लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३५१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३५१
[[लेखकः :|]]
अध्यायः ३५२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! तत्र पुरे गोक्षुरे ब्राह्मणं शुकः ।
प्रोवाच यमुनायात्राकरणार्थं पुनः पुनः ।। १ ।।
स्वस्य वै निधनं यम्यां स्मारयामास वै शुकः ।
नय मां माथुरीं भूमिं कुरु यात्रां प्रियाऽऽत्मजैः ।। २ ।।
जन्मनस्तव साफल्यं कुरु गोकर्ण सर्वथा ।
गोकर्णेश्वरदेवस्य त्वद्दातुर्दर्शनं कुरु ।। ३ ।।
श्रुत्वा शुकवचो विप्रो गोकर्णः सकुटुम्बकः ।
वैहायसेन यानेन ययौ माथुरमण्डलम् ।। ४ ।।
विश्रान्तितीर्थके स्नात्वा गोकर्णेश्वरदर्शनम् ।
कृत्वा च प्रक्रमं भक्त्या मथुरामण्डलस्य सः ।। ।५ ।।
मथुरायां चकाराऽऽशु विष्णुयागं सुदक्षिणम् ।
विनिर्वृत्ते क्रतौ शुकोदो मृत्युं ययौ शुकः ।। ६ ।।
विमानवरमासाद्य देवो भूत्वा दिवं गतः ।
शुकं हृदि समाश्लिष्य प्ररुरोह स वै वणिक् ।। ७ ।।
यत्र शुको मृतस्तत्र गोकर्णेन महात्मना ।
शुकनाम्ना कृतं रम्यं शिवस्यायतनं महत् ।। ८ ।।
शुकेश्वरं प्रतिष्ठाप्य दिव्यं सत्रं चकार सः ।
ब्राह्मणानां शते द्वे च मिष्टान्नवरभोजनम् ।। ९ ।।
प्राप्नुतः प्रतिमध्याह्नं ख्यातं तच्छुकसत्रकम् ।
सत्रस्य परितस्तत्र फलपुष्पप्रदं वरम् ।। 1.351.१० ।।
मथुरावासिभिर्लोकैरुद्यानं सोऽप्यकारयत् ।
यत्र ता दिव्यरूपा वै देव्यो वल्लीस्वरूपिकाः ।। ११ ।।
समागत्याऽवसँस्तत्र गोकर्णेन विलोकिताः ।
तासां जलघटीयन्त्रं जलापानार्थमाव्यधात् ।। १२।।
गोकर्णश्च सरस्वत्याः संगमे संविधाय तु ।
स्नानं प्रपूजनं चापि सदारसुतभृत्यकः ।। १३ ।।
विमानवरमारुह्य समायाति गृहं प्रति ।
मध्ये वै पुष्करं तीर्थं कर्तुं विप्रो मनो दधे ।। १४।।
पुष्करारण्यमासाद्य विमानं त्ववतारयत् ।
सुस्थल्यां पुष्करसरोऽन्तिके वृक्षघटासु वै ।। १५।।
न्यषीदत्तु क्षणं यावत् सदारसुतभृत्यकः ।
गोकर्णस्तत्र चाऽपश्यत् पञ्च प्रेतान्सुभीषणान् ।। १६ ।।
तान्दृष्ट्वा विकृताकारान् त्रासमुत्सृज्य दूरतः ।
पप्रच्छ धैर्यमालम्ब्य के यूयं रौद्रमूर्तयः ।। १७।।
प्रेता ऊचुः क्षुत्पिपासातुरा नित्यं सुदुःखिताः ।
न जानीमो दिशं चापि विदिशं च दिवानिशम् ।। १८।।
यदेतद्दुःखमापन्नं दुष्कृतैर्निजकर्मभिः ।
अहं पर्युषितो नाम परः सूचीमुखो ह्ययम् ।। १ ९।।
शीघ्रमस्तु तृतीयोऽस्ति चतुर्थो रोधकोऽस्ति च ।
पञ्चमो लेखकश्चेति कर्मनाम्ना वयं तथा ।। 1.351.२० ।।
अहं स्वादु सदाऽश्नामि दद्मि पर्युषितं द्विजे ।
