लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३४९
[[लेखकः :|]]
अध्यायः ३५० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! यमुनाया विश्रान्तिघट्टनिर्वचः ।
उज्जयिन्यामभूद् विप्रो भ्रष्टाचारः प्रणास्तिकः ।। १ ।।
सदाचारपरित्यागी न तु स्नानं करोति सः ।
स न पूजयते देवान्न स साधून्नमस्यति ।। २ ।।
कामनाव्याकुलः सन्ध्याशयनः पितृनिन्दकः ।
श्राद्धखण्डनकर्ता च पापसंगः सुदुर्मतिः ।। ३ ।।
स्वकुटुम्बोदरभरश्चौर्यादिभिः सदा निशि ।
एकदा स निशि चौर्यं कुर्वाणः पापिभिः सह ।। ४ ।।
राजभटैर्वीक्ष्यमाणो द्रवन्वेगाद्विमार्गगः ।
पलायमानः स परमन्धकूपेऽपतत्तदा ।। ५ ।।
मृतोऽसौ पतितश्चाथ राक्षसत्वमुपागतः ।
स तु पार्श्वगमार्गस्थजीर्वावृक्षे वसन् सदा ।। ६ ।।
पशून्पक्षवतः प्राणान् रक्तं पिबति खादति ।
कदाचित्तेन मार्गेण महान्सार्थ उपागतः ।। ७ ।।
तन्मध्यस्थेन विप्रेण रक्षोघ्नमन्त्ररक्षितः ।
सार्थः सुष्वाप सुश्रान्तो वृक्षाऽधःकूपसन्निधौ ।। ८ ।।
तत्रागत्य च रक्षस्तु ब्राह्मणं प्राह भो द्विज! ।
अहं दास्यामि ते द्रव्यं यत्ते मनसि वर्तते ।। ९ ।।
बहुकालेन संप्राप्तं भोजनं बहुमानवम् ।
देहि भक्षयितुं विप्र! गच्छान्यत्र कृपां कुरु ।। 1.349.१ ०।।
येनाऽहं भक्षये सार्थं यावत् तृप्तिर्भवेन्मम ।
विप्रः प्राह कृतघ्नोऽहं न भवामि कथंचन ।। ११ ।।
दुष्टेन मम का मैत्री को लाभो रक्षसा सह ।
रक्षसा मित्रतालाभौ प्राणान्तामन्त्रणाप्रदौ ।। १ २।।
सार्थेन मम लाभोऽस्ति न त्वया तु कथंचन ।
एकसार्थप्रयातोऽहं नोत्सृजामि सहार्थकम् ।। १ ३।।
तस्माद् राक्षस! गच्छ त्वं विहाय मम सार्थकम् ।
निरीक्षितुं न शक्तोऽसि मम मन्त्रबलेन वै ।। १४।।
रक्षः प्राह हते भक्ष्ये मे दोषस्ते भविष्यति ।
दयां कुरु त्वं विप्रेन्द्र! भोजनं मम दीयताम् ।। १५।।
एवमर्थमर्थयन्तं पप्रच्छ राक्षसं द्विजः ।
केन कर्मप्रदोषेण राक्षसत्वमुपागतः ।। १६।।
रक्षः प्रकथयामास चौर्याऽनाचारदूषणैः ।
विप्रोऽपि पापकार्यैश्च राक्षसत्वमुपागतः ।। १७।।
तदा सार्थगतः क्ष्मादेवोऽपि श्रुत्वा कृपां गतः ।
उवाच रक्षो वद मे मार्जयामि द्विजस्य ते ।। १८।।
यानि कानि च पापानि मुक्तिश्चापि यथा भवेत् ।
मया कृतोपकारेण प्रियं किं करवाणि ते ।। १ ९।।
श्रुत्वाऽऽह राक्षसो विप्रं त्वया यात्रा बहुकृता ।
मथुरायां तु यत् स्नानं कृतं विश्रान्तितीर्थके ।।1.349.२०।।
तच्च स्नानफलं देहि येन मुक्तिं व्रजाम्यहम् ।
विप्रः पप्रच्छ तच्छ्रुत्वा राक्षसं प्रागुदन्तकम् ।।२१ ।।
