लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३६२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३६१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३६२
[[लेखकः :|]]
अध्यायः ३६३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततस्तत्र यज्जातं तद् वदामि ते ।
नाचिकेता द्विजानाह यद् दृष्टं तद् यथार्थतः ।। १ ।।
शृण्वन्तु ब्राह्मणास्तत्र धर्मराजेन धीमता ।
दृष्टा विमानकैः सूर्यसमैर्यान्तो दिवं प्रति ।। २ ।।
तापसाः सिद्धिमन्तस्ते पत्नीयुताः सबान्धवाः ।
सानुरागाः पुण्यपुञ्जद्योतमानाननाश्च ते ।। ३ ।।
ततो द्रागेव सञ्जातो धर्मराजोऽतिदुःखितः ।
विवर्णवदनो रोषात् प्रभातेजोविवर्जितः ।। ४ ।।
एतादृशं तु तं दृष्ट्वा पृष्टवानहमंजसा ।
अपि त्वं भ्राजमानस्तु कथं वैवर्ण्यमाप्तवान् ।। ५ ।।
वितप्यसे कथं राजन्! ह्येतदिच्छामि वेदितुम् ।
यमराजस्तदा प्राह विवर्णशोककारगम् ।। ६ ।।
यायावरा उञ्छवृत्तिपराः स्वाध्यायकारिणः ।
आतिथ्यसत्क्रियावन्तो योगिनश्च जितेन्द्रियाः ।। ७ ।।
ब्रह्मचर्यपरा ये तु साधवश्च सतीस्त्रियः ।
ते सर्वे मामनादृत्य गच्छन्त्युपरि मे द्विज! ।। ८ ।।
न ते यामुपतिष्ठन्ति न हि ते वशगा मम ।
मस्तके मम गच्छन्ति पत्नीयुक्ताः सहानुगाः ।। ९ ।।
दिव्यगन्धविलिप्तांगा माल्याभरणभूषिताः ।
वदन्तश्च समुद्दिश्य मां यथा म्लानता भवेत् ।। 1.362.१० ।।
यमेशं न गणयामो गच्छामस्तत्परं स्थलम् ।
मृत्यो! तिष्ठसि कस्यार्थे को वा मृत्युर्यमश्च कः ।। ११ ।।
अस्मत्कृते निरर्थोऽयं यमो यमेश्वरोऽपि च ।
दोषान्वितान् सदा हंसि पापिष्ठान्धर्मवर्जितान् ।। १२।।
नाऽसि रोद्धुं समर्थोऽपि यास्यामः परमं पदम् ।
इति ब्रुवन्तः संयान्ति वैमानिकाः श्रुतं मया ।। १ ३।।।
निग्रहानुग्रहौ कर्तुं मया शक्यौ न योगिनाम् ।
समर्थोऽपि शृणोम्येवं तेन तप्ये द्विजोत्तम! ।। १४।।
अशक्तिं स्वां तेषु मत्वा परितप्ये भृशं द्विज! ।
इत्यकथयन्मां धर्मराजस्तत्र क्षणान्तरे ।। १५।।
काचित्पतिव्रता साध्वी विमानेनाऽऽययौ पुरः ।
महाद्युतिः सानुगा सभर्तृका सपरिच्छदा ।। १६।।
सोत्सवा धर्मराजानमुवाच सुखकृद्धितम् ।
धर्मराज! महापूज्य! मा याहि म्लानतां प्रभो ।। १७।।
विप्रास्तपस्विनः शान्ताः सन्तः साध्व्यश्च तापसाः ।
दर्शनीया वन्दनीयाः स्वबलात् पारगामिनः ।। १८।।
एतेषां तपसां धर्म! माहात्म्यं बलमित्यपि ।
मोक्षप्राप्तिप्रदं चेशलोकप्रदं परात्परम् ।।१ ९।।
