लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३४६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३४६
[[लेखकः :|]]
अध्यायः ३४७ →

श्रीनारायण उवाच--
शृणु लक्ष्मि-! माथुरे तु मण्डलेऽपरतीर्थकम् ।
वत्सक्रीडनकं तीर्थं रक्तप्रस्तरनिर्मितम् ।। १ ।।
तत्र स्नानेन वै यायाद् वायुलोकं तु मानवः ।
प्राणत्यागे तु परमा मुक्तिः स्यान्नात्र संशयः ।। २ ।।
अथ भाण्डीरकं तीर्थं दम्पतीत्वप्रदं परम् ।
यत्र कृष्णेन राधा वै विवाहिता वनस्थले ।। ३ ।।
सालतालार्जुनैर्युक्ते तमालेङ्गुदपीलुकैः ।
करीररक्तपुष्पैश्च युक्ते भाण्डीरके स्थले ।। ४ ।।
स्नातः पापविनिर्मुक्तश्चन्द्रलोकं प्रयाति सः ।
प्राणत्यागे तु गोलोकं प्राप्नोति नात्र संशयः ।। ५ ।।
वृन्दावनं मम तीर्थं यत्र गोगोपगोपिकाः ।
मया साकं रमिष्यन्ति विचित्रक्रीडनैः सदा ।। ६ ।।
सर्वेषां दुर्लभे स्थाने कुण्डे वृन्दावनस्थले ।
बहुगुल्मलतारण्ये स्नातः स्वर्गेऽप्सरोगणैः ।। ७ ।।
गन्धर्वैः सेवमानश्च मोदते बहुवत्सरान् ।
तत्र चेन्मुञ्चति प्राणान् वैकुण्ठे मोदते ध्रुवम् ।। ८ ।।
अथ वृन्दावने केशी दैत्यो यत्र निपातितः ।
तत्र स्नातः शतगुणं पुण्यमाप्नोत्यसंशयम् ।। ९ ।।
हरिविश्रामतीर्थं च ततोऽपि शतपुण्यदम् ।
तत्र पिण्डप्रदानेन गयातुल्यफलं भवेत् ।। 1.346.१० ।।
स्नानं दानं च हवनं वह्निष्टोमफलप्रदम् ।
अथ द्वादशसूर्याणां तीर्थं श्रेष्ठं परं मतम् ।। ११ ।।
कालिन्दीसलिले कृष्णः कालीयसर्पमस्तके ।
ननर्त दमनार्थं तं तत्राऽऽदित्या दशोज्ज्वलाः ।। १ २।।
मयैव स्थापिता लक्ष्मि! वरार्थं ज्ञापितास्तदा ।
आदित्याश्च तदा प्रोचुर्यदि देयो वरोऽस्ति नः ।। १ ३।।
अस्मत्तीर्थेऽत्र लोकानां स्नानेन मोक्षणं भवेत् ।
उत्तरे हरिदेवस्य कालीयस्य तु दक्षिणे ।। १४।।
मध्ये ये स्युर्मृतास्तेषां मुक्तिर्गोलोकधामनि ।
भवेदित्यर्थितं तैश्च तथास्त्विति मयाऽर्पितम् ।। १५।।
अथ यम्याः परे पारे तीर्थं तु मलयार्जुनम् ।
पर्यस्तं तत्र शकटं कुण्डं तत्र सुविद्यते ।। १६।।
तत्र स्नानोपवासाभ्यामनन्तफलभाग् भवेत् ।
द्वादश्यां ज्येष्ठशुक्लस्य स्नानाद् दानाच्च दर्शनात् ।। १७।।
अच्युतस्य समर्चनात् प्राप्नोति परमां गतिम् ।
उपोषितं जनं साक्षात् कृष्णो नेतुं प्रगच्छति ।। १८।।
अपि चास्मत्कुले जातः कालिन्दीसलिले प्लुतः ।
