लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३४५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३४५
[[लेखकः :|]]
अध्यायः ३४६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! तथा तीर्थं त्वपरं कथयामि ते ।
नागतीर्थं परं तीर्थें नागो यस्माद् विवासितः ।। १ ।।
अत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।
अथ घण्टाभरणकं तीर्थं वै पावनं परम् ।। २ ।।
तत्र स्नातः सूर्यलोकं प्रयात्येव न संशयः ।
अथाऽन्यद् ब्रह्मतीर्थं वै विद्यते यमुनाजले ।। ३ ।।
तत्र स्नात्वा जलं पीत्वा ब्रह्मलोके महीयते ।
अथाऽन्यत् सोमतीर्थं वै पवित्रे यमुनांभसि ।। ४ ।।
चन्द्रमास्तत्र मां दृष्ट्वा पुपूज भावतस्तदा ।
तत्राभिषेकं कुर्वीत सोमलोके महीयते ।। ५ ।।
अथान्यत् परमं तीर्थं सरस्वतीप्रपातनम् ।
तत्र स्नातो नरो लक्ष्मि! ह्यवर्णोऽपि यतिर्भवेत् ।। ६ ।।
माथुरे मण्डले यम्यां त्रिरात्रोपोषितो जनः ।
स्नानमात्रेण व्रतकृन्मुच्यते ब्रह्महत्यया ।। ७ ।।
अथ दशाश्वमेधाख्यं तीर्थं यम्यां तु पावनम् ।
मथुरा पश्चिमे भागे तत्स्थलं चातिपावनम् ।। ८ ।।
तत्र ये स्नान्ति नियतास्तेषां स्वर्गो न दुर्लभः ।
ब्रह्मणा मानसं तीर्थं यम्यां वै निर्मितं पुरा ।। ९ ।।
ऋषिभिः पूजितं तत्र स्नात्वा स्वर्गं प्रयान्ति वै ।
अथ विघ्नराजतीर्थं पुण्यं पापहरं शुभम् ।। 1.345.१० ।।
अष्टम्यां च चतुर्दश्यां चतुर्थ्यां तु विशेषतः ।
तस्मिँस्तीर्थवरे स्नातं न पीडयति विघ्नराट् ।। ११ ।।
विद्यारंभेषु सर्वेषु यज्ञदानक्रियासु च ।
अविघ्नं कुरुते तस्य सततं पार्वतीसुतः ।। १२ ।।
अथाऽन्यत् कोटितीर्थं च स्नानात् कोटिगवां फलम् ।
प्राणत्यागे सोमलोकं मम लोकं च गच्छति ।। १३ ।।
अतः परं शिवक्षेत्रमर्धक्रोशं हि वर्तते ।
तत्र स्थितो हरो देवो रक्षति मथुरां सदा ।। १४।।
तत्र स्नात्वा जलं पीत्वा माथुरं लभते फलम् ।
अथात्र मुंचति प्राणान् मम लोकं स गच्छति ।। १५ ।।
अथान्यत् सुधनं तीर्थं तीर्थानामुत्तमं सदा ।
नित्यं वर्तामि तत्रैव लोकानां हितकाम्यया ।। १६ ।।
मां दृष्ट्वा मनुजाः स्नात्वा मुक्तिभाजो भवन्ति च ।
अयने विषुवे विष्णुपदीषु ग्रहणे रवेः ।। १ ७।।
स्नात्वाऽनन्तफलं लब्ध्वा मुच्यते सर्वपातकैः ।
राजसूयाऽश्वमेधोत्थफलमाप्नोति मानवः ।। १८ ।।
सुधने तीर्थके स्नातः प्रयागस्नानपुण्यभाक् ।
अत्राद्ये द्वापरयुगे यद्वृत्तं तच्छृणु प्रिये! ।। १९ ।।
नाम्ना तु सुधनो नाम मम भक्तः सदैव हि ।
