लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३४२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३४२
[[लेखकः :|]]
अध्यायः ३४३ →

श्रीलक्ष्मीरुवाच-
रुरुक्षेत्रं कथं जातं रुरुतीर्थं च कीदृशम् ।
तन्मे वद कृपासिन्धो श्रोतुमिच्छामि सर्वशः ।। १ ।।
श्रीनारायण उवाच-
पुरा विप्रो देवदत्तो भृगुवंशोद्भवोऽभवत् ।
दिव्यं तपोऽतपद् यत्र मृगाकीर्णाश्रमे पुरा ।। २ ।।
वर्षाणामयुतं जातं तपसि वर्ततो मुनेः ।
व्यचिन्तयत्तदा त्विन्द्रो विघ्नं कर्तुं तपस्यतः ।। ३ ।।
कामं वसन्तसहितं गन्धर्वान् ससखीन् पुनः ।
प्रम्लोचां प्रेषयामास मलयानिलमित्यपि ।। ४ ।।
इन्द्रस्याऽऽज्ञां समादाय ययुस्तस्याश्रमं प्रति ।
समीपोपवने रम्ये कोकिलाऽऽलापगुञ्जिते ।। ५ ।।
रसालकुसुमामोदव्यापिपवनशीतले ।
भ्रमरनादसंघुष्टे गन्धर्वगीतगर्जिते ।। ६ ।।
पंकजनेत्रसंशोभज्जलस्थलातिमञ्जुले ।
प्रविश्य सा तु प्रम्लोचा गीतं सुमधुरं जगौ ।। ७ ।।
मुनिर्ध्यानादुपरतो गन्धर्वा गीतिमारभन् ।
कामो लब्धाऽवसरं च विचकर्ष धनुस्तदा ।। ८ ।।
मुनिः क्षुब्ध इति ज्ञात्वा सायकान् समयूयुजत् ।
मुनिस्ततो विचचाराऽऽश्रमं शृण्वन् सुगीतिकाम् ।। ९ ।।
दूराद् ददर्श तन्वंगीं कन्दुकक्रीडनान्विताम् ।
तस्याः समीपमगमत् सापि समीपमागता ।। 1.342.१० ।।
सम्मोहितो मुनिस्तां चाऽपृच्छत् का त्वं कथं वने ।
सा प्राह मुनिसेवार्थमागताऽस्मि गृहाण माम् ।। ११ ।।
अथ तां हसमानां स रमयामास कामतः ।
बहूनहर्गणानेवं रममाणो यदृच्छया ।। १२।।
निर्वेदं प्राप्तवान् सद्यस्तदोवाच पुनः पुनः ।
अहो मायाबलं पश्य ययाऽहं भृशमोहितः ।। १३ ।।
जानन्नपि तपोभ्रंशं प्राप्तो देवबलात्कृतम् ।
पुमान् स्त्रीदर्शनादेव द्रवते तद्विमोहितः ।। १४।।
नाऽपराधस्ततो नार्याः पुमान् यदजितेन्द्रियः ।
एवं विचारं कृत्वा तां विससर्ज मुनिस्ततः ।। १५।।
त्यक्त्वा विघ्नमयं स्थानं गत्वा भृग्वाश्रमं प्रति ।
कृतस्नानस्तु गण्डक्यां पूर्वस्यां दिशि निर्जने ।। १६ ।।
अतप्यत तपो घोरं भृगुतुंगे शिवोपरि ।
शिवः साक्षात् समागत्योवाच तं मुनिसत्तमम् ।। १७।।
विष्णुशिवावभेदेन पश्यँस्त्वं सिद्धिमाप्यस्यसि ।
एतच्छिवस्थले लिंगं समंगमिति तत्कृतम् ।। १८।।
समंगेश्वरतीर्थं तज्जातं वै गण्डकीतटे ।
देवदत्तस्तथा ज्ञात्वा सायुज्यं परमं गतः ।। १ ९।।
प्रम्लोचापि मुनेर्गर्भं पक्वं कन्यास्वरूपिणम् ।
