्रं क्षुद्रस्वल्परवं कृशम् ।।1.354.३ ०।।
दयालुः स मुनिस्तं वै पप्रच्छ को भवानथ ।
दुःखितो विकृताकारो वेष्टितो मशकैर्बहु ।।३ १ ।।
न गच्छसि न ते स्थानं निराश्रितोऽसि किं वद् ।
मयाऽद्य बहवो दृष्टाः कोटिशः पितरोऽत्र वै ।।३२।।
तेषामालोकने कालो गतोऽद्य मम सर्वथा ।
न ममाद्य नैत्यकं वै कर्मजातं विलोकने ।।३३।।
अथ त्वं च मया दृष्टः क्रिया मे नश्यते खलु ।
पश्चात् कर्म करिष्ये मे नैत्यकं वद मे ऋतम् ।।३४।।
यथाशक्ति करिष्ये वै शक्तं स्याच्चेद्धितं तव ।
श्रुत्वा जन्तुरुवाचैनं मुनिं सर्वं यथातथम् ।।३५।।
बृहन्निमित्तमद्यैव पितॄणां तृप्तिकारकम् ।
ध्रुवतीर्थे कृतं श्राद्धं दत्तं तिलोदकादिकम् ।।३६ ।।
अन्नं वस्त्रं फलं पुष्पं जलं शय्यादिकं तथा ।
उपानहौ गृहं छत्रं भूषा दुग्धं तथेतरत् ।।३७।।
अद्य दत्तं सुतदारपुत्रीपत्नीकुटुम्बिभिः ।
सर्वं लक्षगुणं तृप्तिप्रदं पितृप्रतर्पणम् ।।३८।।
ध्रुवतीर्थे ध्रुवं सर्वं दत्तं भवति भूसुर! ।
यानं च वाहनं गौश्च वाटिका क्षेत्रमित्यपि ।।३९।।
दत्तं नीत्वा सह यान्ति स्वर्णं द्रव्यं तथेतरत् ।
तिलतृप्ताः सर्वतृप्ताः पितरोऽद्याऽतितोषिताः ।।1.354.४०।।
सर्वे तृप्ता दिवं यान्ति पितरश्चाद्य पुत्रिणाः ।
सन्तानैः पुष्टवपुषो दत्तश्राद्धैः कृतोदकैः ।।४१ ।।
येषां सन्ततिरक्षय्या तिष्ठत्येवं प्रजावती ।
ते स्वधापूजितैः पुत्रैर्गच्छन्ति परमां गतिम् ।।४२।।।
अद्य राज्ञस्तु पितरश्चन्द्रसेनस्य पूजिताः ।
दृष्टास्त्वया तथा चान्ये दिव्यदृष्ट्या दिवंगताः ।।४३।।
ब्राह्मणानां क्षत्रियाणां वैश्यानां शूद्रकर्मणाम् ।
प्रतिलोमानुलोमानां सर्वेषां श्राद्धकर्मिणाम् ।।४४।।
पितरस्तु त्वया दृष्टा येषां सन्ततिरव्यया ।
अहन्तु संप्रतीक्षन्वै श्राद्धं त्वत्र व्यवस्थितः ।।४५।।
आशापाशशतैर्बद्धस्तृप्त्यर्थश्च बुभुक्षितः ।
योनिसंकरदोषेण पूर्वं वै नरकं गतः ।।४६ ।।
नास्तिकैर्मम वंश्यैश्च श्राद्धं दत्तं न मेऽद्य वै ।
प्रत्यब्दं त्वागतस्यात्र प्राप्तिः श्राद्धस्य मे नहि ।।४७।।
अन्यपितृदास्यवृत्तिं कृत्वा जीवामि भूसुर ।
अद्य श्राद्धसमारोहे शतवर्षैर्मनागपि ।।४८।।
कुटुम्बितो मया नैव लब्धं तृप्तिर्न मेऽद्य वै ।
अगतिर्गमने जाता त्रितापैश्च सुदुःखितः ।।४९।।
बलयुक्ता ययुः सर्वे निर्बलस्य कुतो गतिः ।
