लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३५०
[[लेखकः :|]]
अध्यायः ३५१ →

श्रीनारायण उवाच-
गोकर्णेश्वरमाहात्म्यं मथुरायां यमीतटे ।
कथयामि शृणु लक्ष्मि! पुत्रस्वर्गप्रमोक्षदम् ।। १ ।।
आसीद् विप्रः सुभद्राख्यः पारिभद्रस्य पुत्रकः ।
वैश्यवृत्तिसमायुक्तः क्रयविक्रयजीवनः ।। २ ।।
सौराष्ट्रे विषये शत्रुजितानदीतटे वसन् ।
कृषिं चापि करोत्यत्र गवादीन् पालयत्यपि ।। ३ ।।
तस्य भार्या सद्गुणाढ्या जीवन्ती नामतः स्मृता ।
भर्तुः प्रियकरी साध्वी न प्रसूता वयोऽधिका ।। ४ ।।
शोकं करोति नित्यं सा स्त्रियो दृष्ट्वा प्रजावतीः ।
सा याता कुंकुमवाप्यां पितृगृहं समुत्सवे ।। ५ ।।
नाम्ना क्रतुर्महायोगी विप्रस्तस्याः पिताऽपि ताम् ।
सशोकां परिदृष्ट्वैव पप्रच्छ शोककारणम् ।। ६ ।।
सापि प्राह पितरं चाऽनपत्यत्वं तु कारणम् ।
क्रत्वर्षिश्च क्षणं ध्यात्वा प्राह जीवन्तिकां सुताम् ।। ७ ।।
आगच्छ पुत्रि! कृष्णाग्रे कुर्वस्तद्विनिवेदनम् ।
घ्नन्ति निश्चित्य तौ पत्नीव्रतकृष्णस्य मन्दिरम् ।। ८ ।।
गतौ नत्वा च तं देवं चाऽनिवेदयतां वृतम् ।
अस्या नास्ति कृष्णमुने! दुर्भगायाः प्रजासुखम् ।। ९ ।।
कृष्णनारायणः श्रुत्वा प्राह तां पुत्रगर्द्धिनीम् ।
कम्भराया महालक्ष्म्याः प्रसादेन सुपुत्रकः ।। 1.350.१० ।।
भविष्यत्येव ते नूनं कुरु यात्रां सुपुत्रदाम् ।
मथुरायां यमुनायास्तीरे गोकर्णवकेश्वरम् ।। ११ ।।
तीर्थं रम्यं पुत्रलाभफलं भवति सुव्रते! ।
तमाराधय शीघ्रं वै सह पत्याऽभिगम्य च ।। १२।।
स्नानदीपोपहारेण स्तोत्रैर्नानाविधैस्तथा ।
प्रसादयाऽनुतिष्ठैतज्जीवन्ति! ससुता भव ।। १३ ।।
इत्युक्ता सा यदा याता गृहं नत्वा पतिं तदा ।
सर्वं निवेदयामास यदुक्तं हरिणा तु तत् ।। १४।।
स तद्वचनमाकर्ण्य सुप्रीतः प्राह तां प्रियाम् ।
ममाऽप्येतन्मतं पत्नि! यदुक्तं हरिणा ततः ।। १५।।
गतौ व्योम्ना सुयानेन मथुरां दशमीदिने ।
चैत्रे सायं यमुनायां स्नात्वा नत्वा च शंकरम् ।। १६।।
गोकर्णेश्वरमेवैतौ निद्रां जग्रहतुर्भुवि ।
प्रातरुत्थाय च स्नानं पूजां चक्रतुरादरात् ।। १७।।
ततः प्रसन्नो भगवानुमापतिरुवाच तौ ।
भविष्यति युवां पुत्रो गुणरूपधनान्वितः ।। १८।।
इत्युक्तौ तौ तु देवेन स्नानं कृत्वा सरस्वतीम् ।
यमीं नत्वा संगमे च क्षणे स्थित्वा द्विजातये ।। १ ९।।
द्रव्यं भोज्यं ददतुश्च वस्त्राद्यं बहुदक्षिणम् ।
