लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३३६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३३५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३३६
[[लेखकः :|]]
अध्यायः ३३७ →

श्रीनारायण उवाच-
शिवस्त्रिशूलमादाय चन्द्रभागानदीतटे ।
वटाऽधस्तान्निवासं स्वं त्वकरोदन्यरूपधृक् ।। १ ।।
पुष्पदन्तं पार्षदं च दूतं कृत्वा सुरान्तिकम् ।
हरः प्रस्थापयामास गन्घर्वोत्तममादरात् ।। २ ।।
पार्षदोऽपि ययौ शंखचूडस्य नगरं प्रति ।
पञ्चयोजनविस्तीर्णं दशयोजनमायतम् ।। ३ ।।
सर्वस्फाटिकपाषाणप्राकारपरिवेष्टितम् ।
सप्तभिः परिखाभिश्च सजलाभिः सुरक्षितम् ।। ४ ।।
मध्ये प्रजानां सुगमं शंखचूडालयं वरम् ।
ददर्श वलयाकारं चतुःप्राकाररक्षितम् ।। ५ ।।
राजितं द्वादशद्वारैर्द्वारपालाभिरक्षतैः ।
मणिमुक्तादर्शरत्नस्वर्णमन्दिरशोभितम् ।। ६ ।।
परितो रक्षितं शश्वद् दानवैः शूरजातिभिः ।
पुष्पदन्तो नवद्वारं प्रविष्याऽभ्यन्तरं गतः ।। ७ ।।
तदन्तर्द्वारपेनाऽयं दूत इत्यवबोधितः ।
शंखचूडस्तमाजुहावाऽभिज्ञातुमुदन्तकम् ।। ८ ।।
पुष्पदन्तः शंखचूडालयं ददर्श शोभितम् ।
मध्ये सिंहासनं स्वर्णं परितो रासभूमिकाः ।। ९ ।।
मणयः खचितास्तासु रत्नपुष्पादिशोभिताः ।
कोटिशो दानवा यत्र भ्रमन्ति शस्त्रधारिणः ।। 1.336.१ ०।।
स्वर्णसिंहासने छत्रचामरादिसुशोभिते ।
राजमानं पूर्वमित्रं शंखचूडमुवाच ह ।। १ १।।
राजेन्द्र! शिवदूतोऽहं पुष्पदन्ताभिधानकः ।
यदुक्तं शंकरेणैव तद् ब्रवीमि निशामय ।। १२।।
राज्यं देहि च देवानामधिकारान् प्रदेहि च ।
विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ।। १ ३।।
गत्वा वक्ष्यामि किं शंभुं तद्भवान् वक्तुमर्हसि ।
प्रहस्य शंखचूडश्च प्राह तं योधनाय वै ।। १४।।
प्रभाते त्वागमिष्यामि गच्छ कथय शंकरम् ।
पुष्पदन्तो वटं गत्वा शंभुं प्राह यथोदितम् ।। १५।।
शिवेन तु स्मृतास्तत्र तदाऽऽजग्मुर्गणेश्वराः ।
स्कन्दो गणेश्वरो वीरभद्रो नन्दी सुभद्रकः ।। १६।।
महाकालो विशालाक्षो बाणः पिंगाक्षकम्पनौ ।
विरूपो विकृतिर्मणिभद्रविकरबाष्कलाः ।। १७।।
कपिलाक्षो दीर्घदंष्ट्रो बलीभद्रः कुटीचरः ।
कालंटकः कालजिह्वस्ताम्राक्षो दुर्जयोऽगमः ।। १८।।
अष्टौ च भैरवा रुद्राश्चैकादशाष्टवासवाः ।
आदित्या द्वादश चापि वह्निश्चन्द्रोऽश्विनौ तथा ।। १९।।
विश्वकर्मा कुबेरश्च यमश्च नलकूबरः ।
वायुर्जयन्तो वरुणो बुधो धर्मश्च मंगलः ।।1.336.२०।।
शनिरीशश्च कामश्च तथाऽन्ये गणपुंगवाः ।
उग्रद्रंष्ट्रा चोग्रचण्डा कोटरी कैटभी तथा ।।।२ १ ।।
भद्रकाली तथा चण्डी काली कात्यायनी तथा ।
आययुश्च तदा तत्र नृत्यन्त्यः शंभुसंस्मृताः ।।२२।।
त्रिशूलशक्तिमुद्गरशंखचक्रगदाशरान् ।