आगमिष्यन्ति वै केचित् सर्वपितृप्रतर्पकाः ।।1.354.५०।।
तदा ह्यवाप्य किञ्चिद्वै यास्येऽरण्यं समीपगम् ।
इमे ये मम देहे तु भवन्ति मशकाः कृशाः ।।५१ ।।
सन्तानप्रक्षयादेते मम देहं समाश्रिताः ।
अहं वै पूर्वजस्तेषां ह्येते मे वंशजा जनाः ।।५२।।
मां खादन्ति क्षुधाकाले तन्तुविच्छेददुःखिताः ।
एका तन्तुमयी पुत्री मम वंशेऽत्र विद्यते ।।५३ ।।
मथुरायां चन्द्रसेननृपतेः कर्मचारिणी ।
महिष्याः सेवने सक्ता दासी नाम्ना प्रभावती ।।५४।।
तस्याः पुत्रः कर्मचारी विरूपनिधिसंज्ञकः ।
अस्माकं सन्ततेस्तन्तुस्तस्य श्राद्धकृते वयम् ।।५५।।
आशया बद्धहृदया श्राद्धतर्पणकामनाः ।
स्थिता एतावदेव तु ततो यास्यामहे वनम् ।।५६।।
नरके त्वप्रतिष्ठे वा वार्धौ वा भग्नमानसाः ।
यदि तन्तुः स चेद् दद्याज्जलं श्राद्धं तिलाञ्जलीन् ।।५७।।
तदा पुष्टा वयं भूत्वा यामो दिवं कनिष्ठकम् ।
शृणु निकृष्टयोन्याऽपि दत्तं वै प्राप्यते हविः ।।५८।।
तया दत्तेन सन्तुष्टा वयं स्यामः सुपुत्रिणः ।
पूर्वकर्मविपाकेन यां यां गतिमधोमुखीम् ।।५९।।
ऊर्ध्वां च प्राप्ताः पितरः पुत्रिणः पुत्रिकाश्रिताः ।
श्राद्धं पिण्डोदकं दानं पुत्रीकृतं त्ववाप्यते ।।1.354.६ ०।।
नान्या गतिः पितॄणां स्यात् पुत्र्या पितरः पुत्रिणः ।
अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलांजलिम् ।।६ १ ।।
नदीषु बहुतोयासु शीतलासु विशेषतः ।
तीर्थमध्ये तिलमिश्रं फलयुक्तं जलांजलिम् ।।६२।।
रौप्यजुष्टजलेनापि नाभिदघ्ने जले स्थितः ।
दर्भपाणिः प्रदद्याच्च तेन तृप्ता वयं सदा ।।६३ ।।
दर्भपाणिस्त्रिस्त्रिगोत्रे पितृनाम समुच्चरन् ।
तृप्यतां ह्यमुकनाम्ने स्वधा चेति वदन् सुतः ।।६४।।
देवेभ्यश्चांजलिं दद्याद् ऋषिभ्यस्त्वंजलिद्वयम् ।
पितृभ्यस्त्र्यञ्जलीन् दद्यात् तृप्यन्तां समुदाहरन् ।।६५।।
पित्रे प्रथमतो दद्यात् मात्रे दद्यात्ततः परम् ।
मातामहाय च दद्याद् दद्यात् पितामहाय च ।।६६।।
तत्परेभ्यश्च पितृभ्यः प्रदद्यात् त्रीन् जलांजलीन् ।
पितामह्यै तथा दद्याद् दद्याच्च प्रपितामहीम् ।।६७।।
अनेन पिण्डदानेन तेऽसूर्यान्नाशयाम्यहम् ।
इदं जलं मया दत्तमक्षय्या तृप्तिरस्तु ते ।।६८।।
वार्यपि श्रद्धया दत्तं तदानन्त्याय कल्पते ।
गृह्णानाः पितरः केचिद् भवन्त्युद्विग्नरूपिणः ।।६९।।