अर्चयिष्यति गोविन्दं मथुरायामुपोषितः ।। १९।।
धन्योऽसौ पिण्डनिर्वापं यमुनायां करिष्यति ।
द्वादश्यां ज्येष्ठमासेऽत्र तृप्तिर्न संभविष्यति ।।1.346.२०।।
इति गायन्ति पितरः परलोकगताः सदा ।
अथात्र सुभगं तीर्थं वनं बहुलसंज्ञकम् ।। २१ ।।
स्नातो रुद्रस्य भवनं प्रयाति द्वादशी तिथौ ।
चैत्रशुक्लदशम्यां तु स्नातो मत्पदमाप्नुयात् ।।२२।।
अथ भाण्डह्रदस्तीर्थं परे पारे सुविद्यते ।
दृश्यन्तेऽहरहस्तत्र त्वादित्याः सुपतङ्गकाः ।। २३।।।
अर्ककुण्डे तत्र तीर्थे स्नानं यः कुरुते जनः ।
सर्वपापविनिर्मुक्तः सूर्यलोकं प्रयाति सः ।।२४।।
अथात्र विमलः कूपः सप्तसामुद्रनामकः ।
तत्र स्नाता यथेष्टः स्यात् स्वेष्टं लोकं प्रयाति सः ।।२५।।
तत्र प्राणप्रयाणे तु मम धाम प्रपद्यते ।
अथ वीरस्थलं नाम तीर्थक्षेत्रं परं शुभम् ।।२६।।
आसन्नसलिलं चैव पद्मोत्पलविभूषितम् ।
तत्र स्नाता वीरलोकं प्राप्याऽन्ते धाम याति मे ।।२७।।
कुशस्थलं तथा क्षेत्रं पुण्यं परमपावनम् ।
स्नात्वा याति ब्रह्मलोकं मृत्वा गोलोकमृच्छति ।।२८।।
तत्र पुष्पस्थलतीर्थे शिवक्षेत्रमनुत्तमम् ।
तत्र स्नानेन मनुजः शिवलोकं प्रगच्छति ।।२९।।
अथ गोपीश्वरमूर्तिर्महापातकनाशिनी ।
मातलिस्थापिता मोक्षप्रदा गोपीशतीर्थके ।।1.346.३०।।
कृष्णस्य रमणार्थं हि गोप्यस्तत्र सहस्रशः ।
समागतास्तदा कृष्णो जातः सहस्ररूपधृक् ।।३ १।।
गोपीं गोपीं प्रति रेमे यथेष्टं सुखदः प्रभुः ।
मातलिस्तत्र चागत्य गोपीश्वरं विधाय च ।। ३२।।
गोपवेषधरं देवमभिषेकं चकार ह ।
आनीय सप्तकलशान् रत्नौषधिपरिप्लुतान् ।।३३ ।।
गोप्यो गायन्ति नृत्यन्ति कृष्ण! कृष्ण! वदन्ति च ।
तत्र सप्तकलशैश्च स्थापयामास कूपकम् ।।३४।।
सप्त सामुद्रिकं नाम तीर्थं गोलोकधामदम् ।
तत्र श्राद्धे जलदात्रा पिण्डदात्रा च सर्वथा ।।३५।।
पितरस्तारितास्तेन कुलानां सप्तसप्ततिः ।
सोमवारे त्वमायां च श्राद्धकर्तुस्तु पूर्वजाः ।। २६ ।।
पितरस्तस्य तृप्यन्ति कोटिवर्षशतानि वै ।
गोविन्दस्य च देवस्य तथा गोपीश्वरस्य च ।। ३७।।
मध्ये मृतो जनो याति महेन्द्रस्य सलोकताम् ।
तथा बहुलरुद्रस्य गोविन्दस्य च मध्यतः ।। ३८।।
तथा वै वेधसश्चापि गोपीशस्य च मध्यतः ।
पिण्डदानस्नानकर्तुः कुलानां शतमुद्धरेत् ।।३९।।
वसुतीर्थं मथुरादक्षिणे फाल्गुनकं तथा ।
तत्र स्नात्वा च पीत्वा च मम लोके महीयते ।।1.346.४० ।।
