लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३४३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३४३
[[लेखकः :|]]
अध्यायः ३४४ →

श्रीलक्ष्मीरुवाच-
आनादिज्ञानमार्तण्ड! सर्वसाक्षिन्! सनातन! ।
सर्वलोकविधाताऽसि त्वमेव तीर्थकृत्सदा ।। १ ।।
तव योगाच्चेतनानि जडानि भूजलानि च ।
देहिनस्तारयन्त्येव त्वमेवं तीर्थमुत्तमम् ।। २ ।।
जीवानां देहलाभेऽत्र मोक्षलाभो महान्मतः ।
विना मोक्षं कृतलाभास्ते सर्वे निधनाऽन्वयाः ।। ३ ।।
वृन्दावनं माथुरं च शालग्रामं सनातनम् ।
तुलसीक्षेत्रपत्याद्यं त्वया प्रोक्तं पुरातनम् ।। ४ ।।
त्वया तत्र कतिप्रादुर्भावा लब्धा वद प्रभो! ।
लप्स्यन्ते चापि च कति? क्व वा भूमौ? वद प्रभो! ।। ५ ।।
श्रीनारायण उवाच -
अरे लक्ष्मि! ह्यसंख्याताः प्रादुर्भावा भवन्ति मे ।
मानवेषु च देवेषु तिर्यक्षु पशुपक्षिषु ।। ६ ।।
जलजेषु वनजेषु मुनिसाधुजनेषु च ।
ऋषिषु सत्सु सतीषु साध्वीषु सन्ति भूरिशः ।। ७ ।।
प्रतिचतुर्युगं कृष्णो भवामि भुवि पद्मजे ।
वृन्दावनेषु देशेषु माथुरेषु यमीतटे ।। ८ ।।
विचरामि विहरामि दैत्यानामन्तकृद्यथा ।
नारायणाः शतं पञ्चशतं च जलशायिनः ।। ९ ।।
त्रिंशत्कमठरूपाणि मत्स्यरूपाणि विंशतिः ।
गोपालाश्च शतं चाष्टं बुद्धाः सन्ति सहस्रशः ।। 1.343.१० ।।
त्रिंशत्परशुरामाश्च रामा एकोत्तरं शतम् ।
अन्येऽपि कार्यवशगा अवतारा मम प्रिये! ।। ११ ।।
आकस्मिकास्त्वया सार्धं केवला वा भवन्ति वै ।
ब्रह्माण्डानि ह्यनेकानि ह्यनेका दैत्यदानवाः ।। १२।।
सुराश्च तापसाश्चापि ह्यसंख्याः कामनायुताः ।
आर्तानामार्तिनाशायाऽर्थिनामर्थप्रदाप्तये ।। १ ३।।
सकामानां कामपूर्त्यै संभवामि स्थले स्थले ।
क्वचिदंशः क्वचित्पूर्णः क्वचित् त्वावेशरूपतः ।। १४।।
कलया वा क्वचित् क्वापि क्वचिद् विभूतिरूपतः ।
साधुरूपस्तथा राजरूपः सद्गुरुरूपतः ।। १५।।
व्यासरूपश्च विज्ञानिस्वरूपः संभवामि वै ।
विष्णुरूपोऽस्म्यहमेको मुक्तिमण्डलमध्यगः ।। १६ ।।
वृन्दावने मथुरायां बहुवारं जनिं गतः ।
तीर्थानां तीर्थमूर्धन्यं मथुराक्षेत्रमस्ति यत् ।। १७।।
युगे युगे यमीतीरे संभवामि पुनः पुनः ।
कृष्णरूपो दासदासीकोट्यब्जेच्छाप्रपूरकः ।। १८ ।।
अनन्तसृष्टिनारीणां कामेच्छाभक्तिकर्षितः ।
राजरूपः कोटिकामगर्वहा संभवाम्यहम् ।। १९।।
वसुः पिता च मे माता देवी भ्राता सुकर्षणः ।
अन्ये सन्तु न वा सन्तु ह्येभिः सह वसाम्यहम् ।।1.343.२०।।
