लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३३८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३३७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३३८
[[लेखकः :|]]
अध्यायः ३३९ →

श्रीनारायण उवाच-
सत्पत्रमञ्जरीयुक्तां तुलसीं प्रविलोक्य च ।
देवाद्याश्च महाश्चर्यपरिप्लुतास्तदाऽभवन् । । १ ।।
लक्ष्म्यादयस्तथा देव्यो ववन्दिरे च तुलसीम् ।
नारायणो महाविष्णुर्महिमानमुवाच तान् । । वेः । ।
शृणु लक्ष्मि! तदा कन्या तुलसी दिव्यरूपिणी ।
मम पार्श्वे स्थिताऽप्यासीत् शृणोति स्म स्वगौरवम् । । ३ । ।
तुलना सीदति यत्र सर्वषां तुलसी हि सा ।
स्वर्गे मर्त्ये च पाताले वैकुण्ठेऽक्षरधामनि । । ४ । ।
तुलसी सर्वदा चास्तु तरवो मम सन्निधौ ।
गोलोके विरजातीरे रासे वृन्दावने भुवि । । ५ । ।
भाण्डीरे चम्पकवनेऽशोके चन्दनकानने ।
माधवीकेतकीकुन्दमल्लिकामालतीवने । । ६ । ।
भवन्तु तुलसीवृक्षा यत्राहं तुलसी सह ।
तुलसीमूलभूमौ च तीर्थवासो भविष्यति ।। ७ ।।
तुलसीपत्रपतनस्थले देवाद्यधिस्थितिः ।
तुलसीजलसंस्नातस्तुलसीपत्रभोजनः ।। ८ ।।
स स्नातः सर्वतीर्थेषु सर्वेयज्ञेषु दीक्षितः ।
सर्वयात्रासु दानेषु पुण्यभाक् तुलसीश्रयः ।। ९ ।।
सुधाघटप्रलक्षेण न तथा तृप्तिमानहम् ।
यः सन्तोषो मम देवास्तुलसीपत्रदानतः ।। 1.338.१० ।।
निधनस्य समये यस्तुलसीवारि संग्रसेत् ।
सर्वपापविनिर्मुक्तो वैकुण्ठं याति भक्तराट् ।। ११ ।।
नित्यं तुलसीसंस्पृष्टं जलं पिबति भक्तितः ।
जीवन्मुक्तः स विज्ञेयो गंगास्नानफलं लभेत् ।। १२।।
तुलस्या मम पूजाकृल्लक्षाश्वमेधपुण्यभाक् ।
तुलसीपत्रमास्ये तु धृत्वा प्राणाँस्त्यजेत्तु यः ।। १ ३।।
तुलसीमालिकां कण्ठे बिभ्रन् यो मरणं व्रजेत् ।
स्वर्गे कोटियुगं भुक्त्वा विष्णुलोकं प्रयाति सः ।। १४।।
तुलसीनामधृगश्वमेधपुण्यः पदे पदे ।
तुलसीतोयकणिकां भोजने यो लभेज्जनः ।। १५।।
मृत्युकालेऽथवाऽऽपत्तौ लभते तुलसीदलम् ।
स रत्नयानमारुह्य वैकुण्ठं याति मद्गृहम् ।। १६।।
त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सुराः ।
श्राद्धे व्रते प्रदाने च प्रतिष्ठायां सुरार्चने ।। १७।।
भूगतं तोयपतितं क्षालयित्वा ददेत्तु तत् ।
विष्णवेऽर्पितमेवैतद् दिव्यं शुद्धं प्रजायते ।। १८।।
पर्वसु सन्धयोः रात्रौ न छेत्तव्यं तु तद्दलम् ।
द्रुमाधिदेवता धाम्नि तुलसी मम सुप्रिया ।। १ ९।।
नद्यधिदेवता भूमौ वार्निधेर्गण्डकी प्रिया ।
रमा पद्मा स्वरूपा च वैकुण्ठेऽपि मम प्रिया ।।1.338.२० ।।
नित्यं सह मया रासे रममाणा भविष्यति ।
तुलस्याः शापयोगेन गण्डकीमूलतीरगः ।।२ १।।
शैलरूपो भवाम्यद्य शालग्रामशिलामयः ।
वज्रकीटास्तु कृमयो वज्रदंष्ट्राश्च तासु ते ।।।२२।।
मम चक्र करिष्यन्ति कीटास्ते पार्षदा मम ।
स्वर्णरेखात्मचक्राढ्यः शिलात्माऽहं प्रतिष्ठितः ।।२३।।