धनधान्यसुतदारगोगृहादिसमृद्धिमान् ।। 1.345.२० ।।
शीलसन्तोषसत्पूजादयादानादिलक्षितः ।
पुत्रदारसमेतः स मद्भक्तो वर्तते स्म वै ।। २१ ।।
गच्छन्ति दिवसास्तस्य मासाः संवत्सरास्तथा ।
मम भक्त्यैव साधूनां सतीनां सेवया सदा ।। २२ ।।
करोति गृहकृत्यानि यथालब्धधनेन सः ।
मानकूटं तुलाकूटं न करोति कदाचन ।। २३ ।।
नित्यं त्रिकालं कुरुते मम पूजनमुत्तमम् ।
आवाहनेन दुग्धादिपञ्चामृतेन वारिणा ।। २४।।
स्नापनेन विभूषाभिर्विविधाम्बरसद्द्रवैः ।
पुष्पदीपैस्तथा धूपचन्दनामृतसत्फलैः ।। २५।।
नैवेद्यैरतिमिष्टान्नैर्जलैस्ताम्बूलचूर्णकैः ।
एवमारात्रिकैर्नित्यं स्तवनैः कीर्तनैस्तथा ।। २६ ।।
प्रदक्षिणैर्दण्डवद्भिः सदा पूजयति स्म माम् ।
एकादश्यामुपवासं कुरुते जागरं तथा । । २७ ।।
नित्यं यम्यां त्रिषवणं स्नानं करोति भावतः ।
कालिन्द्यास्तीरमासाद्य मम मूर्तेः समीपतः । । २८ ।।
रात्रिपादे नृत्यति स्म ततो याति निजं गृहम् ।
एवं नित्यं करोत्येव त्वेकादश्यां विशेषतः ।। २९ ।।
कार्तिकशुक्लैकादश्यां रात्रौ स्नात्वा स मन्दिरम् ।
प्रति जागरणार्थं स गतो यम्यास्तटं यदा । । 1.345.३० । ।
तावत्केनाऽप्यागतेन गृहीतो ब्रह्मरक्षसा ।
कृष्णवर्णमहाकायोर्ध्वरोमातिभयंकृता । । ३१ । ।
उक्तश्च राक्षसोऽस्म्यत्र भक्ष्यार्थं पर्यटामि ह ।
दूरारण्यनिवासोऽस्मि भक्षयिष्यामि मा शुचः । । ३२ । ।
बहुकालक्षुधितोऽस्मि तृप्तिं यास्यामि वै चिरम् ।
दृष्ट्वा श्रुत्वा तथा कृत्वा धैर्यं प्राह वणिक् तदा ।। ३३ ।।
सुधनोऽहं महाभोज्यं दास्ये ते मे प्रसीद् यत् ।
प्रतीक्षस्व क्षणं मेऽद्य दास्यामि तव पुष्कलम् ।। ३ ४। ।
बहुमिष्टान्नसंमिश्रं भक्षयिष्यसि वर्ष्म मे ।
देवकार्यं विधायैव दास्ये ते सर्वमेव तत् ।। ३५ । ।
जागरं देवदेवस्य करोमि हरिवासरे ।
व्रतं मे सार्वकालं वै यज्जागर्मि हरेः पुरः ।। ३६ । ।
तत्र जागरणं कृत्वा प्रभाते तव सन्निधौ ।
यत्र कथय तत्राऽहमागमष्यामि तं वशः ।। ३७ ।।
कृत जागरणं मां त्वं खादिष्यसि यथासुखम् ।
विष्णुतुष्ट्यैर्व्रतं कार्यं तन्मे कर्तुं प्रदेहि चेत् ।। ३८ । ।
सर्वकामप्रदं पुण्यं मोक्षदं व्रतमस्ति यत् ।
मा कुरु व्रतभंगं मे कृपां कुरु शुभं भवेत् ।। ३९ । ।
सुधनस्य वचः श्रुत्वा क्षुधितो ब्रह्मराक्षसः ।
सुधनं प्राह मिथ्या त्वं प्रभाषसे वणिग् यतः ।।1.345.४० । ।
नहि मृत्युमुखान्मुक्तः पुनर्मृत्युमुपैति वै ।
मम पाशाद्विमुक्तस्त्वं पुनः कथं समेष्यसि ।। ४१ । ।
राक्षसस्य वचः श्रुत्वा वणिग् भक्तोत्तमोऽब्रवीत् ।