प्रथमे तु द्वापरेऽहं संकर्षणेन संयुतः ।
युगलो वसुदेव्योश्च प्रादुर्भूतोऽभवं प्रिये ।।२१।।
तदा तत्राऽसुरा ह्यासन् कालनेमिप्रवंशजाः ।
तानहं हतवान् सर्वान् कृष्णः पृथ्वीसुतापतिः ।।२२।।
रत्वं तदाऽऽसीः कमलाख्या मरुत्पुत्री मम प्रिया ।
प्रथमे द्वापरे चाहं कमलापतिकृष्णकः ।।।२३ ।।
कालनैमेयवंश्यानां नाशको मथुरापुरे ।
तदारभ्य मथुरायाः क्षेत्रं परमपावनम् ।।२४।।
मम पादतलैः शुद्ध सर्वदा वर्तते प्रिये! ।
तदुत्तरं मम प्रादुर्भावाः सन्ति सहस्रशः ।।।२५।
तत्राऽन्यत्र च कमले! तदन्तं गणयामि न ।
भविष्यन्त्यवताराश्च तान् प्रगास्यन्ति मानवाः ।।२६।।
व्यासाश्च तान् यथायोग्यं वर्णयिष्यन्ति मुक्तये ।
शृणु प्रिये! पवित्रं तन्माथुरं क्षेत्रमुत्तमम् ।।२७।।
न स्वर्गे न च पाताले तीर्थे वै मथुरासमम् ।
सा रम्या सर्वथा दिव्या जन्मभूमिः सदा मम ।।२८।।
यत्र वासेन मनुजास्तथाऽन्यप्राणिनः प्रिये । ।
स्वर्गे च मोक्षणं यान्ति गोलोकमिव मे स्थलम् ।।२९।।।
प्रयागे माघपूर्णायाः फलं नित्यं यमीजले ।
काश्यां वर्षसहस्रस्य फलं त्वत्र दिनेन वै ।।1.343.३०।।
पुष्करे कार्तिकीपूर्णाफलं त्वत्र क्षणेन वै ।
मायामूढा मथुरां विहायाऽन्यत्र भ्रमान्त हि ।। ३१ । ।
मथुराश्रवणाच्चापि लीयन्ते पापकाटयः ।
पृथिव्यां यानि तीर्थानि क्षेत्राणि च सरांसि च । । ३२ । ।
नद्यो नदास्तथा पूर्योऽरण्यानि च वनान्यपि ।
मथुरायां समायान्त्याषाढे सुप्ते जनार्दने । । ३३ ।।
मथुरामण्डले श्राद्धात् तृप्यन्ति पितरो युगम् ।
मथुरावासिनो लोका निधने यान्ति मत्पदम् ।। ३४ । ।
कुब्जाम्रके सौकरवे जन्मस्थाने विशेषतः ।
वसतां तु विना सांख्यं योगं मोक्षोस्ति निश्चितः । । ३५ । ।
अन्नवस्त्रप्रदातारो नरा मुक्ता न संशयः ।
भविष्यामि वरारोहे द्वापरे युगसंस्थिते । । ३६ ।।
कृष्णोऽहं च ययातेस्तु वंशे दैत्यनिषूदनः ।
यमुना यत्र सुवहा वैवस्वतसुता प्रिया ।। ३७ । ।
गंगां प्राप्य प्रयागे या त्रिवेणीति प्रवर्तते ।
सरस्वतीं च संगृह्य प्रथिता पापहारिणी । । ३८ ।।
यमी गंगाशतगुणा श्रेष्ठा माथुरमण्डले ।
तत्र तीर्थानि चान्यानि भविष्यन्ति मम प्रिये! । । ३९ ।।
येषु स्नानाज्जलपानान्मुक्तिरेव न संशयः ।
निधने माथुरे क्षेत्रे जायते स चतुर्भुजः । ।1.343.४ ० ।।
विश्रान्तिसंज्ञकं तीर्थं विश्रान्तिघटनाप्रदम् ।
सर्वश्रेष्ठं महापुण्यं स्नानाद् गोलोकदं नृणाम् । ।४ १ ।।
