सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३४८

विकिस्रोतः तः
← अध्यायः ३४७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३४८
[[लेखकः :|]]
अध्यायः ३४९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! महापुण्यं स्थलं गोवर्धनात्मकम् ।
मथुरायाः पश्चिमे तद् वर्तते योजनद्वये ।। १ ।।
भुक्तिमुक्तिप्रदं क्षेत्रं प्रक्रमणेन देहिनाम् ।
हृदस्यत्र पापनाशकरः स्नानेन वै नृणाम् ।। २ ।।
ऐन्द्रं पूर्वे यमतीर्थे दक्षिणे वर्तते प्रिय! ।
पश्चिमे वारुणं तीर्थं कौबेरं तूत्तरेण वै ।। ३ ।।
तत्तत्तीर्थे स्नानकर्ता तत्तल्लोके महीयते ।
प्राणत्यागे मम स्मर्ता मम लोकं प्रगच्छति ।। ४ ।।
अन्नकूटस्थलं प्राप्य तस्य कुर्यात्प्रदक्षिणम् ।
स याति परमं लोकं धनधान्यादिस्मृद्धिमत् ।। ५ ।।
स्नात्वा मानसगंगायां दृष्ट्वा गोवर्धने हरिम् ।
अन्नकूटं परिक्रम्य न जनुर्जायते पुनः ।। ६ ।।
सोमवारे त्वमायां वै गत्वागोवर्धनस्थलम् ।
पितॄन् सन्तर्पयेद् गयापिण्डतृप्तिस्तदा भवेत् ।। ७ ।।
गोवर्धनं परिक्रम्य दृष्ट्वा कृष्णनरायणम् ।
राजसूयाऽश्वमेधानां पुण्यमाप्नोत्यसंशयम् ।। ८ ।।
मासि भाद्रपदे शुक्लैकादश्यां समुपोषयेत् ।
स्नात्वा मानसगंगायां ब्राह्मे सूर्यस्य दर्शनम् ।। ९ ।।
कृत्वा गोवर्धनं नत्वा शृंगे नत्वा हरिं स्थितम् ।
अवतीर्य सोपवासा कुर्याद् गिरेः प्रदक्षिणम् ।। 1.348.१० ।।
पुण्डरीकं स्थलं गच्छेत् कुण्डे स्नानं समाचरेत् ।
पितृदेवानर्चयेच्च पुण्डरीकं प्रपूजयेत् ।। ११ ।।
एवं विधानकर्ता स प्रयाति भवनं हरेः ।
ततश्चाप्सरसे कुण्डे स्नायात् पितॄँश्च तर्पयेत् ।। १२ ।।
राजसूयाऽश्वमेधानां फलं विन्देत्तु तेन वै ।
ततः संकर्षणे तीर्थे स्नायात् तर्पणमाचरेत् ।। १३ ।।
गोहत्याब्रह्महत्यादिपापानां विलयो भवेत् ।
अन्नकूटस्य निकटे शक्रतीर्थे ततश्चरेत् ।। १४।।
मखभंगो महेन्द्रस्य यत्र कृष्णेन वै कृतः ।
इन्द्रो ववर्ष रोषेण सर्वनाशेच्छया तदा ।। १५।।
कृष्णेन च गवादीनां रक्षयाय धृतो गिरिः ।
तत्र च भोजिता देवा देव्यो गावो महर्षयः ।। १६ ।।
गोपा गोप्यः पतंगाद्याः कीटाः पशवः पक्षिणः ।
सोऽन्नकूट इति नाम्ना ख्यातोऽभवद्गिरिस्तथा ।। १७।।
तत्र भोजनदानेन जलार्पणेन वै तथा ।
तर्पणेन च यात्रालुः शतयज्ञफलं लभेत् ।। १८ ।।
ततः कदम्बकुण्डे वै स्नातव्यं ब्रह्मलोकदे ।
ततो देवगिरिं गच्छेत् स्नायात् पश्येच्च भावतः । १९। ।