वज्रखड्गचापचर्ममुशलपरिघादिकान् ।।२३।।
बिभ्रन्त्यस्ते च बिभ्रन्तः प्रस्तरोपलबर्बुरान् ।
वैष्णवास्त्रं वारुणास्त्रमाग्नेयं नागपाशकम् ।।२४।।
नारायणास्त्रं ब्रह्मास्त्रं गान्धर्वं गारुडं तथा ।
पार्जन्यं वै पाशुपतं जृम्भणार्थं च पार्वतम् ।।२५।।
माहेश्वरास्त्रं वायव्यं दण्डं संमोहनं तथा ।
धारयन्त्योऽथ योगिन्यो डाकिन्यो विकटास्तथा ।२६।।
भूतप्रेतपिशाचाश्च कूष्माण्डब्रह्मराक्षसाः ।
वेतालाश्चैव यक्षाश्च राक्षसाश्चैव किन्नराः ।।२७।।
शंखचूडादिनाशार्थं समाजग्मुर्हरस्थलीम् ।
स्कन्दो नत्वा हरं तत्र वटाधो निषसाद ह ।।२८।।
शंखचूडोऽपि तुलसीं रात्रौ दूतोदितां कथाम् ।
शंकरं प्रति युद्धाय प्रातर्गन्तव्यमाह ताम् ।।२९।।
तुलसी रणवार्तां तु श्रुत्वा शुष्काननाऽभवत् ।
उवाच दुःखमापन्ना हृदयेन विदूयता ।।1.336.३०।।
दक्षांगानि स्फुरन्त्यत्र मम नाथ न शोभनम् ।
दुःस्वप्नं च गतरात्रौ दृष्टं महिषवाहनम् ।।३ १।।
भवनं मूलतो नष्टं पतितं जलपूरितम् ।
अग्निस्ततः पुनर्जातोऽवशिष्टेषु वने यथा ।। ३२।।।
अहं केनापि नीता च वृक्षशाखालयं गता ।
नाथाऽन्तोऽयं तु सम्प्राप्तः सम्पत्तेर्वाऽऽत्मनोऽपि वा ।। ३३।।
आन्दोलयन्ति प्राणा मां मनो नष्टमिवाऽस्ति मे ।
इति तुलसीवाक्यानि श्रुत्वा भुक्त्वा निपीय च ।।३४।।
शंखचूडः प्राप्तकालं ह्युवाच तां तु तुलसीम् ।
कालेन योजितं सर्वं प्रिये । समुपतिष्ठति ।।३५।।
शुभं हर्षं सुखं दुःखं भयं शोकममंगलम् ।
काले वृक्षाः प्रजायन्ते फलन्ति च लिनन्ति च ।।३६।।
तथाऽण्डानि प्रजाश्चापि ब्रह्मादयोऽपि तत्तथा ।
सृष्टा पाता च संहर्ता कालात्मा कृष्ण एव ह ।।३७।।
भज कृष्णं तुलसि त्वं भावि तद् भवतु ध्रुवम् ।
जन्ममृत्युहरं कृष्णनारायणं भज प्रिये! ।।३८।।
कालस्य कालमेवैनं कृष्णं तं शरणं व्रज ।
को बन्धुः रक्षकश्चान्यो बन्धुं तं रक्षकं भज ।।३९।।
आवां तु कर्मणा तेन योजितौ स वियोक्ष्यति ।
अज्ञानी कातरः शोके विपत्तौ न तु पण्डितः ।।1.336.४०।।
मृत्यौ नारायणं कान्तं प्राप्स्यसि स्मर तुलसि! ।
तपः कृतं यदर्थं च पुरा बदरिकाश्रमे ।।४१ ।।
मया त्वं तपसा लब्धा त्वयाऽहं गणशापतः ।
इरेरर्थे तव तपो हरिं प्राप्स्यसि कामिनि ।।४२।।
वृन्दावने तु गोविन्दं गोलोके कृष्णमेव तम् ।
लभिष्यसि तथा चाऽहं लभिष्यामि परं प्रभुम् ।।४३। ।
दानवीं तु तनुं त्वक्त्वा मुक्तिं यास्यामि शाश्वतीम् ।
तत्र दृश्यसि मां त्वं च त्वां च द्रक्ष्यामि सन्ततम् ।।४४।।
त्वं हि देहं परित्यज्य दिव्यरूपं विधाय च ।
हरिं द्रक्ष्यसि कान्तं तं मा कान्ते! कातरा भव ।।४५।।
दम्पती संविचार्यैवं क्रीडाकौतुकमंगलैः ।
सर्वं वै नश्वरं मत्वा निमग्नौ सुखसागरे ।।४६ ।।