सर्वतीर्थेषु यत्स्नानं दानं ध्यानं हुतं तपः ।
तत्सर्वं लभते लक्ष्मि! विश्रान्तितीर्थदर्शनात् । । ४२ ।।
न तु यज्ञैर्न तपसा न ध्यानेन न संयमैः ।
तत्फलं लभते स्नातो यथा विश्रान्तिघट्टके ।। ४३ । ।
कालत्रयं दर्शनाच्च तथा प्रदक्षिणद्वयात् ।
नमस्कारपञ्चकाच्च विष्णुलोके महीयते ।। ४४। ।
मया तत्र यमुनाया घट्टे विश्रान्तिरास्थिता ।
शाश्वती शान्तिरत्रास्ति यथा गोलोकधामनि । ।४५ ।।
अथाऽन्यन्मे परं तीर्थं प्रयागं तत्र विद्यते ।
देवानां दुर्लभं गुप्तं सर्वसंसारमोक्षणम् । ।४६ ।।
यत्र स्नातो मम लोकं यात्यग्निष्टोमपुण्यभाग् ।
सकामस्तु महेन्द्रः स्यात्ततो याति परां गतिम् । ।४७ ।।
अथाऽन्यन्ये कनखलं तीर्थं स्नानाद्दिवः प्रदम् ।
अथान्यत् तिन्दुकं तीर्थं मम गोलोकधामदम् । ।४८ ।।
पाञ्चालदेशे काम्पिल्यं नगरं धार्मिकप्रजम् ।
तत्र तिन्दुकसंज्ञो वै सदा वसति नापितः । । ४९ ।।
कालेन नापितस्यैव कुटुम्बं तु क्षयं गतम् ।
ततः स मथुरां प्राप्तो यमीतीरेऽवसत् सदा ।।1.343.५ ० । ।
कुटुम्बोद्धारणार्थं वै श्राद्धादि तेन कारितम् ।
स नित्यं यमुनास्नायी कालेन निधनं गतः । ।५ १ । ।
मथुरायां ब्राह्मणस्य जन्म त्वासाद्य वै ततः ।
वैष्णवः परमो भूत्वा ययौ गोलोकधाम सः । । ५२।।
एवं तिन्दुकसंज्ञोऽसौ जातिस्मरस्तु भूसुरः ।
सर्वान् विज्ञाप्य तत्तीर्थं ख्यापयित्वा मृतिं ययौ । ५३।
अथान्यत् परमं सूर्यतीर्थं पापविनाशनम् ।
आराधिता बलिना वै धनराज्यसमीहया । ।५४।।
ऊर्ध्वबाहुर्निराहारस्ततापाऽत्र परं तपः ।
तस्य प्रसन्नो भगवान् सूर्यनारायणः स्वयम् । । ५५ । ।
समागत्य बलिं प्राह किं ते तपसि कारणम् ।
बलिः प्राह त्रिलोकस्य नेत्रं सूर्यं जगत्प्रभुम् ।। ५६ । ।
निर्धनोऽस्मि न मे राज्यं धनार्थं तप आचरम् ।
सूर्यस्तस्मै ददौ चिन्तामणिं स्वात् मुकुटात् ततः । ।५७ ।।
चिन्तामणिं स संप्राप्य गतः पातालमेव ह ।
सूर्यो यमीजले स्नात्वा हिरण्यमण्डलं ययौ । । ५८ ।।
एवं तीर्थवरं जातं पापतापविनाशकम् ।
स्नात्वा स्वर्गं ततो मोक्षं विन्दते स्याच्चतुर्भुजः ।। ५९ ।।
रविवारे च संक्रान्तौ चन्द्रसूर्यग्रहे तिथौ ।
सूर्यतीर्थस्नानकर्ता राजसूयफलं लभेत् ।। 1.343.६० ।।
अथाऽत्र ध्रुवतीर्थं च यत्र तेपे ध्रुवः पुरा ।
तत्र स्नानेन साम्राज्यं मरणेन ध्रुवस्थलम् ।। ६९ ।।
श्राद्धेनात्र पितरश्च तरन्ति यान्ति मोक्षणम् ।
