लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३३७
← अध्यायः ३३६ | लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः) अध्यायः ३३७ [[लेखकः :|]] |
अध्यायः ३३८ → |
श्रीनारायण उवाच -
शंखचूडस्ततो लक्ष्मि! शंकरं प्राह नैतिकम् ।
साभिमानं युद्धमूलं विनाशकृद्धि तामसम् । । १ ।।
त्वया कथितं यन्नाथ! सर्वं तथ्यं न चाऽनृतम् ।
ज्ञातिद्रोहे महत्पापं यदि भवति शंकर ।। २ ।।
कथं गृहीत्वा सर्वस्वं तलं प्रस्थापितो बलिः ।
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः । । ३ । ।
कथं समुद्रमथने पीयूषं भक्षितं सुरैः ।
कथं त्वं दानवान् हंसि न देवान् न गणान् स्वकान् । । ४ । ।
कथं सतीनिमित्ते तत्पिता विहिंसितस्तदा ।
कथं सुदर्शनं विष्णोरसुरेष्वेव सार्थकम् । । ।५ । ।
सम्बन्धिन्योः काश्यपेयप्रजयोर्यद्विरोधनम् ।
जायते महतीर्लज्जा स्पर्द्धाऽस्माभिः कथं हर ।। ६ ।।
पितृवंशसमुन्नेता स्वर्गं याति तु मानवः ।
परवंशानुसंयाता भवत्यधोगतिं गतः ।। ७ । ।
कालेन यद्भवेत् तद्वै भवत्वत्र ममाऽऽलये ।
पराजयो जयो वापि कालकृन्मान्य एव मे ।। ८ । ।
अधुना त्वं महाकालो ममाऽसि पार्वतीपते! ।
कालेन यद्भवेत् तत्र सन्तुष्टोऽस्मि रणं कुरु ।। ९ ।।
मृतो यास्ये तु गोलोके जये भोक्ष्ये तु वैधसम् ।
रणे हानिर्न मे चास्ति न ते लाभो मनागपि।। 1.337.१० ।।
इति विचार्य भगवन्! निवृत्तो भव शंकर! ।
अल्पेन सह महतां हानिरेव न वर्धनम् ।। ११ । ।
नमस्करोमि ते शंभो! उत्तिष्ठामि रणाय च ।
इति कृत्वा ययौ यानमारुह्य निजवाहिनीम् । । १२ । ।
तत्रैते येऽसुरपक्षा दैत्याश्च दानवादयः ।
सुराणां प्रतिपक्षा ये ते तु युद्धेऽसुरानुगाः ।। १३ । ।
ये तु देवसमा दिवपक्षगास्ते हरानुगाः ।
सैन्येषु चागताः सर्वे शंखचूडपिनाकिनोः । । १४ । ।
कोट्यर्बुदाब्जयोद्धॄणां सेने वार्धिसमे तदा ।
सुशोभे ते स्म लक्ष्मि! द्राग् रणवाद्याऽधिते जिते । । १५ । ।
नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिर्बभूव ह ।
स्कन्दः सेनापतिश्चात्र तत्रराहुश्च भूपतिः ।। १६ । ।
द्वयोर्युद्धमभूद् व्योम्नि शतघ्नीबाणशक्तिभिः ।
परशुपरिघाभूशुण्डीभिस्तोमरचक्रकैः । । १७ । ।
बाणैः शिलीमुखैश्चापि धूष्कृतैर्गोलकैस्तथा ।
प्रस्तरैश्च सहस्रघ्नैर्युद्धमद्भुतमुल्बणम् ।। १८ ।।