एकादश्यां माथुरे मण्डले यात्रां विधाय च ।।1.350.२ ० ।।
वैहायसा सुयानेनाऽऽजग्मतुस्तौ निजगृहम् ।
विप्रः पत्न्यां तु जीवन्त्यां गर्भाधानमविन्दत ।।२१ ।।
सुषुवे दशमे मासि सा पुत्रं चन्द्रमःप्रभम् ।
गोसहस्रं तदा दत्वा ससुवर्णं सुवस्त्रकम् ।।२२।।
बहुशः सर्ववर्णेभ्यः पुत्रजन्ममहोत्सवे ।
जातकर्म तथा श्राद्धं नामकर्म चकार सः ।।२३ ।।
गोकर्णेश्वरदत्तोऽयं गोकर्णो नामतोऽस्तु वै ।
स तु षोडशसंस्कारैः संस्कृतस्तरुणोऽभवत् ।।२४।।
त स विवाहयामास भार्याणां तु चतुष्टयम् ।
अप्रजा एव ताः सर्वा एकापि नहि पुत्रिणी ।।२५।।
अतो धर्मः समारब्धो भार्यायु्तेन तेन वै ।
वापिकूपतडागानि देवतायतनानि च ।।२६।।।
प्रपामालाश्च सत्रान्नं देवसेवाऽऽर्त्तिसेवनम् ।
शत्रुजितातटे तत्र गोकर्णेश्वरशंकरम् ।।२७।।।
गोक्षुरपत्तनात् पूर्वं स्थापयामास यामुनम् ।
प्रासादं कारयामास पंचायतनकं हरेः ।।२८।।
आरामस्तत्र विस्तीर्णः पुष्पजात्यस्तथैव च ।
फलजात्यस्तथा शाकपत्रकन्दप्रजातिकः ।। २९।।।
प्राकारं कारयामास परिखामण्डलीयकम् ।
घटीयन्त्राणि कूपेषु यैः प्रसिञ्चेत्तु वाटिकाः ।।1.350.३ ०।।
पुष्पाणि च विचिन्वन्ति सर्वास्तस्य सुयोषितः ।
स्नानं पूजादिकं भूमिमार्जनं दीपकर्म च ।।३ १ ।।
कुर्वन्ति देवतागारे तस्य पत्न्यस्तु सर्वदा ।
मालाकारः स्वयं नित्यं विटपान् संप्रसिञ्चति ।।३२।।
जाताः सुपुष्पवन्तश्च द्रुमाः फलसमृद्धयः ।
दीयते भुज्यते सर्वैः फलाद्यं नित्यमुत्सवात् ।।३३।।
पूज्यते शंकरस्तेन सर्वदा भावपूर्वकम् ।
व्यापारं सः कृषिं चापि करोति कारयत्यपि ।।३४।।
एकदा मनसा कृत्वा वणिग्भावं हृदि स्थिरम् ।
कृत्वा सार्थमुपागम्य ययौ पश्चिममण्डलम् ।।।३५।।
तत्र क्रीत्वा सुपण्यानि वामनस्थलपत्तनात् ।
मणिरत्नान्यश्वरत्नानि क्रीत्वा रैवताचले ।।३६।।
स्वर्णरेखानदीतीरे चक्रे निवासमुत्तमम् ।
तत्र निवेश्य भाण्डानि शैलं समारुरोह सः ।।३७।।
बहुदेवाधिवसतिं सिद्धगन्धर्वसेवितम् ।
दिव्यपुष्पफलोपेतं बहुकन्दरशोभितम् ।।३८।।
ततो मध्ये भुव्युपत्यकायां शृणोति गह्वरे ।
स्वागतं तत्र गत्वाऽसौ शुकं पश्यति पञ्जरे ।।३९।।
तेनोक्तं भो इहाऽऽगच्छ स्वातिथ्यं करवाणि ते ।
फलानीमानि स्वादूनि शीतमिष्टजलानि च ।।1.350.४०।।
गृह्णन्तु भो महाभागाः सार्थविप्राः शुभं भवेत् ।
अतिथेरागतस्येह पूजाया विमुखो भवेत् ।।४१ ।।
तद्गृहस्थस्य पितरो वसन्ति नरके ध्रुवम् ।