तेन दोषेण सञ्जातो नाम्ना पर्युषितः स्वयम् ।।२ १ ।।
सूचिता बहवोऽनेन भिक्षुकास्त्वन्नकांक्षिणः ।
एतेन कर्मणा चायं सूचीमुखो व्यजायत ।।२२ ।।
दानमध्ये ह्ययं शीघ्रं निरोधार्थं प्रयाति च ।
एतेन कर्मणा नाम्ना शीघ्रगस्त्वभवत् परः ।।२३ ।।
बहून् प्रतार्य चैकाकी द्वारे पिधाय वै ततः ।
भुंक्तेऽयं भिक्षुकभयाद् रोधकस्तेन चेतरः ।। २४ ।।
भितुकैर्योग्यकालेऽयं याचितोऽप्यलिखन् महीम् ।
न ददाति क्वचित् किञ्चित् कर्मणा तेन लेखकः ।।२५ ।।
पश्य विप्र गतिं नोऽत्र कृतेन पापकर्मणा ।
मदेन लेखको याति रोधकस्तु ह्यवाक्छिराः ।।२६ ।।
पङ्गुः सन् शीघ्रगो याति सूचीवन्मुखवान् परः ।
बृहद्वृषणलम्बोष्ठः पर्युषितो महोदरः ।।२७।।
एवं वयं महादुःखा दुष्टभ्रष्टप्रभोजिनः ।।
यच्छुत्वा निन्दसे विप्र! श्रोतव्याऽर्हं न वै तु तत् ।।२८।।
श्लेष्ममूत्रपुरीषाणि बालानां योषितां गृहे ।
क्षेत्रे त्यक्तान्यशौचानि प्रेता भुञ्जन्ति तानि वै ।। २९।।
देवार्पणविहीनानि मलमूत्रभृतानि च ।
अशुद्धौ रन्धितान्येव प्रेता भुञ्जन्ति तानि वै ।। 1.351.३० ।।
क्षिप्तानि नालिकायां तु भ्रष्टपात्रस्थितानि च ।
राजस्वल्यादिदुष्टानि प्रेता भुञ्जन्ति तानि हि ।।३ १ ।।
अतिथ्यर्पणहीनानि कलहोत्पादकानि च ।
निन्दितानि तथाऽन्नानि प्रेता भुञ्जन्ति सर्वदा ।।३ २।।
दुष्कर्माऽन्नं सूतकान्नं क्लेद्यान्नं नोऽभितिष्ठति ।
तथापि क्षुन्न हि प्रेतं त्यजत्यपि कदाचन ।।३ ३ ।।
जलमशुद्धिसंस्पृष्टमुपयाति च नोऽल्पकम् ।
नान्यत्र जलपानं स्याद्वारुणभृत्यपालिते ।।३४।।
भ्रष्टान्नेन तु भुक्तेन मानवो म्रियते यदि ।
तेनैव चोदरस्थेन स प्रेतो जायते द्विज! ।।।३५।।।
मनुष्यादिशिरःकपालिकायां भुंजते तु ये ।
ते मृताः प्रेततां यान्ति पशुभिः सहभोजिनः ।।३६।।
मद्यमांसाशनो दुष्टवासनाद्यतिमोहितः ।
देवविप्रगुरुद्रव्यहर्ता प्रेतोऽभिजायते ।।३७।।
मातरं पितरं भ्रातॄन् भगिनीश्च स्त्रियं सुतम् ।
अदुष्टान् यस्त्यजेत्पापः प्रेतो भवति वै ध्रुवम् ।।३८।।
दुष्टकर्मकृतां संगो पापात्प्रेतोऽभिजायते ।
ब्रह्महा च कृतघ्नश्च बालघ्नो गोघ्न इत्यपि ।।३९।।
भूमिकन्याधनहर्ता गुरोर्द्वेष्टा च नास्तिकः ।
स पापो जायते प्रेत स्त्वाहारादिविवर्जितः ।।1.351.४०।।
तस्मात् पुण्यं प्रकर्तव्यं न द्वेष्टव्यं कदाचन ।
परोपकारकारी वै प्रेतो नैव प्रजायते ।।४१ ।।
सुखितेषु सदा मैत्रीं दुःखितेषु दयां शुभाम् ।
पुण्यवत्सु मुदितां च कुर्वन् प्रेतो न जायते ।।४२।।।
अपुण्यशालिषु यो न सज्जते वै कदाचन ।
उपेक्षां कुरुते तेषु न स प्रेतोऽभिजायते ।।४३।।।
