लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३४७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३४७
[[लेखकः :|]]
अध्यायः ३४८ →

श्रीनारायण उवाच-
अथान्यत्ते प्रवक्ष्यामि महालक्ष्मि! शृणुष्व तत् ।
मथुराया उत्तरस्थे चक्रतीर्थेऽभवत्तु यत् ।। १ ।।
जम्बूद्वीपे महागृहोदयपत्तनवासकृत् ।
ब्राह्मणः स्वस्य कन्यां च पुत्रं चादाय वेदवित् ।। २ ।।
शालग्रामं महाक्षेत्रं ययौ यात्रार्थमेव सः ।
निवासमकरोत् तत्र स्नायी तीर्थसुरार्चकः ।। ३ ।।
देवतानां दर्शनेऽस्य सिद्धः कश्चिद् दृशेः पथि ।
समायातः कलापाख्यग्रामवासी नराकृतिः ।। ४ ।।
सिद्धो नित्यं दर्शनार्थं समायाति वियाति च ।
विप्रस्य पर्णशालायां विश्रान्तिं लभतेऽपि च ।। ५ ।।
वर्णयति स्म कलापग्रामस्यातिविभूतिकाः ।
श्रुत्वा विप्रस्य गमने जाता बुद्धिस्ततो द्विजः ।। ६ ।।
प्राह सिद्धं मम मित्रं भवानद्य हि वर्तते ।
कलापं मां नय मित्र! ते पश्यामि विभूतिकाः ।। ७ ।।
सिद्धः प्राह तु विप्रेन्द्र! तत्र ते न गतिर्भवेत् ।
शरीरं शीतवातैस्तु नाशं यास्यति ते द्विज! ।। ८ ।।
तथापि ब्राह्मणः प्राह तव योगेन मां नय ।
एवमभ्यर्थितः सिद्धः कन्यां पुत्रं च मित्रकम् । । ९ । ।
करे संगृह्योत्पपात व्योम्नि योगबलेन वै ।
कलापे स्वाश्रमे न्यस्तं सिद्धेन ब्राह्मणत्रयम् ।। 1.347.१ ०।।
तत्र कालेन यातेन विप्रो रुग्णोऽभवत्तदा ।
मृत्युयोग्यं पितरं च निन्ये गंगातटं सुतः । । १ १।।
सुता चापि स्वपितरं सेवते पथ्यवस्तुभिः ।
एकदा पर्णशालायां पित्रर्थे पाकमाचरत् । । १२। ।
तदा कश्चिद् ब्राह्मणोऽपि भिक्षार्थं गृहमागतः ।
पृष्टोऽसौ भद्रया तया क्व भवाँस्त्वमिहागतः ।। १ ३।।
स प्राह कान्यकुब्जस्य विप्रोऽहं सिद्धतां गतः ।
विचरामि महातीर्थे कलापेऽत्र सुखी सदा ।। १४।।
कन्ययाऽऽवेदितः पित्रे भ्रात्रे स सिद्धदेहवान् ।
पित्रा दत्ता विचार्यैव कन्या सिद्धद्विजाय सा । । १५।।
सिद्धोऽप्ययं हि जामाता वसति श्वशुरगृहे ।
कालेन क्षणतां प्राप्तं श्वशुरं पर्यपृच्छत । । १६।।
कथं रोगः कदा त्वस्य विनाशोऽपि भविष्यति ।
यथा रोगविनाशः स्यात्तथा करोमि सेवनम् ।। १७।।
जामातृवचनं श्रुत्वा श्वशुरः शान्तिमाव्रजत् ।
प्राह जामातरं भवान् सिद्ध्या जानाति चेद् वद ।। १८।।
जामाता सिद्धिमान् ध्यात्वा श्वशुरं प्राह भो द्विज । ।
कलापेऽत्र निवसता शूद्रान्नं भक्षितं त्वया ।। १ ९।।
अजानताऽर्पितं तेन भक्षितं चाऽप्यजानता ।
तेन दोषेण रोगोऽयं वर्तते वर्ष्मणि द्विज! ।।1.347.२०।।
पादयोर्विद्यते चान्नं जान्वोरूर्ध्वे न विद्यते ।