महादेवं प्रपश्येच्च कुण्डे पितॄन्प्रतर्पयेत् ।
वाजपेयफलं प्राप्य स्वर्गे मुक्त्वा हरिं व्रजेत् ।।1.348.२०। ।
गंगायाश्चोत्तरं यावद् देवदेवस्य चक्रिणः ।
स्थले कृष्णस्य संग्रामोऽरिष्टासुरेणचाऽभवत् । ।२ १ । ।
वृषासुरं हरिर्हत्वा स्नातस्तत्र पुनः पुनः ।
राधया तु समागत्य कृष्णः संस्नापितस्तदा । ।२२।
राधाकुण्डमिति नाम्ना ख्यातं पापहरं शुभम् ।
तत्र स्नानेनाश्वमेधराजसूयफलं भवेत् ।।२३ ।।
गोनरब्रह्महत्यायाः पापं स्नानेन नश्यति ।
मोक्षराजाख्यतीर्थं च नत्वेन्द्रध्वजमाव्रजेत् ।।२४।।
इन्द्रध्वजोच्छ्रये तीर्थे स्नात्वा नत्वा समाव्रजेत् ।
पञ्चतीर्थाऽभिधं कुण्डं गच्छेद् यात्रां समापयेत् ।।२५ । ।
यात्राफलं श्रीहरये निवेद्य निशि जागरम् ।
गोवर्धने प्रकर्तव्यं द्वादश्यां च ततः प्रगे ।।२६।।
स्नात्वा पिण्डं तु निर्वाप्य नत्वा गच्छेद् भजन् हरिम् ।
य एवं कुरुते यात्रां पितॄन् स तारयत्यपि ।।२७।।
पापानि संविनिर्धूय परब्रह्माऽधिगच्छति ।
अषाढेऽपि प्रकर्तव्यमन्नकूटपरिक्रमम् ।।२८।।
एतत्तु शृणुयाद् यश्च पठेच्च पाठयेत्तथा ।
यात्राफलं लभेत् स्नानफलं कृष्णप्रसन्नताम् । । २९। ।
शृणु लक्ष्मि! सुशीलाख्यो वैश्यो वै दक्षिणापथे ।
प्रतिष्ठानपुरावासो बहुपुत्रः समृद्धिमान् ।।1.348.३ ० ।।
उदरंभर एवाऽसौ कुटुम्बभरणे रतः ।
स्नानं दानं जपं होमं देवार्चां न करोति सः ।। ३१ ।।
सतां समागमश्चापि कदापि तेन न कृतः ।
कथायाः श्रवणं धर्मकार्यं चापि कृतं नहि ।।३ २ ।।
देवानां ब्राह्मणानां च भक्तिस्तस्य न विद्यते ।
पापमग्नस्य तु बुद्धिर्धर्मदानाय नाऽभवत् ।।३३ ।।
मतिदातारमाभर्त्स्य तिरस्करोति सर्वथा ।
एवं वै वर्तमानस्य कालेन मरणं ह्यभूत् ।।३४।।
निरुदकस्थले शुष्के प्रेतत्वं समुपागतः ।
मरुदेशे क्षुधाविष्टो भ्रमन् तिष्ठति दुःखितः ।।३५।।।
मरौ स्तम्बे वसति स्म प्रेतो रौद्रो भयानकः ।
दीर्घदंष्ट्रो लम्बहनुर्बिडालास्यो महोदरः ।।३६।।
तत्र गतेन मार्गेण क्रयविक्रयकारकः ।
निर्जगाम वणिक् कश्चित् तं नृत्यन्नब्रवीत्तदा ।।३७।।
भक्ष्यं प्राप्तं मया त्वं वै क्वाऽधुना यातुमिच्छसि ।
मांसं ते भक्षयिष्यामि पास्यामि तव शोणितम् ।। ३८।।
प्रेतस्य वचनं श्रुत्वा धैर्यं कृत्वाऽऽह तं वणिक् ।
कुटुम्बभरणार्थाय गच्छामि धनवाञ्च्छया ।।३९।।
वृद्धः पिता मे भवने माता पत्नी पतिव्रता ।
मयि संभक्षिते रक्षः! कुटुम्ब मे मरिष्यति ।।1.348.४०।।
पुनः पापेन युक्तत्वं प्रेतभावान्न मोक्ष्यसे ।