अचिन्त्याः सर्वभूतानां साधवो ब्राह्मणास्तथा ।
ब्राह्मणाः सततं पूज्याः साधवः सर्वदेवताः ।।।1.362.२० ।।
सत्ता तत्र न योक्तव्या मात्सर्यं वर्ज्यमेव च ।
रागो रोषस्तथा मोहो न कर्तव्यः सदा सताम् ।।२१ ।।
एवमुक्त्वा नमस्कृत्य प्रयाता सा परं दिवम् ।
ततो मया वै संपृष्टं धर्मराजाय काऽभवत् ।।२२।।
धर्मराजो जगादाऽथ कथां मां कृत्स्नशस्ततः ।
पुरा कृतयुगे विप्र! निमिर्नाम महायशाः ।।२३ ।।
आसीद् राजा धर्मतेजोवीर्यसत्यव्रतान्वितः ।
तस्य पुत्रो मिथिर्नाम मिथिला येन निर्मिता ।।२४।।
मिथिलाया जनकत्वात् जनकश्चोपनामकः ।
तस्य रूपवती नाम पत्नी प्रियप्रियंकरी ।।२५।।
पतिभक्ता महाप्रीत्या भर्तुर्वचनकारिणी ।
तयोः राज्ये जराव्याधिमृत्यवः प्रभवन्ति न ।।२६।।
ववर्ष सततं देवो रुजार्तो न जनः क्वचित् ।
उवाच राज्ञी राजानं विनयाद्धर्मभृद्वचः ।।२७।।
राजँस्त्वया कृता यज्ञा भोजितास्तेषु भूसुराः ।
दत्तं दान बहुविधं नाल्पं द्रव्यं विशिष्यते ।।२८।।
भृत्यानां च द्विजातीनां तथा परिजनस्य च ।
यदभूत् द्रविणां किञ्चित्पृथिव्यां यद्गृहे च ते ।।२९।।
विनियुक्तं तु तत्सर्वं दानकार्ये ह्यशेषतः ।
न त्वं राजन् विजानासि कुतो भोजनमर्थयेत् ।।1.362.३ ०।।
नास्ति गृहे न चान्यत्र कपर्दिकापि विद्यते ।
पत्रं पुष्पं फलं कन्दः ऋषिभ्यो दत्तमेव ह ।।३ १ ।।
क्षेत्रं च वाटिका राज्यं सर्वं ब्राह्मणसात्कृतम् ।
न वा गवादिकं किञ्चिन्न च वस्त्राणि कर्हिचित् ।।३२।।
न चैव वार्षिकः कश्चिदायोऽस्ति भोजनस्य तु ।
कथं ह्युदर्यशान्त्यर्थं वर्तनीयं वद प्रभो! ।।३३।।
इति प्रियावचः श्रुत्वा जनकः प्राह भामिनीम् ।
शृणु ब्रवीमि संशक्यं यदि मे मन्यसे हितम् ।।३४।।
हविष्ये वर्तमानानामिदं वर्षशतं गतम् ।
कुद्दालेन च काष्ठेन क्षेत्रं वै कुर्वहे प्रिये ।।३५।।
ततोऽन्नपानवस्त्रादिप्राप्तिर्धर्मो भविष्यति ।
भक्ष्यं भोज्यं तदन्यच्च लब्ध्वा त्वं सुखमाप्स्यसि ।।३६।।
एवमुक्ता तु सा राज्ञी संहृष्टा नृपमब्रवीत् ।
भृत्यानां तु सहस्राणि दासीनां ते निवेशने ।। ३७।।
अश्वानां च गजानां च सौरभीनां च कोटयः ।
उष्ट्राणां च महिषाणां खराणां चापि कोटयः ।। ३८।।
वृषभाणां च भृत्यानां कोटयः सन्ति ते गृहे ।
नियुक्ष्व राजन् सर्वांस्तान् कृषिकार्ये तवेप्सिते ।।३ ९।।
राजा प्राह मया राज्ञि! दाने दत्तानि तानि वै ।
बलीवर्दाः खरा अश्वा गजा उष्ट्राश्च मानवाः ।। 1.362.४० ।।
