लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३४४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३४४
[[लेखकः :|]]
अध्यायः ३४५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! मथुरायां शिवकुण्डं परं महत् ।
तीर्थं शिवकृतं तत्र चिरं तेपे हरः स्वयम् । । १ ।।
तत्र कृष्णः समागत्य शिवं प्राह च माधवः ।
कथं वै तप्यते शंभो! तपः परमदारुणम् । । २ । ।
शंभुः प्राह महाराज! दैत्यैरत्यर्दिताः सुराः ।
असुराणां विनाशायेहाऽवतरितुमर्हसि ।। ३ । ।
तथास्त्विति हरिः प्राह यम्यां स्नात्वा हरस्ततः ।
समाप्य तु तपस्तस्माद् ययौ कैलासमेव सः ।। ४ ।।
कृष्णनारायणश्चापि ययौ गोलोकमेव ह ।
आद्ये द्वापरसंयोगे जातोऽसौ कृष्ण एव तु ।। ५ ।।
शिवकुण्डमिदं तीर्थं कृष्णागमनकारकम् ।
भुक्तिमुक्तिप्रदं यत्र स्नात्वा वैकुण्ठमाप्यते ।। ६ ।।
शिवकुण्डोत्तरे तीर्थं संयमनं सुपुण्यदम् ।
स्नानेन जायते भाग्यं सौभाग्यं रूपवत्त्वकम् ।। ७ ।।
स्वर्गं तथा परो मोक्षः प्राप्येते नात्र संशयः ।
संयमनो महातीर्थे यद्यद् वृत्तं पुरातनम् ।। ८ ।।
शृणु लक्ष्मि! महाश्चर्यकरं पापप्रणाशनम् ।
नैमिषारण्यवास्तव्यो निषादो तुष्टमानसः ।। ९ ।।
पापाचारः समायातः कदाचिन्मथुरां प्रति ।
नित्यं स्नाति यमुनायां बाहुभ्यां तरणेन च ।। 1.344.१० ।।
प्रति तटं समायाति याति चापि पुनस्तथा ।
एवं स्नाते तरत्यपि कृष्णचतुर्दशीतिथौ ।। ११ ।।
तर्तुकामो निषादः स जले पपात यामुने ।
ततार यमुनां सोऽथ तीर्थं संयमनं प्रति ।। १२ ।।
यावदायात्यभितीरं प्राप्य संयमनं शुभे ।
ममज्जाऽसौ श्रमितो वै निमग्नो जलमापपौ ।। १३ ।।
अशक्तः स महापापः सद्यः प्राणैर्व्ययुज्यत ।
तीर्थप्रभावतश्चास्य ध्वस्तं पापकरण्डकम् ।। १४।।
पुण्यं जातं महत्तस्य तेन जातो भुवः पतिः ।
सौराष्ट्रविषये देशे सौराष्ट्राधिपतिर्नृपः ।। १५ ।।
भद्रापत्तनसाम्राज्यं चकार स धनुर्धरः ।
नाम्ना यक्ष्मधनुर्नाम क्षत्रियो वसुधाधिपः ।। १६ ।।
पालयामास वसुधां क्षत्रधर्मं समाश्रितः ।
रैवताद्रिनिवासानां सिद्धानां सेवको ह्ययम् ।। १७।।
नित्यं यानेन संयाति दर्शनार्थं गिरौ मुदा ।
पूर्वस्यामश्वपट्टस्य सरसश्च तटे शुभे ।। १८ ।।
पत्नीव्रताश्रमे गत्वा तं ददर्श महामुनिम् ।
ददर्श कंभरालक्ष्मीं गोपालकृष्णमीश्वरम् ।। १९।।
कृष्णनारायणं चापि ददर्श नित्यमेव सः ।
तत्प्रतापेन राजाऽसौ कृष्णभक्तश्च वैष्णवः ।। 1.344.२० ।।
जातो महान् बली यस्य रक्षणे कण्ठमालिका ।
वर्मात्मिका प्रदत्ता या नृपं रक्षति सर्वथा ।। २१ ।।
तया युद्धेऽपि नृपती रक्षितो विजयी सदा ।
इति हेतोर्गौर्जराणां मरूणां राज्यमाप्तवान् ।।२२।।