पुलकांकितसर्वांगौ सुप्रीतौ सुरतोत्सुकौ ।
सुखसुप्तौ कथयन्तौ कथां रसभरां तथा ।।४७।।
हसन्तौ भुक्तवन्तौ च ताम्बूलं तु परस्परम् ।
ददन्तौ निद्रया व्याप्तौ रात्रिं निन्यतुरेव तौ ।।८८।।
प्रातरुत्थाय मनसा ध्यात्वा कृष्णं स दानवः ।
स्नात्वा वस्त्राणि धृत्वा च कृत्वा तिलकचन्द्रकौ ।।४९।।
देवपूजां पितृतृप्तिं गुरोर्वन्दनमित्यपि ।
कृत्वा गोपूजनं लाजादधिमध्वाज्यदर्शनम् ।।1.336.५ ० ।।
रत्नाम्बरमणिस्वर्णाद्यं ददौ स द्विजातये ।
ददौ विप्राय शकुने मुक्तामाणिक्यहीरकान् ।। ५१ ।।
गजाश्वधेनूः प्रददौ यात्रामंगलहेतवे ।
कोशक्षेत्रपत्तनानि ब्राह्मणेभ्यो ददौ मुदा ।।५२।।।
पुत्रं कृत्वा च राजेन्द्रं सुचन्द्रं दानवेषु च ।
पुत्रं समर्प्य भार्यां च स्वराज्यं सर्वसम्पदम् ।।५३ ।।
स्वयं भुक्त्वा तथा पीत्वा प्रसम्मील्य सुतादिकान् ।
वर्म धृत्वाऽस्त्रशस्त्राणि धनुष्पाणिर्बभूव ह ।।५४।।
आहूय तत्र सैन्यानि समसज्जोऽभवत्तदा ।
अश्वानां लक्षमेकं द्वे पञ्चलक्षं च हस्तिनाम् ।।५५।।
रथानामयुतं धानुष्काणां कोटित्रयं तथा ।
चर्मिणां शूलिनां कोटित्रयं प्रत्येकमित्यपि ।।५६।।
दैत्यानां दानवानां च पत्तीनां गणना तु न ।
यत्र सेनापतिः सर्वशस्त्राऽस्त्रमन्त्रमायिकः ।।५७।।
वायुयानवारियानपातालयानशारदः ।
त्रिलक्षाणां सैनिकानामक्षौहिणीश्च तत्र वै ।।५८ ।।
त्रिंशत्कृत्वा श्रेष्ठभटमूर्धन्यानां महासुरः ।
बहिर्बभूव शिबिरान्मनसा श्रीहरिं स्मरन् ।।५९ ।।
शंकरस्यापि सैन्यानि पञ्चविंशतिकोटयः ।
सर्वयोद्धृप्रमुख्यानामभवंस्तत्र पद्मजे ।। 1.336.६० ।।
अन्येषां तु गणना वै नास्ति ते शतकोटयः ।
शंकरस्याऽभवत् सेनापतिः स्कन्दो महाबलः ।।६ १ ।।
शंखचूडस्य तु सेनापतिः राहुस्तदाऽभवत् ।
तयोरवादयँस्तत्र रणे वाद्यानि वै मुहुः ।।६२।।
पुष्पभद्रानदीतीरे शंखचूडो विमानगः ।
ददर्श वटमूले तं शंकरं योगमास्थितम् ।।६३ ।।
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ।
तप्तकांचनवर्णाभं जटाजालसुशोभितम् ।।६४।।
त्रिनेत्रं पञ्चवक्त्रं च नागयज्ञोपवीतकम् ।
भक्तमृत्युहरं शान्तं दृष्ट्वा मृत्युपतिं हरम् ।।६५।।
अवरुह्य विमानात्तु भक्त्या ननाम शंकरम् ।
महादेवश्च कृपया तं वै दत्वा शुभाशिषः ।।६६।।
उवाच ब्रह्मणः पुत्रो मरीचिस्तस्य कश्यपः ।
तस्मै दक्षो ददौ कन्यास्त्रयोदश हि धर्मतः ।।६७।।
अदितिर्दितिर्दनुः कालाऽरिष्टा सुरसा तथा ।
सुरभिर्विनता चापि ताम्रा क्रोधवशा इरा ।।६८।।
कद्रूर्मुनिश्च तासां वै प्रजा जाता विजातयः ।
अदितेर्द्वादशाऽऽदित्या जाताः प्रथमसूनवः ।।६९।।
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।।1.336.७०।।
ततस्त्वष्टा ततो विष्णुरेते कश्यपपुत्रकाः ।