इत्याकर्ण्य स प्रेतस्तं पप्रच्छ कुत आगमः ।।४१ ।।
वणिक् प्राह मथुरायाः समागतोऽस्मि ते वनम् ।
गोवर्धनः शैलवरो यमुना च महानदी ।।४२।।
तयोर्मध्ये मथुरायां वसामि बहुवंशतः ।
धनप्राप्त्यै प्रगच्छामि देशान्तरं दरिद्रकः ।।४३ ।।
प्रेतः प्राह शृणु दीन! यदि कार्यं कुरुष्व मे ।
समयेन हि मोक्ष्यामि गच्छ त्वं मथुरां प्रति ।।४४।।
स्नानं कृत्वा तु विधिवत् चातुःसामुद्रिके प्रहौ ।
पिण्डदानं कुरुष्व त्वं मम नाम्ना प्रयत्नतः ।।४५।।
स्नानस्य च फलं यच्छ मम मुक्तिर्भविष्यति ।
तव गृहे धनं त्वस्ति! दारिद्र्यं नास्ति ते वणिक्! ।।४६ ।।
सुवर्णभारो गर्तस्थो गृहे तिष्ठति सञ्चितः ।
निवर्तस्व सुसन्तुष्टः कुरु मे मोक्षणं वणिक्! ।।४७।।
वणिक् प्राह कथं तेऽस्ति ज्ञानं कूपः प्रमोक्षकः ।
रक्षः प्राह प्रतिष्ठाने पुरेऽगस्त्यो महामुनिः ।।४८।।
लक्ष्मीनारायणसंहितायाः कथामवाचयत् ।
सायंकाले कथां श्रोतुं गतोऽहं विष्णुमन्दिरम् ।।४९।।
श्रुतो मया ततः कूपः प्रेतानां मोक्षदायकः ।
समुद्राः किल तिष्ठन्ति चत्वारस्तत्र संगताः ।।1.348.५०।।
इतिश्रुता कथा तत्र वाचकाय जनैर्बहु ।
दानं दत्तं मया शाठ्याद् दत्तो वै ताम्रढब्बुकः ।।५१ ।।
ततो मे संगते काले निधनं समपद्यत ।
यमराजनियोगेन पूर्वकर्मबलेन च ।।।५२।।
प्रेतत्वं समनुप्राप्तो दानहोमविवर्जितः ।
तदा तीर्थं कृतं नैव पितरस्तर्पिता नहि ।।५३ ।।
धर्मकार्यं कृतं नैव प्राप्तोऽहं प्रेततां ततः ।
ढब्बुकस्य प्रभावेण कथायाः श्रवणेन च ।।५४।।
ज्ञानं तु विद्यतेऽद्यापि गच्छ मे मोक्षणं कुरु ।
विभ्वाख्यस्तु वणिक् प्राह कथं जीवसि मे वद ।।५५।।
रक्षः प्राह मया नैजगृहांगणे प्ररोपितः ।
छायार्थं पिप्पलवृक्षो जलेन वर्धितस्ततः ।।५६।।
तस्य वर्षे द्विवारं च भवन्त्येव फलानि वै ।
जन्तवस्तेन जीवन्ति तत्पुण्येन ममापि च ।।५७।।
तृप्तिर्भवति मे नित्या जलान्नविहिता यथा ।
श्रुत्वा वणिक् समाश्वास्य प्रेतं च मथुरां ययौ ।।।५८।।।
द्रव्यं निष्कास्य वै भूमेः प्रेतकार्यं चकार ह ।
चतुःसामुद्रिके कूपे पिण्डदानं चकार सः ।।५९।।
प्रेतोऽसौ तत्र चागत्य पिण्डान् भुक्त्वा ययौ दिवम् ।
वणिक् द्रव्यं तथा प्राप्य मोदते स्म गृहे निजे ।।1.348.६०।।
तीर्थे लक्ष्मि! गृहेऽरण्ये देवस्थाने च चत्वरे ।
यत्र तत्र मृताः पिण्डदानान्मुक्तिं प्रयान्ति ते ।।६१ ।।
अन्यत्र कृतपापस्य तीर्थे मुक्तिर्हि निश्चिता ।
मथुरायां कृतपापस्यापि कूपार्णवे क्षयः ।।६२।।