वैहायसेन यानेन काशीयात्रार्थमेव सः ।
ययौ काशीनृपतिना विदित्वा वैष्णव परम् ।।२३।।
विजयिनं कीर्तिमन्तं सत्कृत्याऽस्मै निजा सुता ।
प्रदत्ता पीवरीनाम्नी नीत्वा तां स ययौ पुरम् ।।२४।।
भद्रापत्तनमागम्य तेनोढा पीवरी शुभा ।
पत्नीशतानां मुख्यानां प्रवरा सा कृता प्रिया ।।२५।।
तां चैव रमयामास सूद्यानेषु वनेषु च ।
प्रासादेषु च रम्येषु नदीनां पुलिनेषु च ।।२६।।
प्रजाः पालयतस्तस्य दानानि ददतस्तथा ।
कालो गच्छति राजाऽसौ पुत्रपौत्रयुतोऽभवत् ।।२७।।
भोगासक्तस्य च ययुर्वर्षाणि त्वयुतानि वै ।
पुत्राः पुत्र्यः पञ्चशतान्यस्याऽभवन् सुशोभनाः ।।।२८।।
कन्या विवाहिता सर्वा विधिना तेन सर्वथा ।
ज्येष्ठेऽर्पितं महाराज्यं मध्यमेषु पुराणि वै ।।२९।।
कनिष्ठेषु क्षितिर्योग्या जीविकार्थाऽर्पिताऽथ च ।
एवं स्वयं सुखं प्राप्तो निवृत्तो राज्यकार्यतः ।। 1.344.३० ।।
राज्ञीनां जीविकाक्लृप्तिं चक्रेऽथ शयने क्वचित् ।
पीवर्या सह सुप्तः सन् स्वप्ने संवदते ज्ञवत् ।।३ १।।
हाहा ओहोहो गच्छावः किमत्र जीवनेन वै ।
स्मृत्वा तां मथुरां भूमिं स्मृत्वा तीर्थं तु संयमम् ।।३२।।
ततः पीवरी प्राह किमेवं भाषसे नृप! ।
प्रियाया वचनं श्रुत्वा राजा प्राह प्रियां प्रति ।।३३।।
मत्तः सुप्तः प्रमत्तश्च ह्यसम्बद्धं प्रभाषते ।
निद्राधीनस्य वचनं नाऽवधार्यं त्वया प्रिये! ।।३४।।
पीवर्युवाच मे नाथ श्रुतं पुनः पुनर्मया ।
बहुवारं यतस्तद्वै दृढसंस्कारजं भवेत्। ।।३५।।
जातिस्मरो महाराज! मे त्वं विभासि तद्वद ।
प्राग्भवीयं त्वया राजन् प्रोच्यते वद मेऽनघ ।। ३६ ।।
कथयस्व ममाऽद्य त्वं यद्यहं वल्लभा तव ।
प्राणाँस्त्यक्ष्याम्यह राजन् गोपायिष्यसि मे यदि ।। ३७।।
प्रियाया वचनं श्रुत्वा प्रत्युवाच नराधिपः ।
अवश्यं यदि वक्तव्यं गच्छामो मथुरां पुरीम् ।।३८।।
प्रकाशे त्वावयोर्मृत्युर्भविष्यति न संशयः ।
तत्र गत्वा प्राग्भवीयं कथयिष्ये ह्युदन्तकम् ।।३९।।।
ददस्व विपुलं दानं ब्राह्मणेभ्यः सुलोचने ।
पुत्रान् संस्थाप्य दौहित्रान् स्वे स्वे स्थाने निभाल्य च ।।1.344.४० ।।
ग्रामान् कोशांश्च रत्नानि पुत्रान् वीक्ष्य वितीर्य च ।
राजा सम्मानयामास जनान्पुरनिवासिनः ।।४१।।
पितृपैतामहराज्यपालनार्थं यथाक्रमम् ।
पुत्रानावेद्य च तथा कुटुम्बिबान्धवान् प्रियाः ।।४२।।
कुशलार्थं बोधयित्वा दारान् नियुज्य रक्षणे ।
अथ प्राह सुहृन्मित्रभृत्यदासीप्रदासकान् ।।४३ ।।
राज्यं सम्पादितं यद्वै बन्धनं तत्तु सर्वथा ।
ममाऽऽत्ममोक्षणार्थं वै गच्छामि मथुरां पुरीम् ।।४४।।
सन्तोषाच्च तथा त्यागान्नास्त्यन्यत् परमं सुखम् ।
नास्ति विद्यासमं चक्षुर्नास्ति चक्षुःसमं बलम् ।।४५।।