ध्रुवस्य दक्षिणे तत्र तीर्थं वै तीर्थराजकम् । । ६२ । ।
तत्र स्नानेन वै लक्ष्मि! मम गोलोकमाप्नुयात् ।
अथ तद्दक्षिणे लक्ष्मि! ऋषितीर्थं परं मतम् । । ६३ । ।
स्नात्वा यायाद् ऋषिलोकं गोलोकं प्राणवर्जनात् ।
ततोऽपि दक्षिणे तीर्थं मोक्षतीर्थं परं मम । । ६४ ।।
यत्र स्नानाद् भवेन्मुक्तिर्गोलोकं चाप्नुयान्मम ।
तत्रैव कोटितीर्थं च देवानामपि दुर्लभम् ।। ६५ । ।
तत्र स्नानात् तथा दानाज्जपाद्धोमाच्च भोजनात् ।
तर्पणादुपवासाच्च ब्रह्मलोके महीयते ।। ६६ ।।
तारिताः पितरस्तेन कोटितीर्थनिषेविणात् ।
तथा सप्त च सप्ताथ सप्त वंशाश्च तारिताः ।। ६७ ।।
अथ वै वायुतीर्थं च पितॄणां तारकं परम् ।
पितॄन् पिण्डप्रदातारस्तारयन्त्येव सर्वथा ।। ६८ ।।
गयापिण्डप्रदानस्य फलं त्वत्र ह्यवाप्यते ।
ज्येष्ठमासे विशेषेण श्राद्धात्तरन्ति पूर्वजाः । ।६९ ।।
उक्तान्येतानि तीर्थानि भुक्तिमुक्तिप्रदानि वै ।
स्नानं दानं जपो होमः स्युः सहस्रगुणा हि ते । ।1.343.७ ० ।।
तीर्थानां स्मरणाच्चापि वन्दनाद् दर्शनात्तथा ।
जलस्य कणिकापानान्मुक्तिर्भवति शाश्वती । ।७१ । ।
अथात्र तीर्थमूर्धन्यमवतारसमूहकम् ।
श्रीकृष्णस्याऽवतारा ये मिलित्वा जन्मनः क्षणे ।।७२ ।।
समायाताः क्षणं यत्र स्थिता यमीतटे शुभे ।
जन्मभूमिसमीपे तत् तीर्थं गुप्त हि वर्तते । । ७३ ।।
स्नानात्तत्र वारिपानात् प्रोक्षणादपि सर्वथा ।
पापप्रध्वंसकं गोलोकवैकुण्ठादिलोकदम् ।।७४।।
तत्र वै मरणान्मुक्तिर्भवेदेव न संशयः ।
एकाहोपोषणाद्वापि कोटियज्ञफलं भवेत् । ।७५ ।।
रजःकणा मथुरायाः स्पृशन्ति देहिनस्तु यान् ।
तेऽपि मुक्तिं प्रयास्यन्ति तिर्यक्कीटादयोऽपि चेत् ।।७६ ।।
देशान्तरेऽपि तन्नामग्रहीता भुक्तिभाङ् ननु ।
यत्र साक्षात्परब्रह्म राजते तत्र किं न वै । । ७७ । ।
धनधामधरादारपुत्रपुत्रीसमृद्धयः ।
क्षेत्रोद्यानाधिकारित्वराज्यसत्ताजनेशताः । ।७८ ।।
स्वर्णरूप्यमहालक्ष्मीश्रीसम्पद्भवनादयः ।
भवन्त्येव हरेर्योगाद् भक्तस्यात्र कृपाकणात् ।।७ ९ ।।
तारकं धारकं यद्वद् रक्षकं पालकं तथा ।
स्वर्गदं मोक्षदं चापि तीर्थं माथुरमुत्तमम् । ।1.343.८ ० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुराक्षेत्रमाहात्म्ये भगवदवताराणामानन्त्यं, प्रथमद्वापरे कृष्णावतारः, विश्रान्तितीर्थप्रयागकनखलतिन्दुकसूर्यध्रुवतीर्थराजऋषिमोक्षकोटिवाय्ववतारतीर्थादिप्रदर्शननामा त्रिचत्वारिंशदधिकत्रिशततमोऽध्यायः ।। ३४३ ।।