कथं जानासि रक्षस्त्वं तीर्थं विश्रान्तिसंज्ञकम् ।
कथं च तादृशी संज्ञा सर्वं कथय वित्सि चेत्। ।।।२२।।
राक्षसः प्राह विप्रेन्द्र! उज्जयिन्यां पुरा मम ।
पुर्यां वासः सदाऽऽसीन्मे तत्र वै .विष्णुमन्दिरे ।।२३।।
लक्ष्मीनारायणसंहितायाः कथां तु भूसुरः ।
करोति नित्यमेवातिभावतो जनताकृते ।।२४।।
विश्रान्तितीर्थमाहात्म्यं श्रुतं द्विज मया तदा ।
तस्य श्रवणमात्रेण मम भक्तिर्हृदि स्थिता ।।२५।।
सा तु संज्ञा श्रुता तत्र विश्रान्तेरर्थबोधिका ।
वासुदेवः परं ब्रह्म कृष्णनारायणो हरिः ।।२६।।
विश्रामं कुरुते नित्यं यत्र वै यमुनातटे ।
तत्स्थानं जलसान्निध्ये विश्रान्तिसंज्ञकं ह्यभूत् ।।२७।।
तत्र स्नाता कोटियुगान्स्वर्गं भुक्त्वा ततः परम् ।
वैराजसंज्ञकान् लोकान् भुक्त्वा याति परं पदम् ।। २८।।।
तस्मात् प्रयच्छ विप्रेन्द्र! ह्येकस्नानस्य मे फलम् ।
येन मे राक्षसभावान्मुक्तिः स्वर्गगतिस्तथा ।।।२९।।
अन्ते मुक्तिर्भवेच्चापि कृपां कुरु ममोपरि ।
राक्षसस्य वचः श्रुत्वा सार्थविप्रोऽब्रवीत्तदा ।।1.349.३ ०।।
एकस्नानस्य हि फलं तव दत्तं तु राक्षस! ।
इत्यभिधाय यावत् स जलं ददाति रक्षसे ।।३ १ ।।
तावच्छुद्धो दिव्यतनुमवाप्य स दिवं ययौ ।
तत्र भोगान्परान् भुक्त्वा मोक्षमवाप पद्मजे ।।३२।।
ततः सार्थः स विप्रो हि ययौ देशं प्रति स्वकम् ।
शृणु लक्ष्मि! पुरा शंभुर्हरेस्तोषणहेतवे ।।३३।।।
चकारोग्रं तपस्तेन प्रसन्नः सन्नहं तदा ।
शंकरं तु समागत्य दत्वा दर्शनमेव मे ।। ३४।।
वरं वरय चेत्युक्तो वव्रे मत्तो वरं हरः ।
यदि तुष्टोऽसि भगवन्! मथुराक्षेत्रमण्डले ।। ३५।।
यत्र क्वापि च मे स्थानं सदा कृष्ण! प्रदीयताम् ।
तदा मया कथितं त्वं क्षेत्रपालो भविष्यसि ।। ३६ ।।
त्वयि दृष्टे महादेव! मम क्षेत्रफलं भवेत् ।
मम क्षेत्रस्य संरक्षां कुरु शंभो! सदाऽभितः ।।३७।।
मम क्षेत्रप्रवेशे च संसारो वै निवर्तते ।
यथा वैकुण्ठनगरी वल्लभा मथुरा मम ।।३८।।
विंशतिर्योजनानां हि माथुरं मम मण्डलम् ।
पदे पदेऽश्वमेधानां फलं मद्योगतो भवेत् ।।३९।।
अत्र तिष्ठन्ति तीर्थानि स्वर्गमोक्षप्रदानि वै ।
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ।।1.349.४० ।।
इति श्रुत्वा वरं प्राप्य शंभुस्तत्रैव संस्थितः ।
क्षेत्रपालस्वरूपो मे भक्तराड् वैष्णवः परः ।।४१ ।।
इति ते कथितं लक्ष्मि! माहात्म्यं मोक्षदं परम् ।
ये पठन्ति च शृण्वन्ति ते यान्ति परमं पदम् ।। ४२।।
कुलान्यपि तारयन्ति द्वे शते विंशयोर्द्वयोः ।