पूजिते पूजिताः स्वर्गे मोदन्ते कालमक्षयम् ।।४२।।
अतिथिर्यस्य भग्नाशो गृहान्निवर्तते यदि ।
आत्मनो दुष्कृतं तस्मै दत्वा तत्सुकृतं हरेत् ।।४३ ।।
तस्मात् सर्वप्रयत्नेन पूज्यो वै गृहमेधिना ।
काले प्राप्तस्त्वकाले वा यथा कृष्णस्तथैव सः ।।४४।।
एवंविधाः शुभा वाचः श्रुत्वा गोकर्णकोऽब्रवीत् ।
ऋषिः कस्त्वं सुधर्मज्ञः किं वा देवोऽथ गुह्यकः ।।४५।।
सिद्धो वा रैवतवासी मानवो वद् कोऽत्र भोः ।
तव प्रसन्नरूपस्य यस्येयं वागमानुषी ।।४६।।
इत्युक्तः स शुकः सर्वं शशंसात्मपुराकृतम् ।
अहमासं वामदेवशिष्यो नाम्ना शुकोदरः ।।४७।।
गुरोर्वाक्यं बुद्धियुक्तं श्रुत्वाऽप्यहं तदग्रतः ।
ऊहाऽपोहकरं प्रश्नं वारं वारं तु पृष्टवान् ।।४८।।
तेन मुहुर्निषिद्धोऽपि न कृतं तद्वचो मया ।
तदा तेनातिकोपाद् वै शापितस्त्वं शुको भव ।।४९।।
शुकत्वं तत्क्षणात्प्राप्तो वसाम्यत्र हि रैवते ।
जातिस्मरो भवाम्यत्र करोमि भजनं हरेः ।।1.350.५०।।
प्राप्तस्त्वत्र गृहावासिमुनिना ब्रह्मसूरिणा ।
पञ्जरे रक्षितस्तेन जीवामि सुखतो गृहे ।।५१ ।।
वामदेवोऽतिदीनं मामुवाच कृपयाऽर्थितः ।
मथुरायां मृतेः पश्चाद् ब्रह्मलोकं गमिष्यसि ।।५२।।
तस्मान्नित्यं तु मथुरामथुरेति वदामि च ।
शुकस्य वचनं श्रुत्वा गोकर्णः प्राह पक्षिणम् ।।५३।।
रैवताद्रिसमं तीर्थं न भूतो न भविष्यति ।
भुक्तिमुक्तिप्रदं चैतन्मोक्षगोलोकधामदम् ।।५४।।
एतत्स्थानं परित्यज्य कथं माथुरमण्डलम् ।
मुक्त्यर्थं ते कृतं पक्षिन्! चेज्जानासि वदात्र मे ।।५५।।
श्रुत्वा शुकस्तु तं प्राह रेखा मे तादृशी यतः ।
तत्रैव मरणान्मुक्तिर्नात्र मे मृतिनिर्णयः ।।५६ ।।
तस्माद् विप्र! त्वया कार्या ममोपकृतिरेव सा ।
नय मां मथुरां श्रेष्ठिन्! यदि क्वचिद्धि गच्छसि ।।५७।।
एवं तयोः कथयतोर्ब्रह्मसूरिः समित्करः ।
समायातो वनात्तत्र सोऽप्यतिथीन् विलोक्य च ।।५८।।
प्रसन्नस्त्वभवत् कृत्वा फलाद्यैरातिथेयकम् ।
कः कुतः संविदं कृत्वा वद किं करवाणि ते ।।५९।।
इत्युक्तः स तु गोकर्णो नत्वा मुनिमयाचत ।
शुकोऽयं पञ्जरस्थस्तु पुत्रार्थं मे प्रदीयताम् ।।1.350.६० ।।
मथुरायां गमिष्यामि तस्य मोक्षार्थमेव यत् ।
ऋषिणा तु प्रसन्नेन शुकस्तस्मै समर्पितः ।।६१ ।।
नत्वा ऋषिं स गोकर्णो ययौ गोक्षुरपत्तनम् ।
सर्वरत्नसमुपेतः सर्वसार्थसमन्वितः ।।६२।
शुकः शत्रुंजितानद्यास्तटे विप्रस्य वाटिकाम् ।
फलपुष्पादिसंयुक्तां दृष्ट्वा स्थातुं मनोऽकरोत् ।।६३।।