जगत्सर्वं सत्यमूलं सत्ये सर्वं प्रतिष्ठितम् ।।४२ । ।
सन्मूलाश्च प्रजाः सर्वाः क्षुधा तेऽस्ति सती यदि ।
तदाऽहं ते सत्यभक्ष्यः क्षुल्लोपे भक्ष्यता कथम् ।।४ ३ ।।।
क्षुत्पिपासे ब्रह्मकार्ये ब्रह्मणा निर्मितं तु सत् ।
तदर्थे चेन्निर्मितोऽस्मि सिद्धिस्ते स्यान्न चान्यथा ।।४४।।
यद्यहं च वणिक् पूर्वं कर्मणा नहि दूषितः ।
अन्तरात्मा हृदये मे वसत्येव यथा तव ।।४५ ।।
भक्तोऽस्मि सत्यधर्मोऽस्मि सत्येन प्रवदामि च ।
शृणु मत्समयं रक्षो! येनाऽहं पुनरागमम् । । ४६। ।
कृत्वा जागरणं रात्रौ नृत्यं कृत्वा हरेः पुरः ।
पुनरेष्याम्यहं रक्षो! नाऽसत्यं मयि वर्तते ।।४७।।
सत्येनोपार्ज्यते ब्रह्म धर्मः सत्येन रक्ष्यते ।
सत्येन दीयते कन्या सत्यवाचो हि भूसुराः ।।४८ ।।
नृपाः सत्येन चोत्तीर्णाः सत्येनं ध्रियते क्षितिः ।
स्वर्गमोक्षौ प्रलभ्येते सत्यव्रतेन राक्षस ।। ८९ ।।
सत्येन सूर्यस्तपति चन्द्रः सत्येन वर्धते ।
कालः सत्येन नयति वृष्टिः सत्येन जायते । । 1.345.५० ।।
अहं सत्येन जीवामि नाऽसत्यं कृतवान् क्वचित् ।
तत्सत्यं मम नश्येद्वै यदि नायामि वै पुनः । ।५ १ ।।
प्रसह्य कामवेगेन नारीं भुंक्ते तु यो जनः ।
तस्य पापेन लिप्येऽहं यदि नायामि ते पुरः ।। ५२ ।।
भूगोदानादि कृत्वा यश्चापहरति तत्पुनः ।
तेन पापेन लिप्येऽहं नागच्छेयं पुनर्यदि ।।५ ३ ।।
नारीं नरं च वा स्वार्थमात्रं भुक्त्वा ततस्त्यजेत्। ।
परार्थं न च कुर्वीत तत्पापं नाऽऽगमे मम ।।५ ४।।
सतीं पतिव्रतां भार्यां त्यजेन्निरागसां तु यः ।
तेन पापेन लिप्येऽहं पुनस्त्वनागमे मम ।।।५५ ।।
पंक्तिभेदं तु यः कुर्यादेकपंक्त्यशिनां पुरः ।
तस्य पापेन लिप्येऽहं नाऽऽगन्ता यदि ते पुरः ।। ५६ ।।
व्रतभंगप्रकर्तुर्यत् तत्पापं नाऽगमे तु मे ।
परहिंसकपापं मे नाऽऽगन्ता यदि ते पुरः ।।५७।।
द्विजत्यागिसतीसाधुदेवानां निन्दकस्य यत् ।
पापं तन्मे भवेद् रक्षो! यदि मे नाऽऽगमः पुनः ।।५ ८ ।।
गुरुमित्रसुहृद्द्रोहकृतो यत्पापमेव तत् ।
नागच्छेयं यदि तेऽग्रे सत्यं ब्रवीमि राक्षस! ।। ५९ ।।
तीर्थे कृतानि पापानि मे स्युरनागमे पुनः ।
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते शठे ।। 1.345.६० ।।
विश्वासघातके चाततायिनि बालघातके ।
या गतिस्तां प्रपद्येहं यदि मे नागमः पुनः ।। ६१ ।।
निरागसां तु प्राणिनां रोधने मारणे तथा ।
यत्पापं तद् भवेन्मेऽत्र यदि मे नागमः पुनः ।। ६२ ।
एतज्जन्मोत्तरं पापं रक्षोजन्म प्रयाम्यहम् ।