प्राप्ते च मरणे तीर्थं स्मरेद् यो माथुरं जनः ।।४३ ।।
स गच्छेत् परमां सिद्धिमिह संसारनाशिनीम् ।
सर्वेषामेव तीर्थानां माथुरं परमं महत् ।।४४।।
कृष्णेन क्रीडितं तीर्थं तच्छुद्धं हि पदे पदे ।
दक्षिणोत्तरवसुधामण्डलं माथुरं सदा ।।।४५।।।
गृहान्निःसृत्य मौनेन यावत्स्नानं हि वर्तयेत् ।
प्रपूजानन्तरं ब्रूयाद् धेनूर्दद्यात्पयस्विनीः ।।४६ ।।
हिरण्यं च वसुं दद्याद् भोजयेद् भूसुरान सतः ।
चातुर्मास्ये मथुरायां वसेद् दादानि वर्तयेत् ।।४७।।
न तस्य पुनरावृत्तिर्मम लोके महीयते ।
माथुरे तु मृता लक्ष्मि! मम लोकं व्रजन्ति वै ।।४८।।
अन्यत्र च मृतानां वै दाहे माथुरमण्डले ।
कृते स्वर्गं तथा वासो मम गोलोकधामनि ।।४९।।
माथुराणां तु यद्ररूपं तद्रूपं मे चतुर्भुजम् ।
माथुरेण तु तृप्तेन तृप्तोऽहं वार्धिजे! सदा ।।1.349.५ ० ।।
शृणु लक्ष्मि! यथावृत्तं गरुडस्य महात्मनः ।
आगतस्य मथुरायां कृष्गदर्शनकांक्षया ।।५ १ ।।
कृष्णस्याऽग्रे गरुडः स स्तुतिं चक्रे ननाम च ।
जय लक्ष्मीपते! कृष्ण! जयस्व माणिकीपते! ।।५२ ।।
प्रभापते! जय राधापते! श्रीपार्वतीपते! ।
जय विष्णो! जय कृष्णनारायण! रमापते! ।।५३ ।।
जय गोपीपते! कृष्ण! गरुडाधिपते! जय ।
जय सर्वपते! ब्रह्म जय कृष्ण! नमोऽस्तु ते ।।५४।।
इत्येवं संस्तुतो देवो गरुडेन महात्मना ।
गरुडस्य पुरः कृष्ण स्थितोऽभूत् सुशरीरवान् ।।५५।।
उवाच पक्षिराट् किं ते चिकीर्षितं तथाऽऽगमः ।
वद शीघ्रं प्रदास्येऽहं श्रुत्वाऽऽह गरुडस्तदा ।।५६ ।।
मथुरामागतश्चाऽहं तव दर्शनकांक्षया ।
न दृष्टं तव रूपं च मां तु मोहः समाविशत्। ।।५७।।
मथुरायां भवान लोकैः समं धृत्वा स्वरूपकम् ।
वर्तते न मया ज्ञातस्ततो मां मोहमाविशत् ।।५८।।।
इदानीं दिव्यरूपं ते दृष्ट्वा शान्तिरभूत्तु मे ।
गरुडस्य वचः श्रुत्वा प्रहस्योवाच माधवः ।।५९ ।।
माथुराणां स्वरूपेण वर्ताम्यहं द्विजोत्तम ।
ये पापस्ते न पश्यन्ति मद्रूप्रान् माथुरान् जनान् ।।1.349.६ ०।।
अहं वसामि तत्रैव विचरामि क्वचित् पृथक् ।
एवमुक्त्वा ततः कृष्णस्तत्रैवान्तरधीयत ।।६ १ ।।
गरुडोऽपि गतः कृष्णपदे वैकुण्ठमेव ह ।
माथुरा मथुरायां वै स्थित्वा देवत्वमागताः ।।६ २।।।
पवित्रयन्ति सर्वांस्ते यथा कृष्णस्य पार्षदाः ।
अपि कीटः पतंगो वा तिर्यग्योनिस्थितोऽपि वा ।।६ ३ ।।
चतुर्भुजा भवन्त्येव श्रीकृष्णस्य प्रतापतः ।
अथ लक्ष्मि! शृणु त्वन्यत् चमत्कारं तु माथुरम् ।।६४।।
सौराष्ट्रस्य रैवताद्रेर्वास्तव्यो ब्राह्मणो हरिः ।
पत्नीव्रताभिधानः स्वकुटुम्बेन पुरा युगे ।।६५।।