एकद्वारे चतुश्चक्रं वनमाला विभूषितम् ।
स्वर्णरेखान्वितं लक्ष्मीनारायणाभिधं हि तत् ।।२४।।।
एकद्वारे चतुश्चक्रं वनमालां विना यदि ।
स्वर्णरेखान्वितं लक्ष्मीजनार्दनाभिधं हि तत् ।।२५।।
द्वारद्वये चतुश्चक्रं गोष्पदेन समन्वितम् ।
रघुनाथाभिधं ज्ञेयं रहितं वनमालया ।।२६।।
स्वल्पं द्विचक्रसहितं मालया स्वर्णरेखया ।
प्रभाकृष्णाभिधं बोध्यं गृहिणां तत्सुखप्रदम् ।। २७।।
स्थूलं द्विचक्रं रहितं मालया स्वर्णरेखया ।
पार्वतीकृष्णसंज्ञं तत् त्यागिनां सुखदं स्मृतम् ।। २८ ।।
अतिक्षुद्रं द्विचक्रं तु दधिवामनसंज्ञितम् ।
रेखायुक्तं च वा मालायुग् गृहिणां सुखप्रदम् ।। २९ ।।
द्विचक्रं मालया युक्तं श्रीधरं श्रीप्रदं सदा ।
स्थूलं च वर्तुलाकारं रहितं वनमालया ।। 1.338.३ ० ।।
द्विचक्रं धान्यधनदं ज्ञेयं दामोदराभिधम् ।
क्षेत्रोद्यानवाटिकाकृत् तथा बोध्यं सुवस्त्रदम् ।। ३ १ ।।
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् ।
रणरामाभिधं बोध्यं शरतूणसमन्वितम् ।। ३२ ।।
मध्यमं सप्तचक्रं च छत्रतूणसमन्वितम् ।
राजराजेश्वरं बोध्यं राजसम्पत्प्रदं नृणाम् ।। ३३ ।।
द्विसप्तचक्रं स्थूलं च फणावदूर्ध्वकाऽऽस्यकम् ।
अनन्ताख्यं तु विज्ञेयं चतुर्वर्गफलप्रदम् ।। ३४।।।
मध्यरक्तं द्विचक्रं तु माणिकीकृष्णसंज्ञितम् ।
दाराऽपत्यगृहरत्नप्रदं वाहनदं हि तत् ।। ३५।।
चक्राकारं द्विचक्रं सश्रीकं सगोष्पदं तु यत् ।
मधुसूदनसंज्ञं तद् भुक्तिमुक्तिफलप्रदम् ।। ३६।।
सुदर्शनं त्वेकचक्रं गुप्तचक्रं गदाधरम् ।
द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्तितम् ।। ३ ७।।
पञ्चवक्त्रं कृष्णनारायणात्मकं प्रकीर्तितम् ।
अतीव विस्तृतास्यं द्विचक्रं नृसिंहनामकम् ।। ३८ ।।
वैराग्यत्यागदं तत्तु सभालं चेत् सुखप्रदम् ।
लक्ष्मीनृसिंहसंज्ञं तद् विघ्नहन्तृ तथा मतम् ।। ३ ९।।
द्वारदेशे द्विचक्रं च सश्रीकं च समं च यत् ।
तद्वासुदेवसंज्ञं वै सर्वकामप्रपूरकम् ।।1.338.४० ।।
सूक्ष्मचक्रं तु सुषिरे बहुच्छिद्रं प्रद्यूम्नकम् ।
गृहिणां सुखदं सौभाग्यादिप्रवर्धकं हि तत् ।।४ १ ।।
द्वे चक्रे त्वेकलग्ने च पृष्ठे तु स्थूलपुष्कलम् ।
संकर्षणं तु विज्ञेयं गृहिणां सुखकृत् सदा ।।४ २ ।।
पीताभं वर्तुलं चातिशोभनं त्वनिरुद्धकम् ।
सुखप्रदं गृहस्थानां सम्पदां च प्रवर्धकम् ।।४३ ।।
शालग्रामशिला यत्र तत्र लक्ष्मीर्हरिस्तथा ।
वसन्ति सर्वतीर्थानि तदर्चा पापनाशिनी ।।४४।।
छत्राकारे तु साम्राज्यं वर्तुले सर्वसम्पदः ।
दुःखं तु शकटाकारे शूलाकारे मृतिर्भवेत् ।।४५ ।।
विकृतास्ये तु दारिद्र्यं पिंगले हानिरेव च ।
लग्नचक्रे भवेद् व्याधिर्विदीर्णे तु मृतिर्ध्रुवा ।।४६।।
शालग्रामशिलातोयैः स्नायाद् यः स तु मानवः ।
सर्वतीर्थकृतस्नानः सर्वयज्ञसुदीक्षितः ।।४७।।
व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम् ।