शृणु तत्कारणं विप्र! श्राद्धं स्याद्विफलं यथा ।
अदेशकाले यद्दत्तं विधिहीनमदक्षिणम् ।।1.354.७०।।
अपात्रे मलिनं द्रव्यं तृप्तये नैव जायते ।
अश्रद्धेयमपांक्तेयं दुष्टप्रेक्षितमीक्षितम् ।।७१ ।।
तिलमन्त्रकुशैर्हीनमासुरं तद्भवेदिति ।
अशुचीनि गृहाण्येवाऽशुचिश्राद्धहवींषि च ।।७२।।
क्रोधाविष्टानि दानानि विधिपात्राऽकृतानि च ।
अदक्षिणानि श्राद्धानि राक्षसेभ्यो मिलन्ति वै ।।७३ ।।
दक्षिणाहीनयज्ञस्य फलं रक्षो भुनक्ति हि ।
देवब्राह्मणगुर्वग्रे वृथाशपथकारिणाम् ।।७४।।
कृतं सर्वं हि पातालवासिनो लक्ष्मि! भुंजते ।
अश्रोत्रियाणि श्राद्धानि हुतं दत्तममन्त्रकम् ।।७५।।
गुर्वभक्तस्य शिष्यस्य कीर्तनं पुण्यकर्मणः ।
करिष्यतश्च धर्मस्य प्रागेव तु प्रकाशनम् ।।७६।।
सर्वं पातालवासानां तृप्त्यर्थं परिकल्पितम् ।
अलीकं तु वृथाऽऽडम्बरेण यद्वै कृतं व्रतम् ।।७७।।
दानं श्राद्धं तपो होमो रक्षसां तद्भवेत् किल ।
नोपतिष्ठन्ति पितृणां नग्नाः पितृगणास्ततः ।।७८।।
मुषिता राक्षसाद्यैर्वै दानादिफलभोक्तृभिः ।
अफलास्ते यथाऽऽहूतास्तथा गच्छन्त्यभोजनाः ।।७९।।
मौनमास्थाय ते सर्वे क्षुधितास्तृषितास्तथा ।
आयान्ति च वियन्ति च न वैते पुण्यभागिनः ।।1.354.८०।।
एतत् सर्वं कथितं ते पितृवैरुप्यकारणम् ।
नवीनं बहुमूल्यं च श्रेष्ठं सारं ददाति यः ।।८१ ।।
तत्पितरः स्मृद्धिमन्तो यानस्था यान्ति वै दिवम् ।
जीर्णं क्षुद्रं कनिष्ठं चाऽसारं श्राद्धे ददाति चेत् ।।८२।।
तत्पितरो दरिद्रा वै पद्भ्यां भ्रमन्ति यान्ति च ।
दरिद्राणां दरिद्रास्ते स्मृद्धानां स्मृद्धिसंजुषः ।।८३।।
इत्युक्त्वा विररामाऽसौ वृद्धः पितृगणस्ततः ।
त्रिकालज्ञो दयाक्लिन्नः समुवाच हिताय तम् ।।८४।।
यावत् तृप्तिर्न ते भूयान्न भोक्ष्येऽहं स्थिरो भव ।
प्रतीक्षस्वाऽऽगमनं मे तामानयामि पुत्रिकाम् ।।८५।।
तदा श्राद्धं कारयिष्यामीत्युक्त्वा संययौ नृपम् ।
राजा तमागतं दृष्ट्वा ननाम पादयोः ऋषेः ।।।८६।।।
धन्योऽस्म्यनुगृहीतोऽस्मि मद्गृहं पावनं कृतम् ।
अद्य मे सफलं जन्म पाद्यमर्घ्यं गृहाण गाम् ।।८७।।
इति संवदतो राज्ञः सत्कारं प्राप्य चाब्रवीत् ।
राजन् शृणु कुरु तच्च येनाऽहं तोषितोऽभवम् ।।८८।।
आनय राजमहिषीं प्रभावतीसमन्विताम् ।
राज्ञाऽऽनीता ऋषिं नत्वाऽऽसनस्थां मुनिरब्रवीत् ।।८९।।