यमुनायास्तु यात्रार्थं गतो माथुरमण्डलम् ।
विश्रान्तौ स यमुनायां स्नातश्चक्रे प्रदक्षिणम् ।।६६ ।।
मथुरायास्तथा गोवर्धनस्याऽन्यवनस्य च ।
वृन्दावनस्य तुलसीवनस्यापि प्रदक्षिणम् ।।६७।।
भोजयित्वा बहून् विप्रान् नीत्वा तीर्थजलानि च ।
न्यवर्तत स्वकं देशं मरुदेशः समागतः ।।६८।।
तत्राऽरण्ये शमीप्राये शुष्के शृंगमये स्थले ।
ददर्श डाकिनीशाकिनीनां सार्थं शतोत्तरम् ।।६९।।
नृत्यन्तं भक्षय खादयेति ब्रूवन्तमुद्धतम् ।
वीरूपं च विवस्त्रं च कृष्णवर्णं भयंकरम् ।।1.349.७०।।
कृत्यासार्थं विलोक्यैव पत्नीव्रतस्तु तत्क्षणम् ।
चक्रे सस्मार कृष्णस्य द्रागेवोपस्थितं ज्वलत् ।।७१ ।।
प्रेतस्वरूपिकास्तास्तच्चक्रं ददाह बाह्यतः ।
रुरुदुस्ताश्चुक्रुशुश्च प्रार्थयांचक्रुरत्यति ।।७२।।
त्राहि ब्रह्मन्! न भक्ष्यामो मरिष्यामोऽत्र रक्ष नः ।
वयं मरुनृपतेर्वै पत्न्योऽभवन् शतोत्तरम् ।।७३ ।।
मद्यमांसाशनाः पापकारिण्यो धर्मवर्जिताः ।
महामारीमहारोगे राजा तु निधनं गतः ।।७४।।
राज्यं हृतं त्रिपुरेण भ्रष्टास्तेन कृता वयम् ।
भूकम्पे भवने भग्ने सर्वास्तत्राऽर्दिता मृताः ।।७५।।
डाकिनीशाकिनीभौतियोनिं गताः स्म भूसुर! ।
मोक्षं कुरु तदस्माकं तीर्थजलेन केशव! ।।७६ ।।
श्रत्वा पत्नीव्रतः सोऽयं कृष्णांशो ब्राह्मणो जलम् ।
यमुनायाः करे धृत्वा प्रोक्षयामास तास्तदा ।।७७।।
प्रेतरूपाणि सन्त्यज्य दिव्याश्चतुर्भुजास्तु ताः ।
रमारूपास्तदा जाता नत्वा तुष्टुवुरादरात् ।।७८।।
कृष्णः स्वयं त्वमेवाऽसि ह्युद्धृता दुःखसागरात्। ।
नय धाम स्वकं कृष्णेत्युक्ते विमानमागतम् ।।७९।।
विप्रः कृष्णस्वरूपः स गोलोकं तां निनाय वै ।
पुनः कुटुम्बसहितः स्वदेशं रैवतं ययौ ।।1.349.८ ०।।
इति विश्रान्तितीर्थस्य यमुनासलिलस्य च ।
प्रेतोद्धारकरं दिव्यं माहात्म्यं ते प्रकीर्तितम् ।।८ १ ।।
कृष्णनारायणश्चाऽहं यमुनाजलसंगतः ।
यत्र तत्र तदा स्वर्गं गोलोकं मोक्ष एव च ।।८२।।
य इदं शृणुयाच्चापि वाचयेच्छ्रावयेत्तथा ।
तेषां लक्ष्मि! भवेत् स्वर्गं गोलोके मुक्तिरेव च ।।।।८३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुराक्षेत्रमाहात्म्ये उजयिनीपुरीवासिभ्रष्टाचारविप्रस्य राक्षसत्वमुपगतस्य विश्रान्तिस्नानफलदानान्मुक्तिः, शंभुकृतक्षेत्रसरक्षणं, गरुडस्य माथुररूपकृष्णाऽपरिचये स्तवनेन दिव्यदर्शनं,
पत्नीव्रतविप्रात्मककृष्णनारायणकृतो विश्रान्तिजलप्रोक्षणेन डाकिनीशाकिनीशतोत्तरमोक्षश्चेत्यादि- निरूपणनामैकोनपञ्चाशदधिकत्रिशत-
तमोऽध्यायः ।। ३४९ ।।