दितेः पुत्रद्वयं हिरण्यकशिपुः सहाऽग्रजः ।।७ १ ।।
हिरण्याऽक्षस्त्वपरश्चेत्युभौ पुत्री च संहिका ।
राहोः सा जननी देवी विप्रचित्तेः परिग्रहः ।।७२।।
हिरण्यकशिपोः पुत्राश्चत्वारश्च महाबलाः ।
प्रह्लादश्चानुह्रादश्च संह्रादो ह्लाद इत्यथ ।।७३।।
हिरण्याक्षस्य पुत्राश्च षड् वै सर्वे महाबलाः ।
उत्करः शकुनिश्चैव कालनाभस्तथाऽपरः ।।७४।।
महानाभश्च विक्रान्तो भूतसन्तापनस्तथा ।
दनोः पुत्राः शतं विप्रचितिमुख्यास्तु दानवाः ।।७५।।
द्विमूर्धा शंकुकर्णश्च तथा शंकुनिरामयः ।
शंकुनासो महाविश्वो गवेष्ठिर्दुन्दुभिस्तथा ।।७६।।
अजामुखोऽथ भगहृत् शिलो वामनसस्तथा ।
मरीचिरक्षकश्चापि महागार्ग्योऽङ्गिरावृतः ।।७७।।
विक्षोभ्यश्च सुकेतुश्च सुवीर्यः सुहृदस्तथा ।
इन्द्रजिद् विश्वजिच्चापि तथा सुरविमर्दनः ।।७८।।
एकचक्रः सुवाहश्च तारकश्च महाबलः ।
वैश्वानरः पुलोमा च प्रवीणोऽथ महाशिराः ।।७९।।
स्वर्भानुर्वृषपर्वा च मुण्डकश्च महासुरः ।
धृतराष्ट्रश्च सूर्यश्च चन्द्र इन्द्रश्च तापनः ।।1.336.८ ०।।
सूक्ष्मश्चापि निचन्द्रश्च ऊर्णनाभो महागिरिः
असिलोमा सुकेशश्च सदश्च बलकस्तथा ।।८ १ ।।
व्योममूर्धा कुंभनाभो महोदरो महाहनुः ।
प्रमोदाहश्च कुपथो हयग्रीवश्च वीर्यवान् ।।८२ ।।
असुरश्च विरूपाक्षः सुपथोऽथ महासुरः ।
अजो हिरण्मयश्चापि शतमायुश्च शम्बरः ।।८ ३ ।।
शरभः शलभश्चापि प्रधाना दनुसूनवः ।
एते चान्येऽपि युद्धे वै दानवास्ते ह्युपस्थिताः ।।८४।।
कालायाः कालरूपाश्चाऽभवन् पुत्राः क्षणादयः ।
अरिष्टाया आरिष्टेया विघ्नाः पुत्राः सहस्रशः ।।८५।।
सुरसाया नागसर्पा वासुकितक्षकादयः ।
सुरभिः कश्यपाज्जज्ञे रुद्रानेकादशात्मजान् ।।८६।।
अंगारकं तथा सर्पं निर्ऋतिं सदसस्पतिम् ।
अत्रैकपादहिर्बुध्नावूर्ध्वकेतुं ज्वरं तथा ।।८७।।
भुवनं चेश्वरं मृत्युं कपालं चैव विश्रुतम् ।
विनतायास्तु पुत्रौ द्वावरुणो गरुडश्च ह ।।८८ ।।
षड्त्रिंशत् तु स्वसारश्च यवीयस्यस्तु ताः स्मृताः ।
ताम्रायास्तु शुकी क्रौंची धृतराष्ट्री च पक्षिणी ।।८९ ।।
श्येनी भासी तथा चान्या पक्षिण्यो ह्यभवन् प्रजाः ।
अथ क्रोधवशायास्तु कन्यका द्वादश स्मृताः ।। 1.336.९० ।।
मृगी च मृगमन्दा च हरिभद्रा इरावती ।
भूता च कपिशा दंष्ट्रा निशा तिर्या तथाऽपरा ।। ९१ ।।
श्वेता चापि स्वरा चापि सुरसा चेति विश्रुताः ।
अथ इरा प्रजज्ञे वै तिस्रः कन्याः सुलोचनाः ।। ९२।।
लतां वल्लीं विरुधां च तदपत्यानि भूरिशः ।
कद्रूर्नागसहस्रं वै काद्रवेयाश्च ते स्मृताः ।। ९३ ।।
अथ मुनेस्तु मौनेया गन्धर्वाऽप्सरसश्च ते ।
एतेषां वंशविस्तारो कोटिसंख्याधिकोऽभवत् ।। ९४।।
अदितिर्धर्मशीलाऽस्ति बलशीला दितिः स्मृता ।