यद्यहं सत्यमुत्सृज्य नागच्छेयं प्रतारकः । । ६३ । ।
इतिवाक्यानि वणिजः श्रुत्वा तुष्टः स राक्षसः ।
विश्वासयति चापन्नो गच्छेत्यायाहि चाह तम् ।। ६४।।
वणिक् शीघ्रं गृहं मे तु समागत्य पुपूज माम ।
ममाऽग्रे नर्तनं कृत्वा चक्रे प्रजागरं मुदा । । ६५ । ।
प्रभाते स पुनर्नमोनारायणाय वै मुहुः ।
वदन् कुर्वन् मुहुर्दण्डवद् ययौ यमुनातटे । । ६६ । ।
कालिन्दीस्नानकृद् भक्तो रक्षोमार्गं प्रयाति ह ।
अहं दयापरो भूत्वा मार्गमाबध्य संस्थितः । । ६७ । ।
दिव्यरूपधरं कृष्णनारायणं पुमुत्तमम्
विलोक्य सुधनो भक्तो मां प्रोवाच चतुर्भुजम् ।। ६८ ।।
ओं नमस्ते भगवते कृष्णनारायणाय च ।
भक्तमोक्षप्रदायाऽत्र दिव्यदर्शनदाय च । । ६९ ।।
स च पृष्टो मया लक्ष्मि! क्व वणिक् प्रस्थितो द्रुतम् ।
प्रत्युवाच स सुधनो गच्छामि राक्षसान्तिकम् । ।1.345.७ ० । ।
मया निवारितः श्रुत्वा न गन्तव्यं न वै न वै ।
जीवता त्वर्ज्यते धर्मो मृते किं मोक्षसाधनम् । ।७ १ । ।
तथापि स न वै श्रुत्वा नत्वा मां राक्षसान्तिकम् ।
गत्वोवाच यथेष्टं भो रक्षो! भक्षय मा चिरम् । । ७२ ।।
यथान्यायं विधानेन यथा वा तव रोचते ।
सत्यं मया सदा रक्ष्यं भुंक्ष्व राक्षस! मा चिरम् । ।७ ३ । ।
राक्षसश्चैतदाश्चर्यं समाकलय्य तं प्रति ।
तुष्टो भूत्वो समुवाच वणिक् त्वं जीतवानसि । ।७४।।
त्वया सत्यव्रतो धर्मः पालितस्तेन तोषणम् ।
प्राप्तोऽस्मि मे क्षुधा नष्टा तृप्तिर्जाता च शाश्वती । । ७५ । ।
अहो सत्यव्रतस्यात्र कथं द्रोहं करोम्यहम् ।
किन्तु यावज्जागरस्य मम पुण्यं प्रयच्छ वै । ।७६ ।।
सत्यपुण्यप्रभावेन यथाऽहं मुक्तिमाप्नुयाम् ।
सुधनस्तद्वचः श्रुत्वा तदा प्रोवाच राक्षसम् । । ७७ ।।
जानासि राक्षस! कीदृक् पुण्यं स्याज्जागरस्य वै ।
घटिकाजाग्रतेः पुण्यं माहेन्द्रपददायकम् । । ७८ । ।
घटिकाद्वय जाग्रतोः वेधसः पदमुत्तमम् ।
अर्धरात्रिजाग्रतो वै वैराजपदमुत्तमम् । । ७९ । ।
ऊनरात्रिजाग्रतो वै वैकुण्ठपदमेव ह ।
आप्रातर्जाग्रतो मुक्तिर्ब्रह्मलोकप्रदा भवेत् ।। 1.345.८० । ।
घटिकार्धं जाग्रतस्तु साम्राज्यं जायते खलु ।
जाग्रति नृत्यतस्त्वस्य गोलोको जायते ध्रुवम् । ।८ १ ।।
तस्मान्नहं प्रदास्यामि फलं सम्पूर्णजाग्रतेः ।
अर्धे देहि तदर्धं वा तदर्धार्धं प्रदेहि मे ।।८२।।
मा लोभं कुरु भक्तेन्द्र! मोक्षं कुरु ममापि भोः ।
इत्यर्थितोऽपि सुधनो मोक्षलोभी ददौ न वै ।।८३।।
पुनश्च प्रार्थयामास सुधनं ब्रह्मराक्षसः ।
एकनृत्यस्य मे पुण्यं देहि त्वं वणिगुत्तम! ।।८४।