मथुरायां कृतं पापं तत्रैव तु विनश्यति ।
एषा पुरी महापुण्या यस्यां पापं न विद्यते ।।६३।।
कृतघ्नश्च सुरापश्च चौरो भग्नव्रतस्तथा ।
मथुरां यमुनां प्राप्य मुच्यते सर्वकिल्बिषैः ।।६४।।
तिष्ठेद् युगसहस्रं तु पादेनैकेन यः क्वचित् ।
ततोऽधिकं भवेत्पुण्यं मथुरायां निवासिनः ।।६५।।
मथुरावासिनः सर्वे दिव्या देवा हि मानवाः ।
तीर्थस्नानरतास्तेऽपि देवा वै नरमूर्तयः ।।६६।।
अन्यत्र विप्रसाहस्रपूजनेन तु यत्फलम् ।
एकेन पूजितेनात्र माथुरेण फलं भवेत् ।।६७।।
अनृग् वै माथुरो यत्र चतुर्वेदस्तथाऽपरः ।
न तु वेदैश्चतुर्भिः स्यान्माथुरेण समः क्वचित् ।।६८।।
भवन्ति सर्वतीर्थानि पुण्यान्यायतनानि च ।
मंगलानि तु सर्वाणि यत्र वै माथुरो द्विजः ।।६ ९।।
सर्वे मोक्षास्तत्र भूता भविष्यन्ति च देहिनाम् ।
यत्र वै माथुरं तीर्थं यमुनाया जलं तथा ।।1.348.७० ।।
मथुरावासिनो बोध्याः पार्षदा वै चतुर्भुजाः ।
पठनाच्छ्रवणात्त्वस्य चतुर्बाहुत्वमाप्नुयात् ।।७१ ।।
शृणु त्वन्यत् प्रवक्ष्यामि माहात्म्यमसिकुण्डजम् ।
पुण्यनगरवास्तव्यो राजाऽभूद् विमतिः पुरा ।।७२ ।।
विमतेस्तु गृहे तत्र त्वागतो नारदः क्वचित् ।
तस्मै पाद्यं तथाऽर्घ्यं च दत्तवान् विमतिस्तदा ।।७३ ।।
प्रतिगृह्य ततस्तं च नारदः प्राह धर्मभृत् ।
आनृण्यं ते पितुः कर्तुं समर्थोऽसि नृपेश्वर ।।७४।।
मम मित्रं पिता ते मे समासीन्मानदः सदा ।
सुमतिनामकस्तस्य निधनोत्तरमेव तु ।।७५।।
कृतं त्वया महादानं पुण्यं चाप्यतिपुष्कलम् ।
तीर्थयात्रा कृता नैव तयाऽऽनृण्यं भवेत् पितुः ।।७६।।
पितुरनृणतां कृत्वा पुत्रोऽस्य धर्मभाग् भवेत् ।
एवमुक्त्वा नारदस्तु ययौ वै बदरीवनम् ।।७७।।
राजापि च ततोऽप्यैच्छत् तीर्थयात्रां पितुः कृते ।
तस्य बुद्धिः समुत्पन्ना गच्छामो मथुरां पुरीम् ।।७८।।
इति निश्चित्य राजाऽसौ त्वागतो मथुरां पुरीम् ।
चतुरो वार्षिकान्मासान्मथुरायां वसामि वै ।।७९।।
सर्वतीर्थानि चात्रैव चातुर्मास्ये वसन्ति च ।
इति विचार्य राजा स वासं दीर्घं चकार वै ।।1.348.८०।।
सहस्रमानवैर्युक्तो दासदासीप्रसेवितः ।
भृत्यास्तीर्थेषु सर्वत्र कुर्वन्ति मलवर्जनम् ।।८ १ ।।
दासा दास्यः शूद्रवर्णा व्रताहेष्वपि मैथुनम् ।
कुर्वन्ति च तथा स्नान्त्यमर्यादं तीर्थवारिषु ।।८२।।
प्रसह्य ब्राह्मणादीनां नयन्त्युपस्करादिकम् ।
निन्दन्ति साधून् विप्रांश्च कथां च भर्त्सयन्ति वै ।।८३।।
मूत्रत्यागादिकं देवभूमौ कुर्वन्त्यरोधिनः ।