द्वयोश्च सेनयोर्मध्ये महाप्रलयसन्निभम् ।
मर्दनं कूर्चनं निकृन्तनं द्वैधीविभेदनम् ।। १९।।
छेदनं चूर्णनं प्राणिकर्चनं दलनं ह्यभूत्। ।
शरवृष्टिश्चार्धचन्द्रशूलभल्लत्रिधारकैः ।।1.337.२० ।।
हननं सर्वतोव्याप्तमासीदुभयसैन्ययोः ।
हस्तीनां च तथाऽश्वानां खच्चराणां भयंकरः ।।२१।।
विनाशोऽभूद् रथिनां च पत्तीनां गणना न वै ।
रथा भग्नाश्च यानानि चूर्णितानि सहस्रशः ।।२२।।
वाहाश्छिन्ना लक्षशश्च भटेश्वरास्तु कोटिशः ।
नष्टाश्छिन्ना व्यसवश्चाऽभवन् शश्वद्भूशायिनः ।।२३।।
दिवानिशं महाघोरं सततं प्रलयात्मकम् ।
युद्धं प्रवर्तितं तत्र क्षुत्तृषागणनापि न ।।२४।।
धनुष्मतां तदा बाणाः शस्त्राणि शस्त्रिणां तथा ।
कवचानि वर्मवतां क्षयमाप्तानि सर्वथा ।।२५।।
दानवानां गणानां च लयः प्राकृतिको यथा ।
यदा जातस्तदा त्रस्ता विदुद्रुवू रणांगणम् ।।२६।।
कार्तिकः शरवृष्ट्या वै चकार कदनं महत् ।
राहुश्चापि शरवृष्ट्या चकार कर्तनं परम् ।।२७।।
पर्वतानां च सर्पाणां शिलानां शाखिनां तथा ।
शश्वद् वृष्टिं चक्रतुस्तौ दुर्वाह्यां च भयंकरीम् ।।२८।।
राहोमार्गणवृष्ट्या तु प्रच्छन्नः शिवनन्दनः ।
धनुः स्कन्दस्य छिच्छेद रथं चिच्छेद वाजिनोः ।।२९।।
मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ।
शक्तिं चिक्षेप सूर्याभां राहुर्वक्षोविभेदिनीम् ।।1.337.३०।।
गदया तां पोथयित्वा धनुर्दिव्यमुपाददे ।
स्कन्दो ववर्ष शस्त्राणि राहोर्नाशाय सर्वथा ।।३ १।।
सर्पांश्च पर्वताँश्चापि वृक्षांश्च प्रस्तराँस्तथा ।
सर्वांश्चिच्छेद कोपेन दिव्यास्त्रैः शंकरात्मजः ।।३२।।
आग्नेयं वारुणास्त्रेण वारयामास वै गुहः ।
रथं धनुश्च चिच्छेद सैंहिकेयस्य लीलया ।।३३।।
सवाहं सारथिं चैव हत्वा चिक्षेप शक्तिकाम् ।
दानवो वक्षसि हतो मूर्छामवाप वै तदा ।।३४।।
शंखचूडः समायातो रथमारुह्य सत्वरम् ।
चकार शरजालानि मायया मायिनां वरः ।।३५।।
गूहं त्वाच्छाद्य समरे शरजालेन शक्तिकाम् ।
जग्राह शतसूर्याख्यां विष्णुतेजोऽन्वितां तदा ।।३६।।
चिक्षेप कार्तिके लग्ना पपात मूर्छितस्तदा ।
काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ ।।३७।।
शिवः स्वसैन्यं देवाँश्च प्रेरयामास सत्वरः ।
दानवेन्द्रैः ससैन्यैश्च पुनर्युद्धं भयंकरम् ।।३८।।
समभूत् तत्र युयुधे महेन्द्रो वृषपर्वणा ।