शूद्रान्नेन विहीनस्य विप्र! मृत्युर्भविष्यति ।।२१।।
जामातृवचनं श्रुत्वाऽऽत्मानं विप्रोऽत्यगर्हयत् ।
दुःखेन पीडितः क्षीणो मर्तुमैच्छद् द्विजोत्तमः ।।२२।।
अथ प्रभाते जामाता सुता पुत्रश्च ते त्रयः ।
कार्यार्थ तु ययुर्गेहाद् बहिस्तावत् क्षणान्तरे ।।२३।।
निर्जनावसरं लब्ध्वा मरणं प्रविचार्य च ।
गंगातीरात् समुत्तिष्ठन् दिशः सर्वा विलोकयन् ।।।२४।।
सन्निधावुपलां दृष्ट्वा गृहीत्वा पर्णकृद्गृहे ।
चूर्णयामास तौ पादौ पीडया दुःखितो द्विजः ।।२५।।
ततः प्राणान् परित्यज्य गतोऽसौ स्वर्गमुत्तमम् ।
जामाता च सुता पुत्रः कार्यं कृत्वाऽऽययुर्गृहम् ।।२६।।
तावन्मृतं तु तं वृद्धं दृष्ट्वा रुरुदुरत्यति ।
सर्पशृंगिहतानां च दंष्ट्रिप्राणिहतस्य च ।। २७।।
आत्मघातकृतस्यापि नास्ति संस्कारयोग्यता ।
कथमस्य भवेद् दाहो विचार्येति पुनश्च ते ।।२८।।
 प्रायश्चित्तं विधीयीत न दद्याच्चोदकक्रियाम्
इति विधिं समाश्रित्य चक्रुर्दाहादिकं ततः ।। २९।।
प्रायश्चित्तं तथा चक्रुर्ययुर्ग्रामं कलापकम् ।
तत्रस्थं मृतविप्रस्य मित्रं सिद्धं प्रणम्य ते ।। 1.347.३० ।।
मरणादिकमांवेद्य क्षणं चक्रुः प्रशोचनम् ।
कलापस्थश्च सिद्धोऽयं प्राह जामातरं द्विजम् ।।३ १ ।।
ब्रह्महत्या तु ते जाता प्रायश्चित्तं ततः कुरु ।
वृद्धसिद्धवचः भूत्वा जामाता वाक्यमब्रवीत् ।।३२।।।
न मया ब्राह्मणवधः कदाचिदपि वै कृतः ।
केन दोषेण मे पूज्य! ब्रह्महत्या फलं वद ।।३३।।
जामातुर्वचनं श्रुत्वा वृद्धसिद्धस्तमब्रवीत् ।
त्वया तत्पादयोः शूद्रस्यान्नं चास्तीति दर्शितम् ।। ३४।।।
तदन्नस्य क्षये मृत्युरित्यपि दर्शितं तथा ।
विप्रेण तेन च तद्वच्चूर्णितौ चरणौ स्वकौ ।। ३५।।
मृत्युः कृतस्ततस्तत्र दोषभाक् त्वं तथाऽभवः ।
इति त्वया वधोपायो निर्दिष्टश्च द्विजोत्तम! ।।३६।।
तेन दोषेण विप्रर्षे! ब्रह्महत्याफलं तव ।
आसन्नशयनाच्चैव भोजनात् कथनात्तथा ।।३७।।
पापं संक्रमते व्यक्तौ सहसंचरणात्तथा ।
ततः शुद्धिः प्रकर्तव्या माऽस्तु वासो मम गृहे ।।३८।।
कल्पग्रामं परित्यज्य मथुरां याहि भूसुर ।
नान्यत्र तव शुद्धिः स्यादित्यवेहि प्रयाहि च ।।३९।।
श्रुत्वा वृद्धस्य तद्वाक्यं मथुरां ते त्रयो ययुः ।
पत्नी च शालकस्तेन जामात्रा सिद्धविद्यया ।।1.347.४० ।।
उत्पतता व्योममार्गे त्वानीतौ मथुरां प्रति ।
ब्राह्मणेभ्यो बहिःस्थाने वसतिं चक्रुरादरात् ।।४१ ।।
मथुरायां तदा राज्ञः सत्रे वै कुशिकस्य च ।
विप्राणां द्वे सहस्रे तु भुञ्जेते मेध्यमन्वहम् ।।४२ ।।
ब्रह्मयज्ञकृतोच्छिष्टं भुंजते ते त्रयस्ततः ।