प्रागाश्रमे परित्यज्य ययौ स्वर्गं ततः प्रिये । ।। 1.342.२ ०।।
रुरुभिर्मृगवर्यैः सा कन्या संपोषिता सती ।
युवभिः प्रार्थ्यमानाऽपि चित्ते कंचन नाऽध्यगात् ।। २१ ।।
चिन्तयाना हरिं कृष्णं तपसि प्रतितिष्ठति ।
मासे सा प्रथमे बाला फलाहारपरायणा ।। २२ ।।
एकान्तरं दिनं प्राप्य द्वितीये त्रिदिनान्तरे ।
तृतीये पञ्चमदिने चतुर्थे सप्तमान्तरे ।।२३।।
पञ्चमे नवरात्रेण षष्ठे पञ्चदशाहके ।
मासेन सप्तमे चेति शीर्णपर्णाशनाऽष्टमे ।।२४।।
त्यक्त्वा तान्यपि सा बाला वाय्वाहारा बभूव ह ।
एवं वर्षशते याते तस्याः प्रत्यक्षतां गतः ।।२५।।
अहं विष्णुर्यदाऽवोचं वरं याचय दुर्लभम् ।
सा ननाम च मां दृष्ट्वा प्रत्युवाच कृताञ्जलिः ।। २६ ।।
अनेनैव स्वरूपेण मत्स्थाने स्थातुमर्हसि ।
मन्नाम्ना क्षेत्रमेतच्च ख्यातं भवतु सर्वथा ।।२७।।
मद्देहोऽत्र तीर्थभूमौ रुरुतीर्थोऽस्तु पावनः ।
मम तीर्थे कृतस्नानो धूतपापा भवेज्जनः ।।२८।।
भुक्तिं मुक्तिं तथा यायाद् वरान् देहि जगत्पते ।
इति दत्वा वराँस्तस्यै तत्रैवान्तर्हितः स्थितः ।। २९।।
सापि कालेन सञ्जाता तीर्थरूपा तथाऽभवत् ।
तस्या नियम्यर्षीकाणि यतः प्रत्यक्षतां गतः ।। 1.342.३ ०।।
ऋषीकेश इतिख्यातः स्थानं चापि तथाविधम् ।
रुरुक्षेत्रमृषीकेशक्षेत्रं तीर्थं तदुच्यते ।। ३१ ।।
अथ गोनिष्क्रमणाख्यं क्षेत्रं वदामि तच्छृणु ।
और्वो नाम पूर्वकल्पे प्रजापतिरभूत् प्रिये ।। ३२।।
अत्र सृष्टौ समागत्य तपो घोरं समाचरत् ।
नेच्छति तत्फलं किञ्चिदेवं कालो महान् गतः ।। ३३ ।।
हिमाद्रेः शिखरात् सोऽपि गंगाद्वारमुपागतः ।
पद्मपुष्पादिलब्ध्यर्थं तदा वै शंकरः स्वयम् ।। ३४।।
तं निर्गतं ऋषिं ज्ञात्वाऽऽश्रमं चकार भस्मसात् ।
तत आश्रममायातं और्वो दग्धं विलोक्य तत् ।।३५ ।।
उवाच क्रोधताम्राक्षो निर्दहन्निव दाहकम् ।
येनैष आश्रमो दग्धः सोपि तप्तोऽस्तु सर्वथा ।। ३६ ।।
तत्क्षणादेव देवेशि! ईशोपि कामदाहकः ।
महद्दाहेन सन्तप्तः शंभुर्देवीमुवाच ह ।।३७।।
और्वस्य तु तपो दृष्ट्वा भीतैर्देवैरुदाहृतम् ।
दह्यतेऽत्र जगत्सर्वं स तु किञ्चिन्न चेच्छति ।।३८।।
को वा प्रतिविधिस्तत्र यथा सर्वस्य संभवेत् ।
एवमुक्ते मया क्रोधादीक्षितस्तस्य चाश्रमः ।। ३९।।
दग्धोऽभवत् क्षणेनैव वयं तस्माद्विनिर्गताः ।
एतद्दुःखेन सन्तप्तो मन्युना च परिप्लुतः ।।1.342.४० ।।
और्वः शशाप रोषेण तेन तप्ता वयं शिवे ।