शालग्रामस्य निकटे कृतं कोटिप्रपुण्यदम् ।।४८।।
शालग्रामप्रदक्षिणं मतं पृथ्वीप्रदक्षिणम् ।
वेदपुण्यं तपःपुण्यं शालग्रामार्चनाद् भवेत् ।।४९।।
शालग्रामजलपाता जीवन्मुक्तो भवेत् सदा ।
तत्पादस्पर्शमिच्छन्ति तीर्थानि निखिलान्यपि ।।1.338.५० ।।
पृथ्वी तत्पादपूता तल्लक्षवंशप्रमोक्षणम् ।
निधने तज्जलपाता विष्णुलोकगतो भवेत् ।।५१ ।।
निर्वाणं लभते विष्णुपादयोः स प्रलीयते ।
शालग्रामे तु विच्छेदं तुलस्याश्च करोति यः।।५२।।
तस्य दाम्पत्यविच्छेदः स्त्रीविच्छेदो भवेद् ध्रुवम् ।
तुलसीपत्रविच्छेदं शंखे यस्तु करोति वै ।।५३।।
तस्य भार्याविहीनत्वं रुग्णत्वं सप्तजन्मसु ।
शालग्रामं च तुलसीं शंखमेकत्र चैव यः ।।५४।।
करोति रक्षति तस्य विच्छेदो न धनस्त्रियोः ।
नारीच्छुस्तुलसीं दद्याच्छालग्रामाय सर्वदा ।।५५।।
तस्माद् देवाः सदा मह्यं तुलस्या पूजयन्तु वै ।
तुलसि! त्वं महाभागे! वृक्षरूपा भवाऽत्र मे ।।५६।।
दिव्यकन्यास्वरूपा च भवाऽत्राऽहं विवाहये ।
इत्युक्त्वा श्रीहरिस्तां च विरराम ततश्च सा ।।५७।।
पूर्वदेहं परित्यज्य दिव्यरूपं दधार ह ।
यथा श्रीश्च यथा लक्ष्मीस्तथोवास हृदि प्रभोः ।।५८।।
शालग्रामशिलारूपो घनवज्जलसंस्थितः ।
भूमिस्थः पिंगलो विष्णुरुपतापेन संस्थितः ।।५९।।
लक्ष्मीः सरस्वती गंगा पद्मा च तुलसी रमा ।
राधा श्रीश्च प्रभा वृन्दा सर्वास्ता भगवत्स्त्रियः ।।1.338.६०।।
जया पार्वती माणिक्या पाञ्चाली ललिता तथा ।
जोष्ट्राद्याः शक्तयस्तस्य कृष्णनारायणस्य वै ।।६१।।
अथात्र तुलसी कन्या दिव्यरूपाऽभवद् यदा ।
कृष्णवक्षसि संलग्ना सेहे सरस्वतीतराः ।।६२।।
सरस्वती न वै सेहे कटाक्षेण व्यलोकयत् ।
तुलसी तद्भयात्तत्र पुनरदृश्यतां गता ।।६३ ।।
कृष्णनारायणस्तदा बोधयित्वा सरस्वतीम् ।
ध्यात्वा तां पूजयामास स्तोत्रं तस्याश्चकार च ।।६४।।
श्रीं ह्रीं क्लीं ऐं वृन्दायै तुलस्यै स्वाहा'-प्रसंजपन् ।
द्वादशाक्षरमन्त्रं तं विष्णुः पूजां चकार ह ।।६५।।
पूजयेद् यो विधानेन सर्वसिद्धिं लभेन्नरः ।
घृतदीपेन धूपेन सिन्दूरचन्दनेन च ।।६६।।
नैवेद्येन च पुष्पेण वस्त्राभरणकज्जलैः ।
अलक्तकेनोपहारैः पुपूज परमेश्वरः ।।६७।।
स्तोत्रेणापि च तुष्टा सा कन्याऽऽविर्भूय तद्द्रुमात् ।
प्रपन्ना पादयोः सेयं जगाम शरणं हरेः ।।६८ ।।
वरं तस्यै ददौ विष्णुर्जगत्पूज्या भवेति च ।
अहं त्वां च धरिष्यामि स्वमूर्ध्नि वक्षसीति च ।।६९।।
सर्वे त्वां धारयिष्यन्ति स्वयं मूर्ध्नि सुरादयः ।
तदा सुरैरपि देवी तुलसी पूजिता यथा ।।1.338.७० ।।
आवाहनं कृतं तस्या आसनं च समर्पितम् ।
पाद्यमर्घ्यमाचमनजलमर्पितमित्यथ ।।७ १ ।।
तैलं च मर्दनायापि तदा देवैः समर्पितम् ।
दधि दुग्धं घृतं क्षौद्रं शर्करा चार्पिता तथा ।।७२।।
पञ्चामृतस्नानतीर्थजलस्नानं च कारितम् ।
शाटिकाघर्घरीकंचुकीप्रभति समर्पितम् ।।७३।।