ध्रुवतीर्थे मयाऽऽश्चर्यं यद्दृष्टं कथयामि वः ।
कोटिशः पितरः सर्वे ययुः पुत्रार्चिता दिवम् ।।1.354.९० ।।
एको वृद्धः शुष्कदेहः क्षुत्क्षामः शुष्कमांसकः ।
निराशो निरये गन्तुकामोऽसौ ध्रुवतीर्थके ।।९१ ।।
मया पृष्ठः सुकारुण्यात् कस्त्वं किमिच्छसीति च ।
स प्राह मां मम वंशे दासी प्रभावती तथा ।।९२।।
तन्तुः पुत्रो विरूपकनिधिर्नाम्ना हि वर्तते ।
स कुर्याद् यदि मे श्राद्धं तृप्तिः स्यादिति भूसुर ।।९३ ।।
प्रभावत्या सुतद्वारा कारणीयं हि तर्पणम् ।
पितॄणां तु कृते दत्तं दानं वारि फलादिकम् ।।९४।।
स्वधा च पायसं श्राद्धं तृप्तिदं मुक्तिदं भवेत् ।
इत्युक्त्वा प्रत्ययार्थं तां प्राहर्षिर्मदविह्वलाम् ।।९५।।
किं त्वया पितृतृप्त्यर्थं कृतं दत्तं जलं न वा? ।
सा नैवमित्युवाचाऽथ न जानामि च तान् पितॄन् ।।९६।।
क्रियां कर्म न जानामि न करोमि कदापि च ।
ऋषिः प्राह समायान्तु द्रक्ष्यथाऽद्य चमत्कृतिम् ।।९७।।
इति कृत्वा ययुः सर्वे ध्रुवतीर्थं तु नागराः ।
ब्राह्मणाश्च तथा राजा लोकाश्च बहवस्तदा ।।९८।।
मुनिना दर्शितस्तेभ्यो वृद्धो विचेतनः कृषः ।
मशकैर्वेष्टितः क्षुद्रैः क्षुधया चातिपीडितः ।।९९।।
मुनिस्तं प्राह भो जन्तो! तव सन्तानजा सुता ।
सपुत्रा त्वत्र चायाता पुष्ट्यर्थं वद् वाञ्छितम् ।। 1.354.१० ०।।
अगतिश्च तदोवाच स्नात्वाऽत्र विधिना मम ।
करोतु तर्पणं नाम्ना ततः श्राद्धं करोतु च ।। १०१ ।।
सरौप्यवस्त्रं सतिलं पिण्डदानं करोतु च ।
तथाऽन्यद्वै यथाशक्ति दानं करोतु चात्र वै ।। १ ०२।।
येनात्रैव भवन्तो हि मामीक्षथ सुखान्वितम् ।
कारयन्तु यथाशक्ति श्राद्धं दानं हि तन्तुना ।। १०३ ।।
इतिश्रुत्वा राजपत्नी श्राद्धं सुबहुदक्षिणम् ।
दास्या वै कारयामास तत्पुत्रेण च सर्वथा ।। १०४।।
पट्टवस्त्रं फलं धूपः कर्पूरागुरुचन्दनम् ।
तिलोत्तरं पायसान्नं मिष्टान्नं च सपिण्डकम् ।। १ ०५।।
जलं तिलोदकं सर्वं यद्दत्तं तेन तृप्तिमान् ।
सुकृती च सुतेजस्वी देववद् दीप्तिमान् बभौ ।। १ ०६।।
तत्सदृशास्तु मशका अपि तृप्ताः सुरूपिणः ।
देवा इव व्यजायन्त शुशुभिरेऽतिपुष्टिकाः ।। १ ०७।।
स्वर्गागतैर्विमानैश्च छादितं तत्र वै नभः ।
ते तु देवा इव सर्वे पितरस्तुष्टमानसाः ।। १ ०८।।
प्रोचुरस्मत्कुलतन्तुर्वृद्धिं यातु सुवंशजैः ।