तेन दाहेन सन्तप्तो न शक्नोमि विचेष्टितुम् ।।४ १ । ।
अतो नारायणं प्रति गच्छामः शापशान्तये ।
ततो नारायणं ज्ञात्वा निवेद्य सहितास्ततः ।।४ २ । ।
और्वं गत्वा समूचुस्तं शापतापं निवारय ।
और्व उवाच सुरभीगणमानीय माधव! ।। ४३ । ।
शंकरादीन् स्नापयन्तु दुग्धैः शापः प्रशाम्यति ।
एतस्मिन्नन्तरे लक्ष्मि! मया गावोऽवतारिताः । ।४४। ।
सप्तसप्ततिः कल्याण्यः सौरभेय्यः पयोधराः ।
तेनाऽऽप्लावितदेहाश्च परां शान्तिमुपागताः ।। ४५ । ।
शंकराद्यास्तदेतद्वै गोनिष्क्रमणनामकम् ।
क्षेत्रं तीर्थं परं पुण्यमौर्वक्षेत्रं जगुर्वरम् ।। ४६ । ।
तत्र स्नानं प्रकुर्वीत गालोकं तेन चाप्यते ।
शंखचक्रगदायुक्तो मम लोके महीयते । । ४७ । ।
मूलवटस्य मूलेऽत्र पतन्ति पञ्चधारिकाः ।
पञ्चधाराकृतस्नानं पञ्चयज्ञफलप्रदम् । । ४८ ।।
भुक्तिमुक्तिप्रदं क्षेत्रं पञ्चधारं प्रकीर्तितम् ।
अथ पञ्चपदं क्षेत्रं यत्र पञ्चमहाशिलाः । । ४९ । ।
मत्पूर्वां दिशमाश्रित्य वर्तन्ते सुदृढा यतः ।
ब्रह्मपदद्वयं तत्र कुण्डमध्यगता शिला ।।1.342.५ ० । ।
उर्ध्वं नालपरीणाहं तत्र विष्णुपदं मम ।
तत्र स्नाताः शुद्धलोकान् यान्ति भागवतप्रियान् । । ५१ । ।
इदं ब्रह्मपदं क्षेत्रं धारा पतति पश्चिमाम् ।
तत्र स्नात्वा ब्रह्मलोके मोदते ब्रह्मणा सह । । ५२ । ।
अथ कोटिवटं नाम तीर्थं वायुदिशि ध्रुवम् ।
तत्र स्नानं प्रकुर्वीत पञ्चक्रोशान्तरस्थिते । । ५३ ।।
यज्ञकोटिफलं भुक्त्वा मम लोकं प्रपद्यते ।
अथ विष्णुसरो रम्यं पूर्वोत्तरं सुतीर्थकम् । । ५ ४। ।
पञ्चक्रोशसुविस्तारं पर्वतोऽपि तथाऽऽयतः ।
तस्य प्रदक्षिणं कुर्वन् यावत्पदानि सुन्दरि! । । ५ ५ ।।
भ्रममाणस्य जायन्ते तावद्वर्षसहस्रकम् ।
प्रतिपदं स पुण्यात्मा ब्रह्मलोके महीयते । । ५६ । ।
तत्र क्षेत्रे महाश्चर्यं ज्येष्ठे शुक्ले प्रजायते ।
द्वादश्यां तु गवां शब्दाः श्रूयन्ते व्योममार्गतः । ।५७ । ।
एतद् गोस्थलकं तीर्थं तापपापविनाशकम् ।
एतदध्यायवक्तुश्च तस्य श्रोतुस्तथाऽनघे! । । ५८ । ।
प्रत्यक्षरं सहस्रं वै वर्षाणां मम धामनि ।
वासः स्याच्चैकविंशतिकुलोद्धारो भवेत्तथा ।।।५९ । ।
गवां क्षेत्रं महाभागे! पञ्चयोजनमण्डलम् ।
गंगायाः पूर्वतो भागे तिष्ठाम्यहं सदाऽत्र वै ।।1.342.६ ०।।
अथाऽपरं स्तुतस्वामिनामकं क्षेत्रमुत्तमम् ।
द्वापरं युगमासाद्य तत्र तिष्ठामि सुन्दरि! ।।६ १ ।।
शाण्डिल्यजाजलिभृगुकपिलसायणादयः ।