तत्र फाल्गुनके तीर्थे वृषभांजनकं स्थलम् ।
तत्राऽभिषेकमापन्नः सुरैः सह प्रमोदते ।।४१।।
अथ तालवनं नाम मथुरापश्चिमस्थितम् ।
तत्र कुण्डे स्नानकर्ता दाता वाञ्च्छितमाप्नुयात् ।।४२।।
अस्ति संपीठकं तीर्थं स्नाताऽग्निष्टोमपुण्यभाक् ।
कृष्णजन्मस्थले लक्ष्मि! सप्तम्यां सोमवासरे ।।४३।।
व्रतं कृत्वा पूजयेन्मां सा तु पुत्रवती भवेत् ।
विंशतिर्योजनानां तु माथुरं मम मण्डलम् ।।४४।।
यत्र तत्र कृतस्नानो मुच्यते घोरपातकैः ।
वर्षाकालेऽत्र स्थातव्यं यत्स्थानं सुखदं भवेत् ।।४५।।
सप्तद्वीपेषु तीर्थानि पुण्यान्यायतनानि च ।
मथुरायां गमिष्यन्ति प्रसुप्ते तु सदा मयि ।।४६।।
सुप्तोत्थितं च मां दृष्ट्वा भवन्ति मुक्तिभाजनाः ।
यमुनायां कृतस्नानः कृतकेशवदर्शनः ।।५८७।।
सर्वपापविहीनः सन्ममलोकं प्रपद्यते ।
पदे पदे फलं याति राजसूयाश्वमेधयोः ।।४८।।
प्रदक्षिणीकृतो येन मथुरायां तु केशवः ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ।।४९।।
घृतदीपं तथा वस्त्रं दद्यात् कृष्णाय मन्दिरे ।
पञ्चयोजनविस्तारं दीर्घं षट्पंचयोजनम् ।।1.346.५०।।
दीपमालासमाकीर्णं विमानं लभते जनः ।
सर्वकामसमृद्धं तदप्सरोगणसेवितम् ।।५ १ ।।
सर्वकामप्रदं रम्यं सर्वतेजोविराजितम् ।
सिद्धचारणमगन्धर्वा यदिच्छन्ति दिवं गताः ।।५२।।
यदि पुण्यं कृतं स्याद्वै लभ्येतैतादृशं गृहम् ।
अन्ते मोक्षस्त्वपाय्येत मथुरायाः प्रभावतः ।।५३ ।।
मथुरां रक्षति पूर्वामिन्द्रो यमस्तु दक्षिणाम् ।
पश्चिमां रक्षति वारीशः कुबेरस्तथोत्तराम् ।।५४।।
मध्यं रक्षति मे भक्तः शंकरः पार्वतीपतिः ।
मथुरायां गृहं यो वा प्रासादं कुरुते जनः ।। '९५।।
चतुर्भुजस्तु विज्ञेयो जीवन्मुक्तो न संशयः ।
मथुरायां महत्कुडं विमलोदकनामकम् ।। ५६ ।।
हेमन्ते तु भवेच्चोष्णं शीतलं ग्रीष्मके भवेत् ।
न वर्धते च वर्षासु ग्रीष्मे चापि न हीयते ।।५७।।
एतत्तु महदाश्चर्यं तस्मिन कुण्डे परं मम ।
माथुरे मम क्षेत्रे तु गर्तेषु च नदीषु च ।।५८।।
कूपे ह्रदे देवखाते प्रवाहे संगमे तथा ।
स्नातव्यं यत्र वा तत्र तेन स्यात्परमा गतिः ।।५९ ।।
कार्तिकस्य तु मासस्य नवम्यां मम भक्तराट् ।
कृत्वा प्रदक्षिणं याति पृथ्वीप्रक्रमणवृषम् ।। 1.346.६० ।।
न दानैर्न तपोभिश्च न यज्ञैस्तादृशं फलम् ।
भूमेः प्रदक्षिणायाः स्याद् यादृशं तीर्थसेवया ।। ६१ ।।