नास्ति रागसमं दुःखं नास्ति त्यागात्परं सुखम् ।
यः कामान् कुरुते सर्वान् यश्चैतान् सर्वथा त्यजेत् ।।४६।।
प्रायेण सर्वकामानां परित्यागो विशिष्यते ।
तस्मान्मया प्रगन्तव्यं तीर्थं तु मथुरां पुरीम् ।।४७।।
इत्यावेद्य जनान्सर्वान्पुत्रान्नियुज्य रक्षणे ।
यथापेक्षबलोपेतः सम्प्राप्तो मथुरां पुरीम् ।।४८।।
तेन दृष्टा पुरी रम्या पीवर्या चावलोकिता ।
तीर्थैर्मुक्तिप्रदैर्युक्ता पुण्या पापहरा शुभा ।।४९।।
रम्यं वृन्दावनं नाम विष्णुस्थानमनुत्तमम् ।
यद् दृष्ट्वा मनुजो लक्ष्मि! कृतकृत्यो हि जायते ।।1.344.५० ।।
श्रावणशुक्लैकादश्यां यमीस्नातः प्रमुच्यते ।
तथा सौम्यं मधुवनं मम स्थानमनुत्तमम् ।।५१।।
द्वितीयं तद्वनं दृष्ट्वा कृतकृत्यो हि जायते ।
वनं कुन्दवनं नाम तृतीयं चैत्रमुत्तमम् ।।५२।।
भाद्रकृष्णैकादशिकातिथौ स्नातः प्रमुच्यते ।
चतुर्थं काम्यकवनं मम धामप्रदं शुभम् ।।।५३।।
विमलस्य च कुण्डे वै स्नातः पापात्प्रमुच्यते ।
यस्तत्र मुंचति प्राणान् मम लोकं स गच्छति ।।५४।।
पञ्चमं बकुलवनं मम विहारभूस्थलम् ।
तत्र गत्वा तथा स्नात्वा वह्निलोकं प्रगच्छति ।।५५।।
यमुनायाः परे पारे षष्ठं भद्रवनं मम ।
तत्र गत्वा तथा स्नात्वा नागलोकं प्रगच्छति ।।५६ ।।
सप्तमं मे वनं तत्र खादिरं यज्ञसदृशम् ।
पवित्रं तु नरो दृष्ट्वा मम लोकगतो भवेत् ।।५७।।
महावनं चाष्टमं मे सर्ववृक्षसमन्वितम् ।
यत्र गत्वा तु मनुज इन्द्रलोके महीयते ।।५८।।
नवमं तु वनं लोहजंघवनं वनोत्तमम् ।
तत्र यातुर्जनस्यैतन्महापातकनाशकम् ।।५९।।
वनं बिल्ववनं नाम दशमं देवपूजितम् ।
तत्र गत्वा तु मनुजो ब्रह्मलोके महीयते ।।1.344.६०।।
एकादशं तु भाण्डीरं योगदं योगिनां हि तत् ।
यत्र वै वर्तते वृक्षो भाण्डीरवटसंज्ञकः ।।६१ ।।
यत्र वै राधया साकं विवाहो मे प्रजायते ।
तस्य दर्शनमात्रेण जनो गर्भं न गच्छति ।।६२।।
राधाकृष्णं तत्र दृष्ट्वा पुनर्जन्म न विद्यते ।
तुलसीवनमेवात्र वनं द्वादशकं प्रिये ।।६३ ।।
कृष्णत्वङ्मयवृक्षाणां मोक्षदं मे विवाहभूः ।
वृन्दावनं हरितानां वृक्षाणां वनमेव मे ।।६४।।
तत्र गत्वा चावलुण्ठ्य पत्रं त्वत्त्वा दलं तथा ।
दृष्ट्वा वृन्दं तुलसीं च स्मृत्वा मां यमुनाजले ।।६५।।
स्नात्वा च मुक्तिमापनो गोलोके मे महीयते ।
वृन्दां तुलसीं गोविन्दं ये पश्यन्ति जनाः प्रिये ।।६ ६।।
न ते यमपुरं यान्ति यान्ति गोलोकमेव मे ।
स्वर्गं सकामा गच्छन्ति ततो वै मे पदं परम् ।।६७।।
एतादृशं महत् तीर्थं मथुरामभिगम्य तौ ।
मुदमवापतुस्तीर्थविधिं चक्रतुरादरात् ।।६८ ।।
पीवरी भोजनं कृत्वा कारयित्वा पतिं ततः ।