मत्स्यान् खादन्ति तान्पापान् राजा दण्डं करोति न ।।८४।।
तत्पापं दुष्टताराज्ञः शिरस्येव भवत्यपि ।
मासे गते च तीर्थानि दुःखादूचुः परस्परम् ।।८५।।
राजा त्वस्मात् स्थलान्निष्कासनीयः सुखहेतवे ।
युद्धं विमतिना सार्धं स्वयं कर्तुं न शक्नुमः ।।८६।।
कल्पग्रामं वयं गत्वा वराहं परमेश्वरम् ।
कष्टं निवेदयामः स योग्यं सम्यक् करिष्यति ।।८७।।
कल्पग्रामे गतान्येव प्रार्थयांचक्रुरादरात् ।
जय विष्णो जय पृथ्वीपते राजपते जय ।।८८।।
तीर्थकष्टविनाशार्थं नारायण नमोऽस्तु ते ।
श्रुत्या वराहभगवान् प्राह तीर्थानि सादरम् ।।८९।।
वरं वृणुत भद्रं वो यद्वो मनसि वर्तते ।
तीर्थान्यूचुर्हरे कृष्ण नोऽभयं दातुमर्हसि ।।1.348.९०।।
सुपापिना विमतिना कृतस्त्रासः सुदारुणः ।
तं नियच्छस्व पापिष्ठं मांसादं पापिसेवितम् ।।९ १ ।।
श्रीवराहस्तदा प्राह हनिष्यामि महारिपुम् ।
एवं तीर्थनियोगेन त्वागतो मथुरां पुरीम् ।।९२ ।।
वाराहः स्वासिना राज्ञा युद्धं चकार दारुणम् ।
सूदयामास राजानं वराहः स्वासिना ततः ।।९३।।
खड्गं स्वस्य धरायां च धाराग्रं निहितं भुवि ।
क्षण विश्रान्तिलाभाय निषसाद भुवस्तले ।।९४।।
सा भूमिः पावनी यत्र कुण्डं देवर्षिभिः कृतम् ।
असिकुण्डं तु तत्प्रोक्तं तीर्थं परमपावनम् ।।९५।।
द्वादश्यां वा चतुर्दश्यां कुण्डस्नानं हि मुक्तिदम् ।
तदा वराहतीर्थेऽहं तिष्ठामि मोक्षदानकृत् ।।९६।।
तीर्थे तत्र प्रदातव्या मूर्तयो मे चतुर्विधाः ।
एका वराहसंज्ञा च नारायणी द्वितीयका ।।९७।।
वामनस्य तृतीया च चतुर्थी राघवस्य च ।
एतासां दर्शनं पूजा प्रतिष्ठा दानमित्यपि ।।९८।।
कर्तव्यं सर्वथा तत्र मोक्षभाक् स भवेत्ततः ।
एताश्चतस्रो यः पश्येत् स्नात्वा कुण्डेऽसिनामके ।।९९।।
चतुःसागरपर्यन्ता क्रान्ता तेन वसुन्धरा ।
माथुराणां च तीर्थानां फलभाक् स भवेद्ध्रुवम् ।। 1.348.१० ०।।
सुप्तोत्थितोऽपि द्वादश्यामसिकुण्डाप्लुतो नरः ।
मूर्तीः पश्यति यस्तास्तु ब्रह्मभूयाय कल्पते ।। १०१ ।।
नास्ति तत्पुनरावृत्तिर्नारायणप्रसादतः ।
पठनाच्छ्रवणात्त्वस्य भुक्त्वा मुक्तिं व्रजेत् खलु ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुराक्षेत्रमाहात्म्ये गोवर्धनाऽन्नकूटतदन्यतीर्थप्रदक्षिणम्, प्रेतरूपस्य सुशीलवैश्यस्योद्धारः, वाराहेण विमतेर्नाशेऽसिकुण्डं वाराहक्षेत्रमाहात्म्यं चेत्यादिनिरूपणनामाऽष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः ।।३४८।।