गोकर्णेनापि वाट्यां स फलपुष्पादिभोजनः ।
रक्षितस्त्वेकदा पत्नीश्चतस्रः प्राह मातरः ।।६४।।
कथं पुत्रा न दृश्यन्ते पुत्र्यश्चापि न वोऽत्र किम्? ।
जलसेचनकर्त्र्यस्ता ऊचुस्तं कोविदं शुकम् ।।६५।।
पक्षिन्! वन्ध्याश्चतस्रः स्मो वद स्युस्तु सुता यथा ।
शुकः प्राह कथयिष्ये यावता तिष्ठता मया ।।६६।।
एवं काले गते वर्षे पुनर्व्यापारवाञ्छया ।
गोकर्णः सशुको यातः कच्छं प्रति मुदान्वितः ।।६७।।
पत्न्यश्चापि ययुः कच्छं स्वामिना सहसेविकाः ।
नावा समुद्रमुत्तीर्य नारायणसरो ययुः ।।६८।।
तत्र दृष्टा दिव्यदेव्यो रूपानुरूपभासुराः ।
सहस्रशः सरोमध्ये जलवासाऽतिसौरभाः ।।६ ९।।
किन्तु शोकपरिम्लानाः पप्रच्छुस्ताः शुकं प्रति ।
कुतस्त्वागम्यते किं ते कार्यं सद् विद्यते वद् ।।1.350.७०।।
शुकः प्राह मम स्वामी रत्नार्थं समुपागतः ।
भवतीनां भवेत् कार्यं ज्ञापयन्तु हि मां तदा ।।७१ ।।
श्रुत्वा ताश्च तदा प्राहुः शुकं परमकोविदम् ।
दुःखं तस्य समाख्येयं यो विनाशयते रुजम् ।।७२।।
आस्ते कुंकुमवापीति नृणां मुक्तिप्रदायिनी ।
अश्वपट्टसरो यत्र राजते सुरसेवितम् ।।७३।।
गौर्जराधिपतिर्वीरश्चतुरंगबलान्वितः ।
राजा धर्मवीरनामा कार्तिके रैवतस्य सः ।।७४।।
प्रदक्षिणादियात्रार्थं ययौ गच्छन् शनैः शनैः ।
मार्गे कुंकुमवाप्याश्च चक्रे यात्रां सरोवरे ।।७५।।
सस्नौ स श्राद्धकार्याणि चकार ब्रह्मभोजनम् ।
चक्रे सुवर्णरत्नैः कंभरागोपालपूजनम् ।।७६।।
कृष्णनारायणविष्णोर्दर्शनं हवनं तथा ।
मन्दिरस्य महोद्याने सप्तभूम्यतिशोभिनः ।।७७।।
आरामवाटिकाः शुभ्रा निम्नप्राकारवेष्टिताः ।
कूपघट्यावर्तयुक्ताः पुष्पजातिसुवासिताः ।।७८।।
फलवन्तो द्रुमास्तत्र सर्वर्तुसुमनोहराः ।
तदभ्याशे स राजर्षिश्चकारावासमुत्तमम् ।।७९।।
सेवकैर्नाशितः सर्वं आरामः सफलद्रुमः ।
वयं सर्वास्तु ता वृक्षवल्ल्यः स्मो देवदेवताः ।।1.350.८० ।।
इत्युक्त्वा रुरुदुः स्वार्त्तिजल्पिण्यो हाऽतिकृच्छ्रतः ।
सर्वासां रुदतीनां तु कुररीणामिव स्वनाः ।।८ १ ।।
श्रूयन्ते दुःखदाः ताश्च सान्त्वयामास वै शुकः ।
तास्तु प्राह पुनस्तत्र रत्नान्यादाय सर्वथा ।।८२।।
गमिष्यति मम स्वामी करिष्यति सजीवनाः ।।
इत्युक्तमात्रे वचने ताः सर्वा लब्धचेतनाः ।।८३ ।।
शुकस्य स्वामिनं तद्वै वक्तुं तं वेदितुं तथा ।
ऐक्यभावेन ताः सर्वाः पप्रच्छुर्वणिजं प्रति ।।८४।।