सर्वे नियुक्ता दानेषु न मे सत्ताऽस्ति तेषु वै ।
आयसं त्रापुषं ताम्रं राजतं काञ्चनं च यत् ।।४१ ।।
द्रविणं सर्वमेवात्र दाने यज्ञे नियोजितम् ।
न वै पश्यामि धर्मज्ञे! गृहे स्वर्णं तथाऽऽयसम् ।। ४२।।
येन कुर्यामहं देवि! कुद्दालं कृषिकर्मणे ।
एवमुक्ताऽतिहृष्टा साऽब्रवीद् रूपवती नृपम् ।। ४३।।
गच्छावो नृप! भद्रं स्यादुद्योगः सम्पदांप्रदः ।
एवमुक्तो निमिपुत्रो ययौ क्षेत्रं सभार्यकः ।। ४४।।
इद्ं भद्रं मम क्षेत्रं वनवृक्षमयं सदा ।
असंस्कृतं तथाऽकृष्टं न दत्तं यन्निरर्थकम् ।।४५।।
अत्राऽऽस्व तं स्वल्पगुल्मान् कण्टकाँश्च छिनद्म्यहम् ।
अतिस्वल्पतृणादींश्च त्वमेतान् शोधय प्रिये! ।। ४६ ।।
एवमुक्ता महाराज्ञी पातिव्रत्यपरायणा ।
वृक्षच्छायां समाश्रित्य तृणगुल्मान् निकृन्तति ।। ४७।।
तावत् तया पतिवाक्यपालिन्या पुण्यवैभवात् ।
दृष्टः पार्श्वे महान् गुल्मः सौवर्णं कनकप्रदः ।। ४८।।
उवाच मधुरं वाक्यं प्रसन्ना सा नृपांगना ।
वृक्षोऽत्र दृश्यते पार्श्वे सौवर्णो गुल्म उत्तमः ।। ४९।।
तावद्वृक्षस्तया त्वन्यो दृष्टः फलादिशोभितः ।
तावत्तत्र तृतीयो द्रुर्दृष्टो भोजनवस्तुयुक् ।।1.362.५०।।
न दृष्टन्तु जलं तत्र सान्निध्ये वनभूतले ।
उवाच हृष्टा राजानं प्राप्तं भोज्यं न वै जलम् ।।५१ ।।
कथमेतच्चोपपन्नं दृष्ट्वा राजाऽप्युवाच ताम् ।
पूर्वं दत्तं जलं चान्नं सर्वमग्रे प्रधावति ।। ५२।।
कृतं वै प्राप्यते सर्वं नाऽकृतं तु कथंचन ।
जलं चापि प्रदत्तं तदवश्यं सम्मिलिष्यति ।।५३।।
इत्युक्त्वा शोधयामास क्षेत्रं सभार्यको नृपः ।
वियन्मध्ये तदोग्रश्च सविता तपते ह्यति ।।५४।।
प्रवृद्धो दारुणो घर्मो राज्ञी तु तृषिताऽभवत् ।
स्निग्धौ ताम्रतलौ पादौ तस्याः सन्तापमागतौ ।।५५।।
प्रवालरक्तौ हस्तौ च शरीरं कोमलं तथा ।
व्यथिता सूर्यतापेन भृशमुष्णेन पीडिता ।।५६।।
पतिता मूर्छया भूमौ तृषावेगेन भामिनी ।
पतन्त्या तु तया दृष्टः सूर्यो विह्वलया दृशा ।।।५७।।
यदृच्छया पतन्त्या तु सूर्यः कोपेन वीक्षितः ।
तेन सूर्योऽतितेजस्वी सन्त्रस्तो गगनेऽभवत् ।।५८।।
गतिहीनो दिवं मुक्त्वा पतितो धरणीतले ।
निस्तेजस्कः शान्तवर्णः शीतलश्च तदाऽभवत् ।।५९।।
पतिव्रतायाः सान्निध्ये सूर्यतेजो लयं गतम् ।
राजा स जनकः प्राह रक्ष स्वभावशून्यकम् ।।1.362.६ ०।।
किमर्थमिह तेजस्त्वं त्यक्त्वा पृथ्व्यां समागतः ।
किं करोमि हि पूजार्थे नमस्करोमि भास्कर! ।।६ १ ।।