तपःशीला तु सुरभिर्मायाशीला दनुः स्मृता ।। ९५ ।।
मुनिश्च गन्धशीला वै गतिशीला त्वरिष्टिका ।
क्षुधाशीला तु कालास्या कद्रूः क्रूरस्वभाविनी ।। ९६ ।।
इराऽनुग्रहशीला च अरिष्टा क्रोधशालिनी ।
वाहशीला तु विनता ताम्रा वै पाशशालिनी ।।९७।।
धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः ।
मातृतुल्याश्चाभिजाताः कश्यपस्याऽऽत्मजाः प्रजाः ।। ९८ ।।
देवताऽसुरगन्धर्वा यक्षराक्षसपन्नगाः ।
पिशाचाः पशवश्चापि मृगाः पतगवीरुधः ।।९९।।
शंखचूड! विजानीहि तव पक्षे समागतान् ।
ते चैतेऽसुरपक्षीया दैत्याश्च दानवास्तथा । । 1.336.१०० । ।
सुराणां ते प्रतिपक्षा मच्छस्त्राऽतिथयस्तु ते ।
ये च देवसमाः सुरपक्षगास्ते मयाऽसुर! । । १०१ ।।
रक्षणीया मया सर्वे सज्जो भवाऽत्र दानव! ।
दनोः पुत्रस्य तु विप्रचितेः दंभाभिधः सुतः । । १० २।।
विष्णुभक्तो मम सखा तस्यासि त्वं सुतो महान् ।
पुत्रार्थं पुष्करे कृष्णमन्त्रं जजाप ते पिता । । १०३ ।।
चचार तप उग्रं च सहस्राब्दं तु ते पिता ।
तत्प्रतापेन पुत्रस्त्वं सुदामा शंखचूडकः ।। १ ०४।।
किं ते वै कलहेनाऽद्य यदि जानासि मां हरम् ।
यदि जानासि भक्तं स्वं सुदामानं तु दानवम् ।। १०५ ।।
सालोक्यसार्ष्टिसारूप्यसामीप्यैक्यं हरेरपि ।
दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना । । १०६ ।।
कृष्णभक्तस्य ते किं वा राज्येन कलहेन वा ।
देहि राज्यं तु देवानां मत्प्रीतिं कुरु दानव । । १० ७। ।
सुखं स्वराज्ये त्वं तिष्ठ देवाः सन्तु स्वके पदे ।
अलं भ्रातृविरोधेन सर्वे हि कश्यपात्मजाः । । १०८ । ।
यानि कानि च पापानि ज्ञातिद्रोहसमानि न ।
काले नाशो भवत्येव ब्रह्मणोऽपि तवाऽत्र किम् । । १० ९।।
सर्वावस्थासु समता सर्वदा नहि कस्यचित् ।
त्यज ज्ञानेन भक्तेन्द्र! मा विरोधेन दानव! । । 1.336.११० ।।
सूर्यचन्द्रादयः सर्वे वर्धन्तेऽवतरन्ति च ।
कालेन पृथ्वी ससस्या कालेन श्रीवियोगिनी ।। १११ । ।
कालेन त्वं महास्मृद्धः स ते कालो विवर्तते ।
अहं मृत्युञ्जयः कालः संहरामि तु देहिनः । । ११२ ।।
करोमि सततं कृष्णनामसद्गुणकीर्तनम् ।
त्वं तु सर्वं परित्यज्य कुरु कृष्णस्य कीर्तनम् । । ११३ ।।
इत्युक्त्वा विररामैनं शंकरो लोकशंकरः ।
तथापि शंखचूडस्य मतं नाऽभून्मनागपि । । ११ ४। ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने त्रिशूलयुक्तशंकरः पुष्पवन्तं दूतं शंखचूडं प्रति प्रेषयामास, शंखचूडतुलस्योर्ज्ञानं, शंखचूडस्य प्रातर्युद्धाय यानं, कश्यपस्य त्रयोदशपत्नीनां वंशे दानवस्त्वं शंखचूडः सुदामेति शंकरेण स्मारितम्, शंभोरुपदेशश्चेत्यादिनिरूपणनामा षट्त्रिंशदधिकत्रिशततमोऽध्यायः । । ३३६ ।।