अस्माकं जीवदाता त्वं कः कुतस्त्विह संगतः ।
गोकर्णः प्राह ता देवीः भवत्यश्चारुलोचनाः ।।८५।।
सुचार्वास्याः सुचार्वंग्यः कथं शोकपरिप्लुताः ।
तदा ज्येष्ठा तमाहाथ पुष्पजात्या स्वलंकृता ।।८६ ।।
वयमारामसंस्थानाः खाद्यसलिलभोजनाः ।
हृद्याश्च स्वामिना गुप्ताः पुष्पवृद्धिरताः सदा ।।८७।।
राजलोकैः पीडिताः स्म छेदनोन्मूलनादिभिः ।।
कूर्चिता भृशमुद्विग्नास्तेन शोकपरिप्लुताः ।।८८ ।।
फलपुष्पविहीनाश्च मूलास्कन्धावशेषिताः ।
एवंविधा हि संभूता नष्टसंज्ञाः स्थिता वयम् ।।८९।।
अश्वपट्टसरो दिव्यं साक्षि तत्रास्ति भूसुरः ।
कृष्णनारायणो देवः साक्षी त्वस्माकमित्यपि ।।1.350.९० ।।
पुण्यं सलिलपूर्णं चोत्फुल्लकमलशोभितम् ।
कलहंससमायुक्तं वृक्षाणां परिसेचकम् ।।९१ ।।
सरस्तत् तद्द्रुमाणां तु विनाशान्नो विनाशिता ।
विरूपताऽस्ति तत्र त्वं गत्वा नो जीवितान् कुरु ।।९२।।
इष्टापूर्त्तं द्विजातीनां प्रथमं धर्मसाधनम् ।
इष्टेन लभते स्वर्गं पूर्तेन मोक्षमेति च ।।९३ ।।
वापीकूपतडागानि देवतायतनानि च ।
पतितान्युद्धरेद् यस्तु स पूर्तफलमश्नुते ।।९४।।
भूमिदानेन ये लोका गोदानेन च कीर्तिताः ।
ते लोकाः समवाप्यन्ते पादपानां प्ररोहणे ।।९५।।
पिप्पलं च वटं निम्बं तुलसीं चाप्युदुम्बरम् ।
आमलकं तथा बिल्वं खदिरं चैकमेव यः ।।९६ ।।
पुष्पजातीर्दश द्वे द्वे दाडिमे चाम्रपञ्चकम् ।
तिन्तिडीमेकलां वात्र यस्तु वर्धयति द्विज! ।।९७।।
पुष्पफलद्रुमरोपी न याति नरकं क्वचित् ।
वर्धिताश्च द्रुमाः पुत्रा इवोद्धरन्ति पोषकम् ।।९८ ।।
इन्धनैश्छायया श्रान्त्या पथिकानां सुखावहाः ।
पक्षिणां निलयेनैव सुखदा वृक्षवल्लिकाः ।।९९।।
पत्रमूलत्वगाद्यैरौषधैः सुखास्तु देहिनाम् ।
काष्ठैर्गृहाणि जायन्ते क्षुद्रजन्तुगृहाणि च ।। 1.350.१ ००।।
एवं परोपकारास्ते सेवन्ते देहिनः सदा ।
फलपत्रदलशाखास्तम्बमूलैर्हि जीवदाः ।। १०१ ।।
स्वर्गदा मोक्षदाश्चापि देवपूजोपयोजिताः ।
तस्माद् गोकर्णरत्नानि गृहाणेष्टानि नः स्थलात् ।। १० २।।
वैहायसं विमानं च समारुह्य तथा च नः ।
सह नीत्वा याहि तत्र यत्रोद्यानं तु नः स्थितम् ।। १०३ ।।
अस्माकं जीवदानेन स्युः पुत्रिण्यस्तु ते प्रियाः ।
भविष्यन्ति सुसन्तानाः शुक नीत्वा प्रयाहि वै ।। १०४ ।।
बयं गोपाश्च गोप्यश्च गोलोकस्था अपि क्षितौ ।
कृष्णसेवां प्रकुर्मोऽत्र वृक्षवलीतृणात्मिकाः ।। १ ०५।।