भास्करो युयुधे विप्रचित्तिना प्रलयाग्निवत् ।।३९।।
दंभेन सह चन्द्रश्च कालः कालेश्वरेण च ।
गोकर्णेन कृशानुश्च कालकेयेन यक्षराट् ।।1.337.४०।।
मयेन विश्वकर्मा च मृत्युर्भयंकरेण च ।
संहारेण यमः कलविंकेन वरुणस्तथा ।।४१ ।।
चञ्चलेन पवनश्च घृतपृष्ठेन वै बुधः ।
रक्ताक्षेण शनिश्चैव वसवो वर्चसांगणैः ।।४२।।
जयन्तो रत्नसारेणाऽश्विनौ दीप्तिमता सह ।
नलकूबरो धूम्रेण धर्मो धनुर्धरेण च ।।४३।।
शोभाकरेणैवेशानो मण्डुकाक्षेण मंगलः ।
मन्मथः पिठरेणापि युयुधेऽस्त्रप्रहेतिभिः ।।४४।।
उल्कामुखेन धूम्रेण खङ्गेनापि ध्वजेन च ।
काञ्चीमुखेन पिण्डेन घनेन सह नन्दिना ।।४५।।
विश्वेन च पलाशेन चादित्या युयुधुर्भृशम् ।
एकादश महारुद्रा युयुधिरे भयाह्वयैः ।।४६।।
महामारी युयुधे च प्रोग्रदण्ड्यादिभिस्तदा ।
नन्दीश्वरादयः सर्वे सह दण्ड्यादिदानवैः ।।४७।।
एवं ते युयुधुः सैन्येश्वराः सैन्यानि सर्वशः ।
शंखचूडो विशश्राम क्षणं तद्वच्च कार्तिकः ।।४८।।
दानवाश्चासुरा दैत्या युयुधिरे समन्ततः ।
देवाश्चकम्पिरे भीता दुद्रुवुर्वै दिशो दश ।।४९।।
चकार कोपं स्कन्दश्च देवेभ्यस्त्वभयं ददौ ।
युयुधेऽयं दानवानां गणैः सार्धं प्ररोषतः ।।1.337.५०।।
अक्षौहिणीनां शतकं समरे स जघान ह ।
काली रक्तं पपौ क्रुद्धा ननर्त समरे तदा ।।५१।।
दशलक्षं गजेन्द्राणां शतलक्षं च वाजिनाम् ।
समादाय समादाय मुखे चिक्षेप लीलया ।।५२।।
स्कन्दस्य शरजालैश्च दानवाद्या विदुद्रुवः ।
काली समरमासाद्याऽट्टाट्टहासानि चाकरोत् ।।५३।।
उग्रदंष्ट्रा चोग्रदण्डा कोटरा योगिनीगणाः ।
डाकिन्यश्चासुरान् खादयामासुश्च पपुर्मधु ।।५४।।
दृष्ट्वा कालीं शंखचूडो युद्धार्थमाद्रवत् तदा ।
काली चिक्षेप चाग्नेयं प्रलयाग्निसमं ततः ।।५५।।
शंखचूडोऽहरत्तद्वै वारुणास्त्रेण लीलया ।
चिक्षेप वारुणं काली गान्धर्वेण तु दानवः ।।५६।।
चिच्छेदाथ प्रचिक्षेप काली माहेश्वरास्त्रकम् ।
जघान दानवो वैष्णवास्त्रेण लीलया तदा ।।५७।।
नारायणास्त्रं चिक्षेप काली ततस्तु दानवः ।
ननाम दण्डवत् भूमौ भक्त्यस्त्रेण शशाम तत् ।।५८।।
ब्रह्मास्त्रं सा च चिक्षेप ब्रह्मास्त्रेणाऽग्रसद्धि सः ।
पाशुपतं सा चिक्षेप पाशुपतेन सोऽहनत् ।।५९।।
देवी चिक्षेप शक्तिं तां सोऽपि शक्त्याऽविनाशयत् ।
महाकाली तदा क्रुद्धा महाकालास्त्रमेव सा ।।1.337.६० ।।