एवं ब्रुवन्तं राजानं सूर्यः सविनयोऽब्रवीत् ।
पतिव्रता ते गृहिणी ममैषा रुषिता मनाक् ।। ६२।।
तस्या रोषप्रभावेण पतितोऽहं विमूर्छितः ।
अनया सदृशी नारी त्रैलोक्ये नैव विद्यते ।।६३।।
अहोऽस्याः परमा सेवा अहोऽस्याः परमं तपः ।
अहो धैर्यमहो शक्तिस्तवेवाऽस्याः शुभा गुणाः ।।६४।।
अनुरूपा विशुद्धा च तव चित्तानुसारिणी ।
पतिव्रत्येन तपसा साध्वी तव हिते रता ।। ६५ ।।
कल्पवृक्षसमा चेयं सदृशी ते सुरार्चने ।
पात्रं पात्रवता प्राप्तं सुकृतस्य महत्फलम् ।।६६ ।।
अनुरूपो विरूपो वा त्वया कामस्तु यः कृतः ।
वितथो वा भवेदस्याः पातिव्रत्यप्रभावतः ।।६७।।
कुरुष्व स्वेप्सितं क्षेत्रं यथा मनसि धारितम् ।
अहं ददामि वै वारि दैवममृतसदृशम् ।।६८।।
भोजनं संददाम्येतदुपानहौ सुदिव्यकौ ।
छत्रं शय्यां तथा दिव्यां कामधेनुं मणिं शुभम् ।। ६ ९।।
पात्रं त्वक्षय्यमेवापि नित्यं भोज्यादिपूरकम् ।
एवमुक्त्वा स्वयं सूर्यः ससर्ज जलभाजनम् ।।1.362.७०।।
उपानहीौ मणिं छत्रं शय्यां स्थालीं च गां तथा ।
ददौ तस्मै मैथिलाय सविता स्नेहसंप्लुतः ।।७१ ।।
उवाच स पुनर्भूपं देहि राज्ञ्यै सुखां कुरु ।
क्षेत्रं यशस्यं फलदं भविष्यत्यपि कामदम् ।।७२।।
राज्ञा साऽऽप्यायिता देवी तोयेन तु तदा हि सा ।
लब्धसंज्ञा लुप्तभया राजानमिदमब्रवीत् ।।७३।।
केन दत्तं शीततोयं दिव्यं छत्रमुपानहौ ।
शय्या धेनुर्मणिः पात्रं भोज्यं चेति वदात्र मे ।।७४।।
राजा प्राह स्वयं सूर्यो देवि! तवाऽनुकम्पया ।
एतत्सर्वप्रदानाय मुक्त्वाऽऽकाशमिहाऽऽगतः ।।७५।।
इत्युक्त्वा पूजितः सूर्यो द्वाभ्यां सूर्येण सत्कृतौ ।
अर्थयामासतुः सूर्यं किं कुर्वो भगवंस्तव ।।७६।।
एवमुक्तो विवस्वान् स जगाद् स्वाऽवनाऽर्थकम् ।
अभयं मे सदात्वस्तु पतिव्रताभ्य एव ह ।।७७।।
पतिव्रताभ्यः संक्लेशः स्त्रीभ्यो मे मा भवेत् क्वचित् ।
सूर्यस्य वचनं श्रुत्वा राज्ञी प्राह तथास्त्विति ।।७८।।
अभयं ते सर्वनेत्र! यथा त्वं वृतवानसि ।
इत्युक्तः स ययौ स्वस्य मण्डलं दिवि भास्करः ।।७९।।
सैषा पतिव्रता रूपवती जनकभामिनी ।
पातिव्रत्यप्रभावेण सर्वमाप्तवती वने ।।1.362.८० ।।
मयाऽपि पूज्यते स्वामिव्रता सूर्यस्य सूनुना ।
न तस्या नियमो विप्र! स्वतन्त्रं नहि वै तपः ।।८ १ ।।
उपवासो न दानं वा न देवो वा पतिमृते ।
प्रसुप्ते या प्रस्वपिति जागर्ति विबुधे सति ।।।८२।।।
भुंक्ते तु भोजिते पत्यौ सा मृत्युं जयति ध्रुवम् ।
मौने मौना स्थिते स्थितिमती मृत्युं जयत्यपि ।।८२ ।।