ये श्राद्धैर्विविधैरस्मान् तारयिष्यन्ति सर्वदा ।। १ ०९।।
शृण्वन्तु वचनं सर्वेऽस्मदीयं पितृतुष्टिदम् ।
तीर्थानि सरितः कूपाः पर्वताश्च सरांसि च ।। 1.354.११ ०।।
कुरुक्षेत्रं गया गंगा स्थानान्यायतनानि च ।
पितॄणां मुक्तिदं त्वन्यन्न भूतं न भविष्यति ।। १११ ।।
भाद्रे प्रोष्ठपदीं स्नात्वा प्रतिपत्प्रभृति त्वथ ।
शुक्लप्रतिपदन्तं च तीर्थं प्राप्य ससत्वराः ।। ११ २।।
पितरः श्राद्धपिण्डाऽदाः आश्विने ध्रुवमास्थिताः ।
कृत्वा प्रेतपुरीं शून्यां स्वर्गं पातालमित्यथ ।। ११३ ।।
ईहमानाः स्वकान्पुत्रान् गोत्रतन्तून् तथाऽनुजान् ।
तिष्ठामस्त्वत्र सहिताः स्वस्ववंशजपितृभिः ।। १ १४।।
कन्यां गते सवितरि यः श्राद्धं सम्प्रदास्यति ।
तर्पणं ध्रुवतीर्थे ते पितॄणां षोडशाहके ।। १ १५।।
सुतृप्ताः स्मो वयं शश्वद् यास्यामः परमां गतिम् ।
दृष्टो भवद्भिः पितॄणां तारको वै विधिर्यथा ।। १ १६।।
दुस्तरं तारितं पापं त्रिकालज्ञप्रसादतः ।
इति संश्राव्य ते सर्वे राजानं च जनानृषिम् ।। १ १७।।
राज्ञीं दासीं च तत्पुत्रं संभाष्य शिवमस्तु वः ।
आरुह्य वरयानानि गताः स्वर्गं वृताः सुरैः ।। १ १८।।
राजा राज्ञी सुतो दासी प्रजा नार्यो नरास्ततः ।
महदाश्चर्यपूर्वास्ते ययुर्निजगृहान्प्रति ।। ११ ९।।
चक्रुश्च सर्वदा योग्ये समये श्राद्धतर्पणम् ।
उद्धृताः पितरस्तैस्तु ध्रुवतीर्थप्रभावतः ।। 1.354.१२०।।
एतत्ते कथितं लक्ष्मि! माहात्म्यं मथुराभवम् ।
यत्स्मरणाद् विनश्यन्ति पापानि पूर्वूजन्मनाम् ।। १२१ ।।
पठेद् यः शृणुयाच्चैव स ध्रुवतीर्थपुण्यभाक् ।
मथुरायां यमुनाया जलस्नानस्य पुण्यभाक् ।। १ २२।।
यत्र क्वापि जलपार्श्वे स्थित्वा पिण्डं ददाति वै ।
यमुनाध्रुवसत्तीर्थं स्मृत्वा त्वावाह्य पितृकान् ।। १२३ ।।
तत्र यामुनजलवत् पितृतृप्तिः प्रजायते ।
वंशवृद्धिस्तथाऽऽरोग्यं स्मृद्धिस्तस्य सुजायते ।। १२४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुरातीर्थमाहात्म्ये ध्रुवतीर्थे समागतकोटिपितृतृप्त्युत्तरं त्रिकालज्ञाभिधर्षिणा क्षुधिते एकस्मिन् पितरि दृष्टे तद्वंशे चन्द्रसेननृपतिदासीरूपां पुत्रीं विज्ञाय
तद्द्वारा श्राद्धं कारयित्वा पितृमुक्तिदानं श्राद्धविधिर्महिमा चेत्यादिनिरूपणनामा चतुःपंचाशदधिकत्रिशततमोऽध्यायः ।। ३५४।।