पप्रच्छ स्वाप्नवृत्तान्तं यद्गुह्यं पूर्वभाषितम् ।।६९।।।
यदुक्तं नृपराजेन वक्ष्यामि मथुरां प्रति ।
तन्मे वद महाराज! यद्गोप्यं पूर्वभाषितम् ।।1.344.७ ० ।।
राजाऽप्याह स्वकां पत्नीं यथाप्राग्भवजां कथाम् ।
शृणु पत्नि! निषादोऽहं नैमिषारण्यवासकृत् ।।७ १ ।।
अत्रागत्य मृतः संयमने तीर्थे जलान्तरे ।
तेन पुण्येन सौराष्ट्रे राजा जातः प्रतापवान् ।।७२।।
पन्नीव्रताख्यकृष्णस्य प्रतापेनाऽऽमरुक्षितेः ।
साम्राज्यं लब्धमेवापि त्वं लब्धा काशीराजतः ।।७ ३ ।।
जातिस्मरः सदा तीर्थं स्मरामि शयने तव ।
कदाचिन्निद्रया व्याप्तः प्रवदामि तु तत् खलु ।।७४ ।।
हाहा अहोहो गच्छावः किमत्र जीवनेन वै ।
इत्येतन्मे प्राग्भवीयं वृत्तं कथितमंगने! ।।७५।।
श्रुत्वा सापि स्वकं प्राह वृत्तं जातिस्मरा नृपी ।
अहं तु पीवरी नाम गंगातीरनिवासिनी ।।७६।।
आगतेमां पुरीं द्रष्टुं कार्तिकद्वादशीतिथौ ।
नावमारुह्य यान्तीह पतिता यमुनाजले ।।७७।।
सद्यः प्राणैर्वियुक्ता च काशीराजसुताऽभवम् ।
त्वया विवाहिता राजन्न च मां साऽजहात् स्मृतिः ।।७८ ।।
एतत्तीर्थप्रभावेण राजपत्नी तवाऽभवम् ।
धारापतनके तीर्थे मम मृत्युरजायत ।।७९ ।।
पुनर्दृष्टं मोक्षतीर्थं मथुरायां प्रपुण्यतः ।
आवयोरायुषोरन्तः समायातोऽस्ति भूपते ।।1.344.८ ० ।।
अद्यैव बहुदानानि देयानि स्वकरेण मे ।
इत्युक्त्वा यमुनातीर्थे स्नात्वा दानानि सा ददौ ।।८ १ ।।
राजापि कृतवान् पुण्यं दानं विप्रादिभोजनम् ।
गोदानं स्वर्णदानं च तिलदानं धनार्पणम् ।।८ २।।
भूदानं विप्रकन्यानां दानान्यपि च वै मुदा ।
यज्ञोपवीतदानानि वस्त्रान्नदानमित्यपि ।।८ ३ ।।
सर्वं कृत्वा ततो राजा राज्ञी चोभौ सह स्थितौ ।
यमुनायास्तटे वै चायाता गोलोकपार्षदाः ।।८ ४।।
विमानेन सहितास्ते पीवरीं यक्ष्मराजकम् ।
चतुर्भुजौ दिव्यदेहौ कृत्वा निन्युर्हरेः पदम् ।।८५ ।।
एवं तौ मथुरां प्राप्य स्नात्वा यामुनतीर्थके ।
मां पश्यातौ नियमतस्तत्रैव निधनं गतौ ।। ८६ ।।
सर्वभावं विहायैव गतौ मम सलोकताम् ।
एतत्ते कथितं लक्ष्मि! यदाश्चर्यमभून्महत् ।।८७।।
त्यक्त्वा तनुं जनस्तीर्थे धारापातनसंज्ञके ।
नाकलोकं च गोलोकमवाप्नोति न सशयः ।।८८ ।।
यमुनेश्वरमासाद्य त्यक्त्वा जीवितमात्मनः ।
विष्णुलोकमवाप्नोति दिव्यमूर्तिश्चतुर्भुजः ।।८ ९।।
इति लक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुराक्षेत्रमाहात्म्ये शिवकुण्डतीर्थं संयमनतीर्थं मृतस्य निषादस्य सौराष्ट्रराज्यप्राप्तिः, काशीराजपुत्र्या विवाहः, तयोर्जातिस्मरयोर्मथुरायां मरणं, यमुनेश्वरमाहात्म्यमित्यादिनिरूपणनामा चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः ।। ३४४।।