मन्त्रपूर्वं निक्षिपति तावदाकाशवागभूत् ।
मृत्युर्न दानवस्याऽस्ति कण्ठेऽस्य कवचं हरेः ।।६ १।।
तुलस्याश्च सतीत्वं वै यावदस्ति तु तावता ।
जरामृत्यू न चाऽस्य स्तो विना सतीत्वनाशनम् ।।६२।।
श्रुत्वा काली विनिवृत्ता सोऽकरोज्जयगर्जनाम् ।
तावद्वटे समायातो विष्णुर्ब्राह्मणरूपधृक् ।।६ ३।।
शंभो! मयाऽर्पितां शक्तिं समादाय रणस्थलीम् ।
याहि दैत्यविनाशाय विष्णुरस्मि जगद्गुरुः ।।६४।।
गच्छाम्यहं भिक्षुकः सन्नर्थयामि तु दानवम् ।
कवचं प्रति भूतेश! पश्चाद् गच्छामि तुलसीम् ।।६५।।
शंखचूडस्वरूपेण वीर्याधानार्थमीश्वर! ।
ततो दानवमृत्युर्वै भविष्यति न संशयः ।।६६।।
इत्युक्त्वा भगवान् विष्णुर्वृद्धब्राह्मणरूपधृक् ।
दानवेन्द्रं प्रति गत्वा भिक्षां देहीति चाऽब्रवीत् ।।६७।।
गृहाण किं तवेच्छास्ति प्रोवाच दानवस्तदा ।
ब्राह्मण प्राह कवचं देहि मे दानवद् भव ।।६८।।
तच्छ्रुत्वा दानवच्छ्रेष्ठो ददौ कवचमुत्तमम् ।
गृहीत्वा कवचं कृष्णो जगाम तुलसीं प्रति ।।६९।।
शंखचूडस्वरूपेण जगाम तुलसीगृहम् ।
दुन्दुभिं वादयामास चकार जयसद्रवम् ।।1.337.७० ।।
तच्छ्रुत्वा परमानन्दा समुत्थाय ससंभ्रमा ।
राजमार्गगवाक्षेण ददर्श तुलसी पतिम् ।।७१।।
ब्राह्मणेभ्यो वाचकेभ्यो भिक्षुभ्यः सा धनं ददौ ।
मंगलं वाचयामास बन्दिभ्योऽपि धनं ददौ ।।७२।।
अवरुह्य रथात् कृष्णस्तुलस्या भवनं ययौ ।
कान्तमासाद्य तुलसी क्षालयामास तत्पदम् ।।७३।।
ननामाऽतिमुदा स्वर्णासनस्थं जयकारिणम् ।
समाश्लिषत् तदंगानि मर्दयामास शान्तये ।।७४।।
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ।
अद्य मे सफलं जन्म पश्यामि विजयं तव ।।।७५।।
कथं विश्वस्य संहर्त्रा सार्धमाजौ जयोऽभवत् ।
तन्मे ब्रूहि प्राणनायेत्युवाच तुलसी सती ।।७६।।
विष्णुरुवाच देवानां दानवानां महाक्षये ।
ब्रह्मा तत्र समागत्य कारयामास मेलनम् ।।७७।।
देवानामधिकारेषु देवा भवन्तु निर्भयाः ।
शंखचूड! तव राज्ये सपत्नीकः सुखी भव । ।७८।।
इति सन्धिः कारितो वै ब्रह्मणा चावयोस्ततः ।
आगतोऽहं स्वभवनं शिवलोकं शिवो गतः ।।७९।।
इत्युक्त्वा तुलसीं कृष्णः शयनं प्रचकार वै ।
रेमे रमापतिस्तत्र तुलस्याः शयने रतिम् । ।1.337.८० ।।
सापि सुखातिरेकाच्चाऽऽकर्षणादिविलक्षणम् ।
अप्रस्खलितभावाच्च तर्कयामास चेतरम् ।।८ १ ।।