चक्रतीर्थं समासाद्य स्नानं च कुर्वते सदा ।।४३ ।।
पत्नी यज्ञप्रसादं स्वपतिं भिक्षाऽऽगतं निशि ।
भोजयित्वा प्रभुंक्ते च वर्षार्धं विगतं तथा ।।४४।।
ततो भिक्षार्थमायातं सिद्धं पप्रच्छुरादरात् ।
विप्रा यज्ञप्रकर्तारः कुत्र सन्तिष्ठसे द्विज! ।।४५।।
भोजनं कुरुषे कुत्र स्थित्वा वद् यथातथम् ।
सिद्धश्च कथयामास वृत्तान्तं स्वात्मनो हितम् ।।४६ ।।
भिक्षां त्वत्र गृहीत्वाऽहं भार्यया शालकेन च ।
सहितश्चक्रतीर्थेऽत्र समाप्लाव्य विभज्य च ।। ४७।।
भोजनं वै करोम्यत्र ब्रह्महत्यानिवृत्तये ।
तच्छ्रुत्वा ब्राह्मणाः सर्वे ऊचुः शुद्धोऽसि वै द्विज! ।।४८ ।।
चक्रतीर्थप्रभावेण पापान्मुक्तोऽसि सर्वथा ।
विप्राणां वचनाच्चैव पुनः शुद्धोऽसि वै द्विज! ।।४९ ।।
इति विप्रकृतां शुद्धिं चक्रतीर्थकृतां तथा ।
प्रायश्चित्तकृतां चापि प्रसादस्याऽशनात्तथा ।।1.347.५ ० ।।
प्राप्य सिद्धः प्रमुमोद सभार्याशालकस्तथा ।
चक्रतीर्थं समागत्य भिक्षां भोक्तुं व्यवस्थितः ।।५ १ ।।
पत्नी हृष्टेन मनसा भर्तारं वाक्यमब्रवीत् ।
भोजनं कुरु विप्रेन्द्र! हत्यां लक्ष्यामि ते गताम् ।।५२।।
चक्रतीर्थप्रभावेण हत्या नष्टा द्विजोत्तम! ।
तस्मादत्र मथुरायां नित्यं स्थातव्यमेव ह ।।५ ३ ।।
ते व्यवस्य त्रयस्तत्र मथुरायां सदा स्थिताः ।
कलापं संपरित्यज्य मथुरा भुक्तिमुक्तिदा ।।।।५४।।
भद्रेश्वरं तु तत्तीर्थं सिद्धसेवितमित्यथ ।
कलापाद्धि शतगुणं चक्रतीर्थं हि पुण्यदम् ।।५५।।
अहोरात्रोपवासेन ब्रह्महत्या विनश्यति ।
किं तस्य तु कलापेन वारागास्याऽथवापि किम् ।।५६।।
मथुरा यदि संलब्धा चक्रतीर्थं च सेवितम् ।
अपि कीटः पतंगो वा जायते स चतुर्भुजः ।।५७।।
कालधर्मं समापन्नास्त्रयस्ते ब्राह्मणाः प्रिये! ।
प्रापुर्मे दिव्यगोलोकं चतुर्भुजा हि शाश्वताः ।।५८ ।।
शृणु चान्यत् प्रवक्ष्यामि बलं वैकुण्ठतीर्थजम् ।
मिथिलावासिनो लोकास्तीर्थार्थं मथुरां गताः ।।५९ ।।
वैकुण्ठतीर्थमासाद्य स्थितास्तेषां तु भूसुरः ।
कश्चिदासीद् ब्रह्महत्यापापेन त्वतिपीडितः ।।1.347.६० ।।
रुधिरस्य तु वै धारा स्रवन्ती तस्य हस्ततः ।
प्रत्यक्षा दृश्यते बहुतीर्थस्नानेऽपि नो गता ।।६१।।
किन्तु वैकुण्ठतीर्थस्य स्नानेन विलयं गता ।
विस्मयो नात्र कर्तव्यो वैकुण्ठस्य फलं हि तत् ।।६२।।
अत्र स्नाता पापशून्यो वैकुण्ठं प्रतिगच्छति ।
पुनरन्यत् प्रवक्ष्यामि लक्ष्मि! गन्धर्वकुण्डजम् ।।६३ ।।
माहात्म्यं स्नानकर्ताऽस्मिन् गन्धर्वैः सह मोदते ।
माथुरं मण्डलं पद्मं योजनानां तु विंशतिः ।।६४।।