व्रतं करोति देवानां तथा चान्द्रायणादिकम् ।
रागशून्यः स्वच्छबुद्धिर्न स प्रेतोऽभिजायते ।।४४।।
अन्नजलप्रदाता यः श्रद्धया धर्मकार्यकृत् ।
साधुदेवयतिपूजाकर्ता प्रेतो न जायते ।।४५।।
परोपकारकर्ता च परपोषणतत्परः ।
सर्वभूतदयालुश्च न प्रेतो जायते क्वचित् ।।४६।।
पितृसुराऽतिथिपूज्यपूजायाः कारकस्तु यः ।
परात्मतोषको विप्र! न प्रेतो जायते क्वचित् ।।४७।।
कामक्रोधमहालोभमोहतृष्णाविवर्जितः ।
क्षमादानदयाशीलो न प्रेतः संभवेत् क्वचित्। ।।४८ ।।
जयन्तीनां व्रतकर्ता कथानां वाचकः सदा ।
गोभूविप्रसतीसाधुतीर्थमन्ता सुधर्मवान् ।।४९।।
स्नानसन्ध्याजपहोमकर्ता प्रेतो न जायते ।
मातृसेवां पितृसेवां गुरोः सेवां करोति यः ।।1.351.५० ।।
गवां सेवा पतिसेवा पत्नीसौख्यं करोति यः ।
दीनाऽनाथादिसेवाकृन्न प्रेतो जायते क्वचित् ।।५१
शुद्ध्यन्नं शुद्धिकृद्द्रव्यं यः स्वार्थं सयुनक्ति वै ।
सर्वाशीर्वादसंग्राही न प्रेतो जायते क्वचित् ।।५२।।
प्रेतानां चाभिजातानां गतिं जानासि चेद् वद् ।
अस्माकं कुरु चोद्धारं चेत् समुद्धर्तुमर्हसि ।।५३ ।।
इति प्रेतवचः श्रुत्वा गोकर्णः प्राह ताँस्तदा ।
ये धर्मविमुखा मूढा दयादानविवर्जिताः ।।५४।।
प्रेता जाताश्च वै तेषां मथुरासंगमे गतिः ।
श्रवणद्वादशीयोगे स्नात्वा यम्यां तु भाद्रके ।।५५।।
वामनार्चनमेवाथ हवनं कारयेत्तथा ।
छत्रोपानत्सुवर्णान्नं वस्त्रदानं प्रकारयेत् ।।५६ ।।
पितॄँश्च तर्पयेत् तेन प्रेता यान्ति परं पदम् ।
मथुरातीर्थके स्नानं जनं ध्यात्वा हरिं स्मरेत् ।।५७।।
प्रेतस्तीर्थस्य माहात्म्यं शृणुयाच्चेद् गतिं लभेत् ।
विमानवरमारुह्य विष्णुलोकं स गच्छति ।।५८।।
मासि भाद्रपदे शुद्धा द्वादशी श्रवणान्विता ।
तस्यां दत्तं हुतं स्नातं सर्वं लक्षगुणं भवेत् ।।५९।।
यमीसरस्वतीसन्धौ स्नात्वा सम्पूज्य वामनम् ।
कलशं विधिना दत्वा प्रेतभावो न विद्यते ।।1.351.६ ० ।।
कपिलानां शतं दत्वा हिरण्योपस्कराञ्चितम् ।
द्वादश्यां तत्फलं स्याद्वै स्नात्वा नद्योस्तु संगमे ।।६ १ ।।
राक्षसत्वं भवेन्नष्टं श्रवणद्वादशीव्रतात् ।
स्वर्गे वसति तावद्वै यावदिन्द्राश्चतुर्दश ।।६ २।।
ततः स्वर्गाद् भुवं याति विप्रो भवति वेदवित् ।
जातिस्मरो महायोगी मोक्षमार्गपरायणः ।।६ ३ ।।
ध्यानयुक्तेन भावेन सेवया परमात्मनः ।
आशीर्वादेन पित्रोश्च मुक्तो यात्यपुनर्भवम् ।।६४।।
यथालब्धसुवर्णेन कारयित्वा तु वामनम् ।
उपानच्छत्रसंयुक्तं पूजयेद्विधिवत्तु तम् ।।६५।।
आवाहयेत् तथा तं च स्नापयेत् पञ्चकामृतैः ।
जलेनाभिषेचयेच्च वस्त्रादि धारयेत्तथा ।।६६।।