कस्तूरीगन्धसारादिचन्दनकज्जलादिकम् ।
कुंकुमकेशतैलादिसिन्दूरादि समर्पितम् ।।७४।।
अलक्तकाऽऽभूषणानि शृंगाराभरणादिकम् ।
यज्ञसूत्रपवित्रकयोगपट्टादिकं तथा ।।७५।।
कौस्तुभमणिरक्षामंगलसूत्रसुतन्तिकम् ।
नक्तकव्यजनादर्शदोरकबिन्दुसद्द्रवम् ।।७६।।
कुंकुमाऽक्षतगन्धधूपदीपाद्यर्पितं सुरैः ।
मिष्टान्नपायसलड्डुफलताम्बूलवारि च ।।७७।।
मण्डपे कदलीस्तंभे तोरणाम्बरभूषिते ।
सर्वतोभद्रके पञ्चरत्नयुक्कलशोपरि ।।७८।।
सफलं च तुलस्यास्तैः कृतं चारार्त्रिकं तदा ।
वस्त्रं शंखोदकं तस्यै भ्रामितं धूपदीकम् ।।७९।।
नमनं सफलं चार्घ्यं पुष्पांजलिः प्रदक्षिणम् ।
स्तोत्रेण रञ्जनं चैव तुलस्याः संकृतं तदा ।।1.338.८० ।।
द्वादशवार्षिका कन्या ध्याता स्वर्णसमा तु तैः ।
हरिस्तुष्टाव च ततः शृणु लक्ष्मि! वदाम्यहम् ।।८ १ ।।
प्रियां मे सर्वदा पत्नीं पद्मां च तुलसीं रमाम् ।
वृन्दां च गण्डकीं वनस्पतिं कन्यां भजाम्यहम् ।।८२।।
गोलोके मे प्रिया नित्यं प्रियां पत्नीं भजाम्यहम् ।
यया रमामि गोलोके रमां पत्नीं भजाम्यहम् ।।८३।।
पद्मावती नदी जाता पद्मां पत्नीं भजाम्यहम् ।
यस्यास्तुला न विश्वेषु तुलसीं तां भजाम्यहम् ।।८४।।
वृन्दावने तु वृन्दां तां वृन्दावनीं भजाम्यहम् ।
शालग्रामसमायुक्तां गण्डकीं तां भजाम्यहम् ।।८५।।
गण्डयोर्मद्भालयोश्च कंवतीं तां भजाम्यहम् ।
वृक्षरूपां पुष्पसारां वनस्पतिं भजाम्यहम् ।।८६।।
वरारोहां कन्यकां तां कृष्णां कृष्णो भजाम्यहम् ।
इत्येवं स्तवनं कृत्वा तत्र तस्थौ रमापतिः ।।८७।।
तदा ददर्श तुलसीं कन्यां स्वपादयोर्नताम् ।
वरं विष्णुर्ददौ तस्यै विश्वपूज्या भवेति च ।।८८।।
शिरोधार्या च सर्वेषां वन्द्या मान्या ममेति च ।
विष्णोर्वरेण सा देवी परितुष्टा बभूव ह ।।८९।।
सस्मिता मानयामासुर्लक्ष्मीर्गंगा सरस्वती ।
विरजा राधिका पद्मा श्रीश्च कृष्णस्य योषितः ।।1.338.९० ।।
कार्तिकीपूर्णिमायां तु तुलस्या जन्म मंगलम् ।
तत्र पूजा प्रकर्तव्या विहिता हरिणा स्वयम् ।।९१।।
कार्तिके तुलसीपत्रं विष्णवे यो ददाति च ।
गवामयुतदानस्य फलमाप्नोति मानवः ।।।९२।।
पुत्रप्रियाधनवस्त्रगृहान्नयानवाहनम् ।
आरोग्याऽभयपुण्यादि स्तोत्रस्य स्मरणाद् भवेत् ।।९३।।
पुष्पेषु तुलना चास्या नास्ति देवीषु वा तथा ।
पवीत्रीकृतसर्वस्वा तुलसी विश्वपावनी ।।९४।।
इति सम्मानिता कृष्णनारायणेन कन्यका ।
तुलसी वृक्षिका चापि प्रसन्नाऽभूद्धरीश्वरी ।।९५।।
उवाच श्रीहरिं कन्या यदि नाथ! त्वया प्रभो । ।
कृता स्वकीया वाण्या वा हृदयेनाऽऽत्मनाऽन्वहम् ।।९६।।
ग्रहीतव्यो मम करो विवाहस्य विधानतः ।
तथाऽस्त्विति हरिः प्राह देवा देव्यो जगुस्तथा ।।९७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने तुलसीशालग्रामस्वरूपमाहात्म्यपूजास्तोत्रादिकथननामाऽष्टत्रिंशदधिकत्रिशत-
तमोऽध्यायः ।। ३३८ ।।