भूम्याः परिक्रमे सम्यग् योजनानां प्रमाणकम् ।
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ।। ६२।।
तत्र तीर्थानि देवाश्च गणिताः पवनेनवै ।
ब्रह्मणा लोमशेनापि नारदेन ध्रुवेण च ।।६ ३ ।।
पत्नाव्रतेन विप्रेण गरुडेन हनूमता ।
एतैरनेकधा देवैः सवार्ध्यावरणा मही ।। ६४।।
क्रमिता बलिभिः सर्वैर्बाह्यमण्डलरेखया ।
योगसिद्धैस्तथा कैश्चिर्न्माकण्डेयमुखैरपि ।।६५ ।।
सप्तद्वीपे च तीर्थानां भ्रमणाद् यत्फलं भवेत् ।
प्राप्यते त्वधिकं तस्मान्मथुरायाः परिक्रमे ।।६६ ।।
यथाविधानक्रमणं मथुरायां कृतं भवेत् ।
प्रदक्षिणफलं सम्यगनुक्रमविधिं ब्रुवे ।। ६७।।
सर्वदेवेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
सर्वदानेषु यत्पुण्यमिष्टापूर्तेषु यत्फलम् ।। ६८ ।।
तत्फलं लभ्यते लक्ष्मि! माथुरस्य प्रदक्षििणे ।
देवर्षिमुनिसहिता ब्रह्माद्याः कोटिदेवताः ।। ६९ ।।
नवम्यां कार्तिके शुक्ले चक्रूमाथुरप्रक्रमम् ।
अष्टम्यां मथुरां प्राप्य स्नात्वा विश्रान्तितीर्थके ।।1.346.७ ० ।।
कृत्वा पितृसुरर्षीणां पूजन यमुनार्चनम् ।
विश्रान्तिदर्शनं कृत्वा दीर्घविष्णुं च केशवम् ।। ७१ ।।
उपवासं प्रकृत्वैव स्वल्पमेध्याशनोऽथवा ।
ब्रह्मचर्यपरो भूत्वा मौनमास्थाय यत्नत. ।।७ २ ।।
तिलाऽक्षतकुशान्नीत्वा विश्रान्तौ दीपमाददेत् ।
नवम्यां प्रातरेवाऽस्मात्स्थलाद् यात्रामुपाक्रमेत् ।।७३ ।।
ब्राह्मे काले रवेः पूर्वं स्नायाद् दक्षिणकोटिके ।
प्रक्षाल्य पादावाचम्य हनुमन्तं प्रसादयेत् ।।७४।।
सर्वमगलदं सिद्धिकर्तारं फलसाक्षिणम् ।
प्रदक्षिणस्य यात्रायां यात्रासिद्धिप्रदो भव ।।७१।।
इति विज्ञाप्य विधिवद्धनूमन्तं गणेश्वरम् ।
दीपपुष्पोपहाराद्यैः पूजयित्वाऽग्रतस्ततः ।।७६।।
पूजयेत्पद्मनाभं च दीर्घविष्णुं सुखप्रदम् ।
दृष्ट्वा वसुमतीं देवीं तथाऽन्यामपराजिताम् ।।७७।।
आयुधागारसंस्थां च नत्वा गच्छेत् ततोऽग्रतः ।
कंसवासनिकां तद्वदौग्रसेनां च चर्चिकाम् ।।७८ ।।
वधूटी तत्र नत्वा च दानवक्षयकारिणीम् ।
जयदां च ततो नत्वा मातृँश्च देवपूजिताः ।।७९ ।।
गृहदेवीर्वास्तुदेवीर्दृष्ट्वाऽनुज्ञाप्य निःसरेत् ।
दक्षिणकोटिकं प्राप्य स्नात्वा सन्तर्प्य पितृकान् ।।1.346.८ ० ।।
देवं कृष्णं संप्रणम्य चेक्षुवासां सतीं व्रजेत् ।
यत्र बालक्रीडनकैस्तीर्थं कृष्णेन वै कृतम् ।।८ १ ।।