वयं दास्यः पार्षदाश्च वैकुण्ठस्था अपि क्षितौ ।
कुर्मो नारायणसेवां कुंकुमवापिकास्थिताः ।। १०६ ।।
पार्षदान्यः पार्षदाश्च मुक्ताः साकेतधामगाः ।
साकेतायां वृक्षवल्ल्यः स्मः श्रीरामार्चने रताः । । १० ७। ।
वयं दूताश्च दूत्यश्च कैलासस्था अपि क्षितौ ।
काशीक्षेत्रादिसंस्थाना वल्लीवृक्षस्वरूपिकाः ।। १०८ । ।
इति हार्दं कथितं तेऽस्माकं विप्राऽत्र भौतिकम् ।
श्रीकृष्णमण्डलं कृष्णदासदासीमयं स्मृतम् ।। १० १।।
इत्युक्तः स तु गोकर्णो रत्नान्यादाय कोटिशः ।
देवीः सर्वास्तथा पत्नीः शुक चादाय संययौ । । 1.350.११० ।।
उद्यानं कृतवान् पुष्टं बीजैः खाद्यैर्जलादिभिः ।
वृक्षा वल्ल्यश्च देव्यश्च पुष्टा जाता हि सेवया ।। १११ ।।
धनं रत्नादिकं तत्र सेवायां योजितं बहु ।
मन्दिरं पोषितं चापि वृक्षाश्चापि प्रपोषिताः ।। ११२ ।।
तेन पुण्येन च तस्य पत्न्यो गर्भधरा अपि ।
ताश्च देव्यो दिव्यरूपाः प्रशशंसुः पुनः पुनः । । ११३ ।।
वरं दत्वा यथाकामं स्वस्तीत्युक्त्वा तिरोऽभवन् ।
तत्र स्थित्वा यथान्यायं गोकर्णः सर्वमंगलम् ।। ११ ४।।
शुकं च मातापितरौ साध्वीभार्याचतुष्टयम् ।
समानं सेवयामास यथाविभवशक्तितः ।। ११५ ।।
स्वयं तु कृतवांस्तत्र वैष्णवाख्यं महामखम् ।
भक्ष्यभोज्ये ब्राह्मणेभ्यो ददौ दानानि नित्यशः ।। ११६ ।।
कुंकुमवाप्यां कृष्णस्याऽऽलयं जीर्णं नवोत्तमम् ।
कारयित्वा तु तद्वापीं नवीनामिव वै पुनः ।। ११७।।
अश्वपट्टसरश्चापि त्वाबध्य सेतुना पुनः ।
तटे प्रतिष्ठां स्वनाम्ना गोकर्णेश्वरसंज्ञया ।। ११८ ।।
महादेवस्य निर्वर्त्य ब्राह्मणैर्वेदपारगैः ।
ययौ गोक्षुरसंज्ञं वै पत्तनं स्वनिवासकम् । । ११९ ।।
य इद्ं शृणुयाच्चापि पठेद्वा भावतस्तथा ।
तीर्थयात्रां प्रकुर्याच्च पुत्रवान् धनवान् भवेत् ।। 1.350.१२० ।।
इति लक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
माथुरक्षेत्रमाहात्म्ये सौराष्ट्रदेशीयसुभद्रनामकविप्रस्य मथुरायां गोकर्णेश्वरदर्शनादिना पुत्रप्राप्तिः, तन्नाम गोकर्णं इति, तेन शत्रुजितानदीतटे गोकर्णेश्वरः स्थापितः, गोकर्णस्य धनार्थं वामनपननं गतस्य रैवताचले शुकप्राप्तिः, पुनर्गृहमागत्य धनार्थं कच्छं गतस्य नारायणसरसि वनदेवतानां दर्शनं,
गौर्जरराज्ञा भग्नस्योद्यानस्य कुंकुमवाप्यां नवीकरणम्, तीर्थस्था वृक्षवल्लिका धामपार्षदपार्षदान्य एवेतिमहिमकथनं चेत्यादिनिरूपणनामा पञ्चाशदधिकत्रिशततमोऽध्यायः ।। ३५० ।।