कस्त्वं वद महाराजस्वरूपोऽस्यत्र मायया ।
दूरीकृतं सतीत्वं मे भुक्ताऽहं मायया त्वया ।।८२।।
शपामि वद शीघ्रं मे श्रुत्वेति शापभीतितः ।
दधार लीलया स्वीयमूर्ति नारायणात्मिकाम् ।।८३ । ।
नवीननीरदश्यामां शरत्पंकजलोचनाम् ।
कोटिकन्दर्पलावण्यां रत्नभूषणभूषिताम् । ।८४। ।
ईषद्धास्यप्रसन्नास्यां शोभितां पीतवाससा ।
नारायणं तथा दृष्ट्वा कामिनीं काममूर्छितां ।।८५।।
पुनश्च मोहमापन्ना श्रीकृष्णं परिषस्वजे ।
तदा तुलस्यां श्रीकृष्णो वीर्याधानं चकार ह ।।८६ ।।
शंभुस्तदा त्रिशूलेन शंखचूडं जघान वै ।
मृतस्यात्मा चतुर्बाहुः सुदामा धाम संययौ ।।८७।।
पुनश्च मोहमापन्ना पुनश्च प्राप्य चेतनाम् ।
उवाच कृष्णं हे नाथ! पाषाणहृदयो भवान् ।।८८ ।।
दया नास्ति मनास्ताश्च! सतीबलप्रजीवनः ।
छलेन धर्मभगेन मम स्वामी त्वया हतः ।।८९।।
तस्मात्पाषाणरूपस्त्वं भुवि देवो भवाऽधुना ।
अतस्त्वमेकजनुषि ज्ञानहीनो भविष्यसि ।।1.337.९० ।।
इत्युक्त्वा सा च तुलसी निपत्य चरणे हरेः ।
रुरोद विललापैनामुवाच भगवाँस्तदा ।।९ १।।
शंखचूडं च मे भक्तं सुदामानं पुनर्मम ।
वैकुण्ठं प्रापयितुं वै मया त्वयि छलं कृतम् ।।९२।।
तन्नाशाय मया दत्तं त्रिशूलं शंकराय वै ।
ग्रीष्ममध्याह्नमार्तण्डशतकप्रभमुज्ज्वलम् ।।९३ ।।
नारायणाऽधिष्ठिताग्रं ब्रह्माधिष्ठितमध्यमम् ।
शिवाधिष्ठितमूलं च कालाधिष्ठितधारकम् ।।९४।।
दुर्निवार्यं तथाऽव्यर्थं सर्वशस्त्रविघातकम् ।
शंकरकेशवाऽन्यैर्दुर्वहं ब्रह्माण्डनाशकम् । ।९९। ।
धनुःसहस्र दैर्घ्येण विस्तृत्या शतहस्तकम् ।
सजीवं ब्रह्मरूपं च शंभुश्चिक्षेप दानवे ।।९६। ।
मया त्वयि कृतं वीर्याधानं दैत्या ममार यत् ।
बभूव भस्मसाच्छंखचूडो रथयुतस्तदा ।।९७।।
बभूव च पुनर्दिव्यो द्विभुजो मुरलीधरः ।
नानारत्नसुभूषाढ्यगोपकोटिभिरावृतम् ।।९८।।
गोलोकादागतं यानमारुह्य तत्पुरं ययौ ।
अथ शूलश्च वेगेन प्रययौ शूलिनः करम् ।।९९।।
शंकरस्तेन शूलेन दानवस्याऽस्थिजालकम् ।
प्रेम्णा न्यक्षेपयच्छीघ्रं लवणोदे तु सागरे ।। 1.337.१० ०।।
शंखजातिर्जायते सा श्रेष्ठा पूता सुरार्चने ।
प्रशस्तं शंखतोयं च देवानां प्रीतिदं भवेत् ।। १० १।।
यत्र शंखस्तत्र लक्ष्मीस्तुलसी तीर्थमत्र च ।
शंखतोयं तीर्थतोयं यत्र शंखस्ततो हरिः ।। १ ०२।।
शोकं त्यज मम पद्मे! भव जातिस्मरा प्रिये! ।