ते मां संस्थापयिष्यन्ति धर्ममूर्तिं महीं गतम् ।।६२।।
संकर्षणो वासुदेवः प्रद्युम्नो ह्यनिरुद्धकः ।
तेऽपि तत्र स्थिता भविष्यन्ति लोकहिताय वै ।।६३।।
मत्प्रसादेन मनुजाः सिद्धिं यास्यन्ति मत्पराम् ।
मात्सर्यं ये करिष्यन्ति मद्धर्मे मम रूपके ।।६४।।
तेषां नाऽयं परो लोको मात्सर्योपहतात्मनाम् ।
मात्सर्यं सर्वनाशाय मात्सर्यं धर्मनाशकम् ।।६५।।
बहुकर्मसमायुक्ता दानाध्ययननिष्ठिताः ।
तपसा ज्ञानयुक्ता वा नित्यं सत्कर्मसूद्यताः ।।६६।।
अपि मात्सर्यसंदग्धा न ते पश्यन्ति मां क्वचित् ।
न कर्तव्यं ततः सर्वैर्मात्सर्यं शान्तिघातकम् ।।६७।।
मात्सर्याऽभिधदोषेण बहवो निधनं गताः ।
शृणु लक्ष्मि! भूतगिरौ प्रतिमा त्वायसी मम ।।६८।।
वाराहरूपिणी त्वास्ते ह्यभेद्या दृश्यते तु सा ।
केचित्पश्यन्ति कांस्यां तां केचिदायसीमित्यपि ।।६९।।
पाषाणीमपरे चान्ये वज्रां पश्यन्ति सौकरीम् ।
केचित्पश्यन्ति तां मूर्ति मणिपूरगिरौ स्थिताम् ।।1.342.७० ।।
सर्वकिल्बिषमुक्तास्ते यान्ति वै परमां गतिम् ।
वाराहक्षेत्रमेवैतत् पृथिव्युद्धाररूपधृक् ।। ७१ ।।
अथान्यत्ते प्रवक्ष्यामि पञ्चारूमेतितीर्थकम् ।
तत्र स्नातुर्भवेत् स्वर्गे वासोऽप्सरोऽभिसेविते ।।।७२।।
अथ तीर्थं भगुकुण्डो मम दक्षिणभूतले ।
तत्र स्नाता भवेन्मुक्तो ध्रुवदेशे प्रमोदते ।।७३।।
अथ तीर्थ मणिकुण्डोऽगाधवार्धिः सुरालयः ।
मणयो यत्र दृश्यन्ते मलयश्चंचलः स्थितः ।।७४।।
तत्र स्नात्वा रत्नभागी राजा भूत्वा विमुच्यते ।
मम पूर्वं त्रिक्रोशस्थं धूतपापेतिनामकम् ।। ७५।।
क्षेत्रं कुण्डे जलं स्वर्णप्रभं मारकतौोज्ज्वलम् ।
तत्र स्नाता धूतपापश्चेन्द्रराज्यं प्रविन्दति ।। ७६ ।।
वर्तते च चमत्कारो मणिपूरे गिरौ मम ।
तावन्न पतति धारा यावत्पापं न धूयते ।।७७।।
वृक्षमश्वत्थमित्युक्तं निर्मलस्तत्र गच्छति ।
पश्चिमायां चामलकवृक्षः सर्वफलोदयः ।।७८।।
पापानि स्पर्शनाच्चापि क्षालयत्यतिपापिनः ।
देवैः स्तुतो महाक्षेत्रे मणिपूरस्थितोऽन्वहम् ।।७९।।
स्तुतस्वामीति मे नाम देवैरेव विनिश्चितम् ।
पठनाच्छ्रवणाच्चापि भुक्तिमुक्तिप्रदं नृणाम् ।।1.342.८० ।।
अथ लोहार्गलं क्षेत्रं हिमालयसमाश्रितम् ।
श्रेष्ठं पञ्चदशायामं समन्तात्पञ्चयोजनम् ।।८ १।।
तत्रोत्तरदिशि स्वर्णप्रतिमायां वसाम्यहम् ।
देवानां दुःखदास्तत्र दानवा ह्यभवँस्तदा ।।८२।।
दैत्याश्च मानवाँस्तत्र पीडयन्ति स्म सर्वदा ।