वत्सपुत्र ततो गच्छेत् ततोऽर्कस्थलमेव च ।
वीरस्थलं कुशस्थलं पुण्यस्थलं महास्थलम् ।।८२।।
पञ्चस्थलावलोकेन ब्रह्मणा सह मोदते ।
शिवं सिद्धमुखं दृष्ट्वा हयमुक्तिं च लोकयेत् ।।८ ३ ।।
अश्वो मुक्तिं गतश्चात्र सहायसहितो यतः ।
राजपुत्रः स्थितस्तत्र यानयात्रां न चाचरेत् ।।८४।।
मल्लिकादर्शनं कृत्वा कदम्बखण्डमाव्रजेत् ।
चर्चिकां योगिनीं दृष्ट्वा ततो गच्छेत्तु मातरम् ।।८५।।
अस्पृश्यां चाऽस्पृशां ते द्वे बालरक्षाकरे ह्युभे ।
वर्षखातं ततो गत्वा कुण्डं पितृँश्च तर्पयेत्। ।।८६ ।।
क्षेत्रपालं शिवं भूतेश्वरं गच्छेत् प्रपूजयेत् ।
कृष्णक्रीडासेतुबन्धं ततो गच्छेद् बलिह्रदम् ।।८७।।
ततः कुक्कटक्रीडाख्यं स्थलं गच्छेद् गतिप्रदम् ।
स्तम्भोच्चयं सुशिखरं पूज्येत्तं परिक्रमेत् ।।८८ ।।
मुच्यते सर्वपापेभ्यो विष्णुलोकं व्रजेत्तु सः ।
वसुदेवस्य देवक्या एकान्तशयनस्थलम् ।।८९।।
गत्वा नारायणस्थानं प्रविशेच्च परिक्रमेत् ।
विघ्नविनायकं नत्वा कुब्जिकां वामनां तथा ।। 1.346.९०।।
कृष्णदास्यौ तु विप्राण्यौ नत्वा गर्तेश्वरं व्रजेत् ।
महाविद्येश्वरीं दृष्ट्वा यात्रासिद्धिफलं भवेत् ।।९ १ ।।
प्रभामल्लीं महाविद्येश्वरीं व्रजेच्च पूजयेत् ।
सिद्धेश्वरीं तथा संकेतेश्वरीं च प्रपूजयेत् ।।९२।।
यस्याश्चाग्रे दैत्यनाशार्थं संकेतितवान् हरिः ।
कुण्डे त्वाचमनं कृत्वा गोकर्णेश्वरमाव्रजेत् ।।९३।।
सरस्वतीं नदीं दृष्ट्वा विघ्नराजं समाव्रजेत् ।
गंगां दृष्ट्वा तथा स्पृष्ट्वा गच्छेद् रुद्रमहालयम् ।।९४।।
क्षेत्रपं तं समानत्वोत्तरकोटिगणाधिपम् ।
पूजयेद्यत्र कृष्णेन द्यूतक्रीडा कृताऽभवत् ।।९५।।
ततो गच्छेन्महातीर्थं विमलं यमुनाम्भसि ।
रुद्रमहालयाख्यं तत् स्नायात् पितॄँश्च तर्पयेत् ।।९६।।
गार्ग्यतीर्थं ततो गच्छेद् भद्रेश्वरं च सोमकम् ।
सोमेश्वरं प्रपूज्यैव यात्राफलं लभेज्जनः ।।९७।।
सरस्वत्याः संगमे च देवर्षिपितृमानवान् ।
सन्तर्प्य विधिवद् दत्वा कृष्णसायुज्यमाप्नुयात् ।।९८।।
घण्टाभरणकं गत्वा तथा गरुडकेशवे ।
धारालोपनकं गत्वा वैकुण्ठं खण्डवेलकम् ।।९९।।
मन्दाकिनीसंयमन चासिकुण्डं च गोपकम् ।
मुक्तिकेश्वरमेवाऽथ वैलक्षगरुडं स्थलम् ।। 1.346.१०० ।।
गत्वा सर्वत्र पितॄँश्च देवान्समर्प्य तर्पयेत् ।
प्रार्थयेन्मथुरायाश्च यात्रा मे सफलाऽस्त्विति ।। १० १।।