अलंकारान् सुगन्धिसद्द्रव्यतैलादिकं ददेत् ।
चन्दनानि कुंकुमं च कज्जलं चोपवीतकम् ।।६७।।
अर्पयेच्च तथा धूपं दीपं नैवेद्यमुत्तमम् ।
फलं ताम्बूलकं वारि श्रीफलं चार्घ्यमेव वा ।।६८।।
दद्यान्नीराजयेद् देवं छत्रचामरमर्पयेत् ।
दक्षिणां च नमस्कारं गोदानं करकार्पणम् ।।६९।।
स्तुतिं कुर्याच्च तस्याऽग्रे ततो देवं विसर्जयेत् ।
एवं तु विधिना कृत्वा प्रेतमुक्तिर्भवेद् ध्रुवम् ।1.351.७० ।।
यस्तु सरस्वतीयोगे यमुनायाः सुसंगमे ।
करोति विधिनाऽनेन तस्य पुण्यं शतोत्तरम् ।।७१ ।।
श्रावणद्वादशीयोगे भाद्रे शुक्ले व्रतं चरेत् ।
तेन मुक्तिर्भवेद् ध्रौव्या गोलोकादिनिवासदा ।।७२।।।
प्रेता ऊचुश्च तं गोकर्णं विप्रं शरणागताः ।
भो विद्वँस्तद्व्रतं कर्तुं प्रेतानां शक्तिरेव न ।।७३ ।।
तस्मात्पुण्यप्रदानेन कुर्वस्माकं विमोक्षणम् ।
गोकर्णश्च द्यां कृत्वा ददौ स्नानजपुण्यकम् ।।७४।।
ददे पदोरजश्चापि ददौ पदोर्जलं तथा ।
तेन मुक्ताश्च ते सर्वे जाता वै प्रेतयोनितः ।। ७५।।
आकाशे दुन्दुभिध्वानमभूद् देवकृतं तदा ।
प्रेतानां तु समूहाश्चागता द्रष्टुं समन्ततः ।। ७६।।
देवदूत उवाचेदं प्रेतानां शृण्वतां तदा ।
अस्य विप्रस्य संभाषात्स्नानपुण्वसमपर्णात् ।। ऽऽ ।।
चरणस्य रजोलाभाज्जललाभाच्च सर्वथा ।
प्रेतभावविमुक्तः स्थ तीर्थस्य श्रवणादपि ।।७८।।
तस्मात् सर्वप्रयत्नेन कर्तव्यं तीर्थसेवनम् ।
सद्भिः संभाषणं कार्यं सतां सम्यक् प्रसेवनम् ।।७९।।
तीर्थश्रद्धा व्रतश्रद्धा कथाश्रद्धा च मानसे ।
कर्तव्या सर्वथा प्रेताः! मुक्तिदाऽस्ति तु सा यतः ।।1.351.८०।।
तीर्थाभिषेकिपुरुषपादप्रक्षालनं जलम् ।
पातव्यं चापि मुक्त्यर्थं यथैतेषां विमुक्तिदम् ।।८ १ ।।
प्रेतानामक्षयः स्वर्गः सरस्वत्याश्च संगमात् ।
प्राप्तं तीर्थप्रभावस्य प्रेतैर्वै श्रवणात् फलम् ।।८२।।
आगतानि विमानानि प्रेतानां दिव्यवर्ष्मणाम् ।
देवानां च कृते पञ्चाऽऽरुह्य ते स्वर्गमुत्तमम् ।।८३।।
गता लक्ष्मि! परं लोकं विना साधनसम्पदम् ।
गोकर्णः पुष्करं तीर्थ कृत्वा गोक्षुरमाययौ ।।८४।।
यः पठेत्परया भक्त्या शृणुयाद् भक्तितत्परः ।
श्रावयेच्च स्मरेत् तीर्थॆ स याति परमां गतिम् ।।८५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने माथुरक्षेत्रमाहात्म्ये शुकोक्त्या गोकर्णस्य मथुरायात्रा, शुकमोक्षः, शुकेश्वरस्थापना, मार्गे परावृतस्य गोकर्णस्य पञ्चप्रेतमिलापः, पुष्करे प्रेताऽप्रेतत्वकारणसंवादः, भाद्रशुक्लद्वादश्यां वामनपूजा, स्नानपुण्यदानेन प्रेतानां मुक्तिश्चेत्यादिनिरूपण-
नामैकपंचाशदधिकत्रिशततमोऽध्यायः ।। ३५१ ।।