तपस्त्वया कृतं साध्वि! मदर्थे बदरीवने ।। १ ०३।।
त्वदर्थे शंखचूडश्च चकार पुष्करे तपः ।
कृत्वा त्वां कामिनीं कामी विजहार च तत्फलात् ।। १ ०४।।
गतः स शरणं राधाकृष्णयोः रासमण्डले ।
गोलोके वर्तत भक्तो मम त्वं याहि सुन्दरि! ।। १ ०५।।
इदं शरीरं त्यक्त्वेह दिव्यं देहं विधाय च ।
रासे मे रमया सार्धं त्वं रमासदृशी भव ।। १०६।।
तव शापेन पाषाणः शालग्रामो भवामि वै ।
त्वद्वियोगाऽसहमानः शपामि त्वां नदी भव ।। १ ०७।।
इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ।
पूता मोक्षप्रदा नॄणां भवतु पुण्यदाऽऽप्लवात् ।। १ ०८।।
तव रोमसमूहाश्च पुण्यवृक्षा भवन्तु वै ।
तुलसीरोमजा वृक्षास्तुलस्यः प्रभवन्तु वै ।। १ ०९।।
नद्यामहं शालग्रामो वहामि जलतुलसीम् ।
त्रिलोकेषु च पुष्पाणां पत्राणां देवपूजने ।। 1.337.११ ०।।
प्रधानरूपा तुलसी सदा भवतु मत्प्रिया ।
राधाशापकृतस्ते मद्वियोगः सान्ततां गतः ।। १११ ।।
कृपया मे भव पद्मे धाम्नि रमाऽत्र तुलसी ।
विवाहविधिना वृन्दावनेऽहं त्वां सुकन्यकाम् ।। १ १२।।
ग्रहीष्यामि गमिष्यामि नीत्वा त्वां मत्सहायिनीम् ।
इत्युक्त्वा प्रययौ विष्णुर्यत्र शंभुर्मृधे स्थितः ।। ११ ३।।
ववन्दाते शशंसतुः परस्परं हरो हरिः ।
देवारुत्थापिताः सर्वे शिवसेना प्रजीविता ।। ११ ४।।
विष्णुना शंकरेणापि मृता उज्जीवितास्तदा ।
शुक्रेण दानवसेना सञ्जीविन्या च जीविता ।। ११५ ।।
चक्रुर्मोत्सवं तत्रोपदार्पणं कृतं ततः ।
सर्वे ययुर्हरेः शालग्रामता यत्र भाविनी । । ११६ ।।
गण्डकीरूपता यत्र तुलस्याश्चापि भाविनी!
ततस्तद्रूपतां प्राप्तौ पूजयित्वा सुरादयः ।। ११ ७।।
ययुर्वृन्द्रावनं रम्यं भाविनी यत्र तुलसी
यमुनायां कृतस्नानाश्चक्रुस्तत्र महोत्सवम् । । ११ ८।।
तुलसीवृक्षरूपा च जाता तत्र हरीच्छया ।
कन्यारूपा तथा दिव्या वरारोहाऽप्यभूत्तदा ।। ११९ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने शंकरं प्रति दानववचनं, स्कंदराहुतत्सेनयोर्युद्धं, काल्यास्त्रकृतयुद्धं, विप्ररूपविष्णुकृतदानवकवचभिक्षा, शंखचूडरूपविष्णुकृततुलसीवीर्याधानं, शंखचूडमरणं, तुलस्याः पाषाणशालग्रामो भवेति विष्णोस्तुगण्डकीनदी तुलसीवृक्षिका च भवेति शापौ, युद्धे मृतानामुज्जीवनं, वृन्दावनागमनं चेत्यादिनिरूपणनामा सप्तत्रिंशदधिकत्रिशततमोऽध्यायः ।। ३ ३७।।