कर्णिकायामहं कृष्णो मृतानां मुक्तिदः सदा ।
पश्चिमेऽहं हरिर्गोवर्धनधारी वसामि च ।।६५।।
गोविन्दश्चोत्तरे पूर्वे विश्रान्तौ देवविश्रमः ।
दक्षिणेऽहं वराहोऽस्मि महाकायोऽतिकेशवान् ।।६६।।
कृते युगे नृपतिना मान्धात्रा तोषितोऽस्म्यहम् ।
मया तुष्टेन हि तस्मै प्रतिमा मम चार्पिता ।।६७।।
कपिलेन भगवता तैजसी दिव्यरूपिणी ।
मनसा निर्मिता रम्या वाराही प्रतिमा शुभा ।।६८।।
इन्द्रोऽपि ध्यायति नित्यं कपिलात् प्राप्य सौकरीम् ।
मूर्तिं स्वभवने समर्चयति स्म समादरात् ।।६९।।
रावणोऽपि गतः शक्रं विजेतुं स्वर्गमित्यपि ।
शक्रं जित्वा प्रविष्टस्तद्भवने तत्र सौकरम् ।।1.347.७० ।।
रूपं दिव्यं रावणं वै बबन्ध बहुरश्मिभिः ।
रावणश्च स्तुतिं चक्रे त्रातुमर्हसि माधव! ।।७१।।
मम त्वं भक्तियुक्तस्य प्रसादं कुरु सर्वथा ।
तदा प्रसन्नो भगवान् मुमोच रावणं हरिः ।।७२।।
रावणोऽपि तदा मूर्तिं लंकां नेतुमियेष यत् ।
तामुद्धर्तुमशकन्न तदातिविस्मयं गतः ।।७३।।
नेमे तत्पादयोः प्राह लंकां नेतुं ममाऽऽशयः ।
वाराहः प्राह रक्षस्त्वमवैष्णवोऽसि तेन वै ।।७४।।
नाऽऽगमिष्ये ततो भूया वैष्णवश्चेन्नयस्व माम् ।
रावणो वैष्णवो भूत्वा नीतवान्नगरीं तु ताम् ।।७५।।
रामेण रावणो नाशं गमितः प्रतिमा तु सा ।
आनीता स्वनगरीं च पूजिता बहुवत्सरान् ।।७६।।
तेन शेषस्वरूपः स्वभ्राता रक्षोविनाशने ।
योजितः स मथुरायां समागत्य तु राक्षसान् ।।७७।।
नाशयामास च तत्र वाराहीं प्रतिमां हि ताम् ।
आनयामास रक्षार्थं स्थापयामास वै विधेः ।।७८ ।।
धन्येयं माथुरी पृथ्वी धन्या लोकाश्च तद्गताः ।
यैः सदा स्नापितो दृष्टः स्पृष्टो ध्यातोऽनुचर्चितः ।।७९।।
पूजितश्च वराहोऽयं मोक्षं दास्यति सर्वथा ।
वराहसन्निधौ पिण्डदानान्मुक्तास्तु पूर्वजाः ।।1.347.८० ।।
भवत्येव गयाश्राद्धफलं पुष्करजं फलम् ।
श्वेतं वाराहमालोक्य विश्रान्तिं लोकयेत्तथा ।।८ १ ।।
गोविन्दं च समालोक्य गोवर्धनधरं ततः ।
विलोकयेदिति लक्ष्मि! कथितो महिमा च ते ।।।८२।।
य इद्ं शृणुयाच्चापि पठेद्वा पाठयेत्तथा ।
तस्य वर्णितपुण्यानां प्राप्तिः स्यान्मोक्षणं भवेत् ।।८३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुराक्षेत्रमाहात्म्ये चक्रतीर्थे कलापग्रामवास्तव्यविप्रस्य ब्रह्महत्यापातकनाशाख्यानं, मुक्तिश्च । वैकुण्ठतीर्थे मिथि-लाया विप्रस्य ब्रह्महत्यापातकनाशाख्यानं, कपिलभगवता मनसोत्पादितवाराहस्य परम्परया मथुरायां प्रति-ष्ठानमित्यादिनिरूपणनामा सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः ।। ३४७ ।।