मया चैवान्तनरं कृत्वा कृत्वा मायां तु वैष्णवीम् ।।८३।।
सीमानमर्गलं कृत्वा क्षिप्त्वा चक्रं महौजसम् ।
शतकोटिसहस्राणां दानवानां क्षयः कृतः ।।८४।।
ततो देवा मानवाश्च सुखं प्राप्ता हि तत्स्थले ।
एवं लोहार्गलं नाम क्षेत्रं तद्धि मया कृतम् ।।८५।।
एवं लोहार्गलः कुण्डस्तीर्थं मया कृतं शुभम् ।
तत्राऽश्वः शुक्लवर्णो वै दाने देयो दिवःप्रदः ।।८६।।
अथ पञ्चसरः कुण्डं तीर्थं गन्धर्वलोकदम् ।
चतुर्धाराः पतन्त्यत्र शंखवर्णाश्च मुक्तिदाः ।।८७।।
ततो नारदकुण्डं च तीर्थं पञ्चप्रवाहवत् ।
ततो वसिष्ठकुण्डं च तीर्थं तिसृप्रवाहवत् ।।८८।।
पञ्चकुण्डं पञ्चधारायुतं तीर्थं सुपुण्यदम् ।
सप्तर्षिकुण्डतीर्थं च सप्तधाराप्रपातनम् ।।८९।।
शरभंगकुण्डतीर्थं शरभंगानदीयुतम् ।
कुण्डमग्निसरोनामतीर्थं वह्निगृहप्रदम् ।।1.342.९० ।।
बृहस्पतिकुण्डतीर्थं धारैका हिमनिःसृता ।
वैश्वानरकुण्डतीर्थं धारैका हिमनिःसृता ।।९ १ ।।
कार्तिकेयकुण्डतीर्थं धाराः पञ्चदशोत्तमाः ।
समापतन्ति हिमपर्वतात् स्नानात्तु पुण्यदाः ।।९२।।
उमाकुण्डमिति क्षेत्रं गौरी यत्र जनुं ययौ ।
स्नात्वा गौरीं प्रपश्येद्वै गौर्या लोके स मोदते ।।९३।।
महेश्वरस्य वै कुण्डं यत्र तूद्वाहिता ह्युमा ।
तत्र स्नाता रुद्रलोकं याति रौद्र्यभिसेवितः ।।९४।।
प्रख्यातं ब्रह्मकुण्डं च वेदा यत्र समुत्थिताः ।
चतस्रो वेदधाराश्च प्रपतन्ति हिमालयात् ।।।९५।।
पूर्वे शुभ्रोत्तरे स्वर्णा पश्चिमे नीलवर्णिका ।
दक्षिणे त्विन्द्रगोपाभा धारा वेदचतुष्टयम् ।।९६।।
तत्र स्नातो ब्रह्मलोकं विन्दते नात्र संशयः ।
एवं लोहार्गलं क्षेत्रं पञ्चविंशतियोजनम् ।।९७।।
मया हिमालयो देवस्तीर्थानां कारणं कृतः ।
यस्माद् द्रवन्ति सरितः पावन्यो मुक्तिदा नृणाम् ।। .८।।
देवास्तत्र निवसन्ति ऋषयो निवसन्ति च ।
अहं वसामि लोकानां कल्याणार्थं समुद्रजे! ।।९०३।।
तत्तत्तीर्थे कृतस्नानदानधर्मा जना ध्रुवम् ।
स्वर्गं मोक्षं प्रयान्त्येव कृपया मम सर्वदा ।। 1.342.१०० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रूरुक्षेत्रऋषीकेगोनिष्क्रमणपञ्चपदब्रह्मपदकोटिवटविष्णुसरः-
स्तुतस्वामिवराहक्षेत्रपञ्चासमभृगुकुण्डमणिकुण्डलोहार्गलपञ्चसरोनारदवशिष्ठसप्तर्षिशरभंगाग्निबृहस्पतिवैश्वानरकार्ति-
केयोमामहेश्वरब्रह्मकुण्डादितीर्थानां निरूपणनामा द्विचत्वारिंशदधिकत्रिशततमोऽध्यायः ।। ३४२।।