एकदृष्टिरेकमना भर्तुर्वचनकारिणी ।
तस्या बिभीमहे सर्वे देवा दैत्याश्च दानवाः ।।८४ ।।
देवानामपि पूज्या सा साध्वी सन्तोषसद्व्रता ।
भर्त्रा चाभिहिता या न तत्प्रत्याख्यायिनी भवेत् । ।८५।।
सेवायां वर्तमाना सा प्रत्याख्याता प्रियेण तु ।
न दैवतं संप्रयाति पत्युरन्यं कदाचन । ।८६ ।।
सा न मृत्युमुखं याति त्वेवं या स्त्री पतिव्रता ।
एवं या तु भवेन्नित्यं भर्तुः प्रियहिते रता । ।८६।।
सा तु नित्यं स्वभर्तारं छायेव त्वनुगच्छति ।
सा तु मृत्युमुखद्वारं न वै गच्छेत् कदाचन ।।८८।।
एष माता पिता बन्धुरेष मे दैवतं परम् ।
पतिं शुश्रूषवे चैवं सा मां विजयते सदा । ।८९।।
भर्तारमनुध्यायन्ती भर्तारमनुगच्छती ।
भर्तारमनुशोचन्ती मृत्युद्वारं न पश्यति ।।1.362.९०।।
गीतवादित्रनृत्यानि नैकप्रदर्शनान्यपि ।
न शृणोति न पश्येद् या मृत्युद्वारं न पश्यति ।।९१ ।।
स्नान्ती वा तिष्ठती वापि कुर्वन्ती वा प्रसाधनम् ।
प्रत्याहूता चोपतिष्ठेन्मृत्युद्वारं न पश्यति ।।९२ ।।
देवता अर्चयन्तं वा भुज्यमानं पतिं तु या ।
चित्तान्नं त्यजते क्वापि मृत्युद्वारं न पश्यति । ।९३ ।।
नान्यं या मनसा पश्येन्मृत्युद्वारं न पश्यति ।
भानौ त्वनुदिते नित्यं गृहं मार्जयते तु या ।।९४।।
भर्तुर्मुखं प्रपश्येद् या भर्तुश्चित्तानुकारिणी ।
वर्तते तु हिते भर्तुर्मृत्युद्वारं न पश्यति ।।।९५।।
चक्षुर्देहश्च भावश्च यस्या नित्यं सुसंवृतम् ।
शौचाचारसमायुक्ता सा तु मृत्युं न पश्यति ।।९६ ।।
एताः कीर्तिमतां लोके दृश्यन्ते दिवि देवताः ।
मानुषाणामपि भार्या दृश्यन्ते दिवि देवताः । ।९७।।
आदित्येन मम पित्रा पूजितास्ताः पतिव्रताः ।
मया तस्मात्तु पूज्यन्ते सर्वदैव पतिव्रताः । ।९८।।
एवं पतिव्रता नित्यं मार्गेणाऽनेन यान्ति वै ।
बहूनुद्धार्य सततं पूज्यन्ते ता मया सदा ।।९९।।
रुद्ध्यन्ते न मया तास्तु नाऽहं शक्तोऽस्मि रोधने ।
जनकस्य तु सा भार्या क्षणार्धं जलकाम्यया ।। 1.362.१०० ।।
अत्राऽऽगताऽभवत्तावत्सूर्यस्तस्यै जलं ददौ ।
गृहीत्वा मत्कृतां पूजां ययौ द्राक् स्वामिनं स्वकम् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने याम्यचक्रे पतिव्रतामाहात्म्ये मिथिनामजनकपत्न्या रूपवत्याः पातिव्रत्यप्रभावेण वनेऽपि सूर्यद्वारा फलान्नजलस्वर्णादिसर्वस्मृद्धिप्राप्तिः पतिव्रताधर्मकथनं चेत्यादिनिरूपणनामा द्वाषष्ट्यधिकत्रिशततमोऽध्यायः ।। ३६२ ।।