सुधनस्तं समपृच्छद् वद मे तव पूर्वजम् ।
वृत्तान्तं सकलं पश्चाद् दास्ये त्वेकनृतेः फलम् ।।८५।।
किं त्वं मां न विजानासि वणिजं प्राह राक्षसः ।
तव गृहसमीपेऽहमग्निदत्तस्तु भूसुरः ।।८६।।
तव मित्रं समासं स एवाऽहं निजकर्मभिः ।
ब्राह्मणश्छान्दसश्चापि राक्षसत्वमुपागतः ।।८७।।
मयाऽऽरब्धं सुभवनं द्विभौमं तव भौमवत् ।
तदर्थमिष्टिका रात्रौ परकीयाः सदाऽहरम् ।।८८।।
पापमकरवं चौर्यं गृहं पूर्णं च नाऽभवत् ।
ज्वरेण पीडितो मध्ये हर्म्यस्य वासनान्वितः ।।८९।।
चौर्यदोषेण विप्रोऽपि ब्रह्मराक्षसतां गतः ।
सोऽहं मित्रं वणिग्वर्य तवास्मीति विभाव्य वै ।।1.345.९० ।।
मित्रे प्राप्ते दयां कृत्वा ह्युपकारं कुरुष्व मे ।
एकनृत्यस्य पुण्यं मे देहि येन गतिर्मम ।।९ १ ।।
मोक्षमयी भवेद् भक्त! मुहुश्चाभ्यर्थयाम्यहम् ।
श्रुत्वा कृपार्द्रहृदयो वणिग् राक्षसमाह वै ।।९२।।
साधु राक्षस! दत्तं ते त्वेकनृत्यफलं मया ।
इत्युच्चार्य जलं यावद् ददाति रक्षसः करे ।।९३।।
तावद्रक्षःशरीरं वै पतितं भूतले तदा ।
आत्मा चतुर्भुजो भूत्वा पार्षदः श्रीहरेर्यथा ।।९४।।
तथा भूत्वा द्व्यष्टवर्षो व्यराजत वणिक्पुरः ।
तं नेतुमागतो विष्णुर्दिव्यपार्षदशोभितः ।।९५।।
सुधनस्तं हरिं दृष्ट्वा पादयोर्धरणिं गतः ।
उवाच स्वप्रभुं तत्र भगवँस्तारितौ त्वया ।।९६।।
राक्षसस्य नृत्यलेशाद् मुक्तिदोऽस्ति भवान् यथा ।
ममापि च तथा मुक्तिप्रदाता भव माधव ।।९७।।
तदोवाच मधुरं तं देवदेवो जनार्दनः ।
एहि त्वमपि भक्तेन्द्र! विप्रेन्द्रोऽपि समेतु मे ।।९८।।
सुधनाऽऽशु कुटुम्बं ते समेतु मम वाहने ।
विमानवरमारुह्य मम लोकं व्रजन्तु वै ।।९९।।
इत्युक्त्वा श्रीकृष्णनारायणः सर्वान् विमानके ।
आरोहयित्वा सुययौ वैकुण्ठं धाम शाश्वतम् ।। 1.345.१०० ।।
यत्राश्चर्यमभूत् त्वैतत् तीर्थं सुधनसंज्ञितम् ।
कार्तिके धवले तत्र द्वादश्यां स्नानकारिणः ।। १०१ ।।
राजसूयफलं स्याच्च दानात्स्वर्गं फलं भवेत् ।
पूर्णिमायां वृषोत्सर्गकर्ता कुलानि तारयेत् ।। १ ०२।।
श्राद्धकर्ता पूर्वजाँश्च तारयेदत्र तीर्थके ।
इति ते कथितं लक्ष्मि! सुधनस्य प्रमोक्षणम् ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुराक्षेत्रमाहात्म्ये नागतीर्थघण्टाभरणकतीर्थसोमतीर्थ-
सरस्वतीदशाश्वमेधतीर्थराजविघ्नराजकोटिशिवक्षेत्र-सुधनतीर्थानां सुधनप्रदत्तनृत्यपुण्येन ब्रह्मराक्षसस्य मुक्तिश्चेत्यादेश्च निरूपणनामा पञ्चचत्वारिंश-
दधिकत्रिशततमोऽध्यायः ।। ३४५।।