इत्येवं देवदेवेशं विज्ञाप्य क्षेत्रपं शिवम् ।
विश्रान्तिसंज्ञके स्नात्वा कृत्वा च पितृतर्पणम् ।। १०२।।
विश्रान्तिं च परिक्रम्य गुरुं नत्वा हरिं तथा ।
सुमंगलां ततो गच्छेद् यात्रासिद्धिं प्रसादयेत् ।। १० ३।।
यात्रेयं त्वत्प्रसादेन सफला मे भवत्विति ।
पिप्पलादेश्वरं गत्वा परिक्रमेदुपालिपेत् ।। १०४।।
एकं शिवं स्वस्य नाम्ना स्थापयेद् यात्रिकस्तदा ।
यात्राफलं प्रपद्येत पूजयेत्प्रणमेत् तथा ।। १ ०५।।
कर्कोटकं तथा नागं गच्छेद् देवीं च चण्डिकाम् ।
वज्राननं ततो ध्यात्वा ततः सूर्यं कुलेश्वरम् ।। १०६ ।।
दृष्ट्वा तत्रैव दानं च दत्वा यात्रां समापयेत् ।
प्रतिक्रमं कुलानां वै सूर्यलोके स्थितिर्भवेत् ।। १ ०७।।
प्रदक्षिणप्रकर्ता च विष्णुलोके महीयते ।
मम प्रदक्षिणकर्ता गोलोके च महीयते ।। १ ०८।।
ब्रह्मघ्नाश्च सुरापाश्च चौरा भग्नव्रताश्च ये ।
प्रसह्य गमका ये च धनक्षेत्रापहारकाः ।। १०९।।
हिंसका दुःखदातारो निन्दकाः शठधूर्तकाः ।
मथुराक्रमणं कृत्वा निष्पापास्ते भवन्ति वै ।। 1.346.११ ०।।
अन्यदेशागतो दूराद् यः करोति प्रदक्षिणम् ।
तस्य संदर्शनादन्ये पूता भवन्ति मानवाः ।। १ १ १।।
यमुनाया वारिकणं पीत्वा दूरनिवासिनः ।
सर्वपापविनिर्मुक्ताः प्रयान्ति परमां गतिम् ।। ११२।।
मथुरावासकर्तारो मधुरातीर्थसेविनः ।
मधुरावनद्रष्टारो मोक्षभाजो भवन्ति ते ।। ११३।।
मधुवनं तालवनं कुन्दवनं तृतीयकम् ।
काम्यकवनं च बहुवनं भद्रवनं तथा ।। १ १४।।
खादिरं च महावनं लोहार्गलवनं तथा ।
बिल्ववनं च भाण्डीरं वृन्दावनं च द्वादशम् ।। १ १५।।
एतानि ये प्रपश्यन्ति न ते याम्याभिगामिनः ।
वनयात्राप्रकर्तार इन्द्रलोकं व्रजन्ति वै ।। १ १६।।
मम भक्ताश्च ये यात्रां मदर्थं त्वाचरन्ति ते ।
नरा नार्यश्च गोलोके यान्ति मामेव शाश्वतम् ।। १ १७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
मथुराक्षेत्रमाहात्म्ये वत्सक्रीडनकभाण्डीरकवृन्दावनहरि-
विश्रामसूर्यतीर्थमलयार्जुनबहुलभाण्डह्रदार्ककुण्डविमलकूपवीर-स्थलकुशस्थलपुष्पस्थलगोपीश्वरसप्तसामुद्रिकवसुफाल्गुनक-
वृषभांजनकतालवनसंपीठकविमलोदककुण्डानां निर्देशः, मथुराप्रदक्षिणे विधिः, तत्रत्यतीर्थानां क्रमनिर्देशो विश्रान्तिघट्टारंभणसमाप्त्यादि, वनानि
चेत्यादिप्रदर्शननामा षट्चत्वारिंशदधिकत्रिशततमोऽध्यायः ।। ३४६।।